सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
| ८८ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
रक्ष्यमाणापि यत्नेनान्तर्विरागिणी । असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ॥ ८ ॥ पात्रं^१मपात्रीकुरुते दहति गुणं^२ स्नेहं^३माशु नाशयति । अमले मलं^४ निचच्छति दीपज्वालेव खलमैत्री ॥ ९ ॥ दुर्जनजनसंसर्गात्सज्जनपुरुषोऽत्र दोषमायाति । रावणकृतापराधाज्जलधेरपि बन्धनं प्राप्तम् ॥ १० ॥ संगतिं स्वविपरीतगुणैस्त्वं मा कृथाः खलु सखे समयेडस्मिन् । पश्य पूर्वमपि कृष्णरूपतामर्जुनोऽपि^५ समवाप निश्चितम् ॥ ११ ॥ दुर्वृत्तसंगतिरनर्थपरम्पराया हेतुः सतां भवति किं वचनीयमत्र । लङ्केश्वरो हरति दाशरथेः कलत्रं प्राप्नोति बन्धनमसौ किल सिन्धुराजः ॥ १२ ॥ हंसोऽध्वगः श्रममपोहयितुं दिनान्ते कारण्डकाकबककोककुलं प्रविष्टः । मूकोऽयमित्युपहसन्ति लुनन्ति पक्षान्नौचाश्रयो हि महतामपमानहेतुः ॥ १३ ॥
स्नेहवचनम्
सखि साहजिकं प्रेम दूरादपि विराजते । चकोरीनयनद्वन्द्वमानन्दयति चन्द्रमाः ॥ १ ॥ केन्दोर्मण्डलमम्बुधिः क्व च रविः पद्माकरः क्व स्थितः काश्राः सन्ति मयूरपङ्क्तिरमलो कालि. क्व वा मालती । हंसानां च कुलं क्व दूरविषये क्रास्ते सरो मानसं यो यस्याभिमतः स तस्स निकटे दूरेऽपि सन्वल्लभः ॥ २ ॥
सुमित्रप्रशंसा
कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी । अविचार्य प्रियं कुर्यात्तन्मित्रं मित्रमुच्यते ॥ १ ॥ यस्य मित्रेण संभाषा^६ यस्य मित्रेण संस्थितिः । मित्रेण सह यो भुङ्क्ते ततो^७ नास्तीह पुण्यवान् ॥ २ ॥ शुचित्वं^८ त्यागिता^९ शौर्यं सामान्यं^१० सुखदुःखयोः । दाक्षिण्यं^११ चानुरक्तिश्च^१२ सत्यता च सुहृद्गुणाः ॥ ३ ॥ अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः । प्रवर्त्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ ४ ॥ उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ५ ॥ स बन्धुर्यो विपन्नानामापदुद्धरणे क्षमः । नतु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ ६ ॥ औरसं कृतसंबन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ ७ ॥ याचते कार्यकाले यः स किं भृत्यः स किं सुहृत् । अकार्यकार्यकर्ता यस्त्वनादिष्टोऽप्यसौ सुहृत् ॥ ८ ॥ तदेवास्य परं मित्रं यत्र संक्रामति द्वयम् । दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ ९ ॥ व्याधितस्यार्थहीनस्य देशान्तरगतस्य च । नरस्य शोकदिग्धस्य सुहृद्दर्शनमौषधम् ॥ १० ॥ दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा । यत्र द्रव्यन्तरङ्गं स स्नेह इति कथ्यते ॥ ११ ॥ स्वाभाविकं तु यन्मित्रं भाग्यनैवाभिजायते । तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ १२ ॥ न मातरि न दारेषु न सोदर्ये न चात्मनि । विश्वासस्तादृशः पुंसां याहग्विचे स्वभावजे ॥ १३ ॥ शोकाराति^२ भयत्राणं प्रीतिविश्रम्भभाजनम्^३ । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १४ ॥ उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावयन्समुद्धीनां फलं सुहृदनुग्रहम्^४ ॥ १५ ॥ नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् । कार्यसिद्धिपथः सूक्ष्मः स्नेहेनाप्युपलभ्यते ॥ १६ ॥ प्राणैरपि हिता वृत्तिरद्रोहो व्याजवर्जनम् । आत्मनीव प्रियाधानमेतन्मैत्रीमहाव्रतम् ॥ १७ ॥ पापान्निवारयति योजयते हिताय गुह्यानि गूहति गुणान्प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १८ ॥ मित्रं प्रीतिरसायनं^५ नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तदुर्लभम् । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥ १९ ॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ^६ हुतः । गन्तुं पावकमुन्मनस्तदमवद्दृष्ट्वा तु मित्रापदं^७ युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ २० ॥
कुमित्रनिन्दा
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १ ॥ रहस्यभेदो^८ याच्ञा^९ च नैष्ठुर्यं चलचित्तता । क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ २ ॥
संसारः
संसार तव निःसार पदवी^१० न दवीयसी^११ । अन्तरा^१२ दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ १ ॥ संसारविषवृक्षस्य द्वे फले अमृतोपमे । काव्यामृतरसास्वाद आलापः सज्जनैः
पादटिप्पण्यः (Footnotes):
| वामभागः | दक्षिणभागः |
|---|---|
| १ अयोग्यम् | १ अकपटमित्रता |
| २ सूत्रम्, पक्षे,-विनयादि | २ शत्रु |
| ३ तैलम्, पक्षे,-प्रीति | ३ विश्वास |
| ४ मषीम्, पक्षे,-दोषम् | ४ सुहृत्स्वनुग्रहः प्रसादस्तम् |
| ५ मध्यमपाण्डव, पक्षे,-शुक्लवर्ण | ५ प्रीतेः रसायनमिव रसायनम् प्रीतिवर्धकमित्यर्थः |
| ६ मिथो भाषणम् | ६ अग्नौ |
| ७ तस्मात्पुरुषात् | ७ मित्रविपत्तिम् |
| ८ निर्मलचित्तत्वम् | ८ गुप्तप्रकाशनम् |
| ९ दानशीलत्वम् | ९ प्रार्थनम् |
| १० समानस्य भावः सामान्यम्, समत्वमित्यर्थः | १० मार्ग |
| ११ सरलत्वम् | ११ अतिदूरा |
| १२ प्रीति | १२ मध्ये |
संसारः, गृहस्थाश्रमप्रशंसा, गृहस्थाश्रमदूषणम्, पुत्रप्रशंसा ८९
| [संसारः / गृहस्थाश्रमप्रशंसा / गृहस्थाश्रमदूषणम्] | [गृहस्थाश्रमदूषणम् / पुत्रप्रशंसा] |
|---|---|
| सह ॥ २ ॥ दुःखाङ्गारकतीव्रः संसारोऽयं मैहानसो गहनः । इह विषयामृतलालस मानसमार्जार मा निपत ॥ ३ ॥ अयमविचारितचारुतया संसारो भाति रमणीयः । अत्र पुनः परमार्थदृशा न किमपि सारमणीयः ॥ ४ ॥ क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकहलः क्वचिद्वीणावाद क्वचिदपि च हाहेति रुदितम् । क्वचिद्रम्या रामा क्वचिदपि जराजर्जरतनुर्न जाने संसारः किममृतमयः किं विषममयः ॥ ५ ॥ कृच्छ्रेणो-मेध्यमध्ये नियॅमिततनुभिः स्थीयते गर्भंगर्ते कान्ताविश्लेष-दुःखव्यतिकरविषमे यौवने विप्रयोगः । नारीणामप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्तोकमप्यस्ति किंचित् ॥ ६ ॥ | यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ॥ १ ॥ न विप्रपादोदकपङ्किलानि न वेदशास्त्रध्वनिगर्जि-तानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥ २ ॥ क्रोशन्तः शिशवः सेवारि सदनं पङ्कावृतं चाङ्गणं शय्या दंशवती च रूक्षमशनं धूमेन पूर्णे गृहम् । भार्या निष्ठुरैभाषिणी प्रभुरपि क्रोधेन पूर्णः सदा स्नानं शीतलवारिणा हि सततं धिग्धिग्गृहस्थाश्रमम् ॥ ३ ॥ तावद्विद्याऽनवद्या गुणगणमहिमा रूपसंपत्तिगौर्यै स्वस्थाने सर्वशोभा परगुणकथने वाक्यदुस्तावदेव । यावत्पाकाकुलाभिः स्वगृहयुवतिभिः प्रेषितापत्यवक्त्राद्वे बौबा नास्ति तैलं न च लवणमपीत्यादिवाचा प्रचारः ॥ ४ ॥ |
| ### गृहस्थाश्रमप्रशंसा | ### पुत्रप्रशंसा |
| न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । शास्त्रवित्स-त्यवादी च गृहस्थोऽपि विमुच्यते ॥ १ ॥ यदि राँमा यदि च रँमा यदि तनयो विनयधीगुणोपेतः । तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥ २ ॥ सविप्रैपादोदककर्दमानि सवेदशास्त्राध्वनिगर्जितानि । स्वाहास्वधाकारनिरन्तराणि स्वानन्दतुल्यानि गृहाणि तानि ॥ ३ ॥ सानन्दं सँदनं सुताश्च सुधियः कान्ता न दुर्भाषिणी सन्मित्रं सुधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः । आतिथ्यं शिवपूजनं प्रतिदिनं मृष्टान्नपानं गृहे साधोः सङ्गमुपासते हि सततं धन्यो गृह-स्थाश्रमः ॥ ४ ॥ मानुष्यं वॅर्रवंशजन्म विभवो दीर्घापुरा-रोग्यता सन्मित्रं सुसुतः सती प्रियतमा भक्तिश्च नारायणे । विद्वत्त्वं सुजनत्वमिन्द्रियजयः सत्यात्रदाने रतिस्ते पुण्येन विना त्रयोदश गुणाः संसारिणां दुर्लभाः ॥ ५ ॥ वंशो विश्वावतंसो जनुरनुपहतं स्वान्तमौज्ज्यकान्तं लीला शीला-नुकूला क्षपितकलिमला कापि विद्यौँनवद्या । वाणी वेणी गुणाना समधिकयशसा साँधिका साधिका श्रीः श्रीमन्मँद्री-मयूरीसुदिर पुरहर त्वत्कृपाया विपॉकेः ॥ ६ ॥ | इदं तत्स्नेहसर्वस्वं सममाब्द्यदरिद्रयोः । अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ १ ॥ गृहे जॊनुचरः केल्या मुग्धस्मित-मुखाम्बुजः । पुत्रः पुण्यवतामेव पात्रीभवति नेत्रयोः ॥ २ ॥ स्वगर्भशुक्तिनिर्मिञ्चं सुवृत्तं सुतमौक्तिकम् । वंशश्रीमितलकी-भूतं मन्दभाग्यस्य दुर्लभम् ॥ ३ ॥ वर्धते न चिर लोकं वशलक्षीरसंततिः । स्वल्पावशेषितस्नेहवर्तिमालेव दीपिकI ॥ ४ ॥ अन्तःकरणतत्त्वस्य दंपत्यो स्नेहसंश्रयात् । आन-न्दग्रन्थिरैकोऽयमपत्यमिति कथ्यते ॥ ५ ॥ दिग्वॉससं गत-व्रीडं जटिलं धूलिधूसरम् । पुण्याधिका हि पश्यन्ति गङ्गा-धरमिवात्मजम् ॥ ६ ॥ धूलिधूसरस्र्वाङ्गो विकसितदन्तकेसरः । आस्ते कस्यापि धन्यस्य द्वारि दन्ती गृहेऽर्भकः ॥ ७ ॥ निन्दते पितृभिस्तैस्तैर्निरपत्यधनः पुमान् । अैध्वनीनैरति-श्रान्तैरैवॆकेशीव पादपः ॥ ८ ॥ किं मृष्टं सुतवचनं मृष्टतरं किं तदेव सुतवचनम् । मृष्टान्मृष्टतमं किं श्रुतिपरिपकं तदेव सुतवचनम् ॥ ९ ॥ उरोरुहादुद्गमितैः पयोभिारापूर्य केत्या निजमास्यगर्भम् । फूत्कृत्य मातुर्वदने हसन्त तनू-भवं पश्यति कोऽपि धन्यः ॥ १० ॥ कृतचङ्क्रमणं गणेषु किचित्क्वणत्किंकिणिरुङ्घद्विपद्मम् । यदि सन्महितं सुतं श्रितं स्यात्तदिदं सद्य हृतं भवेत्तदानीम् ॥ ११ ॥ अहँ किमेम्बा किमेँभीष्टपदे तवेति मातुर्घुरि तातपृच्छया । प्रैलोभ्यतुल्यं प्रवदन्तमर्भकं मुदा हँसेजिघ्रति मूर्ध्नि पुण्य-भाक् ॥ १२ ॥ आलख्यदन्तसुकुलाननिमित्तहासैरव्यक्त- |
| ### गृहस्थाश्रमदूषणम् | |
| यत्र नास्ति दधिमन्थनघोषो यत्र नो लघुलघूनि शिशूनि । |
पादटिप्पणी (Footnotes)
[वामभागस्थ-टिप्पण्यः]
१ पाकगृहम् २ अशुचिमलादि तन्मध्ये. ३ जरायुणा बद्धशरीरै ४ गर्भाशये ५ अवमान ६ अल्पम् ७ न्यायेन संपादित धन येन ८ मुक्तो भवति ९ स्त्री १० लक्ष्मी . ११ ब्राह्मणचरण-क्षालनोदकेन पङ्किलानि १२ गृहम्. १३ उत्तमकुल उत्पत्ति १४ ऐश्वर्यम्. १५ विश्वभूषणम् १६ अन्त करणम् १७ निर्दोषा १८ प्रवाह १९ साधयित्री. २० गौर्यैव मयूरी तस्या मुदिरो मेघ, पक्षे, कामुक वल्लभ २१ हे त्रिपुरनाशक २२ परिणामः, फलमि त्यर्थ. २३ शिशुशब्दस्यात्र नपुसकत्व चिन्त्यम्
१२ सु र भा.
