भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ
सामान्यराजप्रशंसा१०७
वाम भागदक्षिण भाग
निर्मित त्वमेक इह भूतले बहुविधो विधात्रा
कृतः ॥ १७२ ॥ आलोकान्तप्रतिहततमोवृत्तिरासा प्रजाना
तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो न. । तिष्ठत्येक
क्षणमधिपतिर्ज्योतिषा व्योममध्ये षष्ठे काले त्वमपि लभसे
देव विश्रान्तिमेकः ॥ १७३ ॥ अध्याक्रान्ता वसतिरमुना-
प्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचि-
नोति । अस्यापि द्या स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्य-
श्शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १७४ ॥ नैत-
च्चित्र यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नो नगरपरि-
घप्रांशुबाहुर्भुनक्ति । आशसन्ते समितिशु सुराः सक्तवैरा
हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ १७५ ॥
त्रातु लोकानिव परिणतः काँयानृग्वेद. क्षात्रो धर्म.
श्रित इव तनु ब्रह्मकोषस्य गुह्यै । सामर्थ्यानामिव समुदय.
सञ्चयो वा गुणानामाविर्भूय स्थित इव जगत्पुन्यनिर्माण-
राशिः ॥ १७६ ॥ हेषन्ते यजितजलधरध्वानमेते तुरगा
भूमि पादैर्यदपि च मुहुर्दक्षिणैरालिखन्ति । यानोत्सुक्य
यदपि चलनान्दोलघेव्येञ्जयन्ति त्वद्दोर्दण्डद्वितयवशगा
तत्समग्रा जयश्री ॥ १७७ ॥ दृष्ट. साक्षादसुरविजयी
नाकिना चक्रवर्ती मात्स्यो न्यायः कथयति यथा वारुणी-
दण्डनीतेः । पातालेन्द्रादहिमयमथोर्त्येव नित्यानुषक्त
तन्नः पुण्यैरजनि भवता वीर राजन्वती भूः ॥ १७८ ॥
यत्कीर्त्या धवलीकृतं त्रिभुवन मूर्त्या जगन्मोहितं मत्येशः
परितोषितः सुचरितैरानन्दिताः सज्जनाः । पूर्णांशा बहवः
कृता वितरणैर्यैन त्वया याचकास्तस्मै सर्वगुणाश्रयाय भवते
दीर्घायुराशास्महे ॥ १७९ ॥ दाने कल्पतरुर्नये सुरगुरु.
काव्ये कविस्तेजसि प्रौढग्रीष्मरविर्धने धनपतिः सत्ये
द्याया शिबिः । गाम्भीर्ये सरितापतिर्निरुपमे शौर्ये सुभद्रापतिः
श्रीमान्धर्मरतिर्महीपतिरयं जीयात्सहस्र समा. ॥ १८० ॥
विद्वन्मानसहस वैरिकमलासङ्कोचचन्द्रद्युते दुर्गामार्गण-
नीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष
विजयप्राग्भावभीम प्रभो साम्राज्य बरवीर वत्सरशतं वैरि-
स्त्रसुचै. क्रियां. ॥ १८१ ॥ हस्तन्यस्तकुशोदके त्वयि न
भूः सर्वसहा वेपते देवागारतया स काञ्चनगिरिश्चिन्ते न धत्ते
भयम् । अज्ञातद्विपभिक्षुभिक्षुककुलावस्थानदुस्थाशया
वेपन्ते मदन्तिन. परममी भूमिपते तावकाः ॥ १८२ ॥
अर्थिप्रशर्वडूभवत्फलभरव्याजेन कैन्जायितः सत्यसिंर्वैति-दानभाजि कथमप्यभूस्ता स कल्पद्रुमः । आस्ते निर्व्ययरत्न-
सपदुदयोद्यः कथ याचक्रश्रेणीवर्जनदर्शयोनिविडितब्रीडस्तु
रत्नाचल. ॥ १८३ ॥ देव त्वत्करनीरदे दिशि दिशि प्रारब्ध-
पुण्योन्नतौ चञ्चत्कङ्कणरत्नकान्तितडिति स्वर्णासृत वर्षति ।
स्फीता कीर्तितरगिणी समभवत्तृप्ता गुणग्रामभूः पूर्ण चार्थि-
सरः शशाम विदुषा दारिद्यदावानलः ॥ १८४ ॥ देव त्वामँस-
मानदाननिहितैरर्थै. कृतार्थीकृतत्रैलोक्य फलभारभङ्गुरशिराः
कल्पद्रुमो निन्दति । तडुच्छेदनेवेदना विरमणात्सञ्जातसौ-
स्थ्यस्थितिः प्रार्थीर्न्र्णणिताङ्गरेहणतया श्रीरोहणः स्तौति
च ॥ १८५॥ गण्डौ पाण्डिमसात्तन्नूस्तानिसमात्पक्षावली बाष्प-
सात्कीरः पञ्जरसान्मनोऽपि हरसात्कण्ठोऽपि कैवल्यात् ।
आसन्देव चैमूँवरेण्य भवन. प्रत्यर्थिवामभ्रुवा कोदण्डे
परिवेषभाजि विजयश्रीसाधने योधने ॥ १८६ ॥ देव
त्व मलैयाचलोऽसि भवतः श्रीखैण्डशाखी भुजस्तस्मिन्काल-
भुजंगमो निवसति स्फूर्जत्कृपाणच्छलात् । एष ख्याङ्गमर्न-
र्गल रिपुतँरुस्कन्धेषु सघट्यन्दीर्घव्योमविमारि निर्मलयशो
निर्मोकमुन्मुञ्चति ॥ १८७ ॥ कर्पूरप्रतिपन्थिनो हिमगिरि-
ग्रावास्रवधर्षिणः क्षीराम्भोनिधिमध्यगर्भजयिनो गङ्गांघसर्वं-
कषा. । स्वच्छन्द हरिचन्दनद्युतिमुद. कुन्देन्दुसवादिनस्त-
स्वासन्नरविन्दकन्दुरुचयोऽनेके गुणाः केचन ॥ १८८ ॥
मन्ये स्पर्शमणि तवैवमतुल पाणि द्विजाभ्यर्चने दुर्वर्णान्यपि
भिक्षुभालफलकान्यासन्सुवर्णानि यत् । तच्चित्रं परमात्र मित्र
भवता दत्ताः सहस्तादिमा दुर्वर्णा न सुवर्णतामुपगताः
क्षुद्रास्तु मुद्राः कथम् ॥ १८९ ॥ सतप्तभ्रमहारिशीतलतले
पुण्याश्रम।ल्कृताञ्चुचैद्देवद्वानलेन कलिते विद्वत्तूरूणा चये !
सद्यो वर्ष सुवर्णवारिदि विभो स्वर्णाग्बुधारास्ततो विश्व-
व्यापियशा. शिरोऽवनिभृतामाक्रम्य नन्दानिशम् ॥ १९० ॥
इन्दुस्त्वद्यशसा जितोऽवनिपते भासानिधित्तेजसा कन्दर्पो
वपुषा सुधालनिनिर्वाणोविलासेन च । तथ्य ते जयशील-

