सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 644, कुल 723 में से
संदर्भ में पढ़ेंयोस्तुल्यत्वान्नाशे भाज्यतुल्या लब्धिः स्याच्छेषं च न स्यात् । एवं द्व्यादिगुणितहरतुल्ये गुणे हरेण गुणहरयोरपवर्त्तंगुणस्थाने द्व्यादयः स्युरिति द्व्यादिगुणितभाज्यतुल्या लब्धिः स्याच्छेषं च न स्यात् । तस्मात्क्षेपाभावे शून्यमिष्टाहतहरो वा गुणः । लब्धिस्तु शून्यमिष्टाहतभाज्यो वेति । एवमत्र हरतुल्ये गुणोपचये भाज्यतुल्यो लब्ध्युपचयः सर्वत्र । अत एव— ‘इष्टाहतस्वस्वहरेण युक्ते ते वा भवेतां बहुधा गुणाप्ती’ इति वक्ष्यति । असत्यपि क्षेपे हरतुल्ये द्व्यादिगुणितहरतुल्ये वा तस्मिन्पूर्वोक्त एव शून्यादिको गुणः स्यात् । सति हि पूर्वोक्तगुणके शेषवशादेव शेषं स्यात् । क्षयोऽपि यत्रैकादिगुणितहरतुल्यः स्यात्तर्हि शेषं कुतः स्यात् । तस्मादेतादृशे क्षेपे सत्यपि पूर्वोक्त एव गुणः । ल