भारतकोश
श्री चैतन्य चरितामृत (कृष्णदास कविराज गोस्वामी - सम्पूर्ण आदि, मध्य एवं अन्त्य लीला)

श्री चैतन्य चरितामृत (कृष्णदास कविराज गोस्वामी - सम्पूर्ण आदि, मध्य एवं अन्त्य लीला)

Sri Chaitanya Charitamrita of Krishnadas Kaviraj with Hindi Commentary

श्रील कृष्णदास कविराज गोस्वामी द्वारा

DevanagariHindipublished2,549 पृष्ठ

पृष्ठ 317, कुल 2549 में से

संदर्भ में पढ़ें
पृष्ठ 317

विरुद्धार्थोऽभिधीयते॥ तथापि दोषा परेमे नैवाहार्याः कथञ्चन। गुणा विरुद्धा अप्येते समाहार्याः समन्ततः॥' इति। श्रीषष्ठस्कन्धे मिथो विरुद्धाचिन्त्यशक्तित्वं यथा गद्येषु (भाः ६/९/३४-३७)- 'दुरवबोध इवायं तव विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि हरसि पासि। अथ तत्रभवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददाति? आहोस्व्यादात्माराम उपशमशीलः समञ्जसदर्शन उदास्ते? इति ह वाव न विदामः॥ न हि विरोध उभयं भगवत्यपरिगणितगुणगणे ईश्वरे अनवगाह्यमाहात्म्येऽर्वाचीन-विकल्प-वितर्क-विचार-प्रमाणाभासकुतर्क-शास्त्रकलिलान्तः- करणाशय-दुरवग्रहवादिनां विवादानवसरे॥ उपरतसमस्तमायामये केवल एवात्ममायामन्तर्द्धाय को न्वर्थो दुर्घट इव भवति, स्वरूपद्वयाभावात् सम-विषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम्' ॥ इति। अत्र कारिकाः- 'विना शरीरचेष्टत्वं विना भूम्यादिसंश्रयम्। विना सहायांस्ते कर्माविक्रियस्य सुदुर्गमम्॥ उक्तो गुणविसर्गेण देवासुररणादिकः॥ तस्मिन् पतित आसक्त पारतन्त्र्यन्तु तद्भवैत्। यदाश्रितेषु देवेषु पारवश्यं कृपाकृतम्॥ तेन स्वकृतमात्मीयकृतं शुभशुभेतरत्। सुखदुःखादिरूपं किं फलं स्वीकुरुते भवान्। आत्मारामतया किंवा तत्रोदास्तेतरामिति। ना विद्मः किन्तु नैवेदं विरुद्धमुभयं त्वयि॥ तत्र हेतुर्भगवतीत्यादि प्रोक्तं पदद्वयम्। तथैवेश्वर-इत्यादिपदानां पञ्चकं मतम्॥ भगवत्त्वेन सार्वज्ञ्यं सद्गुणत्वं तथान्यतः। ब्रह्मत्वं केवलत्वेन लभ्यते तत्र च स्फुटम्॥ यद्यपि ब्रह्मतहेतोः सर्वत्र स्यात् तटस्थता। तथाप्यादिगुणद्वया भवेद्भक्तानुकूलता॥ नन्वेकस्य स्वरूपस्य द्वैरूप्यं कथमेकदा। तत्राह अर्वाचीनेति तद्दृशानां हि वादिनाम्। विवादस्यानवसरस्ते सस्य तावद्गोचरे॥ अतोऽचिन्त्यत्मशक्तिं तां मध्येकृत्यात्र दुर्घटः। को न्वर्थ स्याद् विरुद्धोऽपि तथैवास्या ह्यचिन्त्यता। सा च नानावरुद्धानां कार्याणामाश्रयान्मता॥ 'श्रुतेस्तु शब्दमूलत्वात्' इति च ब्रह्मसूत्रकृत्। 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्।' इति स्कान्दवचस्तच्च मण्यादिष्वपि दृश्यते॥ तादृशीञ्च विना शक्तिं न सिद्धेत् परमेशता। यतश्चानवगाह्यत्वेनास्य माहात्म्यमुच्यते॥ अज्ञानमिन्द्रजालं वा वीक्ष्यते यत्रकुत्रचित्। अतो न पारमैश्वर्यं तेन तस्य प्रसिद्ध्यति॥ तच्च न हीत्याह स्फुटञ्चोपरतेत्यदः॥ तथा भगवतीत्यादिपदानां षट्तयस्य च। भवेत् प्रयोगतात्पर्यमत्र निष्फलमेव हि॥ तस्मान्न शास्त्रयुक्तिभ्यामुभयं तद्विरुद्ध्यते। तथाप्युच्चावचधियामनेवंतत्त्व- वेदिनाम्। मतानुसारतो भासि रज्जुवत् त्वं तथा तथा॥ ननु भोः केवलं ज्ञानं ब्रह्म स्याद् भगवान् पुनः। नानाधर्मेति तत्रापि स्वरूपद्वयमीक्ष्यते॥ इति प्राह स्वरूपेति तत्स्वरूपस्य नैव हि। कदापि द्वैतमेकस्य धर्मद्वयमिदं ध्रुवम्॥ ततो विरोधस्तच्छक्तिविलासानां यदीक्ष्यते। तदेवाचिन्त्यमैश्वर्यं भूषणं न तु दूषणम्॥ इयमेव विरोधिकोक्तिस्तृतीयेऽपि च दृश्यते॥ (भाः ३/४/१६)- 'कर्माण्यनीहस्य भवोऽभवस्य ते, दुर्गाश्रयोऽथारिभयात् पलायनम्। कालात्मनो यत् प्रमदायुताश्रमः, स्वात्मन्रतेः खिद्यति धीर्विदामिह॥' इति। तत्तन्न वास्तवं चेत् स्यात् विदां बुद्धिभ्रमस्तदा। न स्यादेवेत्यचिन्त्यैव शक्तिलीलासु कारणम्॥ यथा यथा च तस्येच्छा सा व्यन क्ति तथा तथा॥" “यहाँपर यह आपत्ति हो सकती है कि महावराहपुराणमें ऐसा सुननेको मिलता है—'उन परमात्मा हरिके सब प्रकारके शरीर ही नित्य हैं और सभी शरीर ही जगत्में पुनः-पुनः आविर्भूत होते रहते है। ये सब शरीर हानोपादानशून्य हैं, इसलिये ये कभी भी प्रकृतिसे उत्पन्न नहीं हैं। सभी शरीर ही घनीभूत-परमानन्द, चिदेकरस-स्वरूप, सब प्रकारके चिन्मयगुणोंसे युक्त और सभी दोषोंसे मुक्त हैं।' और नारदपञ्चरात्रमें भी कहा गया है कि 'जिस प्रकार वैदूर्यमणि अलग-अलग स्थानपर नीला-पीला आदि अलग रङ्ग धारण करती है, उसी प्रकार भगवान् अच्युत भी उपासना भेदसे अपने स्वरूपको विभिन्न आकारोंमें प्रकाश करते रहते हैं।' इसलिये किस कारणसे उन सभी अवतारोंके तारतम्यकी व्याख्या कर रहे हैं? इस आशङ्काके उत्तरमें यही कहा जा सकता है—अचिन्त्य-अनन्तशक्तिके प्रभावसे उन एक ही पुरुषोत्तममें एकत्व और पृथक्त्व, अंशत्व और अंशित्व हो सकता है, उनके लिये कुछ भी असम्भव या असङ्गत