[दक्षिणभागस्थ-टिप्पण्यः] १ उदकपूर्णम् २ मत्कुणपूर्णा ३ सखिग्धम् ४ कठोरभाषिणी. ५ इद तु पितुर्लौकिक सबोधनम् ६ जानुभ्यां चरतीति स , रिङ्गमाण इत्यर्थः ७ संततिरहिता ८ नम्रम् ९ पान्थै. १० वन्ध्य . ११ स्तनात् १२ माता १३ इष्टस्थाने. १४ प्रलोभ्यस्य प्रलोभनार्थं दर्शितस्य वस्तुनोऽनुरूपम् १५ अवघ्राणं करोति
९० | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम्
वर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनस्तनयानवहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ १३ ॥ आनन्दसुतिरा- त्मनो नयनयोरन्तं सुधाम्ब्यञ्जनं प्रस्तारः प्रणयस्य मन्मथतरोः पुष्पं प्रसादो रतेः । आलाने हृदयद्विपस्य विषयारण्येषु संचा- रिणो दंपत्योरिह लभ्यते सुकृततः संसारसारः सुतः ॥१४॥
कन्यापितृनिन्दा
जातेति कन्या महती हि चिन्ता कस्मै प्रदेयेति महा- न्वितर्कः । दत्ता सुख यास्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम् ॥ १ ॥
सत्पुत्रप्रशंसा
एकोऽपि गुणवान्पुत्रो निर्गुणैः किं शतैरपि । एकश्चन्द्रो जगच्चक्षुर्नक्षत्रैः किं प्रयोजनम् ॥ १ ॥ एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासित तद्वनं सर्व सुपुत्रेण कुलं यथा ॥ २ ॥ प्रज्ञया वा विसारिण्या यो बलेन धनेन वा । धुरं वहति गोत्रस्य जननी तेन पुत्रिणी ॥ ३ ॥ एकेनापि सुपुत्रेण विद्यायुक्तेन भासते । कुलं पुरुषसिंहेन चन्द्रेणेव हि शर्वरी ॥ ४ ॥ को धन्यो बहुभिः पुत्रैः कुशूलापूरणा- ढकैः । वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ ५ ॥ पुण्यतीर्थे कृतं येन तपः काप्यतिदुष्करम् । तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः ॥ ६ ॥ वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ ७ ॥ एकेनापि सुपुत्रेण सिङ्गी स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति रासभी ॥ ८ ॥ एकेनापि सुपुत्रेण जायमानेन सत्कुलम् । शशिना चैव गगन सर्वदैवोज्ज्वलीकृतम् ॥ ९ ॥ किं जातैर्बहुभिः पुत्रैः शोक- संतापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥ १० ॥ कुम्भः परिमितमम्भः पिबत्यसौ कुम्भसंभवोऽ- म्भोधिम् । अतिरिच्यते सुजन्मा कश्चिज्जनक निजेन चरि- तेन ॥ ११ ॥ विद्याविहीना बहवोऽपि पुत्राः कल्पायुषः सन्तु पितुः किमेतैः । क्षयिष्णुना वापि कलावता वा तस्य प्रमोदः शशिनेव सिन्धोः ॥ १२ ॥ पात्रं न तापयति नैव मलं प्रसूते स्नेहं न संहरति नैव गुणान्क्षिणोति । द्रव्यावसानसमये चलता न धत्ते सत्पुत्र एष कुलसद्मनि कोऽपि दीपः ॥ १३ ॥
कुपुत्रनिन्दा
किं तेन जातु जातेन मातुर्यौवनहारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥ १ ॥ किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥ २ ॥ एकेन शुष्कवृक्षेण दह्य- मानेन वह्निना । दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥३॥ कोटरान्तःस्थितो वह्निस्तरुरेकमं दहेत्खलु । कुपुत्रस्तु कुले जातः स्वकुलं नाशयेत्तहो ॥ ४ ॥ अजातमृतमूर्खाणां वर- माद्यौ न चान्तिमः । सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥ ५ ॥ अजातमृतमूर्खेभ्यो मृताऽजातौ सुतौ वरम् । यतस्तावल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ६ ॥ यस्य पुत्रो न वै विद्वान्न शूरो न च धार्मिकः । अप्रकाशं कुलं तस्य नष्टचन्द्रेव शर्वरी ॥ ७ ॥ अविनीतः सुतो जातः कथं न दहनात्मकः । विनीतैस्तु सुतो जातः कथं न पुरुषो- त्तमः ॥ ८ ॥ दाने तपसि शौर्ये च यस्य न प्रथितं यशः । विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ ९ ॥ निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम् । मा स्म सीमन्तिनी काचि- ज्जनयेत्पुत्रमीदृशम् ॥ १० ॥ वरं गर्भस्रावो वरमृतुषु च नैवाभिगमनं वरं जातप्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर्न चाविद्वान् रूप- द्रविणगुणयुक्तोऽपि तनयः ॥ ११ ॥ पित्रोर्नैव वचः शृणोति दिवसत्यागे ब्रजत्यालयं यान्तीर्भियुवतीभिरध्वनि मुहुः कौतू- हलं विन्दति । बन्धूनामुपदेशवाचि वदति क्रोधैकतानं वचः साधून्निन्दति दुर्जनं च मनुते मित्रं कुपुत्रो जनः ॥ १२ ॥
दैवाख्यानम्
दैवमुल्लङ्घ्य यत्कार्यं क्रियते फलवन्न तत् । सरोम्भश्चा- तकेनात्तं गलरन्ध्रेण गच्छति ॥ १ ॥ भाग्यवंतं प्रसूयेथा मा शूरं मा च पण्डितम् । शूराश्च कृतविद्याश्च वने सीदन्ति पाण्डवाः ॥ २ ॥ न केवलं मनुष्येषु दैवं देवेष्वपि प्रभु । सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥ ३ ॥ सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चक्षुः पात्रं कज्जलभक्सनः ॥ ४ ॥ भगवन्तौ जगन्नेत्रे सूर्याचन्द्र- मसावपि । पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते ॥ ५ ॥ किं करोति नरः प्राज्ञः शूरो वाप्यथ पण्डितः । दैवं
पादटिप्पण्यः (Footnotes)
वामभागस्थटिप्पण्यः: १ लालनार्थमङ्कारूढशिशून् २ गजबन्धनस्तम्भ ३ प्रसरणशील्या ४ कार्यभारम् ५ पुरुषश्रेष्ठेन. ६ रात्रि ७ गर्दभी ८ अगस्त्य ९ अधिको भवति. १० आचरणेन ११ क्षयशीलेन १२ कलापूर्णेन १३ दीपपात्र, पक्षे, -मातापितरौ १४ कज्जलं, पक्षे,-मषीम् १५ अनुरागं, पक्षे,-तैलम् १६ कुलमेव सद्म गृह तस्मिन्
दक्षिणभागस्थटिप्पण्यः: १ कदाचित् २ यौवनलोपहेतुना. ३ दोहनशीला. ४ प्रकाशरहितम् ५ विनयसहितः; पक्षे,-अविना मेषेण नीतः अग्रेर्मेषो वाहनम् ६ अग्निरूपः ७ विनययुक्त, पक्षे,-विना पक्षिणा गरुडेन नीतः ८ पुरुषश्रेष्ठ ; पक्षे,-विष्णु. ९ मलविसर्जनम् १० दैवम्
दैवाख्यानम् ९१
| यस्य फलान्वेषि करोति विफलाः क्रियाः ॥ ६ ॥ दैवे विमुखता याते न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या भ्राता वाऽथ सहोदरः ॥ ७ ॥ पिबन्ति मधु पद्मेषु भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसम् ॥ ८ ॥ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेवाप्स्यद्यद्विधेर्मनसि स्थितम् ॥ ९ ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे हरिलक्ष्मीं हरो विषम् ॥ १० ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । पाषाणस्य कुतो विद्या येन देवत्वमागतः ॥ ११ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १२ ॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वं काल नातिवर्तन्ते तथा कर्म पुरा कृतम् ॥ १३ ॥ विपत्तौ किं विषादेन संपत्तौ हर्षेणेन किम् । भवितव्यं भवत्येव कर्मणामीदृशी गतिः ॥ १४ ॥ हरिणापि हरेणापि ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा न शक्या परिमार्जितुम् ॥ १५ ॥ सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि । नानुसरन्ति स्वजन यस्य दैवमदक्षिणम् ॥ १६ ॥ अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १७ ॥ अयाचितः सुख दत्ते याचितश्च न यच्छति । सर्वस्व चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥ १८ ॥ मनोरथान्करोत्युच्चैर्जनो दैवहतस्तपि । सिद्धयस्सिद्ध्योः सम कुर्याद्दैवं हि फलसाधनम् ॥ १९ ॥ पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी । शङ्खो रोदिति भिक्षार्थी फलं भाग्यानुसारतः ॥ २० ॥ तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः । सहायास्तादृशाश्चैव यादृशी भवितव्यता ॥ २१ ॥ भवितव्यं भवत्येव नारिकेलफलाम्बुवत् । गन्तव्य गतमित्यादुर्हगजभुक्तकपित्थवत् ॥ २२ ॥ महतामाश्रयः पुंसा फल भाग्यानुसारतः । ईशस्य कण्ठलग्नोऽपि वासुकिर्वायुभक्षकः ॥ २३ ॥ कर्मणा बाध्यते बुद्धिर्न बुद्ध्या कर्म बाध्यते । सुबुद्धिरपि यद्रामो हैमं हरिणमन्वगात् ॥ २४ ॥ गुणोऽपि दोषता याति वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन् दोषोऽपि च गुणायते ॥ २५ ॥ अवश्यंभाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ २६ ॥ पुरुषः पौरुषं तावद्यावद्दैव तु सन्मुखम् । विपरीतेगते दैवे पुरुषो न च पौरुषम् ॥ २७ ॥ न देशसेवया याति कर्मबन्धः परिक्षयम् । जघास घास- | मेवासौ बलीवर्दः कपर्दिनः ॥ २८ ॥ अवश्यभाविभावाना प्रतीकारो भवेद्यदि । तदा दुःखैर्न लिप्येरन्नलरामयुधिष्ठिराः ॥ २९ ॥ भवितव्यं यथा येन नासो भवति चान्यथा । नीयते तेन मार्गेण स्वय वा तत्र गच्छति ॥ ३० ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मणा । प्रागेव हि मनुष्याणा बुद्धिः कर्मानुसारिणी ॥ ३१ ॥ लिखिता चित्रगुप्तेन ललाटेऽक्षरमालिका । ता देवोऽपि न शक्नोति व्युल्लङ्घ्य लिखितु पुनः ॥ ३२ ॥ येन यत्रैव भोक्तव्य सुखं वा दुःखमेव वा । स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते ॥ ३३ ॥ सा सा संपद्यते बुद्धिः सा मतिः सा च भावना । सहायास्तादृशा एव यादृशी भवितव्यता ॥ ३४ ॥ अनुरागवती संध्या दिवसस्तत्तैःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ३५ ॥ अघटितघटितं घटयति सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥ ३६ ॥ विकटाटव्यामटन शैलारोहणमपानिधेस्तरणम् । निगडं गुहाप्रवेश विधिविपाकः कथं न संधार्यः ॥ ३७ ॥ किं त्वं न वेत्सि जगति प्रख्यातं लाभकारणे मूलम् । विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ ३८ ॥ द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ ३९ ॥ अनुकूले सति धैातरि भवत्यनिष्टादपीष्टमविलम्बम् । पीत्वा विषमपि शंभुर्मृत्युंजयतामवाप तत्कालम् ॥ ४० ॥ अनुचितमेवाचरित पशुपतिना यद्विधेः शिरश्छिन्नम् । छिन्नो न चास्य हस्तो येनाय दुर्लिपिं लिखति ॥ ४१ ॥ नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥ ४२ ॥ सर्वाङ्गमर्पयन्ती लीलासुरसं क्रमेण शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥ ४३ ॥ आरोहतु गिरिशिखर तरतु समुद्र प्रयातु पातालम् । विधिलिखिताक्षरभालं फलति कपालं न भूपालः ॥ ४४ ॥ सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशत. ईश्वरो जनार्दनः सोऽपि चित्रमिदम् ॥ ४५ ॥ यन्मनोरथशतैरगोचर न स्पृशन्ति च गिरः कवेरपि । स्वमवृत्तिरपि यत्र दुर्लभा लीलयैव विदधाति तद्विधिः ॥ ४६ ॥ अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहत विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥ ४७ ॥ दाता बलिः |
| १ पराक्रम . २ प्राप्नोति ३ अप्रेर्यमाणानि ४ खेदेन ५ दैवे ६ वामम् प्रतिकूलमिति यावत् ७ सुवर्णमयम् ८ प्रतिकूलत्वमापन्ने दैवे | १ शिवस्य २ रक्तिमा, पक्षे,-रति ३ अग्रवर्ती, पक्षे,-आज्ञाकरः. ४ दैवे ५ शिवेन ६ दुर्लेखम् ७ पुरुषवदाचरन्ती स्त्री कामशास्त्रे प्रसिद्धा, तद्वत् ८ मत्स्यावतार |
९२ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
प्रार्थयिता च विष्णुर्दानं भुवो वाजिमखस्य कालः । नमो- ऽस्तु तस्मै भवितव्यतायै यस्याः फलं बन्धनमेव जातम् ॥ ४८ ॥ प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः । तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं नहि तत्परेषाम् ॥ ४९ ॥ मा धाव मा धाव विनैव दैव नो धावन साधनमस्ति लक्ष्म्याः । चेद्धावन साधनमस्ति लक्ष्म्याः श्वा धावमानोऽपि लभेत लक्ष्मीम् ॥ ५० ॥ ईशः करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलाख्यः । तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः ॥ ५१ ॥ स्वयं महेशः श्वशुरो नगेशः सखा धनेशस्तनयो गणेशः । तथापि भिक्षाटनमेव शंभोर्बलीयसी केवलमीश्वरे- च्छा ॥ ५२ ॥ असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समासन्नविपत्तिकाले धियोऽपि पुंसां मलिनीभवन्ति ॥ ५३ ॥ न भूतपूर्वो न च केन दृष्टो हेम्नः कुरंगो न कदापि वार्ता । तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥ ५४ ॥ धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनः श्मशाने । देहश्चितायां परलोक- मार्गे कर्मानुगो गच्छति जीव एकः ॥ ५५ ॥ वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥ ५६ ॥ सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा । अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः ॥ ५७ ॥ यः सुन्दरस्तद्दयिता कुरूपा या सुन्दरी सा पतिरूपहीना । यत्रोभयं तत्र दरिद्रता च विधेर्विचित्राणि विचेष्टितानि ॥ ५८ ॥ अमन्वनान्ते नवमञ्जरीषु न षट्पदो गन्धफलीमजिघ्रत् । सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ॥ ५९ ॥ विधौ विरुद्धे न पयः पयोनिधौ सुधौघसिन्धौ न सुधा सुधाकरे । न वाञ्छितं सिध्यति कल्पपादपे न हेम हेमप्रभवे गिरावपि ॥ ६० ॥ अव- श्यमन्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥ ६१ ॥ निपतति किल दुर्बलेषु दैवं तद्वितथं ननु येन कारणेन । बलवति न तथा यथाबलानां प्रभवति कृष्टशरा- सनो मनोभूः ॥ ६२ ॥ हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादे । अयि खलु विषमैः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ॥ ६३ ॥ क्व च ननु जनकाधिराजपुत्री क्व च दशकंधरमंदिरे निवासः । अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ॥ ६४ ॥ क्व नु कुलमकलङ्कमायताक्ष्याः क्व नु रजनीचर- संगमापवादः । अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ॥ ६५ ॥ क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता । नियतं प्रतिकूलवर्तिनो बत धातुश्चरितं सुदुःसहम् ॥ ६६ ॥ सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुवः । तदपि तत्क्षणभङ्गि करोति चेदहह कष्टमपण्डितता विधेः ॥ ६७ ॥ गजभुजंगमयोरपि बन्धनं शशिदिवाकरयोर्ग्रहपीडनम् । मतिमतां च समीक्ष्य दरि- द्रता विधिरहो बलवानिति मे मतिः ॥ ६८ ॥ यदपि जन्म बभूव पयोनिधौ निवसनं जगतीपतिमस्तके । तदपि नाथ पुराकृतकर्मणा पतति राहुमुखे खलु चन्द्रमाः ॥ ६९ ॥ प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ७० ॥ यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च तच्च तावच्च तत्र च विधातुवशादुपैति ॥ ७१ ॥ नैवाकृतिः फलति नैव कुलं न शीलं विद्यापि नैव न च यत्नकृतापि सेवा । भाग्यानि पूर्वतपसा किल संचितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ७२ ॥ आकाशमुत्पततु गच्छतु वा दिगन्तमम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । जन्मा- न्तरार्जितशुभाशुभकृन्नराणां छायेव न त्यजति कर्मफलानु- बन्धः ॥ ७३ ॥ भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः सुजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधि- रत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ ७४ ॥ कैवर्त- कर्कशकरग्रहणच्युतोऽपि जालान्तरे निपतितः शफरो वराकः । दैवात्ततो विगलितो गिलितो बकेन वक्रे विधौ वद कथं व्यवसायसिद्धिः ॥ ७५ ॥ दैवे समर्प्य चिरसंचितकर्मजालं सुस्थाः सुखं वसत किं परयाचनाभिः । मेरुं प्रदक्षिणयतोऽपि दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिदष्टौ ॥ ७६ ॥ येनाञ्चलेन सरसीरुहलोचनायास्त्रातः प्रभूतपवनादुदये प्रदीपः । तेनैव सोऽस्तसमयेऽस्तमयं विनीतः कष्टे विधौ भजति मित्रममित्रभावम् ॥ ७७ ॥ आधोरणाङ्कुशभयात्करि- कुम्भयुग्मं जातं पयोधरयुगं हृदयेऽङ्गनानाम् । तत्रापि वल्लभ- नखक्षतभेदभिन्नं नैवान्यथा भवति यल्लिखितं विधात्रा ॥ ७८ ॥ संजातसान्द्रमकरन्दरसां क्रमेण पातुं गतश्च कलिकां कम- लस्य भृङ्गः । दग्धा निपत्य सहसैव हिमेन सैषा वामे विधौ नहि फलन्त्यभिवाञ्छितानि ॥ ७९ ॥ सिंहो बली गिरि-
पादटिप्पण्यः (Footnotes)
[वामभागः] १ अश्वमेधस्य. २ दैवाय. ३ दैवे, पक्षे,-चन्द्रे ४ वक्रे, पक्षे,-विपरीते ५ हिमालय. ६ पूर्वसञ्चितकर्मसंबद्ध ७ अमर ८ चम्पककलिकाम् ९ दुरासदा, दुःप्रतीकारा वा १० नितान्तचञ्चलस्वभावेन ११ मदनः. १२ क्लेशदः १३ परिणामः
