सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 103, कुल 516 में से
संदर्भ में पढ़ें| ८८ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
रक्ष्यमाणापि यत्नेनान्तर्विरागिणी । असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ॥ ८ ॥ पात्रं^१मपात्रीकुरुते दहति गुणं^२ स्नेहं^३माशु नाशयति । अमले मलं^४ निचच्छति दीपज्वालेव खलमैत्री ॥ ९ ॥ दुर्जनजनसंसर्गात्सज्जनपुरुषोऽत्र दोषमायाति । रावणकृतापराधाज्जलधेरपि बन्धनं प्राप्तम् ॥ १० ॥ संगतिं स्वविपरीतगुणैस्त्वं मा कृथाः खलु सखे समयेडस्मिन् । पश्य पूर्वमपि कृष्णरूपतामर्जुनोऽपि^५ समवाप निश्चितम् ॥ ११ ॥ दुर्वृत्तसंगतिरनर्थपरम्पराया हेतुः सतां भवति किं वचनीयमत्र । लङ्केश्वरो हरति दाशरथेः कलत्रं प्राप्नोति बन्धनमसौ किल सिन्धुराजः ॥ १२ ॥ हंसोऽध्वगः श्रममपोहयितुं दिनान्ते कारण्डकाकबककोककुलं प्रविष्टः । मूकोऽयमित्युपहसन्ति लुनन्ति पक्षान्नौचाश्रयो हि महतामपमानहेतुः ॥ १३ ॥
स्नेहवचनम्
सखि साहजिकं प्रेम दूरादपि विराजते । चकोरीनयनद्वन्द्वमानन्दयति चन्द्रमाः ॥ १ ॥ केन्दोर्मण्डलमम्बुधिः क्व च रविः पद्माकरः क्व स्थितः काश्राः सन्ति मयूरपङ्क्तिरमलो कालि. क्व वा मालती । हंसानां च कुलं क्व दूरविषये क्रास्ते सरो मानसं यो यस्याभिमतः स तस्स निकटे दूरेऽपि सन्वल्लभः ॥ २ ॥
सुमित्रप्रशंसा
कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी । अविचार्य प्रियं कुर्यात्तन्मित्रं मित्रमुच्यते ॥ १ ॥ यस्य मित्रेण संभाषा^६ यस्य मित्रेण संस्थितिः । मित्रेण सह यो भुङ्क्ते ततो^७ नास्तीह पुण्यवान् ॥ २ ॥ शुचित्वं^८ त्यागिता^९ शौर्यं सामान्यं^१० सुखदुःखयोः । दाक्षिण्यं^११ चानुरक्तिश्च^१२ सत्यता च सुहृद्गुणाः ॥ ३ ॥ अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः । प्रवर्त्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ ४ ॥ उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ५ ॥ स बन्धुर्यो विपन्नानामापदुद्धरणे क्षमः । नतु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ ६ ॥ औरसं कृतसंबन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ ७ ॥ याचते कार्यकाले यः स किं भृत्यः स किं सुहृत् । अकार्यकार्यकर्ता यस्त्वनादिष्टोऽप्यसौ सुहृत् ॥ ८ ॥ तदेवास्य परं मित्रं यत्र संक्रामति द्वयम् । दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ ९ ॥ व्याधितस्यार्थहीनस्य देशान्तरगतस्य च । नरस्य शोकदिग्धस्य सुहृद्दर्शनमौषधम् ॥ १० ॥ दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा । यत्र द्रव्यन्तरङ्गं स स्नेह इति कथ्यते ॥ ११ ॥ स्वाभाविकं तु यन्मित्रं भाग्यनैवाभिजायते । तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ १२ ॥ न मातरि न दारेषु न सोदर्ये न चात्मनि । विश्वासस्तादृशः पुंसां याहग्विचे स्वभावजे ॥ १३ ॥ शोकाराति^२ भयत्राणं प्रीतिविश्रम्भभाजनम्^३ । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १४ ॥ उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावयन्समुद्धीनां फलं सुहृदनुग्रहम्^४ ॥ १५ ॥ नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् । कार्यसिद्धिपथः सूक्ष्मः स्नेहेनाप्युपलभ्यते ॥ १६ ॥ प्राणैरपि हिता वृत्तिरद्रोहो व्याजवर्जनम् । आत्मनीव प्रियाधानमेतन्मैत्रीमहाव्रतम् ॥ १७ ॥ पापान्निवारयति योजयते हिताय गुह्यानि गूहति गुणान्प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १८ ॥ मित्रं प्रीतिरसायनं^५ नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तदुर्लभम् । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥ १९ ॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ^६ हुतः । गन्तुं पावकमुन्मनस्तदमवद्दृष्ट्वा तु मित्रापदं^७ युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ २० ॥
कुमित्रनिन्दा
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १ ॥ रहस्यभेदो^८ याच्ञा^९ च नैष्ठुर्यं चलचित्तता । क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ २ ॥
संसारः
संसार तव निःसार पदवी^१० न दवीयसी^११ । अन्तरा^१२ दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ १ ॥ संसारविषवृक्षस्य द्वे फले अमृतोपमे । काव्यामृतरसास्वाद आलापः सज्जनैः
पादटिप्पण्यः (Footnotes):
| वामभागः | दक्षिणभागः |
|---|---|
| १ अयोग्यम् | १ अकपटमित्रता |
| २ सूत्रम्, पक्षे,-विनयादि | २ शत्रु |
| ३ तैलम्, पक्षे,-प्रीति | ३ विश्वास |
| ४ मषीम्, पक्षे,-दोषम् | ४ सुहृत्स्वनुग्रहः प्रसादस्तम् |
| ५ मध्यमपाण्डव, पक्षे,-शुक्लवर्ण | ५ प्रीतेः रसायनमिव रसायनम् प्रीतिवर्धकमित्यर्थः |
| ६ मिथो भाषणम् | ६ अग्नौ |
| ७ तस्मात्पुरुषात् | ७ मित्रविपत्तिम् |
| ८ निर्मलचित्तत्वम् | ८ गुप्तप्रकाशनम् |
| ९ दानशीलत्वम् | ९ प्रार्थनम् |
| १० समानस्य भावः सामान्यम्, समत्वमित्यर्थः | १० मार्ग |
| ११ सरलत्वम् | ११ अतिदूरा |
| १२ प्रीति | १२ मध्ये |