भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 698, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 698

५९६ गोलाध्याये ग्रथनस्य विशेषणान्तरमाह-व्यक्तमदुक्तियुक्तिबहुलामिति । व्यक्ताः स्पष्टाः समीचीना उक्तयो वचनानि यासाम् । एतादृश्यो युक्तयो बहुला बह्व्यो यत्र तदित्यर्थः । यथा च कठिनपदार्थस्याप्यत्रानेकस्पष्टयुक्तिभिः स्वरूपप्रतिपादनात्सुगमं तज्ज्ञानमनायासेन भवतीति भावः । नन्वेतादृशसिद्धान्तग्रन्थनं श्रीपतिभटल्लल्लादीनामप्यस्तीति व्यर्थमिदं ग्रथनमित्यत आह-कुबुद्धिशमनमिति । कुबुद्धीनां निराकरणं यस्मात् । तथा च तत्र वलनाद्युक्तभज्यया कृतं तदशुद्धमिति ज्ञानमेतन्निबन्धान्न तत इत्यादीति भावः । नन्वेतादृशादप्यस्मात् । बुद्धिप्रसारो न भवतीत्यत आह-विदग्धगणकप्रीतिप्रदमिति । विदग्धा अत्यन्ततन्त्राभिज्ञा ये गणकास्तेभ्यः प्रीतिं स्वानुरक्ततां प्रकर्षेण ददातीत्यर्थः । तथा चैतद्ग्रन्थावलोकनेनात्यन्तं [