भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 604, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 604

५०२ गोलाध्याये नन्वहं दूरस्थितस्तवां कथं सिञ्चामि कथं वा मम सुखदुःखाश्रुजलसंभव इत्यत आह- एत्येति । मन्निवासगृहं तत आगत्येत्यर्थः । तथा चाऽऽगतस्य तव मद्दर्शनान्मदवस्थाज्ञान- जनितदुःखाश्रुणः संभवात्सम्पग्हमागतो नो चेदनया मृतं स्यादित्यादिप्रियतमादर्शनजसुख- जनिताश्रुणः संभवाच्च तज्जलसेचनेनैतत्कालान्तकाक्रान्तां मां सुखयेति भावः । ननु तप्तस्य सेचनमुचितं न तवेत्यतः स्वविशेषणमाह-मदनदहनखिन्नामिति । मदन- रूपाग्निना पीडिताम् । तथा चास्मिंस्तद्वियोगसमये मदनरूपोऽग्निरत्यन्तं मम दाहं करो- तीति युक्तं सेचनमिति भावः । केचित्त्वात्मदृग्वारिणेत्यस्य स्वदर्शनरूपजलेनेत्यर्थमाहुस्तन्न । स्वदर्शनेन तस्या दृष्टिरस्मिन्पततीति तस्यां सेचनासंभवात् । नहि तस्यां तद्दृष्टिः पत- तीति युक्तं सेचनमिति वाच्यम् । तद्दर्शनलालसायास्तददर्शनेऽपि तद्दृष्टिपातेन विरहव्यथा- पगमापत्तेः । नहि दर्शनं विना व्यथापगमः संभवति । अत एव विरहबाधाव्याकुलया मूर्च्छितया च प्रथमं त्वं द्रष्टुमशक्य इति सेचनोत्तरं मया त्वं द्रष्टव्यः सेचनेन मूर्च्छापगम- द्वारा प्रबोधसंभवादिति सूचितम् । अङ्गानि मे दहतु कान्तवियोगवह्निः संरक्ष्यतां प्रियतमो हृदि वर्तते यः । इत्याशया शशिसुखी गलदश्रुवारिधाराभिरुष्णमभिसिञ्चति हृत्प्रदेशम् ॥ इति प्रसिद्धवर्णनादश्रुणा सेचनमविरुद्धम् । ननु त्वया स्वतापेस्तत्कालजशीतलमालतीपुष्पै- रपनेयस्त्वन्निमित्तं ममाऽऽगमनासम्भवादित्यतः स्वविशेषणमाह-मालतीनामिति । मालती इनः सूर्यो यस्याः सा मालतीना । तां मालतीनाम् । यमके निहतार्थो न दोषः । तथा च पुष्पमकरन्दगन्धाहूतभ्रमरभुक्तां मालतीं दृष्ट्वाऽहं तवालाभात्तपामीति मालती मम दाहिका सूर्यतुल्येति भावः । केचित्तु मालतीनामित्यत्र मा लतीनामिति पदद्वयं मेत्यस्य मामित्यर्थः । लतीनामित्यस्य रतीनां परिमलबहलानामिति विशेषणे परिमलबहराणाम् । बवयोर्लयोः श्लेषे ऐक्यात् । अपचरतीनां सुरतोत्सवानां काले आगतेऽपि कथं भूतानां परिमलबहराणाम् । परस्य भावः परिमा परिम्णा लवः परिमलवस्तं हरतीति परिमलबहरास्तासाम् । उत्कृष्टांशहराणाम् । मानिनां मनस्विनीनां वा कामातुराणां मानभङ्गेन तुच्छदयितानामित्यर्थः । तथा च मम माममाशङ्क्य न यास्यसि चेत्तर्हि अस्मिन्समये मम मानोऽपि नास्ति । सुखेन सुरतं कुर्विति भाव इत्याहुस्तन्न । यमकभङ्गापत्तेः । तदैक्यस्य श्लेषेऽभ्युपगमाच्च । रतीनां समयोऽस्ति मानवत्यहं न सुखेन सुरतं कुर्वित्यादिस्त्रीवचने रसभंगापत्तेश्च । किंच तद्दर्शने महदायासं मन्यमाना कथं सुरताभिलाषं कुर्यादिति । ननु शातलान्तरोपचारात्स्वतापोऽपनेय इत्यत आह-दीनामिति । त्वां विना यत्किचित्सुखदं वस्तु तन्मम संतापदुःखदमिति मामनन्यशरणा मेतद्तुकालान्तकाक्रान्तामङ्गी कुर्विति भावः । द्वितीयपादे मालतीनां नदीनामित्यादृत्य मेति माम् । इनात्सूर्यात् । अलति । समर्था-