सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 685, कुल 723 में से
संदर्भ में पढ़ेंप्रश्नाध्यायः ५८३ अथ स्वत एवोत्तरज्ञानसंबन्धिप्रश्नान्तरमनुष्टुभाऽऽह—एकद्वित्रिचतुरिति । यत्र यस्मिन् देशे । एकद्वित्रिचतुःपञ्चषड्भिः सौरमासै रविरुदितो दर्शनयोग्यो ऽरत- मयमस्तं गच्छति तत्र देशे पृथक्पृथगक्षांशान्वदेति ॥ अत्र लम्बाधिका क्रान्तिरुदक्च यावत्तावद्दिनं संततमेव तत्रेत्युक्त्या सायनो रवि- मिथुनाधे । तत आरभ्यैको मासो दिनमारोहणाभ्यां मिथुनार्धक्रान्तिज्यातुल्यलम्बज्यादेशे । एवं मिथुनादौ तत्क्रान्तितुल्यलम्बज्यादेशे मासद्वयं तथैव दिनम् । वृषार्धे तत्क्रान्तिज्या- तुल्यलम्बज्यादेशे मासत्रयं दिनम् । वृषादिक्रान्तिज्या तुल्यलम्बज्यादेशे मासचतुष्टयं दिनम् । मेषार्धक्रान्तिज्या तुल्यलम्बज्यादेशे मासषट्कं दिनमिति तत्तत्क्रान्तिज्या एव लम्बज्यास्तद्व