सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 642, कुल 723 में से
संदर्भ में पढ़ें५४० गोलाध्याये लब्धेर्यावत्तावन्मानत्वात्तस्य च गतचान्द्रदिनप्रमाणत्वाल्लब्धिसाधनेन गतचान्द्रदिनप्रमाण- त्वाल्लब्धिसाधनेन गतचान्द्रदिनगणानयनं कृतम् । भ(न)गुणसाधनं तस्य कालकमानतया गताधिमासावमयोगत्वेनोपेक्षितत्वात्प्रश्नश्लोके दिनगणप्रश्नात्तत्प्रयोजनाभावात् । चान्द्रदिन- गणाद्गताधिमासावमानयनेन सौरसावनाहर्गणयोः सिद्धेश्च । यद्यपि गुणलब्ध्योः समं ग्राह्यं धीमता तक्षणे फलमित्युक्तेस्तक्षणफलतुल्यत्वग्रहेण लब्धिसाधनार्थं गुणककथन मप्यावश्यकम् । तथाऽपि लब्धितष्टफलगुणतष्टफलस्याधिकत्वे विना गुणमपि लब्धिसाधनसंभवाद्गुणतष्टफलाह्लब्धितष्टफलस्याधिकत्वे गुणतष्टफलतुल्यल- ब्धितक्षणफलग्रहार्थं गुणावश्यकत्वेऽपि प्रकृते तादृशफलासंभवात् । अन्यथेष्टचान्द्राणां कल्पचान्द्राधिकत्वापत्तेः । कल्पान्तेऽधिशेषावमशेषाभावादधिमासावमयोगादुक्तदिशा कल्प- चान्द्रदिनासिद्धिश्चतुर्णां योगादेतदुत्पत्तेः । अत एव चतुरन्यतमाभावेऽपीदमानयनं न भवतीति ध्येयम् । अनेकवर्णसमीकरणोपपत्तिस्तु बहूनां वर्णानां मानान्यव्यक्तानि सन्ति तत्रैकवर्ण- समीकरणोक्त्या एकस्मिन्पक्षे यद्येकमेवाव्यक्तं स्याऽन्यत्र च रूपाण्येव स्युस्तदा तस्या- व्यक्तस्य मानं सुबोधमतस्तथा यतितव्यं यथैकस्मिन्पक्षे एकमेवाव्यक्तं स्यात्समत्वाविरोधेन तत्रैकतरपक्षे एकं वर्णं विहाय यदवशिष्यते तत्तुल्यं चेदुभयोः पक्षयोः शोध्येत तर्ह्येक- स्मिन्पक्षे एकमेवाव्यक्तं स्यात् । यं विहायावशिष्टं शोध्येत तस्मिन्पक्षे तस्यैव वर्णस्य शेषत्वात्तत्रैकं वर्णमपहाय शेषं पक्षयोः शोध्यमिति यद्यपि नास्ति नियमस्तथाऽपि प्रथमा- तिक्रमे कारणाभावात्प्रथमवर्णमपहाय शेषं पक्षयोः शोध्यं सिद्धयोः पक्षयोरस्ति च समत्वं समक्षेपसमशुद्धौ समत्वाहानेः । तेन च केवलाद्यवर्णस्य संख्यागुणितस्य यन्मानं तदेवापर- पक्षे आद्यादिवर्णानां संख्यागुणितानां समत्वम् । समक्षेपवतां योग इति सिद्धम् । तथा च केवलाद्यवर्णस्य संख्यागुणितस्य मानं ज्ञातुमितरपक्षाद्यवर्णस्य संख्या- गुणितस्य ज्ञानमपेक्षितम् । तत्र यदि स्वमानज्ञाने स्वमानज्ञानापेक्षा स्यात्तदाऽऽत्मा- श्रयात्कल्पकोटिशतैरपि मानज्ञानं न स्यादतः सा यथा न भवति तथा यतितव्यम् । इतरपक्षे यः सजातीयप्रथमवर्णः संख्यागुणिस्तत्तुल्यं पक्षयोः शोध्यम् । एवं प्रकृते यदेव संख्यागुणितस्य प्रथमवर्णस्य मानं तदेवेतरपक्षेऽन्यवर्णानां संख्यागुणितानामैक्यमानमिति नास्ति स्वमानज्ञानापेक्षा । अत उक्तं 'आद्यं वर्णं शोधयेदन्यपक्षादन्यानि रूपाण्यन्यतश्चेति' । अथ यदि संख्यागुणितस्य प्रथमवर्णस्येदं मानं तदा एकसंख्यागुणितस्य किमिति त्रैराशिकेन जातमाद्यवर्णोन्मानम् । अत्र हरे प्रथमवर्णाद्याक्षरलिखनमाद्यवर्णोन्मान- मिदमिति उपस्थित्यर्थं नतु संख्यागुणिताद्यवर्णो हरः । प्रमाणेच्छाद्योः प्रथमवर्णेऽपवर्तनात् । अन्यथेच्छया गुणने भावितत्वापत्तेः । अत उक्तमाद्यभक्ते पक्षेऽन्यस्मिन्नाद्यवर्णोन्मितिः स्यादिति । अथ द्वितीयादिभाज्यवर्णानां कालकादीनामिष्टानि मानानि प्रकल्प्य स्वस्वगुणक-