[दक्षिणभागः] १ मूर्खता. २ दैवम् ३ दैववशात् ४ कैवर्तो धीवरः, तस्य कठोरकरग्रहणाच्च्युतः ५ शत्रुस्वभावम्
दैवाख्यानम् ९३
गुहागहनप्रवासी वासोदरे वसति भूमिभृता बिडालः। नो^१ पौरुषं कुलमपि प्रचुरा न वाणी दैव बलीय इति मुञ्च सखे विषादम् ॥ ८० ॥ सदसि विदुरभीष्मद्रोणशारद्वतानां पतिभिरमरकल्पैः पञ्चभिः पालितापि । अहह परिभवस्य^३ द्रौपदी पात्रमासीद्बलवति सति दैवे बन्धुभिः किं विधेयम् ॥ ८१ ॥ गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या^४ यत्नतः पण्डितेन । अतिरभसकृतानां^६ कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ८२ ॥ स हि गगन-^७ विहारी कलुषध्वंसकारी^८ दशशतकरकारी ज्योतिषा मध्य- चारी । विधुरपि विधियोगाद्ग्रस्यते राहुणासौ लिखितमिह ललाटे प्रोज्झितुं कः समर्थः ॥ ८३ ॥ अयममृतनिधानं नायकोऽप्योषधीनां शतभिषगनुयातः^१० शम्भुमूर्द्धोऽवतंसः । विरहयति न चैनं राजयक्ष्मा शशाङ्कं हतविधिपरिपाकः केन वा लङ्घनीयः ॥ ८४ ॥ शशिनि खलु कलङ्कः कण्टकः पद्मनाले युवतिकुचनिपातः पकता केशजाले । जलधिजल- मपेयं पण्डिते निर्धनत्वं वयसि धनविवेको निर्विवेको विधाता ॥ ८५ ॥ प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परापरि- चयचले चिन्ताचके निधाय विधिः खलः । मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालवद्भ्रमयति मनो नो जानीमः किमत्र करिष्यति ॥ ८६ ॥ क्वचित्पाणिप्राप्तं घटितमपि कार्यं विघटयत्यशक्यं केनापि क्वचिदघटमानं घटयति । तदेव सर्वेषामुपरि परितो जाग्रति विधावुपालम्भः कोऽयं जनतनुघनोपार्जनविधौ ॥ ८७ ॥ नमस्यामो देवान्ननु हत- विधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैक- फलदः । फलं कर्म्मायत्तं यदि किममरैः किं च विधिना नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति^११ ॥ ८८ ॥ त्रिलोकेशः शार्ङ्गी^१२ शबरशर^१३ लक्ष्यत्वमगमद्विधाता^१४ लोकाना- मलभत शिरःकृन्तनविधिम्^१५ । प्रयातो तौ राहोर्दिनकर- शशाङ्कौ कवलतां^१६ प्रभुर्नभः शंसुः शिरसि लिखितं लङ्घयति कः ॥ ८९ ॥ सुधाशौर्जातेयं कथमपि कलङ्कस्य कणिका विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि । स किं नात्रेः पुत्रो न किमु हरचूडार्चनमणिर्न वा हन्ति ध्वान्तं^१७ जगदु-
परि कि वा न वसति ॥९०॥ लीलाये^१ गोमये^२ मृगपरिषद्वि श्वापदकुले करिष्यन्कार्पण्यं किमिह महिमानं गमयसि । निमग्नः पङ्केऽस्मिन्ननुभव करीन्द्राधिपदगामभद्रं^५ भद्रं वा विधिलिखितमुन्मूलयति कः ॥ ९१ ॥ धुनोति ध्वान्तानि^३ व्यपनयति नीहारपटल^४ कुलं राजीवानां^५ दलयति रथाङ्गं^६ रमयति । जगद्धात्री देवैः^७ सुखयति जनानां च नयनं न याति क्षेमान्^८ यदि तदिह दैवं जयतु कः ॥ ९२ ॥ त एवामी बाणास्तदपि हरलब्धं धनुरिदं स एवाहं पार्थः प्रमथितसुसरातिनिचयः । इमास्तास्ता गोप्यो हरिचरण- चित्तैकशरणा ह्रियन्ते गोपालैर्विधिरिह बलीयान्न तु नरः ॥ ९३ ॥ अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे^९ मूर्ध्नि स्थितवति वयं के पुनरमी ॥ ९४ ॥ पिता रत्नाभारः शुचिमहचरास्ते च मणयः स्वसा स्निग्धा लक्ष्मीरयमवरजः कल्पविटपी । अहो काम्यं धातु- स्तदपि खलु शङ्खः^१० प्रतिपदं रुदित्वा यद्दीर्घं दिशि दिशि वराटं^१३ मृग्यते ॥ ९५ ॥ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं नोलूकेन^११ विलोक्यते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यद्धात्रा निजभालपट्टलिखितं तन्मार्जितुं^१२ कः क्षमः^१३ ॥ ९६ ॥ या साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात् । तामाराध्य सत्क्रिया भगवतीं भोक्तुं फलं वाञ्छितं हे साधो व्यसनिन्गुणेषु विपु- लेष्वास्थां वृथा मा कृथाः ॥ ९७ ॥ ब्रह्मा येन कुलालव-^१४ न्नियमतो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तः सदा संकटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ९८ ॥ यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि^१५ नितरां मेरौ ततो नाधिकम् । तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधा- वपि घटो गृह्णाति तुल्यं जलम् ॥ ९९ ॥ नेता यस्य बृहस्पतिः प्रहरणं^१६ वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः किल हरेरैरावतो वारणः^१७ । इत्याश्चर्यबलान्वितोऽपि बलभि-^१८ द्भूभः परैः सगरे तद्युक्तं वरमेव दैवशरणं धिग्धिग्वृथा पौरुषम्^१९ ॥ १०० ॥ जातः सूर्यकुले पिता दशरथः क्षोणी-^१९ भुजामग्रणीः सीता सत्यपरायणा प्रणयिनी यस्यानुजो लक्ष्मणः । दोर्दण्डेन समो न चास्ति भुवने प्रत्यक्षविष्णुः
पादटिप्पण्यः (Footnotes)
वामभागः (Left Column): १ सभायाम् २ देवतुल्यै ३ पराभवस्य ४ परिणाम ५ नि- श्चेतव्या ६ अतित्वरया. ७ आकाशसंचारी ८ अन्धकारनाशकर्ता ९ नक्षत्राणाम् १० नक्षत्रविशेषेण, पक्षे,-भिषजां वैद्यानां शतेन ११ समर्थो भवति १२ कृष्ण १३ शबरो जरानामा भिल्ल प्रभासे परस्पर कलहेनाखिलयादवोपसंहारानन्तरमश्वत्थस्याधस्तादामोरो दक्षिण पाद निधायस्थिते भगवति जरानाम्ना भिल्लेन दूरतो भगवच्चरण दृष्ट्वा मृगमुखभ्रमाद्भगवत्पादो बाणेन विद्ध इति भागवते १४ ब्रह्मा १५ शिरःकर्तनम् १६ आस्ताम् १७ अन्धकारम्
दक्षिणभागः (Right Column): १ महिषे २ मृगधूतके ३ तमांसि ४ हिमपटलम् ५ हस्तिनाम् ६ चक्रम् ७ सूर्यं ८ दृढत्वम् ९ चन्द्रे, पक्षे,-दैवे १० कपर्दकम् ११ दिवाभीतेन १२ शोधयितुम् १३ समर्थ १४ कुम्भकार १५ क्षारभूमौ १६ अयुध्यम् १७ गज १८ इन्द्र० १९ नृपाणाम्
| ९४ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
स्वयं रामो येन विडम्बितोऽपि विधिना चान्ये जने का कथा ॥ १०१ ॥ जामाता पुरुषोत्तमो भगवती लक्ष्मीः स्वयं कन्यका दूतो यस्य बभूव कौशिकमुनिर्यज्वा वसिष्ठः स्वयम् । दाता श्रीजनकः प्रदानसमये चैकादशस्था ग्रहाः किं ब्रूमो भवितव्यता हतविधे रामोऽपि यातो वनम् ॥ १०२ ॥ आसाद्यापि महोदधिं न वितृषो जातो जलैर्वाडवो मेघं प्राप्य न चातकोऽपि चरणौ भानुं न लेभेऽरुणः । चन्द्रं शंकरशेखरेऽपि निवसन्पक्षक्षये क्षीयते प्रायः सज्जनसङ्गतोऽपि लभते दैवानुरूपं फलम् ॥ १०३ ॥ आहारे शुचिता ध्वनौ मधुरता वाचालता माधवे$^२$ बन्धौ निर्ममता जनेषु निरता नीडे$^३$ पराधीनता । एतैरेव गुणैर्युताः परभृतस्त्यक्त्वा किमेते जना वन्दन्ते खलु खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ॥ १०४ ॥ गीतं कोकिल ते मुदा रसविदः शृण्वन्ति कर्णामृतं नो किंचिद्वितरन्ति ते तरुदलैरेव स्वयं जीवसि । कर्णाग्रैर्मुदमुद्विरन्ति विरुतं काकास्तु तेभ्यो बलिं प्राज्ञा एव दिशन्ति हन्त धिगिदं वक्रं विधेः क्रीडितम् ॥ १०५ ॥ छित्त्वा पाशमपास्य कूटरचना भङ्क्त्वा वलाद्वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निःसृत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन्मृगः कूपान्तः पतितः करोति विमुखे किं वा विधौ पौरुषम् ॥ १०६ ॥ लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः स्थित्यर्थं परमेश्वराभ्युपगतस्तेनापि मूर्ध्नि धृतः । वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥ १०७ ॥ रामे प्रव्रजनं बलेर्नियमनं पाण्डोः सुताना वनं वृष्णीना निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । कारागारनिषेवणं च मरण सञ्चिन्त्य लङ्केश्वरे सर्वः कालवशेन नश्यति नरः को वा परित्रायते ॥ १०८ ॥ भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतिते नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसो तेनैव यातः पथा लोकाः पश्यत दैवमेव हि नृणा वृद्धौ क्षये कारणम् ॥ १०९ ॥ माता यस्य धराघरेन्द्रदुहिता तातो महेशस्तथा भ्राता विघ्नकुलान्तकः पितृसखो देवो धनाना पतिः । ख्यातः क्रौञ्चविदारणे सुरपतेः सेनाग्रग. षण्मुखस्तद्देवबलेन कुत्र घटते नाद्यापि पाणिग्रहः$^१$ ॥ ११० ॥ काश्चित्तुच्छयति प्रपूरयति वा काश्चिन्नयत्युन्नतिं काश्चित्पातविधौ करोति च पुन. काश्चिन्नयत्याकुलान् । अन्योन्यं प्रतिपक्षसङ्घतिमिमा लोकस्थिति बोधयन्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ १११ ॥
तुल्यं भूभृति$^१$ जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपुस्तुल्यं दोर्वीर्यममुद्गटङ्कदलन$^३$ तुल्यं च पाषाणयोः । एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं तद्वारे विहिता परस्य तु पदाघातास्पद देहली ॥ ११२ ॥ यद्बभ्रं धनुरीश्वरस्य समरे यज्जामदग्न्यो जितस्त्यक्ता येन गुरोर्गिरा वसुमती सेतुः पयोधौ कृतः । एकैक दशकंधरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्ण्य येन सोऽपि सहसा नीतः कथाशेषताम् ॥ ११३ ॥ खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके वाञ्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रापदा भाजनम् ॥ ११४ ॥ भूयिष्ठं द्रविणात्मजं$^४$ जनयितुं लिप्सावता चेतसा नार्यः पञ्च मया क्रमेण कुलजाः काले संमुद्वाहिताः$^५$ । सद्भिद्या कविता विदेशवसतिः सेवा तथाभ्यर्थना दैवेन प्रतिबन्धकेन युगपद्ध्याः$^६$ समस्ताः कृताः ॥ ११५ ॥ मजत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे$^७$ वाणिज्यं कृपिसेवनादिसकला विद्याः कलाः शिक्षतु । आकाशं सकलं प्रयातु खगवत्कृत्वा प्रयत्नं परं नोऽभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ११६ ॥ लक्ष्मीकौस्तुभपारिजातसहजः सूनुः सुधाम्भोनिधेर्देवेन प्रणयप्रसादविधिना मूर्ध्ना धृतः शंभुना । अद्याप्युज्झति नैव दैवविहित क्षैण्य क्षपार्बल्लभः$^८$ केनान्येन विलङ्घ्यते विधिगतिः पाषाणरेखासखी ॥ ११७ ॥ अम्भोधिः स्थलता स्थलं जलधिता धूलीलव. शैलता मेरुमृत्कणता तृणं कुलिशता$^९$ वज्रं तृणप्रायताम् । वह्निः शीतलता हिमं दहनतामायाति यस्येच्छया लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ ११८ ॥ जन्म ब्रह्मकुलेऽग्रजो धनपतेर्यः कुम्भकर्णाग्रजः सूनुर्वासवजित्स्वयं दशशिरा दोर्दण्डका विंशतिः । अस्त्रं कौमगर्म$^१०$ विमानमजयं मध्येसमुद्रं पुरी सर्वं निष्फलमेतदेव नियतं दैव पर दुर्जयम् ॥ ११९ ॥ यत्राखण्डेळदन्तिदन्तमुसलान्याखण्डितान्याहवे धारा यत्र पिनाकपाणिपरशोराकुण्ठितामागताः । तेन्मे$^१३$ तावदुरो नृसिंहकरजैर्व्यादीर्यते साप्रतं दैवे दुर्बलता गते तृणमपि प्रायेण वज्रायते ॥ १२० ॥ दोःसद्देहँ$^१४$वंशवदत्रिभुवनश्रीगर्वसर्वकषः कैलासोद्धरणप्रचण्डचरितो वीरः कुबेरानुजः । यत्रायं स्वयमस्ति सेयममरावत्यापि वन्ध्या पुरी नीता मर्कटकेन कामपि दशा
पादटिप्पण्यः :
| १ यस्मिन्विवाहे इति शेष | १ पर्वते |
| २ वसन्ते | २ दृढता |
| ३ कुलाये. | ३ उद्ग्या ये टङ्कास्तैर्दलनम् |
| ४ कोकिला | ४ द्रविण द्रव्य तदेत्वात्मज पुत्रस्तम् |
| ५ मृगबन्धनी. | ५ विवाहिता |
| ६ यादववंशीयानाम् | ६ निष्फला |
| ७ मञ्जूषासकुचितशरीरस्य | ७ युद्धे. |
| ८ पार्वती | ८ चन्द्र |
| ९ गजानन | ९ वञ्जताम् |
| १० कुबेरः | १० इच्छानुकूलगति. |
| ११ विवाह | ११ इन्द्रस्यैरावत- |
| १२ शिव. | |
| १३ हिरण्यकशिपोरिकिरियम्. | |
| १४ समूहः |
दैवाख्यानम्, जरावर्णनम् ९५
धिग्दैवमावश्यकम् ॥ १२१ ॥ येनाकारि मृणालपत्रमशनं क्रीडा करिण्या सह स्वच्छन्दं, भ्रमणं च कन्दरगणे पीतं पयो नैर्झरम् । सोऽयं वन्यकरी नरेषु पतितः पुष्णाति देहं तृणैर्दैवेन ललाटपत्रलिखितं तन्मोज्झितुं कः क्षमः ॥ १२२ ॥ दैवेन प्रभुणा स्वय जगति यद्यस्य प्रमाणीकृतं तत्तत्सोपनमेन्मनागपि महान्नैवाश्रयः कारणम् । सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यह सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ १२३ ॥ कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना व्याधोऽधो धृतचापसज्जितशरः श्येनः परिभ्रामति । इत्थं सत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहतस्तूर्णं तौ तु यमालयं प्रति गतौ दैवी विचित्रा गतिः ॥ १२४ ॥ रेवोवारिणि वारेणेन विपुले राजीवराजीरजःपुञ्जापिञ्जरतोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे । धौतं येन मृगारिरक्तमसकृद्दन्तान्तरालस्थित कोष्णं सोऽपि पयः पपौ हतविधेः को गोचरे नागतः ॥ १२५ ॥ केषांचिन्निजवेश्मनि स्थितवतामालस्यनिद्रावता दृश्यन्ते फलिता लता इव फलैराचूलमूलं श्रियः । अद्रिं लङ्घयता गिरि प्रयतता पृथ्वीतले धावतामुद्योगव्यवसायसाहसधिया तन्नास्ति यैस्तप्यते ॥ १२६ ॥ स्थाल्या वैदूर्यमय्या पचति तिलकणांश्चान्दनैरिन्धनौघैः सौवर्णैर्लाङ्गलाग्रैर्निखनति वसुधामर्कमूलस्य हेतोः । छित्त्वा कर्पूरखण्डांस्तृतिमिह कुरुते कोद्रवाणा समन्तात्प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः ॥ १२७ ॥ पञ्चैते पाण्डुपुत्राः क्षितिपतितनया धर्मभीमार्जुनद्याः शूराः सत्यप्रतिज्ञा दृढतरवपुषः केशवेनापि गूढाः । ते वीराः पाणिपात्रे कृपणजनगृहे भिक्षुचयौं प्रवृत्ताः को वा कार्ये समर्थो भवति विधिवशाद्भाविनी कर्मरेखा ॥ १२८ ॥ यत्र श्यामाकबीजान्यपि चटकवधूचञ्चकोटिच्युतानि प्रोञ्छियन्ते स्ववेश्मन्यशनविरहिते निर्धनश्रोत्रियाणाम् । दैवे दातर्यकस्मात्तदुलशिशुकराकृष्टहारावलीतो भ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं चूर्णिता मौक्तिकोघाः ॥ १२९ ॥ यन्माता विष्णुनाभिः पतिरपि च सुतो यस्य साक्षात्प्रजाना लक्ष्मीर्यत्सश्रयाभूत्तदपि करतले भारती सवभार । भानुर्यस्यास्ति मित्रं तदपि सरसिजं क्षीणमिन्दोर्मयूखैस्तातुं नैवोत्सहन्ते गतसुकृतफलं प्राप्तकालं सहायाः ॥ १३० ॥ कुत्रापोध्या क रामो दशरथवचनाद्दण्डकारण्यमागात्क्कासौ मारीचनामा कनकमयमृगः कुत्र सीतांपहारः । सुग्रीवे राममैत्री क जनकतनयान्वेषणे प्रेषितोऽहं योऽर्थोऽसभावनीयस्तमपि घटयते क्रूरकर्मा विधाता ॥ १३१ ॥
जरावर्णनम्
अलंकरोति हि जरा राजामात्यभिषग्यतीन् । विडम्बयति पण्यस्त्रीमल्लग्रायनसेवकान् ॥ १ ॥ क्षणात्प्रबोधमायाति लङ्घ्यते तमसा पुनः । निर्वाणतः प्रदीपस्य शिखेव जरतो मतिः ॥ २ ॥ शशिनीव हिमार्तानां धर्मार्ताना रवाविव । मनो न रमते स्त्रीणा जराजीर्णेन्द्रिये पतौ ॥ ३ ॥ मलिनैरलकैरेतैः शुक्लत्व प्रकटीकृतम् । तद्रोषादिव निर्याता वदनाद्दैन्दनावतिः ॥ ४ ॥ वृद्धत्वानलदग्धस्य सारयौवनवस्तुनः । दृश्यते देहगेहेषु भस्मेव पलितच्छलात् ॥ ५ ॥ वीक्ष्यते पलितश्रेणिर्नैव वृद्धस्य मूर्धनि । त्रैषैव नीतं जन्मेति कि तु भस्म विनिर्य्यधात् ॥ ६ ॥ इहल्यामपि सामग्र्या सुकृतं न कृत त्वया । इतीव कुपितो दन्तानेन्तकः पातयत्यलम् ॥ ७ ॥ यममिव करधृतदण्डं हरिमिव सँगदं शशाङ्कमिव वक्रम् । शिवमिव च विरुपाक्षं जरा करोत्यकृतपुण्यमपि ॥ ८ ॥ वदन दर्शेनविहीनं वाचो न परिस्फुटा गता शक्तिः । अव्यक्तेन्द्रियशक्तिः पुनरपि बाल्यं कृत जरया ॥ ९ ॥ पृष्टं रटति पलितैर्दृतो मस्तकमासाद्य सर्वलोकस्य । परिभवति जरा मरणं कुरु धर्मे विरम पापेभ्यः ॥ १० ॥ शतमंन्युं दण्डधरं कुबेरमपि शूलिनं तथा गदिनम् । कुरुते जरा न सा किं कुर्याच्चीरूपनामकं मनुजम् ॥ ११ ॥ कृष्णवर्त्मनि गुणान्नानयन्ती जीवनेऽपि जरयन्त्यनुरागम् । आगता बत जरेव हिमानी सेव्यता सुरैरतरगवती्रयम् ॥ १२ ॥ कृतान्तस्य दूती जरा कर्णमूले समागत्य वक्ति लोकाः शृणुध्वम् । परस्त्रीपरद्रव्यवाञ्छा त्यजध्वं भजध्वं रमानाथपादारविन्दम् ॥ १३ ॥ वर्षे सितं समभिवीक्ष्य शिरोरुहाणा स्थानं जरा परिभवस्य यदेव पुंसाम् । आरोपितास्थिशकलं परिहृत्य
पादटिप्पण्यः
१ नर्मदोदके २ भोजनार्थमिति शेष ३ रत्नविशेषः ४ आर्तिक्क्यम् ५ 'बाजरी' इति प्रसिद्धधान्यानाम् ६ ब्रह्मा.