पाद-टिप्पण्यः (Footnotes)

[वाम भाग] १ लोकालोकपर्वतपर्यन्तम् २ दिवसस्स ३ ऐन्द्रे. ४ साक्षात् ५ पुच्छस्स. ६ 'कृ'धातोर्लिङ् ७ असभवंन ८ व्यापाभावादुपची- यमानस ९ लज्जयेवेति भाव. १० दानशौन्डे.

[दक्षिण भाग] १ लज्जासवरणोपायासभवादिति भाव २ पानीयम् ३ जल- मरेवृंदि प्राप्ता ४ गुगलसमूहभूमि ५ अनुपमदानाय न्यस्तै सुवर्णादिभि ६ यतस्त्वया दानेन सर्वे, याचका सफलीकृता अतस्तत्फलाना। गुह्यालव केऽपि च नासन्निति भाव ७ खनित्रे ८ निर्वणतया ९ पर्वत १० यतस्तथैव सर्वथा सरखनया रत्लार्थि- नोऽभावान्न कैश्चिदपि विदार्यत इति भाव . ११ सेनाप्रधान १२ परिवेषो मण्डलीकरणं धनुषस्त भजते सेवतेऽसौ परिवेषभाक्सिञ्जावे सति कर्णीन्तमाकर्षणेन कुण्डलतां प्राप्ते सतीत्यर्थ १३ रणे १४ चन्दनवृक्ष. १५ खङ्ग. १६ यथेच्छम् १७ रिपुमस्तकेष्विति यावत् १८ कञ्चुकम् १९ यथा कश्चन सर्पस्तारुस्कन्धे सघट्टन कुर्वन्स कञ्चुक परित्यजति तथा त्वत्कृपाणाहिः शत्रुतरुस्कन्धेषु संश्लिष्य यशःकञ्चुक मुञ्चतीति भाव..

