सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 620, कुल 723 में से
संदर्भ में पढ़ें५१८ गोलाध्याये नन्वमितार्थलपनेऽपि चमत्काराभावान्न चतुरात्वमित्यतोऽर्थविशेषणमाह—सरसमिति । वासनाविशेषवतां सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको भावः पौनःपुन्येन रत्यादिभिः समं गृहीतकार्यकारणभावसंबन्धैर्विभावादिभिः परिहृतविशेषैः संबन्धविशेष- स्वीकारपरिहारनियमावसायादसाधारन्येन प्रतीर्त नियतप्रमातृगतत्वेन स्थितोऽपि साधारणो- पायबलात्साधारण्यमुपगच्छन्विद्वात्मना सहाभिव्यक्तस्तत्कालोल्लसच्चर्यमाणानेकप्राणो विभा- वादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्र्फुरन्हृदयमिव प्रविशन्सर्वा- ङ्गीणमिवालिङ्गन्नन्यत्सर्वमेव तिरोदधद्ब्रह्मानन्दसहोदरोऽलौकिकचमत्कारकारी शृङ्गारा- दिको रस इति काव्यप्रकाशनिरुक्तः । तेन सहितमित्यर्थः । तथा च सरसार्थलपने चमत्कारः स्वतः सिद्धोऽत एव— रसोऽभिमानोऽहंकारः शृङ्गार इति गीयते । योऽर्थस्तस्यान्वयात्काव्यं कमनीयत्वमश्नुते ॥ इत्युक्तमिति भावः । ननु रसिकानां बिना कान्तामन्यन्मनोहरं न भवतीत्यतः संशयालंकारद्योतकं पक्षान्तर- माह–वेति । अथवा सा कान्ता भारती भरतसंबन्धिनी नर्तकस्त्री कामितार्थं सुरतोत्सव- निमित्तं कस्य हृदयं न हरत्यपि तु सर्वपुरुषाणां मनो हरति । ननु तेषां तदभिलाषे मनोहरं संभवत्यतस्तस्यां तदनभिलाषे मनोहरं कथं संभवतीत्यत आह–सानुरागेति । लज्जां न धत्तेऽभिमुखं च पश्येत्पादेन भूमिं विलिखेत्स्थिता च । व्यनक्ति गात्रं कुरुते च हास्यं दृष्ट्वा कटाक्षं नयने विदध्यात् ॥ पृष्टा स्फुटं सस्मितमेव वाक्यं शनैर्व्रजेच्चानुसरेद्व्रजन्तम् । विलोक्य तं व्याजकथाप्रसङ्गादुच्चैर्वदेत्स्वं परिदर्शयन्ती ॥ तन्मित्रवर्गे प्रणयं विदध्यादित्यादिवातार्मसकृच्च पृच्छेत् । कति स्त्रियोऽस्याऽऽलयगाः सुरूपाः कस्यामयं प्रेम भृशं विधत्ते ॥ मृद्गा(दना)ति दृष्ट्वा स्वकुचं करेण संस्फोटयेदङ्गुलिकाः सुजृम्भम् । भूषाविहीना न ददाति तस्मै स्वदर्शनं याचितमप्यजस्रम् ॥ पुष्पादिना हन्ति तथाऽतितारं संकाशयेन्मार्ष्टि भुजं करेण । व्याजेन गच्छेत्सदनं कराङ्घ्रिवक्त्रेषु घर्माम्बु वहद्विलोक्य ॥ इत्यादिचिह्नैरनुरागयुक्ता ज्ञेया विदग्धा मृगशावकाक्षी । इत्युक्तानुरागयुक्तेत्यर्थः । तथा च— आभङ्गुराग्रबहुगुणदीर्घा स्वादप्रदा प्रियादृष्टिः ॥ कर्षति मनो मदीयं हृदमीतं बडिशरज्जुरिव । क्लेशयसि किमिति दूति यदशक्यं सुमुखि तव कटाक्षेण ॥