१ हनुमत उक्तिरियम् २ केशै ३ दन्तपङ्क्ति ४ वार्धक्य तदेवानलस्तेन दग्धस्य ५ पलितमिषेण ६ पक्ति ७ व्यर्थमेवं. ८ निक्षिप्तवान् ९ पुण्यम् १० यम ११ गदया आयुधविशेषेण सहितम्, पक्षे,-गदेन रोगेण सहितम् १२ विकृताक्षम् १३ दन्तरहितम् १४ शुक्लकेशत्वमेव दूत १५ इन्द्रम्; पक्षे,-कोपनम् १६ यमम्; पक्षे,-यष्टिवरम् १७ धनाधिपम्; पक्षे,-कुत्सितं शरीरम् १८ शिवम्, पक्षे,-शुलयुक्तम् १९ विष्णुम्; पक्षे,-गदयुक्तम् २० अग्नी, पक्षे,-कृष्णस्य वर्त्म मार्गस्तस्मिन् २१ उदके पक्षे,-प्राणे २२ दूरीकुर्वाणा २३ हिमंसंहति २४ सुरतै रङ्गवती; पक्षे,-सुराणां तरंगवती भागीरथी २५ केशानाम् २६ आरोपितमस्थ शकल खण्ड यस्मिन् २७ अस्पृश्यत्वादिति भावः
| ९६ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥ १४ ॥ श्रुतिः शिथिलता गता स्मृतिरपि प्रनष्टाधुना गतिर्विपथमार्गता विगलिता द्विजाना ततिः । गवामपि च संहृतिः समुचितक्रियाश्च्युता कृता न जरया तया कलियुगस्य साधर्म्यता ॥ १५ ॥ गात्र संकुचित गतिर्विगलिता भ्रष्टा च दन्तावलिर्दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते । वाक्य नाद्रियते च बान्धवजनैर्भार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ १६ ॥ स्थूलप्रावरणोऽतिवृत्तकथकः कासाश्रुलालाविलो भग्नोर्वरूपिट्ठजानुजघनो मुग्धोऽतिथीन्वारयन् । शृण्वन्पृष्ट्वध्रुवचचांसि धनुषा सत्रासयन्वायसानाशापाशनिबद्धजीवविभवो वृद्धो गृहे ग्लायति ॥ १७ ॥ पादौ संस्तम्भयन्ती मुखमपि नमयन्त्यङ्गमाकुञ्चयन्ती हस्तावुत्कम्पयन्ती प्रणयिजनवचो न श्रुतीः श्रावयन्ती । रत्योद्वेङ्गजयन्ती वलिततनुमती नूतनोढा जरा वा तुल्या पूर्वी तु पुसेंक्षसति बत परा भीतिहेतुर्नरस्य ॥ १८ ॥
क्षुधावर्णनम्
नास्ति क्षुधासमं दु खं नास्ति रोगः क्षुधासमः । नास्त्याहारसमं सौख्य नास्ति क्रोधसमो रिपुः ॥ १ ॥ शय्या वस्त्रं चन्दनं चारु हास्यं वीणा वाणी सुन्दरी या च नारी । न भ्राजन्ते क्षुत्पिपासातुराणा सर्वार्म्भास्तण्डुलप्रस्थमूलाः ॥ २ ॥
भिक्षुकः
प्रतिदिनमयत्नसुलभे भिक्षुकजननि साधुसङ्गकल्पलते । नृपनमननरकतारिणि भगवति भिक्षे नमस्तुभ्यम् ॥ १ ॥ अगस्तितुल्याश्च घृताब्धिशोषणे दम्भोतितुल्या वटिकाद्रिभेदने । शाकावलीकाननवह्निरूपास्त एव मष्टा इतरे भटोश्च ॥ २ ॥ अग्रेयो मुक्तिमता प्रयोगसमये मन्त्रेषु पृष्ठ गत पाकागारगतस्तु पाचकमनस्तोषाय वाचस्पतिः । उच्चैर्या निरतो रतोऽर्भकगणे पिण्डेषु दत्तादरो नाना श्राद्धगणैकचालितमना मह्नोत्तमो राजते ॥ ३ ॥ उच्चैरध्ययनं पुरातनकथा स्त्रीभिः सहाभाषणं तासामर्भकलालने पैतिनुतिस्तत्याकमिथ्यास्तुतिः । आदेशस्य करावलम्बनविधिः पाण्डित्यलेखक्रिया होरागौरुडमन्त्रतन्त्रकविधिर्भिक्षोर्गुणा द्वादश ॥ ४ ॥ प्रातः क्षालितलोचनाः करतले चञ्चत्पवित्राङ्कुरास्तत्तत्स्थाननिवेशितोर्ध्वतिलकाश्रैर्लन्तबद्धक्षाक्ताः । को जातश्च मृतोऽथवा मृततिथिः कस्यालये वर्तते चेत्थं हर्षशनैर्युताः प्रतिदिन धावन्त्यहो भिक्षुकाः ॥ ५ ॥
परगृहवासः
शिरसा धार्यमाणोऽपि सोमः सोमेन शंभुना । तथापि कृशता धत्ते कष्टः खलु पराश्रयः ॥ १ ॥ विना कार्येण ये मूढा गच्छन्ति परन्दिरम् । अवश्यं लघुता यान्ति कृष्णपक्षे यथा शशी ॥ २ ॥ कष्टं खलु मूर्खत्वं कष्ट खलु यौवनेषु दारिद्र्यम् । कष्टादपि कष्टतर परगृहवासः परान्नं च ॥ ३ ॥ उडुगणपरिवारो नायकोऽप्योषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विगतैरंशिर्मर्मण्डलं प्राप्य मौनोः पैरसदननिविष्टः को लघुत्वं न याति ॥ ४ ॥
उदरपूरणदूषणम्
अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः । वानरीमिव वाग्देवीं नर्तयन्ति गृहे गृहे ॥ १ ॥ किमकारि न कार्पण्य कस्यालङ्घि न देहली । अस्य पापोदरस्यार्थे किमनाटि न नाटकम् ॥ २ ॥ एकः स एव जीवति हृदयविहीनोऽपि सहृदयो राहुः । यः सकलैलैघिमकारणमुदर न बिभर्ति दुःपूरम् ॥ ३ ॥ कंधरा संपहाय कं धरा प्राप्य सयर्ति जहासं कस्यचित् । मां किल नमयतः स्वपूर्तये दुर्भरात्किमुदराद्वियोगतः ॥ ४ ॥ अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिस्तिरस्कृतस्य । उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ॥ ५ ॥ इयमुदरदरी दुरन्तपूरा यदि न भवेद्भूविमीनभङ्गभूमिः । क्षणमपि न सहे भवादृशाना कुटिलकटाक्षनिरीक्षणं नृपणाम् ॥ ६ ॥ अप-
१ कर्णेन्द्रियम्, पक्षे,-वेद २ शरणम्, पक्षे,-मन्वादि वाक्यम् ३ आचरणम्, पक्षे,-गमनम् ४ दन्तानाम्, पक्षे,-ब्राह्मणानाम् ५ इन्द्रियाणा म्, पक्षे,-धेनूनाम् ६ समानधर्मत्वम् ७ शत्रुरुदाचरति ८ अतिक्रान्तानि वृत्तान्ते कथयतीति ९ धाष्ट्र्ययुक्तखोवचनानि १० खेद प्राप्नोति ११ पादयो स्तम्भन कुर्वती १२ उद्वेग कुर्वती १३ वलय चर्मवलय सजाता यस्या सा वलिता, सा चासौ तनूश्च तद्वती, पक्षे,-वलित वलन तद्युक्ताया तद्वती १४ नवीनविवाहिता स्त्री १५ नूतनोढा १६ पुरुषात् १७ उद्वेग प्राप्नोति १८ जरा १९ भयकारणम् २० सुन्दरम् २१ वज्रसदृशः २२ अरण्यम् २३ योद्धार २४ अग्रगण्य २५ भोक्तॄणाम्. २६ वृहस्पतिवत् कुशल २७ दक्षिणायाम्, अय तु वैदिकैरेवावगम्यो दक्षिणासबद्ध साकेतिक शब्द
१ पठनम् २ शिशु ३ स्तुति ४ भाविशुभाशुभफलकथनप्रागल्भ्यमिति भावः ५ जन्मपत्रादिफलकथनम् ६ वस्त्रान्ते ७ उमासहितेन ८ नक्षत्रसमूह परिवारो यस्य ९ वनस्पतीनाम् १० निस्तेजा ११ सूर्यस्य १२ परगृहम् १३ हीनदशाम् १४ लघुत्वकारणम् १५ धारयति १६ दुखेन पूरयितु शक्यम् १७ मस्तकम् १८ युद्धे १९ श्रौतसिद्धान्ते २० अवमानकारणम्
उदरपूरणदूषणम्, सेवकनिन्दा, जीवितसाफल्यम् ९७
[उदरपूरणदूषणम् - अनुवृत्तम्]
हरति महत्त्वं प्रार्थना किं न जाने जनयति गुरुल्लज्जामित्यहं किं न वेद्मि ।
तदपि वद वदान्य तं सदा प्रत्यहं मां जठरपिठरवर्ती बहिरर्थीकरोति ॥ ७ ॥
गङ्गातरङ्गकणशीकरैःशीतलानि विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि यत्सावमानपरपिण्डरतो मनुष्यः ॥ ८ ॥
अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलसल्लज्जावल्लीवितानकुठारिका जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ ९ ॥
ये वर्धन्ते धनपतिपुरःप्रार्थनादुःखभाजो ये चाल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः ।
तेषामन्तःस्फुरितहसितं वासराणां क्षरेयं ध्यानच्छेदे शिखरकुहरग्रावशव्यानिषण्णः ॥ १० ॥
मातर्नातः परमनुचितं यत्खलानां पुरस्तादस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि ।
तत्क्षन्तव्यं सहजरसले वत्सले वाणि कुर्यां प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥ ११ ॥
दीनो दीनमुखैस्तथैव शिशुकैराकृष्टजीर्णांम्बरा क्रोशद्भिः क्षुधितैर्निरन्नविधुरां पश्येन्न चेद्गेहिनीम् ।
याच्ञाभङ्गभयेन गद्गद्गलत्त्रुट्यद्विलीनाक्षरं को देहीति वदेत्खदग्धजठरस्यार्थे मनस्वी जनः ॥ १२ ॥
हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं व्यालानां पशवस्तृणाङ्कुरमुजः सृष्टाः स्थलीशायिनः ।
संसारार्णवलङ्घनक्षमधिया वृत्तिः कृता सा नृणां यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥ १३ ॥
किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां दुःखोत्पात्त्याल्पवित्तव्ययपवनवशार्न्नतितभ्रूलतानि ॥ १४ ॥
सेवकनिन्दा
स्वामिप्रायपरोक्षस्य परचित्तानुवर्तिनः ।
स्वयं विक्रीतदेहस्य सेवकस्य कुतः सुखम् ॥ १ ॥
चलेषु स्वामिचित्तेषु सुलभे पिशुने जने ।
यदि जीवन्त्यहो चित्रं क्षणमप्युपजीविनः ॥ २ ॥
सेवा श्ववृत्तिरैरुक्ता न तैः सम्यगुदाहृतम् ।
स्वच्छन्दचारी कुत्र श्वा विक्रीतासुः क्व सेवकः ॥ ३ ॥
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् ।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ ४ ॥
वरं वनं वरं भैक्ष्यं वरं भारोपजीवनम् ।
पुंसां विवेकहीनानां सेवया न धनार्जनम् ॥ ५ ॥
या प्रकृत्यैव चपला नृपतत्यशुचावपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥ ६ ॥
मनुष्यजातौ तुल्यायां भृत्यत्वमतिगर्हितम् ।
प्रथमो यो न तत्रापि स किं जीवत्सु गण्यते ॥ ७ ॥
तावज्जन्मातिदुःखाय ततो दुर्गंतता सदा ।
तत्रापि सेवया वृत्तिरहो दुःखपरम्परा ॥ ८ ॥
नाश्नाति सेव्यौत्सुक्याद्विनिद्रो न प्रबुध्यते ।
न निःशङ्कं वचो ब्रूते सेवकोऽप्यत्र जीवति ॥ ९ ॥
भूशय्या ब्रह्मचर्यं च कृशत्वं लघु भोजनम् ।
सेवकस्य यतेर्यद्वद्विशेषः पापधर्मजः ॥ १० ॥
शीतातपादिकष्टानि सहते यानि सेवकः ।
धनाय तानि कल्यानि यदि धर्माय मुच्यते ॥ ११ ॥
मृदुनातिसुवृत्तेन सुसृष्टेनातिहारिणा ।
मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥ १२ ॥
स्वयं जहाति सेवकः सुखं च मानमेव च ।
यदर्थमर्थमीहते तदेव तस्य हीयते ॥ १३ ॥
प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥ १४ ॥
मौनान्मूकः प्रवचनपटुर्वातुलो जल्पको वा धृष्टः पार्श्वे वसति च सदा दूरतस्त्वप्रगल्भः ।
क्षान्त्या भीरूर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १५ ॥
विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कश्चित्साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति ।
चित्रं चित्रं किमथ चरितं नैकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १६ ॥
भक्तानामुपकारिणां परहितव्यापारयुक्तात्मनां सेवासव्यवहारतत्त्वविदुषां द्रोहच्युतानामपि ।
व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा तस्मार्द्धम्बुपतेरिवावनिफ्तेः सेवा सदाशङ्किनी ॥ १७ ॥
आहारे वडवानलश्च शयने यः कुम्भकर्णायते सन्देशे बधिरः पलायनविधौ सिंहः शृगालो रणे ।
अन्धो वस्तुनिररीक्षणेऽथ गमने खञ्जः पटुः कन्दने भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्तमः सेवकः ॥ १८ ॥
जीवितसाफल्यम्
यस्य जीवन्ति धर्मेण पुत्रा मित्राणि बान्धवाः ।
सफलं जीवितं तस्य नात्मार्थे को हि जीवति ॥ १ ॥
यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा ।
अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ॥ २ ॥
वाणी रसवती यस्य भार्या...
पादटिप्पणी (Footnotes)
वामभागस्थ-पादटिप्पणी:
१ अभ्रुकण. २ समर्था ३ जठरभाण्डम् ४ उपहास ५ विषयाक्षेपेण पर्यस्ता भ्रष्टा बुद्धिर्यस्य ६ शिखरी पर्वतस्तस्य कुहरं बिलं तत्संबन्धी यो ग्रावा पाषाणः स एव शय्या तस्यां निषण्ण उपविष्टः ७ उदरभाण्डम् ८ गोपवेषधारिणः कृष्णस्य ९ कृपणं १० रोदनं कुर्वद्भिः ११ भार्या १२ नागानाम् १३ अविनीतानाम् १४ गर्वं १५ सूचके १६ सेवकाः १७ विक्रीता असवः प्राणा येन सः १८ सु. र. भा.
दक्षिणभागस्थ-पादटिप्पणी:
१ नाशितम् २ भिक्षा ३ भारवाहकत्वेनोपजीवनम् ४ इच्छति ५ बहुभाषकः ६ भयशीलः ७ अनर्थः नाशो वा ८ समुद्रस्य ९ वार्ताहरणे १० पादविकलः ११ रोदने
| ९८ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
[वामभागः]
पुत्रवती सती । लक्ष्मीर्दानवती यस्य सफलं तस्य जीवि-
तम् ॥ ३ ॥ स जीवति यशो यस्य कीर्तिर्यस्य स जीवति ।
अयशोऽकीर्तिसंयुक्तो जीवन्नपि मृतोपमः ॥ ४ ॥ चलं
वित्तं चलं चित्तं चले जीवितयौवने । चलाचलमिदं सर्वं
कीर्तिर्यस्य स जीवति ॥ ५ ॥ यस्मिञ्जीवति जीवन्ति बहवः
स तु जीवति । काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूर-
णम् ॥ ६ ॥ स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ७ ॥ अञ्जलि-
रकारि लोकैर्गलानिर्मेनास्त्वैव रञ्जिता जगती । सध्याया इव
वसतिः स्वल्पापि सखे सुखायैव ॥ ८ ॥ यज्जीवति क्षणमपि
प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरमज्यमानम् । तन्नाम
जीवितमिह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिराय
बलिं च भुङ्क्ते ॥ ९ ॥ यो नात्मजे न च गुरौ न च
भृत्यवर्गे दीने दया न कुरुते न च बन्धुवर्गे । किं तस्य
जीवितफलं हि मनुष्यलोके काकोऽपि जीवति चिराय बलिं
च भुङ्क्ते ॥ १० ॥ जातः कूर्मः स एकः पृथुभुवनभरायार्पितं
येन पृष्ठं श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्वि
चक्रम् । सजाताव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनाष्टाः ॥ ११ ॥
ऋणम्
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं
हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥ १ ॥ पापं कर्तुमृणं कर्तुं
मन्यन्ते मानवाः सुखम् । परिणामोऽतिगहनो महतामपि
नाशकृत् ॥ २ ॥ लोकद्वयप्रतिमयैकनिदानमेतद्विक्षत्राणिना-
मृणमहो परिणामघोरम् । एकः स एव हि पुमान्यरमस्ति
लोके क्रुद्धस्य येन धनिकस्य मुखं न दृष्टम् ॥ ३ ॥
प्रवासः
यो न संचरते देशान्यो न सेवेत पण्डितान् । तस्य
सकुचिता बुद्धिर्घृतबिन्दुरिवाम्भसि ॥ १ ॥ यस्तु संचरते
देशान्यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैल-
बिन्दुरिवाम्भसि ॥ २ ॥ देशे देशे किमपि कुतुकादद्भुतं
लोकेमानाः संपाद्यैव द्रविणमर्तुलं संद्य भूयोऽप्यवाप्य ।
[दक्षिणभागः]
संयुज्यन्ते सुचिरविरहोत्कण्ठिताभिः सतीभिः सौख्यं धन्याः
किमपि दधते सर्वसंपत्समृद्धाः ॥ ३ ॥ अकिंचन्यादति-
परिचयाज्जाययोपेक्ष्यमाणो भूपालानामननुसरणाद्दिभ्यदेवा-
खिलेभ्यः । गेहे तिष्ठन्कुमतिरलसः कूपकूर्मः सधर्मा किं
जानीते भुवनचरितं किं सुखं चोपभुङ्क्ते ॥ ४ ॥ तीर्थाना-
मवलोकनं परिचयः सर्वत्र वित्तार्जनं नानावर्यनिरीक्षणं
चतुरता बुद्धेः प्रशस्ता गिरः । एते सन्ति गुणा. प्रवास-
विषये दोषोऽस्ति चैको महान्यन्मुग्धा मधुरोधराधरसुधापान
विना स्थीयते ॥ ५ ॥
व्यापारिणः
आसीत्सत्ययुगे बलिस्तदनु च त्रेतायुगे भार्गवो रामः
सत्यपराक्रमोऽथ भगवान्धर्मस्तथा द्वापरे । दाता कोऽपि न
चास्ति संप्रति कलौ जीवन्ति केनार्थिनश्चेत्येवं कृतनिश्चयेन
विधिना व्यापारिणो निर्मिता. ॥ १ ॥ शक्रोद्याननिवासिताम-
धिगतो दाता स कल्पद्रुमः पातालं किल कामधेनुरपि सा काम-
प्रसूरन्वगात् । इत्थं विश्वसृजा विचिन्त्य यवनागाराधिकारा-
र्थिनः सद्गियानिधिरक्षणार्थमधुना व्यापारिणो निर्मिताः ॥ २॥
कौपीनं धृतवान्हररोऽपि भगवान्विष्णुः प्रविष्टो जलं वारा-
राशिरपेयतामुपगत को नाम दातुं क्षमः । इत्थं विश्वसृजा
विचिन्त्य यवनागाराधिकारार्थिनः सद्गियानिधिजीवनार्थम-
धुना व्यापारिणो निर्मिताः ॥ ३ ॥ व्यापारान्तरमुत्सृज्य
वीक्षमाणो वधूसुखम् । यो गृहेष्वेव निद्राति दर्दिरद्राति
स दुर्मतिः ॥ ४ ॥
कलिमहिमा
यवनैरवनिः क्रान्ता हिन्दवो विन्ध्यमाविशन् । बलिना
वेदमार्गोऽय कलिना कवलीकृतः ॥ १ ॥ सीदन्ति चाग्निहो-
त्राणि गुरुपूजा प्रणश्यति । कुमार्यश्च प्रसूयन्ते प्राप्ते कलियुगे
सदा ॥ २ ॥ परानेन मुख दग्धं हस्तौ दग्धौ प्रतिग्रहात् ।
परस्त्रीभिर्मनो दग्धं कुतः शापः कलौ युगे ॥ ३ ॥ राक्षसाः
कलिमाश्रित्य जायन्ते ब्रह्मयोनिषु । ब्राह्मणान्वेव बाधन्ते
तत्रापि श्रोत्रियान्कुशान् ॥ ४ ॥ कुशलाः शब्दवार्तायां
वृत्तिहीनाः सुरागिणः । कलौ वेदान्तिनो भान्ति फाल्गुने
बालका इव ॥ ५ ॥ वागुच्चारोत्सवं मात्रं तत्क्रिया कर्तुम-
क्षमाः । कलौ वेदान्तिनो भान्ति फाल्गुने बालका इव
॥ ६ ॥ कृते च रेणुका कृत्या त्रेताया जानकी तथा ।
द्वापरे द्रौपदी कृत्या कलौ कृत्या गृहे गृहे ॥ ७ ॥ मधुग-
[पादटिप्पण्यः / Footnotes]
वामभागपादटिप्पण्यः:
१ दानादिप्रभवा कीर्ति शौर्यादिप्रभव यश
२ भ्रमणशीले
३ अर्थदानार्थमिति भाव-, पक्षे,-अञ्जलिकरणेन लोके आज्ञाकारित्व ध्वन्यते
४ निस्तेजस्कत्वम्, पक्षे,-असामर्थ्यम्.