१०८सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

[वाम-भागः]

मेतदधुना त्वद्दानमदैनयोर्मध्ये क नु विजेष्यतीति विषये दोलायते मे मनः ॥ १९१ ॥ यः पृष्ठं युधि दर्शयत्यरि- भटश्रेणीषु यो वक्रतां स्वां प्रत्यैव बिभर्ति यश्च किरति क्रूरध्वनिं निष्ठुरम् । दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं विख्यातः स्फुटमेक एव हि भवान् सीमा गुण- ग्राहिणाम् ॥ १९२ ॥ देव त्वं जय यस्य राजति महाराष्ट्रीकु- चोच्चं कुलं लाटीबाष्पृदु नर्म चेदिवनितानाम्भीगभीरं मनः। आभीरीकटिविस्तृता मतिरसिर्गोडीकचश्यामला कर्णाटीरति- निष्ठुरो रणरसः कीरीमुखाभं यशः ॥ १९३ ॥ ते कौपीन- धनास्त एव हि परं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा $^{४}$क्षितिः । तैरेतत्सैमलं$^{५}$कृतं निज- कुलं किंवा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥ १९४ ॥ साशङ्कस्य समाकुलीकृतमतेरत्यन्त- निस्तेजसरिच्छिन्नाङ्गस्य विकम्पमानहृदयस्यारूढमन्योर्दृशम् । लज्जां सत्यजतः क्रमं विमृशतो विन्नान्बहून्पश्यतः क्लेशो योऽर्थिजनस्य वक्तुमनसो मा भूत्स ते विद्विषाम् ॥ १९५ ॥ नो कामः प्रतिहन्यते प्रणयिषु स्वेमेऽपि नाथ त्वया नैवाधः- कुरुषे वृषं द्विरसना व्याला न ते वल्लभाः । नो बह्वक्षस्तव मूर्तयो न च तनुर्हित्यं जडानुग्रहव्यग्रा नो विषमा च दृक्त्वमथ च ख्यातः क्षितावीश्वरः ॥ १९६ ॥ $^{६}$संग्रामाङ्गण- संगतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्ते- नापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥ १९७ ॥ हारानाहर देव चन्द्रधवलान्रो- चेतयोश्चेस्तटीं संप्राप्ते त्वयि सैन्यवारणगणैर्मज्जद्भिरुत्क्षो- भितम् । सिन्दूरारुणमम्बु मेघपटलीपीतोञ्झितं शुक्तिषु खल्यैरेव दिनैः करिष्यसि महीमाताग्रमुक्ताफलम्॥१९८॥ कृष्णत्वं घनमण्डलस्य गलितं लग्नं मुखे त्वद्विषां विद्युद्दाम जगाम तावकमर्तिं गर्जिर्भवद्दुन्दुभिम् । वृष्टिस्त्वत्परिपन्थि- पार्थिववधूनेत्रेषु चक्रे स्थितिं चापं ते वसुधाधिनाथ बलभि- त्कोदण्डकान्तिः श्रिता ॥ १९९ ॥ नालिङ्गन्ति कुचद्वयं भवदिभप्रोत्तुङ्गकुम्भद्वयत्रासाद्वेणिलतासु नैव दधति प्रीतिं तवासिभ्रमात् । भ्रूभङ्गान्नभवदीयदुर्वधरनुर्ग्रान्त्या भजन्ते न ते वैरिक्षोणिभुजो निजाम्बुजदृशा भूमण्डलाखण्डल ॥२००॥

[दक्षिण-भागः]

अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः सख्यया$^{१}$ प्रेक्ष- चक्षुर्वेक्ष्यमाणबधिरश्राव्याः$^{२}$ किलाकीर्तयः । गीयन्ते स्वरम- ष्टमं कलयता$^{३}$ जातेन वन्ध्योदरान्मूकानां प्रकरेण$^{४}$ कूर्भर- मणीदुग्धोदधे$^{५}$ रोधसि ॥ २०१ ॥ द्वारं खङ्गिभिरानृतं बहि- रपि प्रस्विन्नगण्डैर्गजैरन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्या- सिता भूमयः । आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरंतनप्रणयिनी शून्येऽपि राज्य- स्थितिः ॥ २०२ ॥ शौर्यं केसरिणा परोपकरणं कल्पद्रुमे- णार्पितं लावण्यं मकरध्वजेन च शरच्चन्द्रेण शुभ्रं यशः । धैर्यं ते कमठाधिपेन विपुलं गाम्भीर्यमम्भोधिना सौभाग्यं तु तवैव केवलमिदं तत्केन नो विद्महे ॥ २०३ ॥ कामं कामसमस्त्वमत्र जगति ख्यातोऽसि यत्सर्वदा रूपे- णैव महीपते तव धनुःपाण्डित्यमन्यादृशम् । त्वं यस्मिन्वि- शिखं विमुञ्चसि तमेवोद्दिश्य मुक्तत्रपं नुञ्चत्कञ्चुकमुद्गत- स्पृहदहो धावन्ति देवाङ्गनाः ॥ २०४ ॥ सर्वे लुण्ठित- मुद्धटैस्तव भटैस्तेन द्विषत्सुभ्रुवक्ष्णाय त्वयि योजि- ताञ्जलिपुटं काकूक्तिमातन्वते । त्राणं दूरत एव तिष्ठतु मनस्तासां त्वया लुण्ठितं तद्गम्भीरं वदामि कुप्यसि न चेत्साधोरयं कः क्रमः ॥ २०५ ॥ कोदण्डस्तव हस्तगो हृदि वलत्यर्तिस्तव द्विषिणां त्वं दाता रभसेन मार्गणगण- स्तानेव संसेवते । देव त्वं तु जयस्रमित्रमनिशं ते यान्ति वैकुण्ठतां सम्ग्रामे तव भूपते महदिदं चित्रं समालोक्यते ॥ २०६ ॥ मेदिन्यां विषमेषुरित्यनुदिनं शृङ्गारवीरोद्धटा- चार्यः श्रीजगतीपतिः कमलदृक्कैर्नाम नो गीयते । शय्यायां च रणाङ्गणे च पतिताः सीदन्ति निश्चेतनाः कामिन्यश्च विरोधिनश्च शतशो येनामुना खण्डिताः ॥ २०७ ॥ दोर्दण्ड- द्वयकुण्डलीकृतलसत्कोदण्डचण्डाशुगध्वस्तोद्दण्डविपक्षमण्डल- मथ त्वा वीक्ष्य मध्यैरणम् । वलगद्भाण्डिवमुक्तकाण्ड- वलयज्वालावलीताण्डवभ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ २०८ ॥ को दण्डं न ददाति देव भवते कोदण्डमातन्वते को नारातिरुपेति पारमुदधेः कोणारुणे लोचने । का कुक्षान्तरमेत्य वैरतरुणी काकुं न वा भाषते राजन्नार्जित वारणे तव पुरः को वा रणे वर्तताम् ॥२०९॥ दृष्ट्वा मण्डलमध्यलग्नमधुलिड्डेतण्डलक्षस्फुरत्तत्कोदण्डल्सह- तेषु लहरीः को न क्षमाखण्डले । खारात्ताण्डवभागकाण्ड- वनमुग्धाराज्वलत्खण्डवक्रुध्यत्पाण्डवकाण्डवर्षमतुलं ब्रह्माण्ड-

[पाद-टिप्पण्यः / Footnotes]

[वाम-पादटिप्पणी] १ कौपीनमेव धनं येषाम्, पक्षे, -कौ पृथिव्यां पीनधनाः पुष्ट- धना २ आमलकीफलम्, पक्षे,-पृथ्वीफलम्, राज्यमित्यर्थः ३ न दन्ति पदच्छेदः गजाश्वसमूहाः; पक्षे,-वाजिनिवहा अश्वसमूहा नदन्ति हेषितं कुर्वन्तीत्यर्थः . ४ क्षयं, पक्षे,-भूमिः ५ समलं सदोषं कृतम्; पक्षे,-सम्यगलंकृतम्. ६ युद्धभूमिम्. ७ धनुषि ८ सज्जीकृते.

[दक्षिण-पादटिप्पणी] १ परार्थसंख्यामतिक्रान्तया. २ अन्ध.. अस्य राज्ञोऽकीर्तिरेव नास्तीति भावः ३ स्वीकुर्वता. ४ समूहेन. ५ तीरे ६ खड्गधारिभिः, पक्षे,-गण्डकैः ७ द्वारपालैः, पक्षे,-सर्पै.. ८ पट्टाभिषिक्तस्त्रीभिः, पक्षे,-महिषीस्त्रीभिः..

