भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 657, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 657

एव स्यात् । परं द्वितीयशेषेण पूर्वशेषे भक्ते यदि शेषं न स्यात् । यतस्तथा सति पूर्व- शेषापवर्तनस्य जातत्वात्तद्भक्तस्य लघुराशिखण्डस्याथ च द्वितीयशेषतुल्यद्वितीयखण्डस्याप्य- पवर्तः स्यात् । तथा सति लघुराशेरपवर्तनस्य जातत्वाल्लघुभक्तस्याधिकराशिखण्डस्याप्यपवर्तः स्यात् । पूर्वशेषतुल्यद्वितीयखण्डस्यापवर्तोऽनुपदमेव पूर्वं प्रतिपादित इत्यधिकराशेरप्यपवर्तः स्यादेव । यदि च द्वितीयशेषेण पूर्वशेषे भक्ते शेषं स्यात्तर्हानयैव युक्त्या तृतीयशेषतुल्यो महानपवर्ताङ्कः स्यात् । एवमनयोपपत्त्या पूर्वशेष उत्तरोत्तरेण येन शेषेण भक्ते शेषं न स्यात्तच्छेषमन्त्यं महानपवर्ताङ्कः स्यादिति । तथा च प्रकृते दृढो भाज्यः २९६०१७९७१५०२४२ । भाजकः ३९४८४९३३५ । उद्दिष्टं चतुर्भक्तं फलं दृढक्षेप इत्यत्र कुट्टकोदाहरणे गुणः साध्यस्तत्रोद्दिष्टयोगानां पृच्छ- केच्छयाऽनन्तत्वादेतादृशजात्युदाहरणेषु प्रत्येकं प्रष्टॄणां प्रश्नभङ्गार्थमनेकगुणाः कार्या इत्यनेकगुणसाधनगौरवदर्शनादाचार्ये रूपमृणक्षेपं प्रकल्प्य भाज्यभाजकयोः स्थिरत्वाल्ला- घवाच्च क्षेपं विशुद्धिमित्याद्युक्त्या गुणसाधनार्थं स्थिरकुट्टकः कृतः । तथा च स्थिरकुट्टकार्थं भाज्यहरक्षेपाणां न्यासः । भाज्यः २९६०१७९७१५०२४२ क्षेपः १ हरः ३९४८७९३७५ । ७५०४० । ६१२१७१५१२८९१२३१०११० । अत्र मिथो भजेत्तावित्यादिना वल्ली उपान्तिमेनेत्यादिना राशियुग्मं ७५६७९६३५६६४२३ ॥ १०८५२१७२ इमं स्वस्वतक्षणाभ्यामूनं स्वत एवास्ति । लब्धीनां समत्वादेतावेव लब्धिगुणौ रूपधनक्षेपोपेक्षितौ रूपर्णक्षेपे इति स्व