५ आन्कार्ततां नीता, पक्षे,-अनुरागवती कृता
६ प्रख्यातम्
७ उदुम्बरफले यथा जन्तवस्तिष्ठन्ति तथा तादृशा मनुष्या ब्रह्माण्डरूपोदुम्बरे तिष्ठन्ति
८ ऋणम्
९ कारणम्
१० परिणामे भयंकरम्
११ आश्चर्यम्
१२ वीक्षमाणा
१३ द्रव्यम्
१४ बहुलम्
१५ गृहम्
१६ पुन..
दक्षिणभागपादटिप्पण्यः:
१ दारिद्यात्
२ अवमानितं
३ सदृश
४ षोडशवार्षिकी
५ अधरोष्ठ
६ दरिद्रो भवति.
कलिमहिमा ९९
मध्योत्पन्नाः कृतयुगधर्मानुसारिणः किमिति । इति रोषादिव कलिना पीड्यन्ते साधवो बलिना ॥ ८ ॥ नौधीतेऽत्र जनो यदि कश्चिदधीते शते सहस्रे वा । दुस्तर्केषु श्राम्यति दूरीकुरुते श्रुतिस्मृतिसुतर्कान् ॥ ९ ॥ सीदन्ति सन्तो विलसन्त्यसन्तः पुत्रा म्रियन्ते जनकश्चिरायुः । परेषु मैत्री स्वजनेषु वैरं पश्यन्तु लोकाः कलिकौतुकानि ॥ १० ॥ एतादृशे कलियुगेऽपि शतेषु कश्चिज्जातादरो जगति यः श्रुतिमार्ग एव । यत्किंचिदाचरतु पात्रमसौ स्तुतीना श्लाघ्य मितौपमपि किं न मैरौ सरश्चेत् ॥ ११ ॥ उपनयनविवाहाद्युत्सवैकप्रधानौ कलिविभवत एषां कालभेदानभिज्ञाः । विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासमेते ॥ १२ ॥ न देवे देवत्वं कपटपटवस्तापसजना जनो मिथ्यावादी विरलाुरुद्विजैलधरः । प्रसङ्गो नीचानामवनि- पतयो दुष्टमनसो जना भ्रष्टा नष्टा अहह कलिकालः प्रभवति ॥ १३ ॥ गता गीता नाशं कचिदपि पुराणं व्यपगतं विलीनाः स्मृत्यर्था निगमनचयो दूरमगमत् । इदानीं रैदासप्रभृतिवचनैर्मोक्षपदवी तदेवं जानीमो कलियुग तवैवैष महिमा ॥ १४ ॥ अपारैर्व्यापारैरहरहि नयन्तोऽशनदशास्त्वथ ज्ञाताः संध्या विदधति न जातु स्वसमये । त्यजन्तः स्वा वृत्ति द्विजकुलभवग्रामगणकीभवन्तो हन्तामी कथमपि च जीवन्ति बहवः ॥ १५ ॥ कुक्षेः पूत्यै यवनविततेर्भृत्यकृत्यानि कर्तुं विक्रीणीते वपुरपि निजं वेतनैरेतदास्ताम् । विप्रो भूत्वाप्यहह गणनानैपुणैर्वञ्चयित्वा स्वर्णस्तेयं रचयति जनः स्वामिना पोषकाणाम् ॥ १६ ॥ वेदव्यासः स नव दश यो वेद वेदाक्षराणि श्लोकं त्वेकं परिपठति यः स स्वयं जीव एव । आपस्तम्बः स इह कलयेत्सम्यगौर्वासनं यः कष्टं शिष्टक्षतिकृति कलौ कार्श्यमृच्छन्ति विद्याः ॥ १७ ॥ ये कायस्थजनाश्च ये नृपसुता ये च द्विजाः शस्त्रिणस्ते यत्पादद्नुसृत्य निर्दयतया शुष्कांस्तुरुष्काधिपान् । देवान्भूमिसुराश्च पान्ति कृतिनस्ते चेन्मुदोदासते ब्राह्मणाय जलाञ्जलिः किल भुवि प्राज्ञैः प्रदेयो भवेत् ॥ १८ ॥ आक्रान्तासु वसुंधरासु यवनैरासेतुहेमाचलं विद्राणे क्षितिसुद्रणे विकरुणे निद्राति नारायणे । निर्विघ्नप्रसरे कलावपि बलात्निष्कलङ्कं वैदिकं पन्थानं किल तत्र तत्र परिपाल्येको हि लोकोत्तरः ॥ १९ ॥ अज्ञानामविरामलौकिकवचोभाजाममीषा पुनर्मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु । आमायव्ययलेखनेन नयतां कालानशेषानहो पारम्पर्यत ईदृशामिह नृणा ब्राह्मण्यमन्या-
दृशम् ॥ २० ॥ ये मुष्णन्ति निशि प्रविश्य भवनं ये वा बलात्काननं नैते स्वामिधनं हरन्ति ननु तान्निन्दन्ति चोरा इति । सद्यो हन्त हरन्ति पोषकधनं सख्या विपर्यस्य ये कष्टं तानपि वञ्चकानिह पुरस्कृतैर्वन्ति सर्वे जनाः ॥ २१ ॥ सौहार्द शशशृङ्गवत्सुजनता वन्ध्यासुतस्पर्धिनी कि ब्रूमो गुणिना गुणग्रहि लता व्योमप्रसूनोपमा । दृष्टिः शीलसुधाहलाहलमयी राज्ञा सुधामण्डले लोके संप्रति यत्कले स जयति त्वद्दृष्टिलालारसः ॥ २२ ॥ निर्वीर्या पृथिवी निरोषधिरसा नीचा महत्वं गता भूपाला निजकर्मधर्मरहिता विप्रा. कुमार्गे रता. । भार्या भर्तृविरोधिनी पररता पुत्राः पितुर्द्वेषिणो हा कष्टं खलु वर्तते कलियुगे धन्या नरा ये मृताः ॥ २३ ॥ दूरदर्शिनमाकलय्य भजते सद्यो विरूपाक्षता सङ्गे किं च विरोचनत्वमथ सस्थाने नृसिंहाकृतिम् । पाण्डित्योक्तिषु वक्रतुण्डरचना दाने त्वपर्णात्मतामेकः पञ्चसुरात्मकः प्रभुरहो भाग्यैः कलौ लभ्यते ॥ २४ ॥ धर्मः प्रव्रजितस्तपः प्रचलितं सत्यं च दूरे गतं पृथ्वी मन्दफला नराः कपटिनश्चित्तं च शाठ्योजितम् । राजानोऽर्थपरा न रक्षणपराः पुत्राः पितुर्द्वेषिणः साधुः सीदति दुर्जनः प्रभवति प्राप्ते कलौ दुर्युगे ॥ २५ ॥ सन्तः कापि न सन्ति सन्ति यदि वा दुःखेन जीवन्ति ते विद्वांसोऽपि न सन्ति सन्ति यदि वा मात्सर्ययुक्ताश्च ते । राजानोऽपि न सन्ति सन्ति यदि वा लोभाद्धनग्राहिणो दातारोऽपि न सन्ति सन्ति यदि वा सेवानुकूलाः कलौ ॥ २६ ॥ हर्म्यस्थानमधर्मकर्मविततेर्दुर्मानमैर्मासनं शास्त्रस्तोम ललाटभूलिपिलयः शान्तिः संवानाम् । सर्वाम्नायवचः-समापनदिनं सत्संविधावेघरंशाशजनिभूरभूदिह महानर्थवहोऽयं कलिः ॥ २७ ॥ प्रातहर्न्त कृताप्लवोऽपि रजकस्पृष्टाङ्गडो रासभै रूढान्वारयते पटाननुदिन धृत्वा बहिर्गच्छति । गत्वा म्लेच्छमुखाशुचीन्स्पृशति च स्पृष्टापि न स्नात्यहो न स्नातोऽप्यथ मुद्ध एव चपलो भुक्त्वापि न व्रीडति ॥ २८ ॥ शस्त्रैर्जीविति शास्त्रमुज्झति पर शूद्राङ्गुतैरम्बुभिः स्नात्वाचामति देवताः स्त्रपयति स्वैरं पचैल्योदनम् । उच्छिष्टान्न बिभेति याति यैवैनेरुच्चावचैः संगतिं
१ अध्ययन न करोति. २ स्वल्पजलम् ३ मरुदेशे. ४ राजान ५ बृहस्पति. ६ सातीभिम्. ७ प्राप्नुवन्ति. ८ म्लेच्छविशेषान् ९ उदासीना भवेयु. १० नष्टे.
१ वन्ध्यासुततुल्या २ विकृतनेत्रत्वम्; पक्षे,-शिवताम्; ३ रुचिराहित्यम्; पक्षे,-सूर्यत्वम्. ४ नृसिंहस्येव क्रूरामाकृतिम्; पक्षे,-नृसिंहाकृतिम् ५ वक्रा या तुण्डस्य रचना ताम्; मुखवक्रत्वमित्यर्थः; पक्षे, वक्रतुण्डस्य गणपतेरिव या रचना ताम्. गणेशरूपमित्यर्थ ६ न विद्यन्ते पर्णान्यपि यस्य ताम्, अकिंचनत्वमित्यर्थ, पक्षे,-अपर्णा पार्वती तद्रूपताम् ७ सुवर्णनिर्मितमासनम्. ८ यज्ञानाम्. ९ वेदवचसाम्. १० मरणम् ११ ज्ञानम् १२ गर्दभैः. १३ न लज्जते. १४ अन्नम्. १५ उच्चनीचैरनेकभेदभिन्नैः.
१०० सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
मातङ्गाञ्चिकटं गतानगणयन्मार्गान्मुहुर्गाहते ॥ २९ ॥ नीचै- र्दुर्यवनैः शुनीभिरपि वा निःशङ्कमालोकितं भुङ्क्ते पँक्तिवि- दूषकैः सह नरैरज्ञातवेदाक्षरैः । मद्यास्वादनमत्तचित्तजन- तामोहाय भीहानितः कर्माण्यारहते श्रुतिस्मृतिवचोदूरार्य्य- साराण्यहो ॥ ३० ॥ विद्वत्ता वसुधातले विगलिता पाण्डि- त्यधर्मो गत. श्रोतॄणा हृदयेष्वबुद्धिरधिका ज्ञान गत चारणे । गाथागीतविनोदवाक्यरचनायुक्त्या जगद्रञ्जितं ज्योतिवैद्यक शास्त्रसारमखिलं शूद्रेषु जातं कलौ ॥ ३१ ॥ धिक्त्वा रे कलि- काल याहि विलयं केयं विपर्यस्तता हा कष्टं श्रुतिशालिना व्यवहृतिर्म्लेच्छोचिता दृश्यते । एकैर्वाङ्मयदेवता भगवती विक्रेतुमानीद्यते नि शङ्कैरपरैः परीक्षणविधौ सर्वाङ्गमुद्धाट्यते ॥ ३२ ॥ कन्या कामप्युद्वह्य प्रविजहृदुदयद्यौवनामञ्ज एना द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु । अन्यो- न्याश्लेषवाञ्छाविगलितवयसोरुत्तमालिन्यमर्योर्दम्पत्योर्य्याकृत वै हतविधिरुमयोर्लोकयोः शोकयोगम् ॥ ३३ ॥
मद्यपानगर्हणम्
वैकल्यं धरणीपातंमथथोचितजल्पनम् । सनिपातस्य चिह्नानि मद्य सर्वाणि दर्शयेत् ॥ १॥ एकतश्चतुरो वेदा ब्रह्म- चर्य तथैकतः । एकत. सर्वपापानि मद्यपानं तथैकतः ॥ २ ॥ मद्यपस्य कुत. सत्यं दया मासाशिनः कुतः । कामिनश्च कुतो विद्या निर्धनस्य कुतः सुखम् ॥ ३ ॥ अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते । नग्ना विक्षिप्य गात्राणि बालका इव मद्यपाः ॥ ४ ॥ मत्तो हिनस्ति सर्वं मिथ्या प्रलपति हि विकलया बुद्ध्या । मातरमपि कामैयते सावज्ञं मद्यपान- मत्तः सन् ॥ ५ ॥ चित्ते भ्रान्तिर्जायते मद्यपानाद्भ्रान्ते चित्ते पाँपाचर्यामुपैति । पापं कृत्वा दुँर्गतिं यान्ति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ॥ ६ ॥
तमाखुः
तॆमाखुपत्रं राजेन्द्र भज मौज्ञानदायकम् । तैमाखुपत्रं राजेन्द्र भज माज्ञानदायकम् ॥ १ ॥ दारिद्र्यशीलोऽपि नर- स्तमाखुं नैव मुञ्चति । निवारितोऽपि मार्जारस्तमाखुं नैव मुञ्चति ॥ २ ॥ बिडौजा. पुरा पृष्टवान्यौनि धारि- त्रीतले सारभूतं किमस्ति । चतुर्भिर्मुखैरित्यवोचद्धिरिञ्चि- स्तमाखुस्तमाखुस्तमाखुस्तमाखु. ॥ ३ ॥ न स्वादु नौषध- मिद न च वा सुगन्धि नाक्षिप्रिय किमपि शुष्कतमाखु- चूर्णम् । कि चाक्षिरोगजनकं च तदस्य भोगे बीजं नृणा नहि नहि व्यसनं विनान्यत् ॥ ४ ॥ सँपर्णपरiseवितस्तदनु साँधूपूगान्वितो र्दिजावनमहापदुस्तदनु सौरसंधानभाक् । सदैव सुँधयाशनं भवति यस्य विष्णो. समस्तमाखुरिति सेव्यता भवति वै यतो रोगिता ॥ ५॥ श्रीकृष्णः पूत- नाया. स्तनमलमपिबत्कालकूटेन पूर्ण प्रस्कन्नं भूप्रदेशे किमपि च पिबतो यत्तदा तस्य वक्त्रात् । तस्मादेषा तमाखुः सुरवरपरमोच्छिष्टमेतदुरापं स्तुत्वा नत्वा मिलित्वा ह्यनिश- मतिमुदा सेव्यते वैष्णवाग्र्यैः ॥ ६ ॥ भ्रातः कस्त्वं तमा- खुर्गमनमिह कुतो वारिधे पूर्वपारात्कस्व त्वं दण्डधारी नहि तव विदितं श्रीकलेरेव राज्ञः । चातुर्वर्ण्यं विधौत्रा विविधविरचितं ब्रह्मणा धर्महेतोरेकीकर्तुं बलात्तन्निखिल- जगति रे शासनादागतोऽस्मि ॥ ७ ॥
१ चाण्डाल २ प्रविशति ३ दुष्टयवनै ४ पङ्क्तिबाह्यौ ५ श्रुति-स्मृतिबाह्यानि ६ निष्फलानि ७ नटादौ. ८ नीचेषु ९ संजातयौवनाम् १० विकलत्वम् ११ अयुक्तप्रलाप १२ त्रिदोषस्य १३ लक्षणानि १४ नाशयति १५ इच्छति १६ पापाचरणम् १७ नरकम्
१ आखुर्मूषिक पत्र वाहिन यस्य २ मा लक्ष्मी . ३ अज्ञानदायकं तमाखुपत्र मा भजेति ४ इन्द्र ५ ब्रह्मदेवम्. ६ सुपर्णेन गरुडेन सेवित , पक्षे,-सुष्ठुपर्णेन नागवल्लीदलेन सह परिसेवितः ७ साधूनां पूगैः सङ्घैरन्वित., पक्षे,-साधु सम्यक्पूग' क्रमुकस्तेनान्वित. ८ द्विजा द्विजन्मानो ब्राह्मणादयस्तेषामवन रक्षण तस्मिन्महासमर्थ , पक्षे,-द्विजा दन्ता ९ सार श्रेष्ठवस्तु मोक्षादि तस्य सधान संधि भजति, पक्षे,-सार खदिरसारस्तेन संधान सम्यग्मेलनं भवति १० सुधयामृतेन यस्य भोजन भवति, पक्षे,-सुधया चूर्णेन सदैव यस्य भक्षण भवति ११ यतो विष्णोररागिता विषयेष्वप्रीतिर्जायते, पक्षे,-यतस्तमाखोस्तमाखुपत्राद्रागिता मुखरक्तिमा जायते. १२ जगत्कर्ता, ब्रह्मणो विशेषणम्
इति श्रीसुभाषितरत्नभाण्डागारे द्वितीयं सामान्यप्रकरणं समाप्तम्
तृतीयं राजप्रकरणम्
| राजसभावर्णनम् | राजमिलनम् |
|---|---|
| सभाकल्पतरु वन्दे वेदशास्त्रोपशोभितम् । शास्त्रगुणसमाकीर्णं विद्वद्भ्रमरमण्डितम् ॥ १ ॥ विद्वासः कवयो महागायकाः परिहासकाः । इतिहासपुराणज्ञाः सभा सप्ताङ्गसयुता ॥ २ ॥ धनैर्धर्मैर्मराजैश्च कविभिर्गुरुभिर्वृता । सभा ते भाति भूमीन्द्र सुधर्मातोऽधिका क्षितौ ॥ ३ ॥ सुवर्णवर्णललिता पदविन्यासशालिनी । वाणीव भाति ललिता सभा ते जगतीपते ॥ ४ ॥ विबुधावलिसंपूर्णा सुखपूर्णदिगीश्वरा । चतुराननसंपूर्णा स्वर्गादपि समाधिका ॥ ५ ॥<br>गुरु<sup>१</sup>नेकः कवि<sup>२</sup>रेकः सदसि मघोनः<sup>३</sup> कलाधरो<sup>४</sup>ऽप्येक । अद्भुतमत्र सभाया गुरवः कवयः कलाधराः सर्वे ॥ ६ ॥ अनेकविद्वज्जनरत्नपूर्णं वेदोदकन्यायतरङ्गरम्यम् । अलङ्घनीयं गुरुतीर्थमेकं सभासमुद्रं शिरसा नमामि ॥ ७ ॥ सारस्वते स्रोतसि दूरमग्नैः सुधीवरैरुद्धतसूक्तिरत्ने । न तत्किमप्युर्वरितं यदेषामुपायनीकृत्य पुरो भवेयम् ॥ ८ ॥ सद्गोदिसध्योत्तमहेमकुम्भस्तना सुवर्णाधिकृता प्रसन्ना । सद्रत्नभूषाविमला त्वयासौ कान्तेव ससन्नृप भाति रम्या ॥ ९ ॥ पद्मानना पद्मपलाशनेत्रा पद्मच्छविः पद्मकरमलांशुका । पद्मीश<sup>५</sup>नाथै<sup>६</sup> परिशीलनीया लक्ष्मीरिवाभाति नरेश ते सभा ॥ १० ॥ साग्नयोऽपि किल शीतलशीला विश्रुता अपि बहु श्रुतवन्तः । पण्डिता अपि जडाः परवादे श्रोत्रिया इह सदा निवसन्ति ॥ ११ ॥ क्वचिच्चारुचामीकरारम्यरम्या क्वचिद्द्वातविद्योतितध्वान्तदक्षा । क्वचिद्धीरकेश्रेणि<sup>७</sup>कैलासहासा<sup>८</sup> क्वचिद्धीरवीरप्रवीरप्रकाशा ॥ १२ ॥ नाह्वेतापि पुरः पद रचयति शास्त्रोपकण्ठं हठात्पृष्टा न प्रतिवक्ति कम्पमयते स्तम्भं समालम्बते । वैवर्ण्यं स्वरभङ्गमञ्चति बलान्मन्दाक्षमन्दानना कष्टं भोः प्रतिभावतोऽप्यभिसभ वाणी नवोधायते ॥ १३ ॥ चिन्तासक्तनिमग्नमन्त्रिसलिलं दूतोर्मिशङ्काकुलं पर्यन्तस्थितचारनक्रमकरं नागाश्वहिंसाश्रयम् । नानावाशक<sup>८</sup>कङ्कपशिरुचिर कायस्थसर्पास्पदं नीतिश्रुण्णतटं च राजकरणं<sup>९</sup> हिंस्रैः समुद्रायते ॥१४॥ | शुक्ल पर्यंकसङ्गमोक्तिनिगदैः किमीरिता नर्मतो भार्याक्रन्दितकुन्तकीलितहृदो गर्वीदुरुत्थं गतः । प्रनष्टाः पदतः कदापि नहि ये तेऽद्य त्वदीयैर्गुणैराकृष्टा विदुषा वरा वयमहो त्वा द्रष्टुमभ्यागताः ॥ १ ॥<br><br>सामान्यराजप्रशंसा<br><br>राजंस्त्वद्दर्शनेनैव गलन्ति त्रीणि तत्क्षणात् । रिपोः शस्त्रं कवेर्दैन्यं नीवीबन्धो मृगीदृशाम् ॥ १ ॥ चिराद्यत्कौतुकावित्तं कल्पवृक्षमुदीक्षितुम् । तन्मे सफलमद्यासीन्नेत्रं त्वय्यवलोकिते ॥ २ ॥ सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे जनैः । नौरयो<sup>१</sup> लेभिरे पृष्ठं न वक्षः<sup>२,३</sup> परयोषितः ॥ ३ ॥ त्वया वीर गुणाकृष्टा<sup>४</sup> ऋजुदृष्ट्या विलोकिताः । लक्षं<sup>५</sup> लब्धैव गच्छन्ति मार्गणा<sup>६</sup> इव मार्गणाः<sup>७</sup> ॥ ४ ॥ कल्पद्रुमो न जानाति न ददाति बृहस्पतिः । अयं तु जगतीजानि<sup>८</sup>र्जानाति च ददाति च ॥ ५ ॥ रविः करसहस्रेण<sup>९</sup> देशाशा<sup>१०</sup>परिपूरकः । त्वमेकेन करेणैव सहस्राशाप्रपूरकः ॥ ६ ॥ बलिः पातालनिलयोऽधःकृतश्चित्रमत्र किम् । अधःकृतो दिविस्थोऽपि चित्रं कल्पद्रुमस्त्वया ॥ ७ ॥ आर्तानामिह जन्तूनामार्तिच्छेदं करोति यः । शङ्खचक्रगदाहीनो द्विभुजः परमेश्वरः ॥ ८ ॥ बहुधा राज्यलाभेन यस्तोषस्तव भूपते । बहुधा<sup>११</sup>राज्य<sup>१२</sup>लाभेन स तोषो मम भूपते ॥ ९ ॥ भुजंग<sup>१३</sup>भोग<sup>१४</sup>सक्रान्ता कलत्रं<sup>१४</sup> तव मेदिनी । अहंकारः परा कोटिम्यूरोहति कुतस्तव ॥ १० ॥ तुलाम<sup>१५</sup>धिरूढ रविणा वृश्चिके<sup>१६</sup> निहित पदम् । भवता शिरसि न्यस्तमयलेनैव भोगिनाम्<sup>१७</sup> ॥ ११ ॥ किं कृतेन<sup>१८</sup> न यत्र त्व यत्र त्वं किमसाै कलिः । कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ १२ ॥ |
पाद-टिप्पणी (Footnotes)
[प्रथम स्तम्भः] १ बृहस्पतिः २ शुक्र ३ इन्द्रस्य ४ चन्द्र ५ हस्तिनाथै ६ प्राप्नोति ७ गुप्तचरा ८ शब्द कुर्वाणा, पिशुना इत्यर्थ ९ राज्ञोऽधिकरणम्
[द्वितीय स्तम्भः] १ वैरिण २ पलायनाभावादित्यर्थे ३ उरस्थलम् ४ ज्या, पक्षे,-विनयादि ५ शरण्यम्, पक्षे,-लक्षद्रव्यम् ६ याचका • ७ बाणा • ८ पृथिवीपति ९ किरणा हस्ताश्च १० दिशो मनोरथाश्च ११ बहुधारा गलन्ति यस्य तदाज्य घृतम् १२ शेष, पक्षे,-जार० १३ फणा, पक्षे,-उपभोग • १४ भार्या १५ तुला-राशिम् १६ वृश्चिकराशौ १७ सर्पाणाम्, पक्षे,-कामिनाम् १८ कृतयुगेन.
| १०२ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
असिधारापथे नाथ शत्रुशोणितपिच्छिले । आजगाम कथं लक्ष्मीर्निर्जगाम कथं यशः ॥ १३ ॥ कोऽप्यन्यः कल्पवृक्षोऽयमेकोऽस्ति क्षितिमण्डले । यत्पाणिपल्लवोऽप्येकः कुरुतेऽधः सुरद्रुमम् ॥ १४ ॥ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । ^१मार्गणौघः समायाति ^२गुणो याति दिगन्तरम् ॥ १५ ॥ युधिष्ठिरोऽसि भीमोऽसि चरितैरर्जुनो भवान् । पञ्चा सहदेवोऽसि वाच्यता नकुलस्य ते ॥ १६ ॥ बलिकर्णदधीच्याद्याः पुरा पञ्चत्वमागताः । पञ्चत्वं न गताश्चित्रं त्वयि जीवति पञ्चमे ॥ १७ ॥ एक एव महान्दोषो भवता विमले कुले । लम्पन्ति ^३पूर्वजा कीर्ति जाता जाता गुणाधिकाः ॥ १८ ॥ भ्रमासु रिपुसेनासु नरेन्द्र त्वं महामहा । खङ्गान्तर्निजमेवैकमद्राक्षीः सम्मुख मुखम् ॥ १९ ॥ किं वर्ण्यता कुचद्वन्द्वमस्राः कमलचक्षुषः । आसमुद्रकरग्राही भवान्यत्र करप्रदः ॥ २० ॥ वेधा ^४वेदनयाश्लिष्टो गोविन्दोऽपि ^५गदान्वितः । शम्भुः ^६शूली ^७विषादी च देव केनोपमीयसे ॥ २१ ॥ ^८तृष्णापहारी विमलो ^९द्विजावासो जनप्रियः । ह्रदः ^१०पद्माकरः किं तु ^११बुधैस्त्वं स ^१२जलाश्रयः ॥ २२ ॥ सदा हसालसं बिभ्रन्मानस प्रचलज्जलम् । भूभृन्नाथोऽपि नायाति यस साम्यं हिमालयः ॥ २३ ॥ मीमांसको महीपोऽयमन्यथा शक्तिमान्कथम् । नैयायिकोऽपि स्यादेव परशक्तेस्तु खण्डनात् ॥ २४ ॥ राजन्द्वारिकादेव प्राप्तवानसि ^१३वौरणम् । ^१४मदैवारणमिच्छामि त्वत्तोऽहं जगतीपते ॥ २५ ॥ राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति । अभाग्यच्छत्रसञ्छन्ने मयि नायान्ति बिन्दवः ॥ २६ ॥ सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा । परमेकं न जानासि वक्तु नास्तीति याचके ॥ २७ ॥ आश्वासनस्नेहभक्तीनामेकमालम्बनं महत् । प्रकृष्टसेव धर्मस्य प्रसादो मूर्तिसचय. ॥ २८ ॥ ^१५सत्यभामासमाश्रिष्टः ^१६साधुवृन्दावनरतः । ^१७यशोदयाममायुक्तस्त्वा पायात्त्वादृशो हरिः ॥ २९ ॥
भवान्हि भगवान्नैव ^१नैतो भेदः परस्परम् । ^२महत्यागदयायुक्तः ^३सत्यभामासमाश्रितः ॥ ३० ॥ एकमेव गुणं प्राप्य नम्रतामगमद्धनुः । तवाशेषगुणा राज्ञ. स्तब्धतेति सुविस्मयः ॥ ३१ ॥ भूषणायुपमोगेन प्रभुर्न भवति प्रभुः । परैरपरिभूताञ्जस्त्वमिव प्रभुरुच्यते ॥ ३२ ॥ कस्ले शौर्यमदो योद्धुं त्वय्येकं संतिमास्थिते । संससतिसमारूढा भवन्ति ^६परिरपन्थिनः ॥ ३३ ॥ हुतमिष्टं च तप्त च धर्मश्चाय कुलस ते । गृहात्प्रतिनिवर्त्तन्ते पूर्णकामा यदर्थिनः ॥ ३४ ॥ फणीन्द्रस्ते गुणान्वक्तु लिखितु ^७हैहैँयाधिपः । द्रष्टुमाखण्डलः शक्तः काहमेष क ते गुणाः ॥ ३५ ॥ अमितः संमितः प्रासैरुत्कर्षैर्हृद. प्रभो । अहितः सहितः साधुयशोभिरसतामसि ॥ ३६ ॥ खड्गेऽपि समरेषु त्वा विजयश्रीर्न मुञ्चति । प्रभावप्रभवं कान्त स्वाधीनपतिका यथा ॥ ३७ ॥ पश्यन्त्यसख्यापथगा त्वदानजलवाहिनीम् । देव त्रिपथगात्मानं गोपयत्यु^९ग्रमूर्धनि ॥ ३८ ॥ यद्धैर्यं कूर्मराजस्य यश्च शेषस्य विक्रमः । पृथिव्या रक्षणे राजन्नेकत्र त्वयि तत्स्थितम् ॥ ३९ ॥ त्वयि संगरसंप्राप्ते धनुषासादिता. शराः । शरैररिशिरस्तेन भूतत्या त्वं त्वया यशः ॥ ४० ॥ ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः । निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुबिन्दवः ॥ ४१ ॥ मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः । श्रुत्वा कुतोऽपि त्वन्नाम लेभिरे विषमा दशाम् ॥ ४२ ॥ यस्य चेतसि निर्व्याजं द्वय तृणकणायते । क्रोधे विरोधिना सैन्यं प्रसादे कनकाचलः ॥ ४३ ॥ देव वदानपाथोद्यै दारिद्र्यस्य निमज्जतः ॥ न कोऽपि हि करालम्बं दत्ते मत्तेमदायक ॥ ४४ ॥ राजन्द्र समालोक्य त्वा तु भूतलमागतम् । रत्नश्रेणिमिषाण्मन्थे नक्षत्राण्यप्युपागमन् ॥ ४५ ॥ धारयित्वा त्वयात्मानं महात्यागधनाधुना । मोचिता बलिकर्णाद्याः स्वयंशोगुसकर्मणः ॥ ४६ ॥ क्षणमप्यनुगृह्णाति यं दृष्टिस्तेऽनुरागिणी । ईर्ष्ययेव त्यजत्याशु तं नरेन्द्र दरिद्रता ॥ ४७ ॥ योऽसंकृत्य^१०रगोत्राणि ^११पक्षच्छेदक्षणक्षमः । ^१२शतकोटिदता विभ्रद्^१३द्विबुधेन्द्रः स राजते ॥ ४८ ॥ ताम्बूलेन विना राजञ्जडीभूता सरस्वती । न निःसरेन्मुखाद्वाणी महाकुलवधूरिव ॥ ४९ ॥ अर्थिप्रत्य-
पादटिप्पणी (Footnotes)
[वामभागः] १ याचका; पक्षे,-बाणाः. २ विनयादिः; पक्षे,-ज्या. ३ अत्र वशे पूर्वपेक्षयोत्तरोत्तर पुरुषो न कोऽपि न्यूनगुणोऽभूत्किन्तु विशिष्टगुण एवाभवदिति भाव. ४ वेदनया दुःखेनाश्लिष्टः, पक्षे,-वेदेन नवेन चाश्लिष्ट. ५ गदेन रुजान्वित, पक्षे,-गदया सहित. ६ शूलेन युक्त, पक्षे,-त्रिशूलेन युक्त. ७ दुःखी, पक्षे,-विषमत्तौति स ८ तृषा, पक्षे,-आशा ९ पक्षिण, पक्षे,-ब्राह्मणा १० कमलमू, पक्षे,-लक्ष्मी ११ पण्डित. १२ उदकाश्रय, पक्षे,-डल्यो. सावण्यात्तु जलाश्रयो मूर्खाश्रय १३ गजम्, पक्षे,-निवारण १४ मदेन युक्त वारणम्, पक्षे,-मत् निवारणम् १५ सत्यभामायालिखित, पक्षे,-सत्य भा कान्तिर्ग लक्ष्मीरेताभिर्युक्त १६ साधु यद्वन्दावन तस्मिन्द्, पक्षे,-साधूना बृन्द समूहस्तस्यावन रक्षण तस्मिन्नासक्तः १७ यशोदया नन्दपत्या युक्त, पक्षे,-यश कीर्तिर्दया कारुण्य ताभ्या युक्त
[दक्षिणभागः] १ गकारेण, पक्षे,-नष्टः २ महती या गदा तया युक्त, पक्षे,-मह उत्सवरूपागो दानं दया करुणा तैर्युक्त ३ सत्यभामय समन्वितः, पक्षे,-सत्यं सूनृत भा कान्तिर्मा लक्ष्मीराभि समन्वयुक्तः ४ अश्वम् ५ सूर्यमण्डलभेदिन इत्यर्थ . ६ शत्रव ७ सहस्रबाहुर्जुन ८ युद्धात् ९ शिवमस्तके १० शत्रुकुलानाम्, पक्षे,-प्रकृष्टपर्वतानाम् ११ सहाय; पक्षे,-पतत्र १२ शतस्य कोटेश्च दातॄताम्; पक्षे,-वज्रेण खण्डकृताम् १३ पण्डिता., पक्षे,-देवा
सामान्यराजप्रशंसा | १०३
थिलेश्र्चैरप्यपराङ्मुखचेतसम् । त्वा पराङ्मुखता निन्युः केवलं परयोषितः ॥ ५० ॥
तव निर्वर्णयद्धूर्णं स्वर्णं वर्णयतो गिर । त्वत्कोशगेहान्निर्गत्य तीर्थेषु वसति ध्रुवम् ॥ ५१ ॥
न समासः समर्थस्य वसु व्याकरणस्य ते । विग्रहो नैव केनापि न परः सर्वनामभाक् ॥ ५२ ॥
अर्थिना कृपणा दृष्टिरस्त्वन्मुखे पतिता सकृत् । तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ ५३ ॥
धैर्यलावण्यगाम्भीर्यप्रमुखैस्तवमुद्वहतः । गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ॥ ५४ ॥
अलौकिकमहालोकप्रकाशितजगत्त्रयः । स्तूयते देव सदृशमुक्तारत्न कैर्भवान् ॥ ५५ ॥
शासति त्वयि हे राजन्नखण्डावनि-मण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥ ५६ ॥
मत्वा लोकमदातारं संतोषे यैः कृता मतिः । त्वयि राजनि ते राजन्न तथा व्यत्ययायिनः ॥ ५७ ॥
पद्मोदयदिनाधीशः सदागतिसमीरतः । भूभृदावलिदम्भोलिरेक एव भवान्भुवि ॥ ५८ ॥
सन्नारीभरणोमा यमाराध्य विधुशेखरम् । सन्नारी-भरणोऽमायस्ततस्त्वं पृथिवीं जय ॥ ५९ ॥
देव त्वमेव पातालमेशाना त्वं निबन्धनम् । त्वं चामरमरुद्भूमिरिको लोकत्रयात्मकः ॥ ६० ॥
जितेन्द्रियतया सम्यग्विद्यावृद्ध-निषेविणः । अतिगाढगुणस्यास नाज्ववद्गङ्गुरा गुणाः ॥ ६१ ॥
अखण्डमण्डलः श्रीमान्पश्यैव पृथिवीपतिः । न निशाकरवज्जातु कलावैकल्यमागतः ॥ ६२ ॥
अरातिविक्र-मालोकविकस्वरविलोचनः । कृपाणोद्ग्रदोर्दण्डः स सहस्रा-युधीयति ॥ ६३ ॥
कानने सरिदुद्देशे गिरीणामपि कन्दरे । पश्यन्त्यन्तकसंकाशं त्वामेकं रिपवः पुरः ॥ ६४ ॥
उद्दण्डे भुजदण्डे तव कोदण्डे परिस्फुरति । अरिमण्डलरविमण्डल-रम्भाकुचमण्डलानि वेपन्ते ॥ ६५ ॥
भवतामहमिव बहवो नैम तु भवानिव भवानेव । कुमुदिन्याः कति न विधोर्वि-धुरिव विधुरेव कुमुदिन्योः ॥ ६६ ॥
लब्धोर्धचन्द्र ईशः कृतकंसभयं च पौरुष विष्णोः । ब्रह्मापि नोभिजातः केनो-पमिमीमहे नृप भवन्तम् ॥ ६७ ॥
सरलप्रियं गुणाढ्य लम्बि-तमाल विचित्रतिलकं च । मनमिव वपुस्तवैतत्कथमवन नृप जनस्यास्य ॥ ६८ ॥
बाणकरवीरदमनकशतपत्रकब-न्धुजीवकुसुमानि । नृप विविधविटपरूपस्तथापि विटपः कथ नासि ॥ ६९ ॥
स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदय-शोकाग्नेः । चरति विमुक्ताहार व्रतमिव भवतो रिपुस्त्री-णाम् ॥ ७० ॥
कल्पतरुकामदोग्रीचिन्तामणिधेनदर्शङ्का-नाम् । रचितो रँजोभरपयस्तेजश्वासान्तरोम्बरेशः ॥ ७१ ॥
तिग्मरुचिरप्रतापो विधुर्रनिशाकृद्विभो मधुरलीलः । मति-मैँनस्त्ववृत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान् ॥ ७२ ॥
शैर्निर्रैनैश्च तमस्तैनिहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् । यत्र प्रसीदसि पुनः स भाल्युँदारोऽनुँदारश्च ॥ ७३ ॥
क्षण-दासार्वैक्षणदा वनमर्वनं व्यैसेनमव्यसनम् । बत वीर तब द्विषता पराङ्मुखे त्वयि पराङ्मुखं सर्वम् ॥ ७४ ॥
प्रधना-ध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम् । दिव-सेन तु नरप भवान्युद्ध विधिसिद्धसाधुवादपदम् ॥ ७५ ॥
गिरयोऽप्यनुन्नतिजुजो मरुदप्यचलोऽब्धयोऽप्यगम्भीराः । विश्वभ्रपायतिलघुर्नरनाथ तवान्तिके नियतम् ॥ ७६ ॥
समदमतगजमदजलनिष्यन्दतरङ्गिणीपरिष्वङ्गात् । क्षिति-तिलक त्वयि तज्जुषि शंकरचूडापगापि कालिन्दी ॥ ७७ ॥
विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च । प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥ ७८ ॥
पल्लवतः कल्पतरोर्ग्व विशेषः करस्य ते वीर । भूषयति कर्णमेकः परस्तु कै कर्णै तिरस्कुरुते ॥ ७९ ॥
हरवन्न विषमै-दृष्टेर्हरिवन्न विभो विधुतविततवृषैः । रविवन्न चातिदुःसह-कैर्रैतापितभूः कदाचिदसि ॥ ८० ॥
स्तनयुगमुक्ताभरणाः
[पादटिप्पण्यः]
१ मित्र सूर्ये..