सामान्यराजप्रशंसा १०९

वर्त्म स्मरेत् ॥ २१० ॥ आलानं जयकुञ्जरस्य दृषदा सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः । संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो राजन्राजति वैरिराजवनितावैधव्यदस्ते भुजः ॥ २११ ॥ लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिना देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादित चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥ २१२ ॥ नानाभूषणभूषित. प्रतिभयापात्र प्रभूता स्थितिर्मोरासतकरो भवाधिकरुचिर्भूरीकृताश्वद्विपः । शश्वत्संगतभासमानमुकुटो भिक्षुप्रवृद्धादरस्त्व राजेन्द्र रिपुस्तवापि नितरा भेद पर भेदकृत् ॥ २१३ ॥ प्रत्यावासकसज्जता प्रथमतस्त्वा योद्धुमुत्कण्ठिता योधास्तेऽभिसृता मनागरिचमूः स्वाधीननाथा स्थिता । भीत्या प्रोषितभर्तृका समभवत्त्वत्सायकैः खण्डिता दूरादन्तरिता विधाय कलहं हा विप्रलब्धा विधे ॥ २१४ ॥ प्रामाण्य स्वत एव नैव परतो विज्ञायते मानता शब्दस्यापि यथार्थता स्तुतिवचोराशेर्मनोवृत्तयः । विश्वव्यापकता गतो न च महानन्यो भ्रमः कापि ते नास्ते देव मत किमस्ति भवतः शाखेषु न ज्ञायते ॥ २१५ ॥ प्रामाण्य परतः स्वतःऽपि भवतो विज्ञायते सन्मते भूमीन्द्र प्रचुरक्षणस्थिरतया वर्णाश्चिर स्थापिताः । सर्वज्ञैकसदीश्वरोऽपि न पर ब्रूते भवानीश्वर तन्नैयायिकनायकस्य भवतो मीमांसकत्व कुतः ॥ २१६ ॥ एक वस्तु यदस्ति विश्वजनतानन्दप्रमोदात्मक सत्य तत्त्वमसीति वाक्यमखिल त्वय्येव विश्राम्यति । त्वामाकर्ण्य न किंचिदन्यदवनीशृङ्गार मो मन्यते त्वय्यास जनकादिकीर्तिजनके किं ज्ञानमीमासया ॥ २१७ ॥ त्वद्वाणेषु यमो जयेषु नियमः पाते स्थिर चासन भ्रान्तौ श्वासविनिग्रहो गुणगणे प्रत्याहृति. श्रीमत् । ध्यान शूलिनि धारणा च धरणेर्धर्मे समाधिर्यतस्तन्निर्विण्णहृदः किमीश्वरपरे वाञ्छन्ति पातञ्जले ॥ २१८ ॥ दृष्टान्तो न तवास्ति धाचि न च ते सन्देहलेशः क्वचिद्याजोक्तिर्न कदापि शास्त्रकलने नैवानुमाने रुचिः । सामान्य च विशेषवन्न मनुषे नाक्षेपबुद्धिर्मनाग्ब्याघातोऽपि न वा सुखेडप्यथ कथ साहित्यतर्कज्ञता ॥ २१९ ॥ मेघो भाति जलेन गौस्तु पयसा विद्वन्मुख भाषया तारुण्येन च कामिनी मधुरया वाण्या पिक ख जलात् । मालिन्याञ्जनयन श्रिया च सदनं ताम्बूलगगानमुख ब्रह्माण्ड सकल त्वया नरपते भाति ख चित्रं महत् ॥ २२० ॥ दारिद्र्योपहतो यथा घनधनं चान्द्रीं चकोरः प्रभा कामार्तस्तरुणी क्षुधापरिगतः सद्योऽन्नं भोजनम् । सच्छिष्यः सुगुरु वियोगविधुरो वत्सो यथा मातर तद्वद्भूः सततं स्मरामि मनसा मद्धत्सलाम्च्छ्रीमतः ॥ २२१ ॥ लक्ष्मीस्ते सदने सदा विहरता वित्ते च चिन्तामणिः खर्वेनुस्तव गोकुले सुरतरुश्चारामभूमौ तव । वाणी ते वदने दया नयनयोर्दान करे चान्वहं विष्णुश्चेतसि ते मतिश्च वसता कीर्तिश्च लोकत्रये ॥ २२२ ॥ गङ्गायत्यसितापगा फणिगणः शेषीयति श्रीपतिः श्रीकृष्णोयति कैरवीयति कुलं नीलोत्पलाना च वै । कर्पूरीयति कज्जलं पिककुलं लीलामरालीयति खःकुम्भीयति कुम्भिनामपि घटा त्वत्कीर्तिसङ्घट्टतः ॥ २२३ ॥ लक्ष्मीस्ते हृदि भारती च वदने मौलौ सदा केशवश्चण्डी ते भुजदण्डयोर्गुणनिधे गेहे कुबेरस्थितिः । चित्त नाथ तवास्तु धर्मसदने दानप्रसङ्गः करे सर्वास्ते विपद् प्रयान्तु विपिने त्व दीर्घजीवी भव ॥ २२४ ॥ आयुस्ते नरवीर वर्धतु सदा हेमन्तरात्रिर्यथा लोकाना प्रियवर्धनो भव सदा हेमन्तसूर्यो यथा । लोकाना भयवर्धनो भव सदा हेमन्ततोय यथा नाश यान्तु तवारयोऽपि सतत हेमन्तपद्म यथा ॥ २२५ ॥ यद्बाहू वहतः पराक्रमहृतप्रत्यर्थिसीमन्तिनीचक्षुःकज्जलकालिकामिव धनुर्मोर्वीकिणश्यामिकाम् । यद्दोर्दुर्मदकर्मकार्मुकगुणप्रोत्तालकोलाहलैर्वैरीस्त्रीकलमेखलाकलकला. पीता इवास्त गताः ॥ २२६ ॥ सौन्दर्य मदनादपि प्रथयति प्रौढिप्रकर्ष पुरा भेत्तार मदनाग्मिप्यधरयत्युद्दामदो. क्रीडितम् । मुग्धत्वं मदनारिमौलि-शशिनोऽप्युत्कर्षमालम्बते मूर्तेस्तत्किमसो रसैर्विरचित शृङ्गार-वीराद्भुतैः ॥ २२७ ॥ आदाय प्रतिपक्षकीर्तिनिवहान्ब्रह्माण्डभूषान्तरे निर्विघ्न धमता नितान्तमुदितैः स्वैरेव तेजो-भिभिः । तत्तप्तप्लुतपाकशोधितमिव प्राप्त गुणोत्कर्षिणा पिण्डस्थ च महत्तर च भवता निःशारतारं यशः ॥ २२८ ॥ व्यासं नैकतयास्थितं श्रुतिगण जैम्मी न वल्मीकतो नामौ र्नाभवमच्युतस्य सुमहद्भाष्यं च नोभाषितम् । चित्रार्थो न

