सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 668, कुल 723 में से
संदर्भ में पढ़ें५६६ गोलाध्याये खिलमित्याद्युक्तम् । एवं सुधीभिरन्येषां यथासंभवं स्थिरकुट्टको निबध्य इत्यादि ध्येयम् ॥२२॥ केदारदत्तः—अशुद्ध प्रश्न का उदाहरण— यदि चन्द्र स्पष्ट = ०।५।३६।१९ है तो राश्यादिक विकल्प आदि करने पर शेष = २७, शेष को हर में कम करने से १५९५९७३, यह अंक दृढ़ कुदिन से अधिक है तस्मात् ऐसा ग्रह नहीं हो सकता अतः यह प्रश्न अशुद्ध है ॥२२॥ एवमनेकधा खिलत्वं कुट्टकविषयमभिधायेदानीं वर्गप्रकृतिविषयमाह— स्याद्यस्मिन्नधिमासशेषककृतिर्दिग्घ्नी सरूपा कृति- र्व्यैका शेषकृतिर्हृता च दशभिः स्यान्मूलदा वा यदा । काले कल्पगतं तदा वदति यस्तत्पादपद्मं बुधाः सेवन्ते बहुधा प्रमेयवियति भ्रान्ता भ्रमन्तोऽलिवत् ॥२३॥ उद्दिष्टं कुट्टके तज्ज्ञैर्ज्ञेयं निरपवर्तनम् । व्यभिचारः क्वचित् क्वापि खिलत्वापत्तिरन्यथा ॥२४॥ वा० भा०—स्पष्टार्थम् । अस्य वर्गप्रकृत्या भङ्गः । तत्राधिमासशेषप्रमाणं यावत्तावत् १ । अस्य कृतिर्दिग्घ्नी सरूपा जाता। याव १० रू १ । इष्टं ह्रस्व- मित्यादिना जाते ह्रस्वज्येष्ठमूले ६ । १९ । वा २२८ । ७२१ । अत्र ह्रस्वं याव- त्तावन्मानं तदेवाधिमासशेषम् ६ । वा २२८ । अथ द्वितीयोदाहरणेऽधिमासशेष- प्रमाणं यावत्तावत् १ । अस्य कृतिर्व्यैका दशहृता च जाता याव १।१० रू १ । अस्य मूलप्रमाणं कालकः १ । अतः कालकवर्गसमोकरणे शोधने च कृते जातं प्रथमपक्षमूलम् । या १ । परपक्षस्यास्य काव १० रू १ । वर्गप्रकृत्या मूले जाते ते एव ६ । १९ । वा २२८ । ७२१ । अत्र कनिष्ठं कालकमानं ज्येष्ठं यावत्तावन्मानं तदेवाधिमासशेषम् । १९ वा ७२१ । अतः कल्पगतानयनं कुट्टकेन । तत्राधिमासा भाज्यः । रविदिनानि हारः । अधिमासशेषं षट्कमितमृणक्षेपः । ननु कथमयं क्षेपः । अत्र भाज्यभाजकयोर्लक्षत्रयेणापवर्तनं तन्न नास्य क्षेपस्येति खिलत्वापत्तिः । सत्यम् । अत उक्तमुद्दिष्टः कुट्टके तज्ज्ञैरित्यादि । अतो लक्षत्रयेणापवर्तने कृतेऽधि- मासशेषं षड्दृष्टम् । अतः कुट्टकेन ज्ञातं कल्पगतं चतुर्भिरूनानि त्रयोविंशतिशत- वर्षाणि २२९६ । तथा षण्मासाः ६ । षट् तिथयश्च ६ ॥२३-२४॥ मरीचि :—अथ शेषोनहरो विकलाशेषं तस्मिन्कुवहाधिके ज्ञेयः । स खिलः खेट इत्यस्यो दाहरणमनुष्टुभाऽऽह—राशय इति । लवा इत्यादौ बहुवचनान्तत्वात्तत्पङ्क्त्यां राशय इति बहुवचनम् । आकाशस्यै- कत्वात्खमित्येकवचनम् । राशिः शून्यम् । पञ्च भागाः कलाः । षण्णां वर्गः षट्त्रिंशत् ।