भारतकोश
श्रीभाष्य (भगवद् रामानुजाचार्य - विशिष्टाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य सटीक)

श्रीभाष्य (भगवद् रामानुजाचार्य - विशिष्टाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य सटीक)

Sri Bhashya of Bhagavad Ramanujacharya with Commentary

भगवद् रामानुजाचार्य (सम्पादक: स्वामी वासुदेवाचार्य) द्वारा

DevanagariHindipublished696 पृष्ठ

पृष्ठ 182, कुल 696 में से

संदर्भ में पढ़ें
पृष्ठ 182

व्यक्त स्वरूपवत् तथा पुरुषरूपेण च स्थितम्”—प्रकृतिर्या मयाऽख्याता व्यक्ताव्यक्त स्वरूपिणी पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि”— परमात्मा च सर्वेषामाधारः परमेश्वरः विष्णुनामा स वेदेषु वेदांतेषु च गीयते”— द्वे रूपे ब्रह्मणस्तस्य मूर्त्तंचामूत्तं मेव च, क्षराक्षरस्व रूपेते सर्वभूतेषु च स्थिते”—अक्षरं तत् परं ब्रह्म क्षरं सर्वमिदं- जगत् एकदेशस्थितस्याग्नेर्ज्योत्सना विस्तारिणी यथा परस्य ब्रह्म णश्शक्तिस्तयेदमखिलं जगत्”—'विष्णुशक्तिः पराप्रोक्ताक्षेत्रज्ञाख्या तथाऽपरा अविद्या कर्म संज्ञान्या तृतीया शक्तिरिष्यते”—यथा क्षेत्र ज्ञशक्तिस्सा वेष्टितानृप सर्वगा संसारतापानखिलान् अवाप्नोति अतिसंततान्”—तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता सर्वभूतेषु भूपाल तारतम्येन वर्तते”—प्रधानं चपुमांश्चैव सर्वभूतात्मभूतया विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ”—तयोस्सैव पृथग्भाव- कारणं संश्रस्य च यथासक्तं जलेवातो विभर्ति वाणिकाशतम्”— शक्तिस्साऽपि तथा विष्णोः प्रधानपुरुषात्मनः”—तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् आविर्भावतिरोभावजन्मनाश विकल्पवत्”। इत्यादिना परंब्रह्म स्वभावतएव निरस्तनिखिलदोषगंध समस्त कल्याण गुणात्मकं जगदुत्पत्तिस्थितिसंहारान्तः प्रवेशनियमनादि- लीलं प्रतिपाद्य कृत्स्नस्य चिदचिद्वस्तुनः सर्वावस्थावस्थितस्य परमार्थिकस्यैव परस्य ब्रह्मणः शरीरतया रूपत्वम् शरीररूपतन्वः शक्तिविभूत्यादिशब्दैः तत्तच्छब्द सामानाधिकरण्येन चाभिधाय तद्विभूतिभूतस्य चिद्वस्तुनः स्वरूपेणवस्थितिमन्मिश्रतया क्षेत्र ज्ञरूपेण स्थितिं चोक्त्वा क्षेत्रज्ञावस्थायां पुण्यपापात्मककर्मरूपा अविद्यावेष्टित्वेन स्वाभाविकज्ञानरूपत्वाननुसंधानमचिद्रूपार्था कारतयाऽनुसंधानं च प्रतिपादितमिति परंब्रह्म सविशेषम् तद्विभू तिभूतं जगदपि पारमार्थिकमेवेति ज्ञायते।

श्रीभाष्य (भगवद् रामानुजाचार्य - विशिष्टाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य सटीक) · पृष्ठ 182, कुल 696 में से · BharatKosha