१ बन्धनस्तम्भ २ अनेनास्य सेतोरविनश्वरत्व सूचितम् ३ उदयाचल ४ सूर्य. ५ विलोडनलीला ६ यथा क्षीराब्धिमन्थने मन्दरा चलस्तथा संग्रामामृतसागरविलोड़ने त्वद्भज. यथा च तत्रामृतमुत्पन्न तथात्र यश इति भाव . ७ यतस्त्वमेव विमलसकललावण्यगृहमत-स्त्वत्पुरः सकलङ्कस्य चन्द्रस्य लावण्यमयत्वेन घटन व्यर्थमेवेति भाव ८ यत पूषा स्वश्वतापगरिमलक्षणं शमपि नामोतीति भाव ९ यतश्चि-न्तारत्नस्याय प्रभावो यद्याचकयाचितार्थानां सद्य एव पूरण भवति तच्च त्वत्त एव भवतीति अतश्चिन्तामप्युत्पत्तिर्वृथेति भाव . १० यत पृथ्वीभारख्यस्य भुजाभ्यामेव धारितोऽतस्तदुत्पत्तिर्व्यथेति भाव .

१ अनेकशाखारूपेण न विस्तारितवान्, तत्कर्ता व्यासो नाभवाम इत्यर्थ २ वेदसमूहम् ३ नाहं वाल्मीकिरित्यर्थ. ४ नाह चतुर्मुख इत्यर्थ ५ नाह सहस्रजिह्व इत्यर्थ..

