भारतकोश
स्पन्दनिर्णय एवं स्पन्दकारिका (आचार्य क्षेमराज - काश्मीर शैव स्पन्द-शास्त्र सान्वय सटीक)

स्पन्दनिर्णय एवं स्पन्दकारिका (आचार्य क्षेमराज - काश्मीर शैव स्पन्द-शास्त्र सान्वय सटीक)

Spanda Nirnaya of Acharya Kshemaraja with Hindi Commentary

आचार्य वसुगुप्त / क्षेमराज द्वारा

DevanagariHindipublished519 पृष्ठ

पृष्ठ 105, कुल 519 में से

संदर्भ में पढ़ें
पृष्ठ 105

४ स्पन्दकारिका २९. तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः ॥ ३०. दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते ॥ ३१. दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । ३२. न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पन्दम् ॥ ३३. न दुःखं न सुखं यत्र न ग्राह्यो ग्राहको न च ॥ ३४. न हीच्छादनोदनस्यायं प्रेरकत्वेन वर्तते ॥ ३५. नाभावो भाव्यतामेति न च तत्रास्त्यमूढता ॥ ३६. निजाशुद्ध्यासामर्थ्यस्य कर्तव्येष्वभिलाषिणः ॥ ३७. परामृतरसापायस्तस्य यः प्रत्ययोद्भवः ॥ ३८. प्रबुद्धः सर्वदा तिष्ठेत् ज्ञानेनालोच्य गोचरम् ॥ ३९. भुंक्ते परवशो भोगं तद्भावात्संसरत्यतः ॥ ४०. यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् ॥ ४१. यतः करणवर्गोऽयं विमूढोऽमूढवत् स्वयम् ॥ ४२. यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि ॥ ४३. यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान् ॥ ४४. यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भवौ ॥ ४५. यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् ॥ ४६. यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ ॥ ४७. यामवस्थां समालम्ब्य यदयं मम वक्ष्यति ॥ ४८. लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् ॥ ४९. शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् ॥ ५०. स्वरूपावरणे चास्य शक्तयः सततोत्थिताः ॥ ५१. सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ॥ ५२. ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः ॥