२ सतीर्नारीर्बिभर्ति पालयतीति सन्नारीभरणा तादृशीमुमा याति पत्नीत्वेन प्राप्नोति यस्तम्.
३ सन्ना अवसन्ना अरीणामिमा हस्तिनो यस्मात्तादृशो रणो यस्य तादृशोऽमायोऽकपटः
४ अलमर्थे पाता पालकः; पक्षे,-पाताललोक
५ आशानामभिलाषाणां निबन्धन मूलम्, पक्षे,-आशाना दिशां निबन्धनं ज्ञापक-, भूलोक इत्यर्थः
६ चामरमरुता चामरीयवायूना भूमिराश्रय • चामरवीज्यमानत्वात्, पक्षे,-अमराणां मरुद्गणाना च भूमिराश्रय, स्वर्गलोक इत्यर्थ
७ मण्डल राज्य बिम्बं च.
८ कलावैदग्ध्य चन्द्र-षोडशांशश्च
९ चन्द्रकला; पक्षे,-गलहस्त
१० कृतकसभयम्; पक्षे, -कृत-कंस-भयम्.
११ न-नभिजातः कुलीन; पक्षे,-नाभिजातः
१ सरला वृक्षविशेषाः प्रियंगवश्चतेषां समाहारस्तेनाढ्यं पूर्णम्; पक्षे,-सरलं च तत्प्रियं हृद्य च गुणैर्गौरवर्णत्वादिभिर्युक्तम्
२ लम्बितनप्तमाला यस्मिंस्तत्; पक्षे,-लम्बिमाला माल्य यस्य
३ विचित्रा नानाविद्यास्तिलका वृक्षविशेषा यस्मिंस्तत्; पक्षे,-विचित्रो विचित्रवर्णस्तिलक • कस्तूरीकुङ्कुमादिकृतो यस्मिंस्तत
४ विटान्पालयतीति स
५ कुबेर..
६ विधिविशेष-
७ परागसमूह..
८ शङ्कान्यन्तरप्रकाशम्
९ एव राजा कल्पवृक्षादीना क्रमेण रजोभरादिभिः पद्मभिर्भूते रवित इत्यन्वय •
१० विधुराणां शत्रूणां निशेव निशा-मरण तत्कर्ता
११ मतिर्वस्त्वत्तत्वावधारणक्षमा बुद्धिः; मानं प्रमाण ताभ्यां तत्त्वे याथार्थ्ये वृत्तिरनुसरणं यस्य स..
१२ प्रतिपद प्रतिस्थानं पक्षाणामात्मीयानामग्रणीरग्रसरः
१३ शनिग्रह •
१४ वज्रम्
१५ महान्
१६ अनुगता दारा वनिता यस्य वशीकृतवनित इत्यर्थः
१७ अनुत्स्रवदा.
१८ रक्षकम् शत्रूणां पलायनस्थानत्वात्
१९ द्यूत-नृत्यादि.
२० अविस्तीर्णम् दुःखदशायां तद्विस्तारात्
२१ राधेयम-दानातिशयेनेत्यर्थ •
२२ असमदृष्टिः; पक्षे,-त्रिलोचन •
२३ सुकृतम्, पक्षे,-वृषासुर
२४ राज्यलाभाग; पक्षे,-किरणा
| १०४ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
कण्टककलिताङ्गयष्टयो देव । त्वयि कुपितेऽपि प्रागिव विश्वस्तास्ते रिपुस्त्रियो जाताः ॥ ८१ ॥ सततमुसलासङ्गाद्बहुत्तरगृहकर्मघटनया नृपते । द्विजपत्नीना कठिना. सति भवति कराः सरोजसुकुमाराः ॥ ८२ ॥ कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिर्धृतिरिव धरणी सतत विभाति यस्य तव ॥ ८३ ॥ रत्नसानुशिखराङ्गणफुल्लकल्पपादपतलेषु निष्षणाः । उद्गृह्णन्ति नृपहंस सुवर्ण त्वद्यशः प्रवरकिन्नररामा. ॥ ८४ ॥ गाढकान्तदशनक्षतव्यथासंकटादरिवधुजनस्य यः । ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्त्युधि रुषा निजाधरम् ॥ ८५ ॥ बलमार्तमयोपशान्तये विदुषा समतये बहुश्रुतम् । वसु तस्य न केवल विभोर्गुणवत्तापि परप्रयोजनम् ॥ ८६ ॥ तावकाः कति न सन्ति मादृशा मादृशस्तु भवदेकजीविनः । अम्बुदस्य कति वा न चातकाश्चातकस्य पुनरेक एव सः ॥ ८७ ॥ निखिलेषु गुणेषु चित्रता ते मनसो वैषवमद्भुत तवैव । न च ते परतः प्रमाणभावस्तदपि न्यायनिदिष्टतातिचित्रम् ॥ ८८ ॥ स्फुरदद्भुतरूपमुत्प्रतापज्वलन त्वा सृजतानवद्यविद्यम् । विधिना ससुजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ ८९ ॥ कलुष च तवाहितेष्वकस्मात्सितपङ्केरुहसोद चक्षुः । पतितं च महीपतीन्द्र तेषा वपुषि प्रस्फुटमापदां कटाक्षैः ॥ ९० ॥ गुणभेदविदग्रिमप्रसङ्गे व्यवधानादनुपस्थितं पुरस्तात् । अपि वाजिनमात्रशेषमिष्टौ घटयन्वाजिभिरथ्र्यसे विधिज्ञैः ॥ ९१ ॥ यदि वै मनसि प्रशान्तिरुच्चैः कुरु कल्पद्रुमदानकौशलम् । न भवेदिति वा वद स्फुटं कलिपुर्ण प्रतियामि मन्दिरम् ॥ ९२ ॥ नानन्वयस्ते न च ते विरोघोऽलंकारकोटी तव नोपमापि । क्षितीश नो ते विषमं न किंचित्साहित्यसौहित्यनिधिस्तथापि ॥ ९३ ॥ अविरलकरवालकंपनैनैर्भुकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणा मदः स गतः कापि तवेक्षणे क्षणात् ॥ ९४ ॥ तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः । भटाः परेषा विशरारुतामगुर्धटत्यवाते स्थिरता हि पासवः ॥ ९५ ॥ विशापते विस्तरतो न वक्तु जानामि जानन्नपि ते गुणौघान् । यस्यैव योऽसि प्रथमानकीर्ते स एव तद्वानिति निर्निरूढि ॥ ९६ ॥ यशोदयामण्डितकान्तदेहो बाल्येऽपि गोपालजनस्य नेता । गोमण्डल पासि बलेन युक्तः कथ न राजन्युरुषोत्तमोऽसि ॥ ९७ ॥ नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो न भोगे. खलु भोगभाजः । सुजातरूपोऽपि न याति यस्य समानता काचन काञ्चनाद्रिः ॥ ९८ ॥ अखण्डिता शक्तिरथोयमान न स्वीकृत न च्छलरीतिरस्ति । अस्पृष्टसदेहविपर्ययस्य कोड्यं तव न्यायनये निवेशः ॥ ९९ ॥
स्वतःप्रकाशो मनसो महत्त्व धर्मेषु शक्तिर्न तथान्यथा धीः भूपालगोपालपदैकभक्तेरन्यैव नैयायिकता तवेयम् ॥ १०० ॥ यत्क्षेपवः सयुगयामिनीषु प्रोतप्रतिक्षमापतिमौलिरलाः । गृहीतदीपा इव भिन्दते स्म खड्गान्धकारे रिपुचक्रवालम् ॥ १०१ ॥ लब्ध्वा यदन्तःपुरसुन्दरीणा लावण्यनि.स्यन्दमुपान्तभाजाम् । गृहीतसारस्त्रिदश' पयोधिः पीयूषसदर्शनसौरयमाप ॥ १०२ ॥ यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् । पारे परार्धे गणित यदि स्याद्गणेयनिःशेषगुणोऽपि स स्यात् ॥ १०३ ॥ एतद्यश.क्षीरधिपूरगाहि पतत्यगाधे वचन कवीनाम् । एतद्गुणाना गणनाङ्कपातः प्रत्यर्थिकीर्तीखटिकाः क्षिणोति ॥ १०४ ॥ देवाधिपो वा भुजगाधिपो वा नराधिपो वा यदि हैहयः स्याम् । सदर्शनं ते गुणकीर्तनं ते सेवाञ्जलि ते तदहं विदध्याम् ॥ १०५ ॥ अत्यादरादध्ययनं द्विजानामर्थोपलब्ध्या फलवद्विधाय । ऋतूनतुच्छान्विततु तवैषा मीमासकाद्याधिकृतिः प्रसिद्धा ॥ १०६ ॥ तुच्छान्तराध्यासमसनिकृष्टमध्यक्षमल्यन्तमनिच्छतस्ते । अख्यातिसख्यानुगतद्विशश्व ख्याति. स्थिताऽनिर्वचनीय रूपा ॥ १०७ ॥ अन्यार्थमङ्गीकृतवारिषा भौ विशङ्कमानास्तव दाननीरम् । परस्पर दीनमुखा न के वा देवाः सुमेरु शुशुचुः स्वभूमिम् ॥ १०८ ॥ तवाग्रतो वीर महीमहेन्द्र मन्द गजाः शृङ्खलिनो विभान्ति । आवासदानादरिभूपतीनामाशान्तशीला इव साप store/सापराधाः ॥ १०९ ॥ कामं नृपाः सन्ति सहस्रःशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ ११० ॥ दारिद्र्यदायादगणाधमेन दीनो द्विजोऽर्थर्णपदातिसात्कृतः । जागर्ति नाथे त्वयि भो द्विजाना विधेहि तेषेन सुख भजे नृप ॥ १११ ॥ कमलभूतनया वदनाम्बुजे वसतु ते कमला करपल्लवे । वपुषि ते रमता कमलाङ्गजः प्रतिदिन हृदये कमलापतिः ॥ ११२ ॥ उदेति पूर्व कुसुम तत. फलं घनोदयः प्राक्तदनन्तर पयः । निमित्तनैमित्तिकयोरय विधिरतव प्रसादस्य पुरस्तु संपदः ॥ ११३ ॥ अनेन सर्वार्थिकृतार्थता कृता हतार्थिनौ कामगवीसुरद्रुमौ । मिथः पयःसेचनपल्लवाशने प्रदाय दानव्यसनं समाप्यतः ॥ ११४ ॥ मयि स्थितिनैर्मल्यैव लक्ष्यते दिशेन तु स्तब्धतया विलङ्घ्यते । इतीव वान दण्डधरेण विष्ण्वयन्य मग्मद्यपादिगद्धिनाम् ॥ ११५ ॥ नृप' कराभ्यामुदतोऽद्यविंधे ष्वाम्य याप्नतन' पदद्वये । तदीयचूल कुरुविन्दरश्मिभि. स्फुटेयमेतत्करपादरञ्जना ॥११६॥ इद नृपप्रार्थिभिरुञ्जितोऽथिभिर्मणिप्ररोहेण विवृत्त्य
सामान्यराजप्रशंसा १०५
रोहणः । कियदभैरम्बरमावरिष्यते सुधा मुनिर्विन्ध्यमरुद्ध भूधरम् ॥ ११७ ॥ कृतं च गर्वाभिमुखं मनस्त्वया किमन्य देवं निहताश्च नो द्विषः । तमासि तिष्ठन्ति हि तावदंशुमान् यावदायात्युदयाद्रिमौलिताम् ॥ ११८ ॥ अनेन पर्यास्यता- श्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु । प्रत्यर्पिताः शत्रुविलासि- नीनामाक्षेपसूत्रेण विनैव हाराः ॥ ११९ ॥ अधीतिबोधा- चरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः । चतुर्दशत्वं कृतवा- न्कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम् ॥ १२० ॥ अमुष्य विद्या रसनाम्रनर्तकी त्रयीव नीताऽङ्गगुणेन विस्तरम् । अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियम् ॥ १२१ ॥ दृगीशवृन्दारशविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम् । बभार शास्त्राणि दश द्वयाधिका निजत्रिनेत्रावतरत्वबोधिकाम् ॥ १२२ ॥ पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽधुना के न तपः प्रपेदिरे । भुव यदेकाङ्घ्रिक- निष्ठया स्पृशन्धवावधर्मोऽपि कृशस्तपस्विताम् ॥ १२३ ॥ स्फुरद्धनुर्निस्वनतद्घनाशुगप्रगल्भवृष्टिव्ययितस्य संगरे । निजस्य तेजःशिखिनः परःशता वितेनुरङ्गारमिवायशः परे ॥ १२४ ॥ अनल्पदग्ध्वारिपुरानलोज्ज्वलैर्निजप्रतापैर्वलयं ज्वल- द्ध्रुवः । प्रदक्षिणीकृत्य जयाय सृष्ट्या रराज नीराजनया स राजघः ॥ १२५ ॥ सितांशुवर्णैर्यति स्म तद्गुणैर्महासिनेत्र्र- सहकृत्वरी बहुम् । दिगङ्गनाङ्गाभरणं रणाङ्गणे यशःपट तद्घटचातुरीतुरी ॥ १२६ ॥ प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि मेत्तुतोज्झिता । अमित्रजिन्मित्रजिद्रोजसा स यद्विचारहकचारहद्दग्व्यवर्तत ॥ १२७ ॥ अयं दरिद्रो भवतेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् । मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रता नृपः ॥ १२८ ॥ विभज्य मेरुं यदर्थिसात्कृतो न सिन्धु- रुत्सर्गजलव्ययैर्मरुः । अमानि तत्तेन निजायशोयुग द्विपालबद्धाश्चिकुराः शिरःस्थितम् ॥ १२९ ॥ अजस्रमभ्यास- मुपेयुषा समं मुदैव देवः कविना बुधेन च । दधौ पटी- यान्समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥ १३० ॥ अधोविधानात्कमलप्रवालयोः शिरःसु दानादखिलक्ष्मा- भुजाम् । पुरेदमूर्ध्वं भवतीति वेधसा पदं किमङ्काङ्कित- मूर्ध्वरेखया ॥ १३१ ॥ सदुत्तंस दैवाद्यं कोऽपि दीनो ऋणाब्धौ विलीनो विहीनो गुणेन । भवत्सन्निधिं सन्निधि प्राप्य पीनो बभूवाशु मीनो यथा नीरपूरम् ॥ १३२ ॥ कति नो विषया निभालिताः कति वा भूमिभुजो न शीलिताः । धरणीधर तावकान्गुणानवधार्याजजगणे गुरु लघुम् ॥ १३३ ॥ तव नित्यमुत्सवपरम्परा भवत्वनिशं
१४ सु. र भा
लमित्थमुपकास्सादरः । निजकीर्तिकान्तिकलितोज्ज्वले जग- त्यथ सत्सुतादिभिरलं सुखं भज ॥ १३४ ॥ अभ्युद्धृता वसुमती दलितं रिपूद्रः क्रोडीकृता बलवता बलिराजलक्ष्मीः । एकत्र जन्मनि कृतं यदनेन राज्ञा जन्मत्रये तदकरोत्पुरुषः पुराणः ॥ १३५ ॥ एकस्विधा वससि चेतसि चित्रमत्र देव द्विषा च विदुषा च मृगीदृशा च । तापं च समदरस च रति च पुष्णन्शौर्योष्मणा च विनयेन च लीलया च ॥ १३६ ॥ शक्ति प्रमापयति वीर तवोपमानं प्रामाण्यमाप्तवचनेषु परैव जातिः । जातौ गुणा गुणगणाश्रयिणो विशेषा वैशेषिकं किमपि दर्शनमद्भुतं ते ॥ १३७ ॥ किं कारणं सुकविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः । देव त्वदस्त्रचकिताः श्रयितुं स्वजातिमेके मृगाङ्क- मृगमादिवराहमन्थे ॥ १३८ ॥ सम्भाव्यमिष्टभुवनाभयदान- पुण्यसभारमस्य वपुरत्र हि विस्फुरन्ति । लक्ष्मीश्च सात्त्विक- गुणज्वलितं च तेजो धर्मश्च मानवविजयौ च पराक्र- मश्च ॥ १३९ ॥ प्रत्यक्षस्फुरत्सुधारसनिर्विषाभिराशीर्भिरभ्य- धिकभूषितभोगभाज । गायन्ति कञ्चुकविनिद्रतरोमहर्ष- स्वेदोर्मयस्तव गुणानुरगेन्द्रकन्याः ॥ १४० ॥ भेदात्मनो दुरधिरोहतनोर्विशालवक्षोन्नतेः कृतशिलीमुखसङ्ग्रहस्य । यस्याद्रिपूतरुतेः परवारणस्य दोनाम्बुसेकसुभगः सततं करोऽभूत् ॥ १४१ ॥ साक कुरङ्गकदृशा मधुपानलीला कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते । अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषममकरोदवस्थाम् ॥ १४२ ॥ ऐत्यायतैर्नियमकारिभिरिङ्गताना दिव्यैः प्रभाभिरनपायमयै- रुपायैः । शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलास- भवनैर्भुवनं बभार ॥ १४३ ॥ नानाविधप्रहरणैर्नृप सप्र- हारे स्वीकृत्य दारुणनिनादवतः प्रहारान् । दृप्तारिवीरविस- रेण वसुंधरयं निर्विप्रलम्पपरिलम्बविधिर्वितीर्णा ॥ १४४ ॥ अन्त.पुरीयसि रणेषु सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः । दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्रसंचारमत्र भुवि संचरसि क्षितीश ॥ १४५ ॥ राजन्वन्ति भवतश्च- रित्तानि तानि इन्दोर्द्युतिं दधति यानि रसातलेऽन्त. । धीदौर्बले अतितते उचित्तानुवृत्ती आतन्वती विजयसपद- मेत्य भात. ॥ १४६ ॥ पौरं सुतीयति जन समरान्तरेऽसा- वन्तःपुरीयति विचित्रचरित्रचक्षुः । नारीयते समरसीम्नि
