सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 656, कुल 723 में से
संदर्भ में पढ़ेंधिहृतं शुध्येन्न चैतत्खिलमिति । खिलोत्पत्तिस्तु शून्यशेषे गुणके क्षेपाभावे एकादिगुणित- हरतुल्ये वा क्षेपे शून्यं शेषं स्यान्नान्यस्मिन्शेषे । तेन हरस्यापवर्तनसंभवे क्षेपस्य सुतराम- पवर्तनसंभवः । अन्यशेषेषु सकलगुणकेषु शेषतुल्ये ऋणक्षेपे शेषोनहरतुल्ये धनक्षेपे वा एका- दिगुणितहरयुतयोरुभयोर्वा शून्यं शेषं स्यान्नान्यस्मिन्क्षेपे । अत्र शेषतुल्यस्य शेषोनहरतुल्यस्य वा क्षेपस्यानपवर्तितभाज्यशेषे एवान्तर्भावादपवर्तः स्यादेव । अपवर्तितभाज्यहरयोरनपवर्तितयोस्तयोर्वा एकफलत्वेऽपि शेषयोर्भेदावशंभावेनान- पवर्तितभाज्यशेषस्यापवर्ताङ्कगुणितापवर्तितभाज्यशेषरूपत्वात् । एवं केवलस्यापवर्तनंसंभवे हरयुक्तस्य क्षेपस्य सुतरामपवर्तनसंभवः । तदेवं न कमपि तादृशं क्षेपं पश्यामः । यो भाज्य- हरापवर्ताङ्केन नापवर्तेत । तस्माद्यत्र क्षेपेऽपवर्तो न स्यात्तादृशक्षेपशून्यशेषता कथमपि न स्यात् । शून्यशेषक्षेपाणामुक्तरीत्या नियतत्वादिति गुरुतरपितृव्यकृष्णगणकचरणोक्तापवर्ता- ङ्कज्ञानप्रकारोपपत्तिरपि तैरेवोक्ता । तथा हि । अपवर्ताङ्कश्चात्रापवर्ताङ्केषु महाञ्ज्ञातव्यो येनापवर्तितयोर्भाज्यभाजकयोः पुनर्नपवर्तः स्यादनेनापवर्तितयोर्दृढत्वोक्तेः । तज्ज्ञानार्थमुपायः । तत्र भाज्यभाजकयोस्तु- ल्यत्वे तन्मित एव महानपवर्त इति मन्दैरप्यवगम्यते । तयोर्वैलक्षण्ये तु यो लघुस्ततोऽधिको- ऽपवर्ताङ्को नैव स्यात् । तेनाङ्केन तयोरपवर्तनस्य बाधितत्वात् । लघुतुल्यतुल्या (स्तुल्यत्वात्) । यदि लघुना महति भक्ते शेषं न स्यात्तस्य निःशेषभजनरूपत्वाद्यदि च शेषं स्यात्तदा [न] लघुतुल्योऽपवर्ताङ्कः । किंत्वधिकस्य बाधितत्वाल्लघोरपि लघुर्महानपवर्ताङ्कः स्यात् । स्यात् । तत्रापि विचारः । अत्र हि महतो राशेः खण्डद्वयं यावल्लघुना भक्तं तावदेकं शेषतुल्यमपरम् । एवं सति लघूतो न्यूनाङ्केषु मध्ये यः शेषतोऽधिकस्तस्य नास्त्येवापवर्तकत्वम् । तेन यथाकथं- चिल्लघोरपवर्तो लघुराशिभक्तस्याधिकराशिखण्डस्याप्यपवर्तः स्यान्नतु शेषतुल्यद्वितीय- खण्डस्य । तथा च लघूतो न्यूनाङ्केषु यदि महानपवर्तकः स्यात्तर्हि शेषतुल्यः स्यात् । परं शेषेण लघुराशी भक्ते यदि शेषं न स्यात्तथा सति शेषतुल्याङ्केन लघोरपवर्तनस्य जातत्वाल्लघुभक्तस्याधिकराशिखण्डस्य शेषतुल्यद्वितीयखण्डस्याप्यपवर्तः स्यात् । यदि तु शेषं स्यात्तर्हि पूर्वशेषतो न्यून एव महानपवर्ताङ्कः स्यान्नाधिको बाधि- तत्वात् । अथ तत्रापि विचारः । लघूराशेर्हि खण्डद्वयं यावत्पूर्वशेषेण भक्तं तावदेकं द्वितीय- शेषतुल्यं द्वितीयम् । एवं सति पूर्वशेषान्नयूनाङ्केषु यो द्वितीयशेषादधिकः स्यान्न स्यादय- मपवर्ताङ्कः । तेन यथाकथंचित्पूर्वशेषस्यापवर्तशेषेण भक्तं लघुखण्डस्यापवर्तः स्यान्न द्वितीयशेषतुल्यद्वितीयखण्डस्य । तथा सति लघुराशेरनपवर्तनाल्लघुभक्तस्याधिकराशिखण्डस्याप्यनपवर्तं कस्याप्यपवर्तो न स्यात् । तस्मात्पूर्वशेगतो न्यूनाङ्केषु यदि महानपवर्ताङ्कः स्यात्तर्हि द्वितीयशेषतुल्य