सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 122, कुल 516 में से
संदर्भ में पढ़ें| सामान्यराजप्रशंसा | १०७ |

| वाम भाग | दक्षिण भाग |

| निर्मित त्वमेक इह भूतले बहुविधो विधात्रा
कृतः ॥ १७२ ॥ आलोकान्तप्रतिहततमोवृत्तिरासा प्रजाना
तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो न. । तिष्ठत्येक
क्षणमधिपतिर्ज्योतिषा व्योममध्ये षष्ठे काले त्वमपि लभसे
देव विश्रान्तिमेकः ॥ १७३ ॥ अध्याक्रान्ता वसतिरमुना-
प्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचि-
नोति । अस्यापि द्या स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्य-
श्शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १७४ ॥ नैत-
च्चित्र यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नो नगरपरि-
घप्रांशुबाहुर्भुनक्ति । आशसन्ते समितिशु सुराः सक्तवैरा
हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ १७५ ॥
त्रातु लोकानिव परिणतः काँयानृग्वेद. क्षात्रो धर्म.
श्रित इव तनु ब्रह्मकोषस्य गुह्यै । सामर्थ्यानामिव समुदय.
सञ्चयो वा गुणानामाविर्भूय स्थित इव जगत्पुन्यनिर्माण-
राशिः ॥ १७६ ॥ हेषन्ते यजितजलधरध्वानमेते तुरगा
भूमि पादैर्यदपि च मुहुर्दक्षिणैरालिखन्ति । यानोत्सुक्य
यदपि चलनान्दोलघेव्येञ्जयन्ति त्वद्दोर्दण्डद्वितयवशगा
तत्समग्रा जयश्री ॥ १७७ ॥ दृष्ट. साक्षादसुरविजयी
नाकिना चक्रवर्ती मात्स्यो न्यायः कथयति यथा वारुणी-
दण्डनीतेः । पातालेन्द्रादहिमयमथोर्त्येव नित्यानुषक्त
तन्नः पुण्यैरजनि भवता वीर राजन्वती भूः ॥ १७८ ॥
यत्कीर्त्या धवलीकृतं त्रिभुवन मूर्त्या जगन्मोहितं मत्येशः
परितोषितः सुचरितैरानन्दिताः सज्जनाः । पूर्णांशा बहवः
कृता वितरणैर्यैन त्वया याचकास्तस्मै सर्वगुणाश्रयाय भवते
दीर्घायुराशास्महे ॥ १७९ ॥ दाने कल्पतरुर्नये सुरगुरु.
काव्ये कविस्तेजसि प्रौढग्रीष्मरविर्धने धनपतिः सत्ये
द्याया शिबिः । गाम्भीर्ये सरितापतिर्निरुपमे शौर्ये सुभद्रापतिः
श्रीमान्धर्मरतिर्महीपतिरयं जीयात्सहस्र समा. ॥ १८० ॥
विद्वन्मानसहस वैरिकमलासङ्कोचचन्द्रद्युते दुर्गामार्गण-
नीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष
विजयप्राग्भावभीम प्रभो साम्राज्य बरवीर वत्सरशतं वैरि-
स्त्रसुचै. क्रियां. ॥ १८१ ॥ हस्तन्यस्तकुशोदके त्वयि न
भूः सर्वसहा वेपते देवागारतया स काञ्चनगिरिश्चिन्ते न धत्ते
भयम् । अज्ञातद्विपभिक्षुभिक्षुककुलावस्थानदुस्थाशया
वेपन्ते मदन्तिन. परममी भूमिपते तावकाः ॥ १८२ ॥
अर्थिप्रशर्वडूभवत्फलभरव्याजेन कैन्जायितः सत्यसिंर्वैति- | दानभाजि कथमप्यभूस्ता स कल्पद्रुमः । आस्ते निर्व्ययरत्न-
सपदुदयोद्यः कथ याचक्रश्रेणीवर्जनदर्शयोनिविडितब्रीडस्तु
रत्नाचल. ॥ १८३ ॥ देव त्वत्करनीरदे दिशि दिशि प्रारब्ध-
