भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 633, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 633

संभवेऽपि मूलकृद्भाष्ये तयोदाहरणानुक्तेश्च । तद्योगः । तेषां तादृशचन्द्रसूर्यभौमानां योग ऐक्यम् । ननु(च) चन्द्रगुण इति व्यर्थमिति वाच्यम् । तदनुक्तौ चन्द्रेतरग्रहाणां गुणदर्शनेन चन्द्रस्य को गुणः कथं वा नोक्त इति शङ्कया मन्दश्रोतॄणां व्याकुलतापत्तेः । गुणसंगुणात् । त्रिगुणात् । सुरगुरोर्बृहस्पतेः । राश्यादिकात् । राशिभागकलाविकलात्मकात् । अनेनात्र ग्रहाणामिष्टभगणा न गृहीताः । योगश्च यथास्थानं स्वस्वहरभागफलेनोर्ध्वोर्ध्वं योज्यः । राशिस्थाने द्वादशतष्ट इत्यादि ज्ञेयम् । पातितः । हीनः कार्यः । शेषं राश्याद्यात्मकम् । चस्त्वर्थे । तेनाग्रे शेषान्वयः स्पष्टः । अपरपर्ययोत्थखचरेण । कल्पितभगणोत्पन्नग्रहकल्पभगणे तद्ग्रहेण राश्यादिना । ऊनं शनी राश्याद्यात्मकः स्यात् । वा । अथवा । युतं शनिः स्यात् । के अन्ये । उद्दिष्टग्रहा- न्यग्रहसंबन्धिनो भगणाः कल्पकालसंबन्धिनः के भवन्ति । सामान्यतस्तज्ज्ञानेऽपि विशेषप्रश्न इति । एवंविधप्रश्नस्येत्यर्थः । त्वमुत्तरमित्यध्याहारो वदेत्यनेन स्फुटः । शेषं कल्पित- भगणोत्पन्नग्रहेणोनं युतं वा शनिः स्यात्तद्ग्रहं वदेति प्रश्नतात्पर्यं कल्पभगणज्ञानहेतुकं पर्यवसन्नम् । ननु तद्ग्रहराश्यादिभोगज्ञानार्थं भगणप्रश्नः । शनिज्ञानेनैव शन्यूनशेषस्य शेषो- नशनेर्वा तद्ग्रहभोगत्वसंभवात्प्रश्नवैयर्थ्यापत्तेः । भगणज्ञानेऽप्यहर्गणज्ञानात्तद्द्रोगज्ञानानु- पपत्तेश्च । ननु प्रश्नोत्तरदानासमर्थं मां प्रति प्रश्नोऽनुचित इत्यत आह-तवेति । प्रश्नश्रोतुश्चेद्य- दिमिश्रके मिश्रव्यवहारे श्रमोऽभ्यासोऽस्ति । तथा च मिश्रव्यवहाररीत्यैतदुत्तरं तज्ज्ञस्त्वं दातुं शक्तोऽसीति भावः । यद्यपि मिश्रव्यवहाररीत्यैतस्य वक्ष्यमाणमुत्तरं न । किंत्विष्ट- कर्मणेति मिश्रके इत्युक्तमनुचितम् । तथाऽपि यदिष्टकर्माख्यविधेस्तु मूलं मिश्रोक्तं तच्च कलान्तरं स्यादित्यनेन मिश्रव्यवहारेऽपीष्टकर्मसंनिवेशस्योक्तेस्तदुक्तिर्नानुचिता । यद्वा मिश्रो मिश्रव्यवहारः के शिरसि मुख्यभागे यस्य तादृशे पाटीगणिते इत्यर्थः । पाट्यां व्यवहारनिरूपणोपक्रमे प्रथमं मिश्रव्यवहारनिरूपणात् । पाट्योत्तरस्य पूर्वं प्रतिज्ञा- तत्वाच्च ॥७॥ केदारदत्तः—प्रश्न है कि— एक गुणित चन्द्र स्पष्ट के तुल्य स्प. चन्द्र, १२ द्वादश गुणित सूर्य स्पष्ट के तुल्य स्प. सू., ६ छै गुणित मंगल स्पष्ट के तुल्य मंगल स्पष्ट, है । इन तीनों के त्रिगुणित योग को राश्यादिक स्पष्ट गुरु में कम किया जाने पर शेष जो बचता है, उसे कल्पित ग्रहकल्प भगण से उत्पन्न ग्रह से कम कर देने पर, या कथित ग्रह के कल्पभगणोत्पन्न ग्रह में जोड़ देने से शनि ग्रह हो जाता है, तो बताओ यदि मिश्रक गणित में तुम्हारा श्रम है तो कल्पित कथित कल्प भगण विशेषण विशिष्ट की कल्प भगण संख्या क्या है ? ॥७॥