११०सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्
वाम-स्तम्भःदक्षिण-स्तम्भः
दृष्ट्वैकथामचक्रं सौत्रामणि नास गुरुर्देव खड्गवृन्दवर्षनमहमं कर्तुं कथं शक्त्याम् ॥ २२९ ॥ एकाभ्रुकुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकेरन्या कपोलस्थली । लोलाक्षीं क्षणमात्रभाविविरहक्लेशसहसा पश्यतो द्रागाकर्णयतश्च वीर भवतः प्रौढा हवाडम्बरम् ॥ २३० ॥ येषा दोर्बलमेव दुर्बलतया ते समतातैरपि प्रायः केवलनीतीरीतिशरंणैः कार्ये किमुर्वीश्वरैः । ये क्ष्माशास्त्रं पुनः पराक्रमनयस्वीकारकान्तक्रमास्ते स्युनैव भवादृशास्खिजगति द्वित्राः पवित्राः परम् ॥ २३१ ॥ अत्युच्चाः परित. स्फुरन्ति गिरयः स्फारास्स्थाम्भोदयस्तानेतानपि बिभ्रती किमपि न क्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहु. स्तुतिमिति प्रस्तौमि यावद्भवस्तावद्विभ्रदिमा स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ २३२ ॥ येषा कण्ठपरिग्रहप्रणयिता सम्प्राप्य धाराधरस्तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेह परामोति च । तेषा सगररङ्गमक्तमनसा राज्ञा त्वया भूपते पासूनां पटलै. प्रसाधनविधिर्निर्वर्य्यते कौतुकम् ॥ २३३ ॥ द्वेष्या कीर्तिंकलिन्दशैलसुतया नद्यास यद्दोर्व्यीकीर्तिश्रेणिमयी समागममगाद्गङ्गा रणाङ्गणॆ । तत्तत्सन्विमनिमज्जैय बाँहुजभटैरारम्भि रम्भापरीरम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः ॥ २३४ ॥ असिन्दिग्विजयेाथते पतिरयं मे स्यादिति ध्यायति कंम्पं सात्त्विकभावैवम्भति रिपुक्षोणीन्द्रदारा धरा । अस्यैवाभिमुखं निपत्य समरे यासद्भििरूध्वै निज. पॅन्था भाँस्वति दृश्यते विलमयः प्रत्यर्थिभिः पार्थिवैः ॥ २३५॥ विद्राणे रँणैचत्वरादरिगणे त्रस्ते समस्ते पुन. कोपात्कोऽपि निवर्तते यदि भट. कीर्त्या जैरंग्युद्धतः । आगच्छन्नपि समुर्ख विर्गुखैतामेवाधिगच्छत्यसौ द्रागेतच्छुरिकारयेण ठंणिति च्छिन्नापमर्षच्छिराः ॥ २३६ ॥ हित्वा दैत्यैरिपोरुरः ख्रंमवनं शून्यत्वदोषस्फुटासीदन्मर्कटकीटकूत्रिमसितच्छत्रीभवत्कौस्तुभम् । ऽड्जित्वा निजसङ्ग पद्ममपि तैह्यैक्तावनद्धीकृतं लूतातन्तुभिरन्तरथ भुजयोः श्रीरस्य विश्राम्यति ॥ २३७ ॥ सिन्योजैवैर्मैयं पवित्रमसृजत्तत्कीर्तिपूतीद्भुतं यन्त्र क्षान्ति जगन्ति सन्ति कवयः के वा न वैचियमाः ।यद्विन्दुश्रियमिन्दुरक्षति जलं चाविश्य दृश्येत्तरो यैस्यासौ जलदेवतास्फटिकभूर्जागर्ति योगेश्वरः ॥ २३८ ॥ युद्धा चाभिमुखं रणस्स चरणसैवौदसीत्यस्र वा बुद्धान्तः स्वपरान्तर निपतातमुन्मुच्य बाणावलीः । छिन्नं वार्वेनतीभवन्निजभियः खिन्न भरैणाथवा राज्ञानेन हठाद्विलोठितमभूद्धमावरीणा शिरः ॥ २३९ ॥ राज्ञामस्य शतेन कि कलयतो हेति शतघ्नी कृतं लक्षैर्लक्ष्मिरदो हशेव जयतः पैद्मानि पक्षैरलम् । कतु सर्वपरेैच्छिदः किमपि नो शक्यं पॅरौर्धेन वा तत्सँख्यापगमं विनास्ति न गतिः काचिद्वैतैतद्द्विषाम् ॥ २४० ॥ क्षीरोदन्वदप. प्रेम्रैथ्य मँथितौ देशेऽमरैर्निर्मिते स्वौक्रम्यं सृजतस्तदस्य यशस. क्षीरोदसिहासनम् । केषा नाजने वा जनेन जगतामेतत्कवित्वामृतस्रोत.प्रोतपिपासुंकर्णकलशीभाजामिषेकोत्सवः ॥ २४१ ॥ निर्क्षित्रुटितारिवारणघटोकुम्भास्थिकूटवैर्टस्थानस्थायुकमौक्तिकोत्करैकिरैः कैरस्य नायं करः । उंन्नीतश्रुतुरङ्गसैन्यसमरखेञ्चेत्तुरगैरैक्ष्खुण्णासु क्षितिषु क्षिपेन्निव यशःक्षोणीजैं बीजव्रजम् ॥ २४२ ॥ यत्कस्यामपि भौनुमान्न ककुभि स्थेमैनैमालम्बते जात यद्वनकाननैकशरणप्रासेन दावाग्निना । एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचिती धिक्क वाँडवमम्मसि द्विषि भया येन प्रविष्टं पुनः ॥ २४३ ॥ आत्मन्यस्य संमुचितीकृतगुणसाहोतरामोचिती यद्घात्रान्तरवर्जेनाँदजनयद्भङ्जानिरेष द्विषाम् । भूयोऽहक्रियते स्म येन च हृदा स्कन्धो न यक्षानमत्तन्मर्माणि दैलंदल समिर्देल्कमीणबाणव्रज. ॥ २४४ ॥ यद्भर्तुः कुरुतेऽभिषेणैनैमय शक्रो मुव सा ध्रुवं दिग्दाहैरिव भस्मभिर्मैघवता सृष्टैर्हतोर्दूलेना । शभोर्मा बत साध्यवेलनटनभौजि व्रतं द्रागिति क्षोणी नृत्यति मूतिंरैदवपुषोऽसृग्वृष्टिसध्याधिया ॥ २४५ ॥ प्रागेतद्वपुरामृखेन्दु सृजतः सङ्गुः समग्रस्त्विषा कोष शोषमगादगाधजगतीशिल्पेऽप्यनल्पा-

