सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 676, कुल 723 में से
संदर्भ में पढ़ें५७४ गोलाध्याये चतुर्थ प्रश्न— दिग्ज्या = २४३१ को १२ से गुणा कर पलकर्ण से भाग देने से १६१५।८।१४ का का चाप = ३० अंश अक्षांश होते हैं ॥२५, २६, २७॥ अथान्यदुदाहरणम्— क्षितिपरिधिषडंशे प्राचि धारानगर्या- स्त्रिनयनदिशि यद्वा पत्तने चाग्निभागे । कथय गणक तत्र क्षिप्रमक्षांशकान् मे क्षितिपरिधितृतीयेऽंशांशके तत्र तत्र ॥ २८ ॥ वा० भा०—धारायामक्षप्रभा ५ । पलकर्णः १३ । अत्रापसारयोजनलवाः षष्टिः ६० । तद्दोज्र्या २१७७ । कोटिज्या १७१९ । दिग्ज्यायाः प्राच्यामभावः । तस्माद्भुजज्या पूर्णमेव । अतः कोटिज्या पलभा ५ गुणा । अक्षकर्ण १३ प्ता । फलस्य चापमक्षांशाः । एवं प्राच्यां गतस्याक्षांशाः ११ । ५ । ० । ईशानदिशं गतस्य दिग्ज्या २४३१ । दोर्ज्या दिग्ज्यागुणा त्रिज्याभक्ता कार्या । कोटिज्या तु पलभा ५ गुणा द्वादशभक्ता कार्या । तयोर्योगो द्वादशगुणः पलकर्ण १३ हृतः फलस्य चापमक्षांशाः ४९ । १८ । २४ । ईशान्यं गतस्य । एवमाग्नेयां च २१ । ५४ । ३४ । अथ त्र्यंशेऽपसारे लवाः ११० । एषां दोर्ज्याकोटिज्ये एते एव २१७७ । १७१९ । यथोक्तकरणेन जाताः प्राच्यां पलांशाः ११ । ५ । ० । ऐशा- न्याम् २१ । ५४ । ३४ । आग्नेय्याम् ४९ । १८ । २४ ॥ अत्रोपपत्तिः । गोले खस्वस्तिकादिच्छादिक्चिह्नोपरि दृङ्मण्डलं निवेश्यम् । तत्र खस्वस्तिकं स्वस्थानं कल्प्यम् । ततोऽपसारलवाग्र दृङ्मण्डले पुरचिह्नं कार्यम् । ध्रुवात् पुरचिह्नोपरि नीयमानं वृत्ताकारं सूत्रं यत्र विषुवन्मण्डले लगति तत्पुरचिह्नयोरन्तरं तस्मिन्पुरे पलांशाः । अथ तज्ज्ञानार्थमुपायः । अपसा- रयोजनलवानां दोःकोटिज्ये कृते दिग्लवानां च दिग्ज्या । ततोऽनुपातः । यदि त्रिज्ययामितया दोर्ज्यया दिग्ज्याभुजो लभ्यते तदाऽपसारलवज्यया किमिति । फलं पुरसममण्डलयोरन्तरं याम्योत्तरं ज्यारूपम् । स भुजः । पुरविषुवद्वृत्तयोर्या- वदन्तरं तावतैवान्तरेण सर्वत्र विषुवद्वृत्तादुत्तरतोऽन्यत् स्वाहोरात्रवृत्तं निवे- शनीयम् । तस्य क्षितिजेन सह यत्र संपातस्तत्प्राच्यपरयोरन्तरमग्रा । यत्रोन्मण्डले लग्नं तत्प्राच्यपरयोरन्तरं पलांशाः क्रान्तिरूपाः । अथ तज्ज्ञानार्थमपसारलवानां कोटिज्या । स पुरचिह्नानाल्लम्बः शङ्कुः स पलभया गुण्यो द्वादशभक्तो जातं शङ्कुतलम् । उत्तरगोल उत्तरभुजस्य शङ्कुतलस्य च योगेऽग्रा भवति । तद- न्यथान्तरे कृते सत्यग्रा । अतो वैपरीत्येन क्रान्तिः । तदर्थमनुपातः । यदि पलकर्णे