स्पन्दनिर्णय एवं स्पन्दकारिका (आचार्य क्षेमराज - काश्मीर शैव स्पन्द-शास्त्र सान्वय सटीक)
Spanda Nirnaya of Acharya Kshemaraja with Hindi Commentary
आचार्य वसुगुप्त / क्षेमराज द्वारा
पृष्ठ 195, कुल 519 में से
संदर्भ में पढ़ें९४ स्पन्दकारिका अन्यस्वरूपसंसिद्धावन्यसिद्धिर्भवेद्यदि । घटस्वरूपसंसिद्धौ पटस्यावगमो भवेत् ॥ योऽयं स एवाऽयमिति प्रत्ययः स्थिरकालजः । कर्तुं शक्यो न तद्वादि प्रामाण्यात् क्षणिकैस्ततः ॥ प्राग्विज्ञानस्मृति प्रत्यभिज्ञा नित्यं प्रतिष्ठिताः । अतो नित्य स्वभावस्यैवात्मनः कर्तृतोदिता ॥ एक प्रमात्रभावात् स्यात् क्षणिकत्वाद् निश्चयात् । प्रमाणमप्यप्रमाणं स्याद् बौद्धान्यं हि निराश्रयम् ॥ बौद्धायन संहिता में भी कहा गया है कि— कार्यकारणभावस्तु नास्ति ज्ञाने क्षणक्षयः । क्षणं द्वितीयं नास्ते चेद् स्मृति बीजं कथं भवेत् ? जनकं तत् कथं नष्टमनष्टं वाप्यनष्टकम् । नष्टस्य जनकत्वं चेदभावादभावसन्ततिः ॥ जनकत्वेत्वनष्टस्य क्षणभंगः प्रहीयते । द्वितीयं यत्क्षणं तिष्ठेत्तदास्ते शतमप्यथ ॥ जनकत्वेऽर्थनिष्ठस्य अर्थे नाभावमेति तत् । तस्माद्भावाः स्थिरा सर्वे न च्यवन्ते स्वरूपतः ॥ आत्मावबोधविषये स्वस्थिराः क्षणिका न ते । बाध्यबाधकभावोऽपि न स्यान्निश्चायकं बिना ॥ शुक्तौ हि रजतज्ञानभ्रान्तिभंगोऽस्ति नान्यथा । तस्माज्ज्ञानं नित्यमेकं क्षणिकानि बहूनि नो ॥ ‘सत्कार्य सिद्धि’ में कहा गया है—‘यदि प्रत्येक विज्ञान स्वतन्त्र हो तो एक दूसरे का संवेदन नहीं हो सकता । अतः पूर्वावस्था एवं उत्तरावस्था दोनों का ज्ञाता एक प्रमाता होता है और वह विचित्र वृत्तियों के द्वारा व्यवहार का आश्रय बनता है । अनेक वृत्ति— ज्ञानों का अनुसन्धान एक अजन्मा ज्ञान को होता है ।’ गीता का यह वचन सर्वथा सत्य है कि एक ही चेतन स्मृति ज्ञान और अपोहन का कारण है ।’ विरोधियों के कुतर्क पाषाणों को चबाने में कोई लाभ नहीं है । ‘सत्कार्य सिद्धि’ में ठीक ही कहा गया है— ‘न हि स्वनिष्ठे विज्ञाने इतरेतरवेदनम् । तस्मात् पूर्वापरावस्था प्रमाणं परिपिण्डितः । एकः प्रमाता चित्राभिर्वृत्तिभिर्व्यवहारभाक् ॥ प्रत्यभिज्ञा में भी कहा गया है— एवमन्योन्यभिन्नानाम परस्पर वेदिनाम् । ज्ञानानामनुसंधानजन्मा नश्येज्जनस्थितिः । न चेदन्तः कृतानन्तविश्वरूपो महेश्वरः । स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान् ॥