सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 619, कुल 723 में से
संदर्भ में पढ़ेंअथ किमेवंविधयाऽत्र ग्रन्थे प्राकृतिकानां गणकानामित्याशङ्क्योच्यते । नहि मन्दार्थमेव ग्रन्थ आरभ्यत इत्याह । इह कवीनां द्वे गती । इयमियं वा । एतत्प- रोऽयं श्लोकः । रमन्ते । के । कृतिनो विद्वांसः । क्व । रम्यसारस्वतीघे । सरस्वती- नदीप्रवाहे । सरस्वत्याः सर्वगतत्वादगङ्गाद्या अपि सरस्वत्य उच्यन्ते । अत्र किंविरिशष्टा उपलक्षिताः । कैः सुवृत्तैः रम्याचारैः । पुनः कैः । आश्लेषिताङ्गैः । अवलिप्ताङ्गैः । केन । नदीतीरपङ्केन । न केवलं तेन । नानारुचिरसिकतया वा । किं कुर्वन्तः । तथा रमन्ते । अधरयन्तः । अधरीकुर्वन्तः । किम् । त्रिदिवम् । अस्मादप्युपरितनं स्थानं वाञ्छन्तः । अथ द्वितीयोऽर्थः । नानारुच्या रसिकत्वं रसिकता तयोह रम्यसारस्वतौघे वाक्यसमूहे चतुरवचननिचये कृतिनो रमन्ते । कैः कृत्वा । सुवृत्तैः श्लक्ष्णैः श्लोकैः । मालिनीप्रभृतिभिः । किंविरिशष्टैः । श्लेषिताङ्गैः । श्लेषोक्तियुक्तचरणैः । पादवृत्तिप्रभृतिभिः । किं कुर्वन्तः । त्रिदिवमधरयन्तः । त्रिदिवसुखादपि काव्यरतिसुखमधिकं मत्वेत्यर्थः । शेषं स्पष्टम् ॥१३॥१४॥१५॥ इति श्रीभास्करोये सिद्धान्तशिरोमणिवासनाभाष्ये गोलाध्याये मिताक्षरे ऋतुवर्णनं मरीचिः—ननु कथिताया मनोहरत्वं कथमित्यतो मालिन्याऽऽह—सरसमभिलपन्तीति । सत्कवीनां लक्षणलक्षितकाव्यनिर्मापिकानां भारती काव्यसंबन्धिनी वाणी का कतमा कस्य कतमस्य हृदयं मनः कामितार्थं सादरश्रवणनिमित्तं न हरति । काव्यवर्णनकारास्तेषां सर्वा अपि वाण्यः सर्वेषां मनो हरन्तीत्यर्थः । ननु कुतो हरतीत्यत आह—अनवरतरमणी- येति । नित्यं सुन्दरीत्यर्थः । तथा च मनोहरत्वं सुन्दरवस्तुनः स्वतः सिद्धमिति भावः । नन्वनवरतरमणीयैव कुत इत्यत आह—विदग्धेति । चतुरा । तथा च चतुरायास्तथात्वं साहजिकमिति भावः । ननु चतुरात्वमपि कुत इत्यत आह—अमितार्थं लपन्तीति । अमितार्थम् । वाच्य- लक्ष्यव्यङ्ग्यभेदेन । लक्षणाया अगूढव्यङ्ग्यगूढव्यङ्ग्यभेदात्सव्यङ्ग्याया अपि शुद्धागौण्योर्भ्यां भेदाच्छुद्धायाश्चजहत्स्वार्थाजहत्स्वार्थासारोपासाध्यवसानेति चतुर्भेदाद्गौण्याश्च सारोपा- साध्यवसानाभ्यां भेदाच्च सप्त भेदाः । ध्वनेरप्यविवक्षितवाच्यविवक्षितान्यपरवाच्यरूप- लक्षणाूलाभिधामूलाभ्यां द्वौ भेदौ लक्षणाूलोऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृत- वाच्याभ्यां द्विधा । अभिधामूलोऽप्यसंलक्ष्यक्रमव्यङ्ग्यलक्ष्यक्रमव्यङ्ग्यचक्रमाभ्यां द्विधेति चत्वारो भेदाः । एवमसंलक्ष्यक्रमो रसभावादिभेदेन संलक्ष्यक्रमोऽप्यलंकारवस्तुभेदेनानन्तः । एवं लक्षणोदाहरणानि काव्यप्रकाशे । विस्तरभीत्याऽत्र नोक्तानि । एवमसंख्यमर्थमित्यर्थः । अभिलपन्तीव सर्वतः प्रतिपदं वदन्तीत्यर्थः । तथा च चतुरात्वं सिद्धमिति भावः ।