पुण्योन्नतौ चञ्चत्कङ्कणरत्नकान्तितडिति स्वर्णासृत वर्षति ।
स्फीता कीर्तितरगिणी समभवत्तृप्ता गुणग्रामभूः पूर्ण चार्थि-
सरः शशाम विदुषा दारिद्यदावानलः ॥ १८४ ॥ देव त्वामँस-
मानदाननिहितैरर्थै. कृतार्थीकृतत्रैलोक्य फलभारभङ्गुरशिराः
कल्पद्रुमो निन्दति । तडुच्छेदनेवेदना विरमणात्सञ्जातसौ-
स्थ्यस्थितिः प्रार्थीर्न्र्णणिताङ्गरेहणतया श्रीरोहणः स्तौति
च ॥ १८५॥ गण्डौ पाण्डिमसात्तन्नूस्तानिसमात्पक्षावली बाष्प-
सात्कीरः पञ्जरसान्मनोऽपि हरसात्कण्ठोऽपि कैवल्यात् ।
आसन्देव चैमूँवरेण्य भवन. प्रत्यर्थिवामभ्रुवा कोदण्डे
परिवेषभाजि विजयश्रीसाधने योधने ॥ १८६ ॥ देव
त्व मलैयाचलोऽसि भवतः श्रीखैण्डशाखी भुजस्तस्मिन्काल-
भुजंगमो निवसति स्फूर्जत्कृपाणच्छलात् । एष ख्याङ्गमर्न-
र्गल रिपुतँरुस्कन्धेषु सघट्यन्दीर्घव्योमविमारि निर्मलयशो
निर्मोकमुन्मुञ्चति ॥ १८७ ॥ कर्पूरप्रतिपन्थिनो हिमगिरि-
ग्रावास्रवधर्षिणः क्षीराम्भोनिधिमध्यगर्भजयिनो गङ्गांघसर्वं-
कषा. । स्वच्छन्द हरिचन्दनद्युतिमुद. कुन्देन्दुसवादिनस्त-
स्वासन्नरविन्दकन्दुरुचयोऽनेके गुणाः केचन ॥ १८८ ॥
मन्ये स्पर्शमणि तवैवमतुल पाणि द्विजाभ्यर्चने दुर्वर्णान्यपि
भिक्षुभालफलकान्यासन्सुवर्णानि यत् । तच्चित्रं परमात्र मित्र
भवता दत्ताः सहस्तादिमा दुर्वर्णा न सुवर्णतामुपगताः
क्षुद्रास्तु मुद्राः कथम् ॥ १८९ ॥ सतप्तभ्रमहारिशीतलतले
पुण्याश्रम।ल्कृताञ्चुचैद्देवद्वानलेन कलिते विद्वत्तूरूणा चये !
सद्यो वर्ष सुवर्णवारिदि विभो स्वर्णाग्बुधारास्ततो विश्व-
व्यापियशा. शिरोऽवनिभृतामाक्रम्य नन्दानिशम् ॥ १९० ॥
इन्दुस्त्वद्यशसा जितोऽवनिपते भासानिधित्तेजसा कन्दर्पो
वपुषा सुधालनिनिर्वाणोविलासेन च । तथ्य ते जयशील- |
पाद-टिप्पण्यः (Footnotes)
[वाम भाग] १ लोकालोकपर्वतपर्यन्तम् २ दिवसस्स ३ ऐन्द्रे. ४ साक्षात् ५ पुच्छस्स. ६ 'कृ'धातोर्लिङ् ७ असभवंन ८ व्यापाभावादुपची- यमानस ९ लज्जयेवेति भाव. १० दानशौन्डे.
[दक्षिण भाग] १ लज्जासवरणोपायासभवादिति भाव २ पानीयम् ३ जल- मरेवृंदि प्राप्ता ४ गुगलसमूहभूमि ५ अनुपमदानाय न्यस्तै सुवर्णादिभि ६ यतस्त्वया दानेन सर्वे, याचका सफलीकृता अतस्तत्फलाना। गुह्यालव केऽपि च नासन्निति भाव ७ खनित्रे ८ निर्वणतया ९ पर्वत १० यतस्तथैव सर्वथा सरखनया रत्लार्थि- नोऽभावान्न कैश्चिदपि विदार्यत इति भाव . ११ सेनाप्रधान १२ परिवेषो मण्डलीकरणं धनुषस्त भजते सेवतेऽसौ परिवेषभाक्सिञ्जावे सति कर्णीन्तमाकर्षणेन कुण्डलतां प्राप्ते सतीत्यर्थ १३ रणे १४ चन्दनवृक्ष. १५ खङ्ग. १६ यथेच्छम् १७ रिपुमस्तकेष्विति यावत् १८ कञ्चुकम् १९ यथा कश्चन सर्पस्तारुस्कन्धे सघट्टन कुर्वन्स कञ्चुक परित्यजति तथा त्वत्कृपाणाहिः शत्रुतरुस्कन्धेषु संश्लिष्य यशःकञ्चुक मुञ्चतीति भाव..