भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 664, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 664

शेषं राशिशेषम् । अत उक्तरीत्या द्वादशकेन गुणा राशिशेषोनाः कुदिनभक्ता निरग्राः स्युरिति कुट्टकेन गुणाप्ती भगणशेषराशी । ततोऽहर्गणो भगणगुणितः कुदिनभक्तः फलं गतभगणाः । शेषं भगणशेषम् । अतो ग्रहभगणाः केन गुणा भगणशेषोनाः कुदिनभक्ता निरग्राः स्युरिति कुट्टकेन गुणलब्धी दिनगणगतभगणाविति पितृव्यचरणोक्ता । अत्रान्तिमकुट्टकेऽपवर्तनस्याऽऽवश्यकत्वेनापर्तनाद्दृढभगणा येन गुणाश्चक्राग्रोना दृढदिवसैः शुद्धाः स द्युगण इति वक्ष्यमाणमुपपन्नम् । वारासंवादे इष्टाहतेत्यादिरीत्या गुणेऽहर्गणे दृढकुदिनानि योज्यानि पुनः पुनर्यावदभिमतवारसंवादः । गतभगणे दृढभगणा योज्या इति भगणप्रयोजनाभावान्नोक्तमतो दृढकुदिनयुतस्ताव- द्यावदभीप्सितो वार इति वक्ष्यमाणमुपपन्नम् । यथोदाहरणं चन्द्रः । ११