सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 102, कुल 516 में से
संदर्भ में पढ़ेंसत्संगतिप्रशंसा, असत्संगतिनिन्दा | ८७
| सत्संगतिप्रशंसा | सत्संगतिप्रशंसा |
|---|---|
| याति प्रवीणताम् ॥ १२ ॥ यथोदेयगिरौ द्रव्यं ^२संनिकर्षेण दीप्यते । तथा सत्संनिधानेन हीनवर्णोऽपि ^३दीप्यते ॥ १३ ॥ भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्पन्दं विदधाति सदागमः ॥ १४ ॥ यदि सत्संगनिरतो भविष्यसि भविष्यसि । अथ दुर्जनसंसर्गे पतिष्यसि पतिष्यसि ॥ १५ ॥ अलब्ध्वापि धनं राज्ञः सन्निता यान्ति सपदम् । महाहृदसमीपस्थं पश्य नीलं वनस्पतिम् ॥ १६ ॥ सङ्गः सर्वत्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ १७ ॥ क्षुद्रोऽपि तनुते तात तेजस्तेजस्विस्सङ्गतः । अर्कसपर्कतः पश्य दर्पणे दहनद्युतिम् ॥ १८ ॥ बृहतसहाय. कार्यान्तं क्षोदीयानपि गच्छति । सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १९ ॥ सज्जनसङ्गो मा भूद्यदि सङ्गो मास्तु तत्पुनः स्नेहः । स्नेहो यदि मा विरहो यदि विरहो मास्तु जीवितस्याशा ॥ २० ॥ वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ २१ ॥ गुरुरपि लघूपनीतो न निमज्जति नियतमँशाये निहितः । वानरकरोपनीतः शैलो मकरालयस्येव ॥ २२ ॥ ^५गैवाशनाना स शृणोति वाक्यमहं हि राजन्वचनं मुनीनाम् । न चास्य दोषो न च मद्गुणो वा संसर्गजा दोषगुणा भवन्ति ॥ २३ ॥ ^६कल्पद्रुमः कल्पितमेव सूते सा ^७कामधुक्कामितमेव दोग्धि । चिन्तामणिश्चिन्तितमेव दत्ते सता हि सङ्गः सकलं प्रसूते ॥ २४ ॥ असज्जनः सज्जनसङ्गिसङ्गात्करोति दुःसाध्यमपीह साध्यम् । पुष्पाश्रयाच्छंभुशिरोऽधिरूढा पिपीलिका चुम्बति चन्द्रबिम्बम् ॥ २५ ॥ शाखोटकैश्चन्दनसंगतोऽपि वक्षोजयोः क्रीडितमायताक्ष्याः । पयोऽपि मद्यं श्वपचे हि मन्यते संसर्गजा दोषगुणा भवन्ति ॥ २६ ॥ सत्सङ्गाद्भवति हि साधुता खलानां साधूनां नहि खलसंगमात्खलत्वम् । ^८आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥ २७ ॥ कि वापरेण बहुना परिजल्पितेन संसर्ग एव महता महते फलाय । अम्भोनिधेस्तटरुहास्तरवोऽपि येन वेलाजलोच्छलितरत्नकृतालवालाः ॥ २८ ॥ ^९जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं ^१०दिशति ^११पापमपाकरोति । चेतः प्रसादयति दिक्षु ^१२तैनोति कीर्तिं सत्संगतिः कथय किं न करोति पुंसाम् ॥ २९ ॥ | दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरंतनमघं चुलुकीकरोति । भूतेषु किं च करुणा बहुलीकरोति सङ्गः सता किमु न मङ्गलमातनोति ॥ ३० ॥ कान्तारभूमिरुहमौलिनिवासशीलाः प्रायः पलायनपरा जनवीक्षणेन । कूजन्ति तेऽपि हि शुकाः खलु रामनाम सङ्ग. स्वभावपरिवर्तविधौ निदानम् ॥ ३१ ॥ ^१ऐके केचिद्यतिकरगता. पात्रसंज्ञा लभन्ते गायन्त्यन्ये सरसमधुर वीणया संप्रयुक्ताः । एके तेषा सहजगतिवशादुत्तर तारयन्ति केचिन्तेषा ज्वलितहृदया रक्तमेवापिबन्ति ॥ ३२ ॥ सँतेसायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्या सागरशुक्तिसंपुटगत तज्जायते मौक्तिकं प्रायेणाधममध्यमोत्तमगुणः संसर्गंतो जायते ॥ ३३ ॥ गङ्गेवाघविनाशिनी जनमनःसंतोषसचन्द्रिका तीक्ष्णांशोरपि सत्वमेव जगदज्ञानान्यकारपहा । छायेवाखिलतापनाशनकरी स्सर्धेनुवत्कामदा पुण्यैरेव हि लभ्यते सुकृतिभिः सत्संगतिर्दुर्लभा ॥ ३४ ॥ कीर्तिर्नृत्यति नर्तकीव भुवने विद्योतते साधुता ज्योत्स्नेव प्रतिभा सभासु सरसा गङ्गेव संमीलति । चित्तं रञ्जयति प्रियेव सतत संपत्प्रसादोचिता संगत्या न भवत्सता किल भवेत्किं किं न लोकोत्तरम् ॥ ३५ ॥ बुद्धिं वर्धयति श्रियं वितनुते वैदग्ध्यमामुञ्चति श्रेयः पल्लवयत्यघानि दलयत्युन्मीलयत्युन्नतिम् । विज्ञान परिशोधयत्युपचिनोत्युच्चैः कलाकौशलं किं किं नारभते हरेरिव कथाऽऽश्चर्ये सतां संगतुम् ॥ ३६ ॥ |
असत्संगतिनिन्दा
अहो दुर्जनसंसर्गान्मानहानिः पदे पदे । पावको ^२लोहसङ्गेन मुद्गरैरभिहन्यते ॥ १ ॥ अन्तर्मलिनसंसर्गाच्छुत्वानपि दुष्यति । यक्ष्क्षुःसंनिकर्षेण कर्णोऽभूत्कुटिलाश्रयः ॥ २ ॥ दुष्टा दुष्टसंसर्गाददुष्टमपि गच्छति । सुराविन्दुनिपातेन पञ्चगव्यघटी यथा ॥ ३ ॥ अणुरप्यसता सङ्गः सद्गुणं हन्ति विस्तृतम् । गुणरूपान्तरं याति तक्रयोगाद्यथा पयः ॥ ४ ॥ दुर्बुत्तः क्रियते धूर्तैः श्रीमानात्मविवृद्धये । किं नाम खलसंसर्गः कुरुते नाशयाशवत् ॥ ५ ॥ ^३आनन्दमृगदावाग्निः ^४शीलशाखिमदद्विपः । ^५ज्ञानदीपमहावायुरयं खलसमागमः ॥ ६ ॥ असत्सङ्गाद्दृणज्ञोऽपि विषयांसक्तमानसः । अकस्मात्प्रलयं याति गीतरक्तो यथा मृगः ॥ ७ ॥ आहृत्य
पादटिप्पणी (Footnotes)
[वाम भाग] १ उदयपर्वते. २ सूर्यसंनिधानेन. ३ प्रकाशितो भवति ४ अन्तःकरणे, पक्षे,-मध्ये ५ यवनानाम् यवनगृहस्थित सहोदरं शुकमुद्दिश्य मुनिगृहस्थितस्य शुकस्योक्तिरियम् ६ कल्पवृक्ष ७ कामधेनु. ८ सुगन्धम्. ९ मान्धम्. १० ददाति. ११ निराकरोति. १२ विस्तारयति.
[दक्षिण भाग] १ तुम्बील्यथं २ लोहे ३ आनन्द एव मृगस्तस्य दावाग्निरिव दाहकत्वात् ४ शीलमेव शाखी वृक्षस्तस्य मदद्विप इव उन्मूलकत्वात्. ५ ज्ञानमेव दीपस्तस्य महावात इन्न, निर्वाणकरणत्वात्