श्री चैतन्य चरितामृत (कृष्णदास कविराज गोस्वामी - सम्पूर्ण आदि, मध्य एवं अन्त्य लीला)
Sri Chaitanya Charitamrita of Krishnadas Kaviraj with Hindi Commentary
श्रील कृष्णदास कविराज गोस्वामी द्वारा
पृष्ठ 384, कुल 2549 में से
संदर्भ में पढ़ें[ ६/१४-१५
सकतीं, उसी प्रकार अचेतन गुण भी चेतन-परमेश्वरकी शक्तिके अधिष्ठानके बिना कोई भी कार्य नहीं कर सकते। (द्वितीय अध्याय, प्रथम पाद) - “स्मृतिः खलु कर्मकाण्डोदितान्यग्निहोत्रादि-कर्माणि यथावत् स्वीकुर्वता 'ऋषिं प्रसूतं कपिलम्' इत्यादिश्रुताप्तभावेन परमर्षिणा कपिलेन मोक्षेप्सूना ज्ञानकाण्डार्थोपबृंहणाय प्रणीता। “अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थ”, “न दृष्टार्थात्सिद्धिनिर्वृत्तिदर्शनात्" इत्यादिभिस्तत्र ह्यचेतनं प्रधानमेव स्वतन्त्रं जगत्कारणामित्यादि निरूप्यते- “विमुक्तमोक्षर्थम्”, “स्वार्थं वा प्रधानस्य”, “अचेतनत्वेऽपि क्षीरवच्चेष्टितं प्रधानस्य”, इत्यादिभिः। स च ब्रह्मकारणतापरिग्रहे निर्विषया स्यात्, कृतस्नायास्तत्त्वप्रतिपत्तिमार्तविषयत्वात्। अतः परमाप्तकपिलस्मृत्यविरोधेन वेदान्ता व्याख्येयाः। न चैवं मन्वादिस्मृतीनां निर्विषयता- तासां धर्मप्रतिपादनद्वारा कर्मकाण्डोपबृंहणे सति सविषयत्वादित्येवं, प्राप्ते, ब्रूते- “स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्” ॥ १ ॥ अवकाशस्याभावोऽनवकाशः निर्विषयतेत्यर्थः । समन्वयानानुराधेन वेदान्तेषु व्याख्यातेषु सांख्यस्मृतिनिर्विषयता-दोषापत्तिरतः श्रुतिविपरीतार्थया ते व्याख्येया इति चेन्न। कुतः ?- अन्येत्याद्येः। तथा सत्यन्यासां मन्वादिस्मृतीनां वेदान्तानुसारिणीनां ब्रह्मैर-कारणतापराणां निर्विषयता महान् दोष प्रसज्येत । तासु हि सर्वेश्वरो जगदुत्पत्त्यादिहेतुः प्रतिपाद्यते, न तु कापिलोक्तप्रकारान्तरत्वसङ्गतिः। तत्र श्रीमन्मनुः- “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ ततः स्वयम्भुर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्बभौ ॥ सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु बीजमवासृजत् ॥ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः॥” इत्यादि। श्रीपराशरः - “विष्णोः सकाशादुद्भूतं जगतत्तै्रव च स्थितम्। स्थितिसंयम-कर्त्तासौ जगतोऽस्य जगच्च सः॥ यथोर्णनाभिहृदयादूर्णां सन्तत्य वक्त्ततः। तया विहृत्य भूयस्तां ग्रसत्येवं जनार्द्दनः ॥” इत्यादि। एवमन्येऽपि। न चासां स्मृतीनां कर्मकाण्डार्थोपबृंहणेन सावकाशता, ब्रह्मज्ञानोदयर्थिं चित्तशुद्धिमृद्दिश्य धर्मान् विदधतीनां तासां ज्ञानकाण्डार्थोपबृंहण एव वृत्तेः। चित्तशोधकता चैषां दृश्यते- “तमेतं वेदानुवचनेन” इत्यादौ-श्रुतौ। यत्तु तेषां वृष्टिपूत्रस्वर्गादि-फलकत्वं क्वापि क्वापि वीक्ष्यतेऽनुभाव्यते च, तदपि शास्त्रविश्रम्भोत्पादनेन तत्रैव च विश्रान्तं, “सर्वे वेदा यत्पदमामनन्ति" इत्यादेः, “नारायणपरावरवेदाः” इत्यादेश्च। न च सांख्यस्मृत्या वेदान्तार्थोपबृंहणं शक्यं कर्तुं, श्रुतिविरुद्धार्थ-प्रतिपादनात्। श्रुतिसंवादार्थस्पष्टीकरणं ह्युपबृंहणम्। न च तस्यामिदमस्ति। तस्मात्-श्रुतिविरुद्धा सांख्यस्मृतिः स्वकपोल-कल्पितानापेति न तद्व्यर्थतादोषाद् विभीमः । न चाप्तत्वव्यपाश्रयकल्पनया तत्स्मृतिपक्षपातो युक्तः, तत्त्वेन व्याख्यातानां बहूनां स्मृतिषु विभिन्नाथार्सु पक्षपाते सति वास्तवार्थानवस्थितिप्रसङ्गात्। स्मृत्योर्विप्रतिपत्तौ सत्यां श्रुतिव्यापाश्रयादन्यो निर्णयहेतुर्न भवेदतः श्रुत्यनुसारिण्येवादरणीयेति । स्मृतिबलेनाक्षेप्सून् स्मृतिबलेनैव निराकरिष्याम इत्यन्यस्मृत्यनवकाशात् दोषोपन्यासः। यत्तुः “ऋषिं प्रसूतं कपिलं यस्तमग्ने ज्ञानैर्विभर्त्ति" इति श्वेताश्वतरश्रुतेराप्तत्वं तस्येति, तन्न; तस्या अन्यपरत्वात्, श्रुत्यर्थ-वैपरीत्यवक्तृतया तदभावाच्च। मनोराप्तत्वं तु तैत्तिरीयाः पठन्ति- "यद्वै किञ्चन मनुरवदत्तद्भेषजम्” इति। श्रीपराशरो हि पुलस्त्यवशिष्ठप्रसादादेव देवतापरमार्थधियं प्रापेति स्मर्यते। वेदविरुद्धस्मृतिप्रवर्त्तकः कपिलो ह्यग्निवंशजो जीवविशेष एव मायया विमोहितः, न तु कर्द्दमोद्भूतो वासुदेवः। “कपिलो वासुदेवाख्यः सांख्यं तत्त्वं जगाद ह। ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ॥ तथैवासुरये सर्वं वेदार्थैरुपबृंहितम्। सर्ववेदविरुद्धञ्च कपिलोऽन्यो जगाद ह॥ सांख्यमासुरयेऽन्यस्मै कुतर्कपरिवृंहितम्' इति स्मरणात्। तस्माद्वेदविरुद्धतयानाप्तायाः सांख्यस्मृतेर्व्यर्थता न दोषः ॥ १ ॥ “इतरेषाञ्चानुपलब्धेः” ॥ २॥ इतरेषाञ्च सांख्यस्मृत्युक्तानामर्थानां वेदेऽनुपलम्भात्तस्याः नाप्तत्वम्। ते च विभवश्विन्मात्राः पुरुषास्तेषां बद्धमोक्षौ प्रकृतिरेव करोति। तौ पुनः प्राकृतादेव। सर्वेश्वरः पुरुषविशेषो नास्ति। कालस्तत्त्वं न भवति। प्राणादयः पञ्च करणवृत्तिरूपा भवन्तीत्येवमादयस्तस्यामेव द्रष्टव्याः ॥ २ ॥
३४२ | श्रीश्रीचैतन्यचरितामृत