भारतकोश
श्री चैतन्य चरितामृत (कृष्णदास कविराज गोस्वामी - सम्पूर्ण आदि, मध्य एवं अन्त्य लीला)

श्री चैतन्य चरितामृत (कृष्णदास कविराज गोस्वामी - सम्पूर्ण आदि, मध्य एवं अन्त्य लीला)

Sri Chaitanya Charitamrita of Krishnadas Kaviraj with Hindi Commentary

श्रील कृष्णदास कविराज गोस्वामी द्वारा

DevanagariHindipublished2,549 पृष्ठ

पृष्ठ 384, कुल 2549 में से

संदर्भ में पढ़ें
पृष्ठ 384

[ ६/१४-१५

सकतीं, उसी प्रकार अचेतन गुण भी चेतन-परमेश्वरकी शक्तिके अधिष्ठानके बिना कोई भी कार्य नहीं कर सकते। (द्वितीय अध्याय, प्रथम पाद) - “स्मृतिः खलु कर्मकाण्डोदितान्यग्निहोत्रादि-कर्माणि यथावत् स्वीकुर्वता 'ऋषिं प्रसूतं कपिलम्' इत्यादिश्रुताप्तभावेन परमर्षिणा कपिलेन मोक्षेप्सूना ज्ञानकाण्डार्थोपबृंहणाय प्रणीता। “अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थ”, “न दृष्टार्थात्सिद्धिनिर्वृत्तिदर्शनात्" इत्यादिभिस्तत्र ह्यचेतनं प्रधानमेव स्वतन्त्रं जगत्कारणामित्यादि निरूप्यते- “विमुक्तमोक्षर्थम्”, “स्वार्थं वा प्रधानस्य”, “अचेतनत्वेऽपि क्षीरवच्चेष्टितं प्रधानस्य”, इत्यादिभिः। स च ब्रह्मकारणतापरिग्रहे निर्विषया स्यात्, कृतस्नायास्तत्त्वप्रतिपत्तिमार्तविषयत्वात्। अतः परमाप्तकपिलस्मृत्यविरोधेन वेदान्ता व्याख्येयाः। न चैवं मन्वादिस्मृतीनां निर्विषयता- तासां धर्मप्रतिपादनद्वारा कर्मकाण्डोपबृंहणे सति सविषयत्वादित्येवं, प्राप्ते, ब्रूते- “स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्” ॥ १ ॥ अवकाशस्याभावोऽनवकाशः निर्विषयतेत्यर्थः । समन्वयानानुराधेन वेदान्तेषु व्याख्यातेषु सांख्यस्मृतिनिर्विषयता-दोषापत्तिरतः श्रुतिविपरीतार्थया ते व्याख्येया इति चेन्न। कुतः ?- अन्येत्याद्येः। तथा सत्यन्यासां मन्वादिस्मृतीनां वेदान्तानुसारिणीनां ब्रह्मैर-कारणतापराणां निर्विषयता महान् दोष प्रसज्येत । तासु हि सर्वेश्वरो जगदुत्पत्त्यादिहेतुः प्रतिपाद्यते, न तु कापिलोक्तप्रकारान्तरत्वसङ्गतिः। तत्र श्रीमन्मनुः- “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ ततः स्वयम्भुर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्बभौ ॥ सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु बीजमवासृजत् ॥ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः॥” इत्यादि। श्रीपराशरः - “विष्णोः सकाशादुद्भूतं जगतत्तै्रव च स्थितम्। स्थितिसंयम-कर्त्तासौ जगतोऽस्य जगच्च सः॥ यथोर्णनाभिहृदयादूर्णां सन्तत्य वक्त्ततः। तया विहृत्य भूयस्तां ग्रसत्येवं जनार्द्दनः ॥” इत्यादि। एवमन्येऽपि। न चासां स्मृतीनां कर्मकाण्डार्थोपबृंहणेन सावकाशता, ब्रह्मज्ञानोदयर्थिं चित्तशुद्धिमृद्दिश्य धर्मान् विदधतीनां तासां ज्ञानकाण्डार्थोपबृंहण एव वृत्तेः। चित्तशोधकता चैषां दृश्यते- “तमेतं वेदानुवचनेन” इत्यादौ-श्रुतौ। यत्तु तेषां वृष्टिपूत्रस्वर्गादि-फलकत्वं क्वापि क्वापि वीक्ष्यतेऽनुभाव्यते च, तदपि शास्त्रविश्रम्भोत्पादनेन तत्रैव च विश्रान्तं, “सर्वे वेदा यत्पदमामनन्ति" इत्यादेः, “नारायणपरावरवेदाः” इत्यादेश्च। न च सांख्यस्मृत्या वेदान्तार्थोपबृंहणं शक्यं कर्तुं, श्रुतिविरुद्धार्थ-प्रतिपादनात्। श्रुतिसंवादार्थस्पष्टीकरणं ह्युपबृंहणम्। न च तस्यामिदमस्ति। तस्मात्-श्रुतिविरुद्धा सांख्यस्मृतिः स्वकपोल-कल्पितानापेति न तद्व्यर्थतादोषाद् विभीमः । न चाप्तत्वव्यपाश्रयकल्पनया तत्स्मृतिपक्षपातो युक्तः, तत्त्वेन व्याख्यातानां बहूनां स्मृतिषु विभिन्नाथार्सु पक्षपाते सति वास्तवार्थानवस्थितिप्रसङ्गात्। स्मृत्योर्विप्रतिपत्तौ सत्यां श्रुतिव्यापाश्रयादन्यो निर्णयहेतुर्न भवेदतः श्रुत्यनुसारिण्येवादरणीयेति । स्मृतिबलेनाक्षेप्सून् स्मृतिबलेनैव निराकरिष्याम इत्यन्यस्मृत्यनवकाशात् दोषोपन्यासः। यत्तुः “ऋषिं प्रसूतं कपिलं यस्तमग्ने ज्ञानैर्विभर्त्ति" इति श्वेताश्वतरश्रुतेराप्तत्वं तस्येति, तन्न; तस्या अन्यपरत्वात्, श्रुत्यर्थ-वैपरीत्यवक्तृतया तदभावाच्च। मनोराप्तत्वं तु तैत्तिरीयाः पठन्ति- "यद्वै किञ्चन मनुरवदत्तद्भेषजम्” इति। श्रीपराशरो हि पुलस्त्यवशिष्ठप्रसादादेव देवतापरमार्थधियं प्रापेति स्मर्यते। वेदविरुद्धस्मृतिप्रवर्त्तकः कपिलो ह्यग्निवंशजो जीवविशेष एव मायया विमोहितः, न तु कर्द्दमोद्भूतो वासुदेवः। “कपिलो वासुदेवाख्यः सांख्यं तत्त्वं जगाद ह। ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ॥ तथैवासुरये सर्वं वेदार्थैरुपबृंहितम्। सर्ववेदविरुद्धञ्च कपिलोऽन्यो जगाद ह॥ सांख्यमासुरयेऽन्यस्मै कुतर्कपरिवृंहितम्' इति स्मरणात्। तस्माद्वेदविरुद्धतयानाप्तायाः सांख्यस्मृतेर्व्यर्थता न दोषः ॥ १ ॥ “इतरेषाञ्चानुपलब्धेः” ॥ २॥ इतरेषाञ्च सांख्यस्मृत्युक्तानामर्थानां वेदेऽनुपलम्भात्तस्याः नाप्तत्वम्। ते च विभवश्विन्मात्राः पुरुषास्तेषां बद्धमोक्षौ प्रकृतिरेव करोति। तौ पुनः प्राकृतादेव। सर्वेश्वरः पुरुषविशेषो नास्ति। कालस्तत्त्वं न भवति। प्राणादयः पञ्च करणवृत्तिरूपा भवन्तीत्येवमादयस्तस्यामेव द्रष्टव्याः ॥ २ ॥

३४२ | श्रीश्रीचैतन्यचरितामृत