भारतकोश
श्री चैतन्य चरितामृत (कृष्णदास कविराज गोस्वामी - सम्पूर्ण आदि, मध्य एवं अन्त्य लीला)

श्री चैतन्य चरितामृत (कृष्णदास कविराज गोस्वामी - सम्पूर्ण आदि, मध्य एवं अन्त्य लीला)

Sri Chaitanya Charitamrita of Krishnadas Kaviraj with Hindi Commentary

श्रील कृष्णदास कविराज गोस्वामी द्वारा

DevanagariHindipublished2,549 पृष्ठ

पृष्ठ 378, कुल 2549 में से

संदर्भ में पढ़ें
पृष्ठ 378

[ ६/१४-१५ “रचनानुपपत्तेश्च नानुमानम्”॥ १॥ अनुमीयते जगद्धेतुतयेत्यनुमानं जडं प्रधानम्। तन्न जगदुपादानं, न च तन्निमित्तम्। कुतः?—रचनेति। विचित्रजगद्रचनायाश्चेतनानधिष्ठितेन जड़ेन तेनासिद्धेरित्यर्थः। न खलु चेतनानधिष्ठितैरिष्टकादिभिः प्रासादादिरचना सिद्धा लोके। च-शब्देनान्वयानुपपत्ति समुच्चिता। न हि बाह्य घटादयः सुखादिरूपतयान्विताः। सुखादीनामान्तरत्वात् घटादीनां सुखादिहेतुत्वात् तद्रूपत्वाप्रतीतेश्च॥ १॥ “प्रवृत्तेश्च”॥ २॥ जड़स्य चेतनाधिष्ठितत्वे सतीति शेषः। यस्मिन्नधिष्ठातरि सति जड़ं प्रवर्त्तते, तस्यैव सा प्रवृत्तिरिति निश्चितं रथसूतादौ। ईत्थञ्च फलतीत्यादिकं प्रत्युक्तम्। तत्रापि चेतनाधिष्ठितत्वात् तच्चान्तर्यामिब्राह्मणात्। एतत् परत्र स्फुटीभावि। चोऽवधारणे। अहं करोमीति चेतनस्यैव प्रवृत्तिदर्शनात् जड़स्य कर्तृत्वं नेति वा। ननु प्रकृति-पुरुषयोः सन्निधिमात्रेण मिथो धर्माध्यासात् जगद्-रचनोपपत्तिरिति चेदुच्यते, —अध्यासहेतुः सन्निधिः किं तयोः सद्भावः किंवा प्रकृतिपुरुषगतः कश्चिद्विकार इति? नाद्यः—मुक्तानामप्यध्यासप्रसङ्गात् अन्त्योऽपि न, -तावत् प्रकृति-गतो विकारः अध्यास-कार्यतयाभिमतस्य तस्याध्यासहेतुत्वायोगात्; न च पुरुषगतः, अस्वीकारात्॥ २॥ ननु पयो यथा दधिभावेन स्वतः परिणमते, यथा चाम्बु वारिदमुक्तमेकरसमपि तालचूतादिषु मधुराम्लादि- विचित्र-रसरूपेण, तथा प्रधानमपि पुरुषकर्मवैचित्र्यात् तनुभुवनादिरूपेणेति चेत् तत्राह, — “पयोऽम्बुवच्चेत् तत्रापि”॥ ३॥ तयोः पयोऽम्बुनोरपि चेतनाधिष्ठितयोरेव प्रवृत्तिः, न तु स्वतः रथादिदृष्टान्तेन तथानुमानात्। तयोस्तदधिष्ठितत्वं चान्तर्यामिब्राह्मणात् सिद्धम्॥ ३॥ “व्यतिरेकानवस्थितेश्चानपेक्षत्वात्”॥ ४॥ अप्यर्थे च-कारः। सृष्टेः प्राक् प्रधानव्यतिरेकेण हेत्वन्तरानवस्थितेरनपेक्षत्वान्न केवलस्य प्रधानस्य स्वपरिणामकर्त्तृत्वम्। प्रधानव्यतिरिक्तस्तत्प्रवर्त्तकस्तन्निवर्त्तको वा हेतुरादिसर्गात् पूर्वं नावतिष्ठते इति यत् स्वीकृतं, तस्यापि पुनरपेक्षणात्, —चैतन्यसन्निधेर्हेत्वन्तरस्याङ्गीकारादिति यावत्; तथा च केवलजड़ककर्तृत्ववादभङ्गः। किञ्च, व्यतिरिक्तहेत्वभावात् सन्निधिसत्त्वाच्च प्रलयेऽपि कार्योदयप्रसङ्गः। न च तदादृष्टोद्बोधाभावात् कार्याभावस्तदुद्बोधस्यापि तदैवापाद्यमानत्वात्॥ ४॥ ननु लतातृणपल्लवादि विनैव हेत्वन्तरं स्वभावादेव क्षीराकारेण परिणमते, तथा प्रधानमपि महदाद्याकारेणेति चेत्तत्राह— “अन्यत्राभावाच्च न तृणादिवत्”॥ ५॥ अवधृतौ च-शब्दः। नैतच्चतुरस्रम्। कुतः?— अन्यत्राभावात्। वलीबर्द्दादिभक्षिते तृणादिके क्षीराकारपरिणामाभावादित्यर्थः। यदि स्वभावादेव तृणादि क्षीरात्मना परिणमते, तर्हि चत्वरादिपतितेऽपि तथा स्यान्न चैवमस्त्यतो न स्वभावमात्रं हेतुः; किन्तु व्यक्तिविशेषसम्बन्धात् सर्वेशसङ्कल्प एव तथेति॥ ५॥ प्रधानस्य जाड्यात् स्वतःप्रवृत्तिर्न समस्तीत्यापादितम्। अथ त्वन्मुखोल्लासाय ताञ्चेदभ्युपगच्छामस्तथापि न किञ्चित्तवाभीष्टं सिद्ध्येदित्याह— “अभ्युपगमेष्वर्थाभावात्”॥ ६॥ चतुर्षु नेत्यनुवर्त्तते। पुरुषो मां भुक्त्वा मह्दोषाननुभूय मदौदसीन्यलक्षणं मोक्षं प्राप्स्यतीति तद्भोगापवर्गार्थं प्रधानप्रवृत्तिं मन्यते। प्रधानप्रवृत्ति परार्था, स्वतोऽप्यभोक्तृत्वादुष्ट्र मन्यते। अकर्त्तुरपि फलोपभोगोऽत्रादवदिति। सैषा प्रवृत्तिर्न युक्ता मन्तम्। कुतः?—तस्याः स्वीकारे फलाभावात्। पुरुषस्य प्रकृतिदर्शनरूपो भोगस्तदौदासीन्यरूपो मोक्षश्च प्रवृत्तेः फलम्। तत्र भोगस्तावन्न सम्भवति, प्रवृत्तेः प्राक् चैतन्यमात्रस्य निर्विकारस्याकर्त्तुः पुरुषस्य तद्दर्शनरूपविकारायोगात्। न चापवर्गः, प्रागपि प्रवृत्तेस्तस्य सिद्धत्वेन तद्वैयर्थ्यात्। सन्निधिमात्रस्य भोगहेतुत्वे तु मुक्तानामपि तदापत्तिः, तस्य नित्यत्वात्॥ ६॥ ३३६ | श्रीश्रीचैतन्यचरितामृत