१ राजपक्षे-भद्रशिलीमुखवारणदानकरशब्द यथाक्रम शोभनबाण-निवारकवितरणहस्तबोधका, हस्तिपक्षे तु-भद्रजातिभ्रमरहस्तिमोच-लशुण्डादण्डबोधका २ हस्तिमदजल ३ उपायानां सततानुष्ठान- सेवायतत्व भुजानामाजानुलम्बितत्वम् ४ उद्धत्तानां जनानाम्, पक्षे,-असुराणाम् ५ सामदानविधिभेदरूपै, पक्षे,-चतुर्भि
१०६ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
कृपाणपाणेरालोक्य तस्य चरितानि सप्तदस्रैबा ॥ १४७ ॥ दोर्भ्यां तितीर्षति तरङ्गवतीभुजंगमादातुमिच्छति करे हरिणाङ्कबिम्बम् । मेरु लिलङ्घयिषति ध्रुवमेष देव यस्ते गुणान्वदितुमुद्यममादधाति ॥ १४८ ॥ हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु स्तनतपनवनाम्भोर्म्यगोक्षीरपानैः । सुखमनुभव राजस्त्वद्विषो यान्तु नाश दिवसकमलजालशार्वरीरेणुपङ्गैः ॥ १४९ ॥ विदधतु धरणीशा दानमुच्चैर्धराया प्रभबतु सुजनस्तद्वेरकः पुण्यशीलः । निजपरमतिहीनः केवल सरखदीनस्त्वमिह नृप कुलीनः कार्यकर्ता विभासि ॥ १५० ॥ कवीनां संतापो भ्रमशममितो दुर्गतिरिति त्रयाणा पञ्चत्व रचयसि न तच्चित्रमधिकम् । चतुर्णां वेदाना व्यरचि नवता वीर भवता द्विषत्सेनालीनामयुतमपि लक्षं त्वमकृथाः ॥ १५१ ॥ समाजे सम्राजा सदसि विदुषा धाम्नि धनिना निकाये नीचानामपि च तरुणीना परिषदि । वय यत्रैव स्थक्षणमतिथयस्तत्र शृणुमः स्फुरद्रोमोद्भेदाः सुभग भवत पौरुषकथाः ॥ १५२ ॥ न लोपो वर्णाना न खलु परतः प्रत्ययविधिर्निपातो नास्त्येव क्वचिदपि न भग्नाः प्रकृतयः । गुणो वा वृद्धिर्वा सततमुपकाराय जगता सुनेर्दाक्षीपुत्रादपि तव समर्थः पदविधिः ॥ १५३ ॥ न मिथ्यावादस्ते न च विगुणचर्चास्त्वभिरतिर्न वा वाच्य किंचिद्वचसि न मनाग्यायिनि मतिः । तथाप्येतच्चित्रं यदसि जगतीजानिरधुना त्वमेवैको लोके निगमपरमागार्थनिपुणः ॥ १५४ ॥ चकोराणा चन्द्रः कुसुमसमयः काननभुवा सरोजना भानुः कुवलय- म्दम्ब मधुलिहाम् । मयूराणा मेघः प्रथयति यथा चेतसि सुखं तथास्माकं गीर्ति जनयति तवालोकनमिदम् ॥ १५५ ॥ अदातारं दातृप्रवरमनयं विश्वविनयं विरूपं रूपादयं विगतजयिनं विश्वजयिनम् । अकुल्यं कुल्यं त्वामहमवदमाशापरवशाम्प्रधावादेत्युक्तिस्त्वयि खलु मृषावादिनि मयि ॥ १५६ ॥ यशःस्तोमानुच्चै रुपचिनु चकोरप्रणयिनीरसज्ञापाण्डित्यच्छिदुरशशिधामभ्रमकरान् । अपि त्वत्तेजोभिस्तमसि शमिते रक्षति दिशामसौ यात्रामैत्री नभसि नितरामम्बरमणिः ॥ १५७ ॥ सुराणा पातासौ स पुनरतिपुण्यैकहृदयो ग्रहस्तस्यास्थाने गुरुरुचितमार्गे स निरतः । करस्तस्यात्यर्थे वहति शतकोटिप्रणयितां स सर्वस्वं दाता तृणमिव सुरेशं विजयते ॥ १५८ ॥ मनोभूर्मुग्धासु क्षिपति यदि बाणावलिमसौ कथं तामिः क्षिप्तास्त्वयि नयनविक्षेपविशिखाः । अथ ज्ञात ब्रूमः शृणु सुभग शृङ्गारनलिनीवनक्रीडाहंसं स्मरमिव विदुस्त्वा मृगदृशः ॥ १५९ ॥ यशश्चन्द्रैरुद्यत्सुकृतनरकल्पद्रुमकैः परं लक्ष्मीगर्भैर्नरदहयत्नादिफलदैः । निजैर्दानाम्भोभिर्नयततुलितक्षीरजलधिश्चिर जीयाजीयादधिधरणि सोऽय नरपतिः ॥ १६० ॥ अय मार्तण्डः कि स खलु तुरगै सप्तभिरितः कृशानुः कि सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वा विदधति विकल्पान्प्रतिभटा ॥ १६१ ॥ तुलाधारो धाता वहति वसुधा औपपदवी फणीश. स्वात्मून कनकशिखरी भानपालिका । तुलादण्डः सत्यं यदि भवति दामोदरगदा तथाप्येषोऽशक्यस्तव गुणसमूहस्तुलयितुम् ॥ १६२ ॥ न तूणादुद्धारे न गुणघटने न श्रुतिशिख समाकृष्टौ दृष्टिनं वियति न लक्ष्ये न च भुवि । नृणा दृश्ये देव क्वचन विशिखान्नितु पतितद्विपद्वक्षोरन्ध्रैर्जुमितिर्मुर्गोचरयति ॥ १६३ ॥ अमुष्योर्वीभर्तुः प्रसभमचमूसिन्धुरमवैरवैमि प्रारब्धे वैमथुर्भीर्रवशथ्थास्यसभये । न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न तद्वधूवक्राम्भोजं भवतु न स तेषा कुदिवसः ॥ १६४ ॥ यशःपूर दूर तनु सुतनुनेत्रोत्पलवनीतमस्तन्द्राचन्द्रानप तप सहस्राणि शरदान् । इयं चास्ता युष्मद्गुणकथनपीयूपटलश्रितोत्सङ्गानन्दत्युरनगरभुजङ्गा त्रिजगती ॥ १६५ ॥ स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधेव । अनुभवति हि मूर्ध्ना पादपस्तीव्रमूष्णं शमयति परिताप छायया संश्रितानाम् ॥ १६६ ॥ नियमयसि कुमार्गप्रस्थितानातदण्डः प्रशमयसि विवाद कल्पसे रक्षणाय । अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्त बन्धुकृत्यं प्रजानाम् ॥ १६७ ॥ अभिमतफलदाता त्वं च कल्पद्रुमश्च प्रकटमिह विशेषं कंचनोदाहरामः । कथमिव मधुरोक्तेप्रेमसंमानमिश्र तुलयति सुरशाखी देव दानं त्वदीयम् ॥ १६८ ॥ अकाण्डधृतमानसव्यपसितोत्सवैः सारसैरकाण्डपटुताण्डवैरपि शिखण्डिना मण्डलैरैः । दिशः समवलोकिताः सरसनिर्भरप्रौह्लसद्भवत्पृथुवरूथिनीरजनिभूरजःश्यामलाः ॥ १६९ ॥ सहस्रकरपूरणाञ्झिखिलजन्तुवक्राम्बुजप्रकाशकरणादथ प्रबलवैरितेजोवधात् । दरिद्रतिमिरोद्धृतेरखिलभूपचूडामणिर्जगन्मगिरहर्मणिर्जगदिदं च धत्तः समम् ॥ १७० ॥ यशःकरणघोग्णीतुलितरोहिणीवल्लभ त्वया क्षणमुदीक्ष्यते जगति यो दरिद्रो जनः । पयोधर महीधरे नटति तस्स वामभ्रुवा रणत्कनककिङ्किणीकलरवेण देव खरः ॥ १७१ ॥ यमः प्रतिमहीभृता हुतवहोऽसि तन्नीवृता सता खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम् । गृहं शरणमिच्छता कुलिशकोटिमि-
१ लक्षसंख्याकम्; पक्षे,-शरव्यम् २ पाणिने ३ वर्धय. १ परिमाणपात्रताम्. २ परिमाणपाषाण. ३ संधाने ४ आकर्णान्तम्. ५ बाणान्. ६ प्रसारिण. ७ करशीकरै. ८ नीहारकाले.
| सामान्यराजप्रशंसा | १०७ |
|---|
| वाम भाग | दक्षिण भाग |
|---|---|
| निर्मित त्वमेक इह भूतले बहुविधो विधात्रा<br>कृतः ॥ १७२ ॥ आलोकान्तप्रतिहततमोवृत्तिरासा प्रजाना<br>तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो न. । तिष्ठत्येक<br>क्षणमधिपतिर्ज्योतिषा व्योममध्ये षष्ठे काले त्वमपि लभसे<br>देव विश्रान्तिमेकः ॥ १७३ ॥ अध्याक्रान्ता वसतिरमुना-<br>प्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचि-<br>नोति । अस्यापि द्या स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्य-<br>श्शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १७४ ॥ नैत-<br>च्चित्र यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नो नगरपरि-<br>घप्रांशुबाहुर्भुनक्ति । आशसन्ते समितिशु सुराः सक्तवैरा<br>हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ १७५ ॥<br>त्रातु लोकानिव परिणतः काँयानृग्वेद. क्षात्रो धर्म.<br>श्रित इव तनु ब्रह्मकोषस्य गुह्यै । सामर्थ्यानामिव समुदय.<br>सञ्चयो वा गुणानामाविर्भूय स्थित इव जगत्पुन्यनिर्माण-<br>राशिः ॥ १७६ ॥ हेषन्ते यजितजलधरध्वानमेते तुरगा<br>भूमि पादैर्यदपि च मुहुर्दक्षिणैरालिखन्ति । यानोत्सुक्य<br>यदपि चलनान्दोलघेव्येञ्जयन्ति त्वद्दोर्दण्डद्वितयवशगा<br>तत्समग्रा जयश्री ॥ १७७ ॥ दृष्ट. साक्षादसुरविजयी<br>नाकिना चक्रवर्ती मात्स्यो न्यायः कथयति यथा वारुणी-<br>दण्डनीतेः । पातालेन्द्रादहिमयमथोर्त्येव नित्यानुषक्त<br>तन्नः पुण्यैरजनि भवता वीर राजन्वती भूः ॥ १७८ ॥<br>यत्कीर्त्या धवलीकृतं त्रिभुवन मूर्त्या जगन्मोहितं मत्येशः<br>परितोषितः सुचरितैरानन्दिताः सज्जनाः । पूर्णांशा बहवः<br>कृता वितरणैर्यैन त्वया याचकास्तस्मै सर्वगुणाश्रयाय भवते<br>दीर्घायुराशास्महे ॥ १७९ ॥ दाने कल्पतरुर्नये सुरगुरु.<br>काव्ये कविस्तेजसि प्रौढग्रीष्मरविर्धने धनपतिः सत्ये<br>द्याया शिबिः । गाम्भीर्ये सरितापतिर्निरुपमे शौर्ये सुभद्रापतिः<br>श्रीमान्धर्मरतिर्महीपतिरयं जीयात्सहस्र समा. ॥ १८० ॥<br>विद्वन्मानसहस वैरिकमलासङ्कोचचन्द्रद्युते दुर्गामार्गण-<br>नीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष<br>विजयप्राग्भावभीम प्रभो साम्राज्य बरवीर वत्सरशतं वैरि-<br>स्त्रसुचै. क्रियां. ॥ १८१ ॥ हस्तन्यस्तकुशोदके त्वयि न<br>भूः सर्वसहा वेपते देवागारतया स काञ्चनगिरिश्चिन्ते न धत्ते<br>भयम् । अज्ञातद्विपभिक्षुभिक्षुककुलावस्थानदुस्थाशया<br>वेपन्ते मदन्तिन. परममी भूमिपते तावकाः ॥ १८२ ॥<br>अर्थिप्रशर्वडूभवत्फलभरव्याजेन कैन्जायितः सत्यसिंर्वैति- | दानभाजि कथमप्यभूस्ता स कल्पद्रुमः । आस्ते निर्व्ययरत्न-<br>सपदुदयोद्यः कथ याचक्रश्रेणीवर्जनदर्शयोनिविडितब्रीडस्तु<br>रत्नाचल. ॥ १८३ ॥ देव त्वत्करनीरदे दिशि दिशि प्रारब्ध-<br>पुण्योन्नतौ चञ्चत्कङ्कणरत्नकान्तितडिति स्वर्णासृत वर्षति ।<br>स्फीता कीर्तितरगिणी समभवत्तृप्ता गुणग्रामभूः पूर्ण चार्थि-<br>सरः शशाम विदुषा दारिद्यदावानलः ॥ १८४ ॥ देव त्वामँस-<br>मानदाननिहितैरर्थै. कृतार्थीकृतत्रैलोक्य फलभारभङ्गुरशिराः<br>कल्पद्रुमो निन्दति । तडुच्छेदनेवेदना विरमणात्सञ्जातसौ-<br>स्थ्यस्थितिः प्रार्थीर्न्र्णणिताङ्गरेहणतया श्रीरोहणः स्तौति<br>च ॥ १८५॥ गण्डौ पाण्डिमसात्तन्नूस्तानिसमात्पक्षावली बाष्प-<br>सात्कीरः पञ्जरसान्मनोऽपि हरसात्कण्ठोऽपि कैवल्यात् ।<br>आसन्देव चैमूँवरेण्य भवन. प्रत्यर्थिवामभ्रुवा कोदण्डे<br>परिवेषभाजि विजयश्रीसाधने योधने ॥ १८६ ॥ देव<br>त्व मलैयाचलोऽसि भवतः श्रीखैण्डशाखी भुजस्तस्मिन्काल-<br>भुजंगमो निवसति स्फूर्जत्कृपाणच्छलात् । एष ख्याङ्गमर्न-<br>र्गल रिपुतँरुस्कन्धेषु सघट्यन्दीर्घव्योमविमारि निर्मलयशो<br>निर्मोकमुन्मुञ्चति ॥ १८७ ॥ कर्पूरप्रतिपन्थिनो हिमगिरि-<br>ग्रावास्रवधर्षिणः क्षीराम्भोनिधिमध्यगर्भजयिनो गङ्गांघसर्वं-<br>कषा. । स्वच्छन्द हरिचन्दनद्युतिमुद. कुन्देन्दुसवादिनस्त-<br>स्वासन्नरविन्दकन्दुरुचयोऽनेके गुणाः केचन ॥ १८८ ॥<br>मन्ये स्पर्शमणि तवैवमतुल पाणि द्विजाभ्यर्चने दुर्वर्णान्यपि<br>भिक्षुभालफलकान्यासन्सुवर्णानि यत् । तच्चित्रं परमात्र मित्र<br>भवता दत्ताः सहस्तादिमा दुर्वर्णा न सुवर्णतामुपगताः<br>क्षुद्रास्तु मुद्राः कथम् ॥ १८९ ॥ सतप्तभ्रमहारिशीतलतले<br>पुण्याश्रम।ल्कृताञ्चुचैद्देवद्वानलेन कलिते विद्वत्तूरूणा चये !<br>सद्यो वर्ष सुवर्णवारिदि विभो स्वर्णाग्बुधारास्ततो विश्व-<br>व्यापियशा. शिरोऽवनिभृतामाक्रम्य नन्दानिशम् ॥ १९० ॥<br>इन्दुस्त्वद्यशसा जितोऽवनिपते भासानिधित्तेजसा कन्दर्पो<br>वपुषा सुधालनिनिर्वाणोविलासेन च । तथ्य ते जयशील- |
पाद-टिप्पण्यः (Footnotes)
[वाम भाग] १ लोकालोकपर्वतपर्यन्तम् २ दिवसस्स ३ ऐन्द्रे. ४ साक्षात् ५ पुच्छस्स. ६ 'कृ'धातोर्लिङ् ७ असभवंन ८ व्यापाभावादुपची- यमानस ९ लज्जयेवेति भाव. १० दानशौन्डे.
[दक्षिण भाग] १ लज्जासवरणोपायासभवादिति भाव २ पानीयम् ३ जल- मरेवृंदि प्राप्ता ४ गुगलसमूहभूमि ५ अनुपमदानाय न्यस्तै सुवर्णादिभि ६ यतस्त्वया दानेन सर्वे, याचका सफलीकृता अतस्तत्फलाना। गुह्यालव केऽपि च नासन्निति भाव ७ खनित्रे ८ निर्वणतया ९ पर्वत १० यतस्तथैव सर्वथा सरखनया रत्लार्थि- नोऽभावान्न कैश्चिदपि विदार्यत इति भाव . ११ सेनाप्रधान १२ परिवेषो मण्डलीकरणं धनुषस्त भजते सेवतेऽसौ परिवेषभाक्सिञ्जावे सति कर्णीन्तमाकर्षणेन कुण्डलतां प्राप्ते सतीत्यर्थ १३ रणे १४ चन्दनवृक्ष. १५ खङ्ग. १६ यथेच्छम् १७ रिपुमस्तकेष्विति यावत् १८ कञ्चुकम् १९ यथा कश्चन सर्पस्तारुस्कन्धे सघट्टन कुर्वन्स कञ्चुक परित्यजति तथा त्वत्कृपाणाहिः शत्रुतरुस्कन्धेषु संश्लिष्य यशःकञ्चुक मुञ्चतीति भाव..