सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 686, कुल 723 में से
संदर्भ में पढ़ें५८४ गोलाध्याये सिद्धान्तग्रन्थः । नन्वस्मिन्नप्रसिद्धे विचारः किमर्थमुपयोगाभावादित्यतः सिद्धान्तविशे- षणमाह—गणितस्कन्धबन्धप्रसिद्ध इति । ज्योतिषःशास्त्रैकदेशभूतगणितस्कन्धे ये बन्धाः प्रबन्धा ग्रन्थास्तेषु प्रसिद्धो मुख्यः ॥ तथाच प्रसिद्धत्वाद्विचारस्याप्युपयोगोऽस्त्येवेति भावः ॥ आस्तां तद्विचारः । दूरे तिष्ठत्वित्यर्थः ॥ तावत्प्रथमं लग्नसाधनार्थं तात्कालिको लग्नसाधनकालिकः सूर्यः ॥ तत्र त्रिप्रश्नोक्तलग्नानयने ॥ बतेति खेदे ॥ किम् । कुतः कृत इति अस्य विचार आवश्यकः ॥ खेदस्त्वावश्यकलग्नविचारमुपेक्ष्यानावश्यकपदार्थविचारो- द्योगकरणात् । ननु यत्कालिकं लग्नं साध्यं तात्कालिकार्कग्रहणेनैव तत्सूक्ष्ममन्यथा सूर्यलग्नयोः संबन्धा- भावेन स्थूलत्वापत्तेरितयतस्तात्कालिकार्ककरणेऽनिष्टमाह—नाडीषष्ट्येति ॥ किल यतः । आर्क्ष्या नाडीषष्ट्या दशपलयुतया दशपलयुतनाक्षत्रषष्टिघटीभिरित्यर्थः ॥ सूर्यसंबन्ध्यहो- रात्रं भवति । दशपलेति षष्टिकलागतितुल्यासुधरणेन । एतदुक्तिरुपलक्षणा तत्कारणात्प- लोने द्युरात्रे नवपलयुतषष्टिघटीमितकाले । तात्कालिकसूर्यादानीतं लग्नमधिकं तात्कालिक- सूर्याधिकं कथं भवतीति प्रकर्षेणास्योत्तरं कथय । तथाच सूर्योदयकाले लग्नस्य सूर्यतुल्यत्वेनाधिकत्वासंभवेन सुतरां तत्पूर्वकालेऽधि- कत्वासंभवः ॥ सूर्योदयानन्तरं तदधिकत्वात् ॥ अतस्तात्कालिकार्ककरणे उक्तबाधकात्तद- करणं युक्ततरम् । तेन सूर्याल्लग्नस्य सूर्योदयकाले तुल्यत्वसंभवेन तत्पूर्वकाले न्यूनत्वसंभव इति भावः ॥३७॥ ननु सावनघटीग्रहे तात्कालिकार्ककरणं युक्तम् । अहोरात्रे सावनषष्टिघटीमितत्वात्ततो- ऽधिकदिनगतकालासंभवेन सूर्योदये सूर्यतुल्यलग्नसिद्धेरुक्तदोषप्रसङ्गादित्यतः सावन- घटीनां नाक्षत्रघटीनां वा ग्रहणे दोषस्तत्रास्त्येवेति शार्दूलविक्रीडितेनाऽऽह—नाक्षत्रा उतेति । अथ हठात्सावनषष्ट्यङ्गीकारेण दोषापाकरणं करोषि तर्हि तनुकृतौ लग्नकरणे । नाक्षत्रा नाड्य उताथवा सावना नाड्यस्त्वयाऽङ्गीक्रियन्ते इति त्वां प्रति पृच्छ्यते ॥ तत्र चेद्यदि सावना उक्तदोषापाकरणायाङ्गीक्रियन्ते तर्हि नाक्षत्रा उदयास्ताभ्यः सावन- घटीभ्यः कथं केन प्रकारेण विशोध्यास्तं प्रकारं कथय ॥ ननु शोधने को वा संदेह इत्यत उदयविशेषणमाह—विसदृशा इति । विजातीयाः । तथाच योगोऽन्तरं तेषु समानजात्योरित्युक्तेः सावनघटीभ्यो नाक्षत्रोदयानां विशोधनम- युक्तमतः शोधनार्थं नाक्षत्रोदयानां सावनीकरणमावश्यकं तत्तु नोक्तमिति महादोष इति भावः ॥ अथ यदि नाक्षत्रास्तदोदयशोधनं संगच्छतेऽपि । द्युरात्रसदृशे दशपलयुतषष्टिनाक्षत्र- घटीमितद्युरात्रतुल्यकाले गते । सूर्योदयादिष्टकाले इत्यर्थः ॥ तात्कालिकार्काधिकं लग्नं कथमुक्तम् । समम् । सूर्योदयतुल्यं लग्नं कथं न भवति । तथाच सूर्योदयकाले सूर्यतुल्यं लग्नं नाक्षत्रघटीभिस्तात्कालिकार्केण यदि स्यात्तदा नाक्षत्रघट्यङ्गीकारः सुयुक्तियुक्तः ॥ न चैवमिति पूर्वोक्तदूषणमेव । अतः फलितमाह—तत इति । उक्तदूषणादित्यर्थः ॥ सूर्यो लग्नानयने तात्कालिकः कुतः कृत इति ॥