श्री चैतन्य चरितामृत (कृष्णदास कविराज गोस्वामी - सम्पूर्ण आदि, मध्य एवं अन्त्य लीला)
Sri Chaitanya Charitamrita of Krishnadas Kaviraj with Hindi Commentary
श्रील कृष्णदास कविराज गोस्वामी द्वारा
पृष्ठ 307, कुल 2549 में से
संदर्भ में पढ़ें५/३६ ] भक्तिरसामृतसिन्धु (१/२/२७८)– यदरीणां प्रियाणान्च प्राप्यमेकमिवोदितम्। तद्ब्रह्मकृष्णयोरैक्यात् किरणाकर्कोपमा-जुषोः ॥ ३६ ॥ अनुवाद—अमृतप्रवाह भाष्य द्रष्टव्य है ॥ ३६ ॥ अमृतप्रवाह भाष्य—शास्त्रमें जहाँ-जहाँ भगवान्के शत्रु और प्रिय व्यक्तियोंकी एक जैसी गति प्राप्त होनेका उल्लेख है, वह सब किरण-स्थानीय ब्रह्म और सूर्य-स्थानीय श्रीकृष्णको एक मानकर कहा गया है। [भावार्थ यह है कि भगवत्-प्रिय व्यक्ति वैकुण्ठ-वैचित्र्यको और भगवत्-शत्रु विलासशून्य 'सिद्धलोक' को प्राप्त करते हैं] ॥ ३६ ॥ अनुभाष्य—यत् (यस्मिन् शास्त्रे) अरीणां (भगवद्विद्वेषिणां) प्रियनाञ्च (भगवद्भक्तानां) एकं प्राप्यम् उदितं (कथितं), तत् (तु) किरणाकर्कोपमाजुषोः ब्रह्मकृष्णयोः ऐक्यात् (अर्थात् किरणस्थानीय-निर्विरोधब्रह्मणः, अर्क स्थानीय-कृष्णस्य च तत्त्वतोऽभेदात्) [बोद्धव्यं इत्यर्थः]। श्लोक-भावानुवाद—अमृतप्रवाह भाष्य द्रष्टव्य है। श्रीमद्भागवत (१०/२/३२)– येऽन्येऽरविन्दाक्ष विमुक्तमानिनस्त्वय्यस्त-भावादविशुद्धबुद्धयः। आरुह्य कृच्छ्र “हे कमलनयन ! आपके भक्तोंके अतिरिक्त अन्य जो अपनेको विमुक्त कहकर अभिमान करते हैं और आपके प्रति भक्तिभावसे रहित होनेके कारण जिनकी बुद्धि भी शुद्ध नहीं है, वे शम, दम आदि कठिन साधनाके फलसे स्वयंको जीवन्मुक्त बोध करते हैं, परन्तु आश्रयस्वरूप आपके पादपद्मोंका अनादर करनेके कारण अधःपतित हो पड़ते हैं अर्थात् पुनः हीन अवस्थाको प्राप्त होते हैं।” श्रीरूप गोस्वामीकृत लघुभागवतामृतमें श्रीकृष्ण-महिमा वर्णन प्रसङ्ग (२५-३७) में— “तत्र मैत्रेयप्रश्नः, चतुर्थांशे (विष्णुपुराण ४/१५/१-१०)–“हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना। अवाप निहतो भोगान् अप्राप्यान् अमरैरपि ॥ नालभत् तत्र चैवेह सायुज्यं स कथं पुनः। सम्प्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥” श्रीपराशरोत्तरं–“दैत्येश्वरस्य वधायाखिललोकोत्पत्तिस्थितिविनाशकारिणा अपूर्वतनूग्रहणं कुर्वता नृसिंहरूपमाविष्कृतम्। तत्र हिरण्यकशिपोर्विष्णुरयमित्येतत् न मनस्यभूत्। निरतिशयपुण्यजात-समुद्भूतमेतत् सत्त्वमिति रजउद्रेक-प्रेरितैकाग्रमतिस्तद्भावनावियोगात् ततोऽवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्याधिक्यधारिणीं दशाननत्वे भोगसम्पदमवाप॥ नास्तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालम्बनीकृते मनसस्तल्लयम्। दशाननत्वेऽप्यनङ्गपराधीनतया जानकीसमासक्तचेतसो दाशरथिरूपधारिणस्तद्रूपदर्शनमेवासीत्। नायमच्युत इत्यासक्तिर्विपद्यतोऽन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत्। पुनरप्यच्युतविनिपातनमात्रफलमखिलभूमण्डल-श्लाघ्यं चेदिराजकुले जन्म अव्याहतञ्चैश्वर्यं शिशुपालत्वे चावाप॥ तत्र त्वखिलानामेव भगवन्नाम्नां कारणान्यभवन्। ततश्च तत्कारणकृतानां तेषामशेषाणामेवाच्युत-नाम्नामनवरतानेक- जन्म-सम्बन्धि-तद्विद्वेषानु-बन्धचित्तो विनिन्दन-सन्त-र्जनादिषूच्चारणमकरोत्। तच्च रूपमति-प्ररूढ़वैरानुभावादटन- भोजन-स्नानासन-शयनादिष्वशेषावस्थान्तरेषु नैवापययावस्यात्मचेतः॥ ततस्तमेवाक्रोशोषूच्चारयन् तमेव हृदयेनावधारयन्नात्मविनाशाय भगवदस्तचक्रांशुमालोज्ज्वलमकषतेजःस्वरूपं परमब्रह्मभूतमपगतद्वेषादिदोषो भगवन्तमद्राक्षीत्। तावच्च भगवच्चक्रेणाशुव्यापादि-तस्तत्स्मरणदग्धाखिलाघसंश्रयो भगवता तेनान्तमुपनीतस्तस्मिन्नेव लयममुपययौ॥ एतच्च तवाखिलं मयाभिहितम्। अयं हि भगवान् कीर्त्तितः संस्मृतश्च द्वेषानुबन्धेनाप्यखिलसुरासुरादिदुर्लभं फलं प्रयच्छति, किमुत सम्यग्भक्तिमताम्॥” इति। नोक्तं पराशरेणात्र स्थितौ तौ पार्षदविति। किन्तुभयोस्तयोरासीज्जन्मत्रयमितीरितम्॥ अतः सर्वेषु कल्पेषु न तौ पार्षदजौ मतौ। अन्यथा न तयोः पातः पाँचवाँ अध्याय | २६५