पादटिप्पण्यः (Footnotes)

वामभागस्थाः पादटिप्पण्यः : १ नाह गुणाढ्य इत्यर्थ
२ इन्द्रे
३ नाह वाचस्पतिरित्यर्थ
४ विस्तीर्णा
५ खड्गम्
६ तैलादि, पक्षे,-मित्रत्वम्
७ यमुनया
८ क्षत्रियमटै
९ एतद्विरोधिना मरणमेव शरणमिति भाव.
१० औत्पातिके भूकम्पे सात्त्विकोत्प्रेक्षा
११ प्राप्नोति
१२ ऊर्ध्व लोकम्.
१३ आसन्नमृत्योरादित्यमण्डल मच्छेदभिव दृश्यते
१४ सूर्यमण्डले
१५ रणाङ्गात्.
१६ प्रसिद्ध
१७ पराङ्मुखत्वम्, पक्षे,-विगतमुखत्वम्
१८ ठणिति कश्चिदनुक रणशब्द
१९ विष्णो
२० रिक्ततादोष
२१ तन्तुवायकीटा.
२२ बद्धम्
२३ लक्ष्मी
२४ जेतु जयशीलम्, ततोऽप्यधिकमित्यर्थ
२५ खातम्.
२६ सर्वेऽपि कवयो मौनिनो भवन्ति, वर्णयितुमशक्यत्वादिति भाव.

दक्षिणभागस्थाः पादटिप्पण्यः : १ सावर्ण्यीदृश्य
२ इन्दु
३ शिवालेङ्ग.
४ अमुख्य.
५ नत्रीभवत्
६ भारेण.
७ परिवर्तितम्
८ आयुधम्
९ अलम्.
१० लक्षसख्या, पक्षे,-शरव्यम्
११ पद्मसंख्यया, पक्षे,-अब्जानि.
१२ पद्मसंख्याभि
१३ शत्रुच्छिद
१४ परार्धसख्यया, पक्षे,-परेषामरीणामर्थेन
१५ एक्तवादि, पक्षे,-युद्धम्
१६ विलोड्य
१७ मथनोद्भूतो निर्जलो दधिक्षीरविकार
१८ रूपान्तरे, रूपान्तरापादनेन क्षीराभ्थावभाव गमिते सतील्यर्थ
१९ स्वेनाक्रमणा- र्थम्
२० पूरिते
२१ खड्ग
२२ सघातः
२३ गर्तप्रदेश..
२४ स्थायिन
२५ समूह.
२६ उत्प्रेक्षित .
२७ सचरत्.
२८ कुष्ठासु.
२९ वर्षात्रव
३० वृक्ष
३१ सूर्यैः
३२ स्थिरत्वम्
३३ औचित्यम्.
३४ अग्रेर्जलम् सहजदेवि तस्मिन्.
३५ समा- हृतगुणस्य
३६ दण्डनमकरोदित्यर्थ
३७ दलयित्वा.
३८ अमो- घवाण इत्यर्थ
३९ सेनयामियानम्.
४० घृतस्मानुलेपना.
४१ मा अभीज्ञि.

सामान्यराजप्रशंसा १११

यितः । निःशेषद्युतिमण्डलय्वययशोदीष्ण्लीभैरैष वा शेष.
केशमय. किमन्धतमसस्तोमैस्ततो निर्मितः ॥ २४६ ॥
अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च
न समुखौ रचयतः कंपं च न प्राप्नुतः । तद्युक्त न पुन-
र्निर्वृत्तिर्भययोर्जगति यन्मुक्तयोरेकस्तत्र भिनत्ति मित्रमपर-
श्चामित्रमित्यद्भुतम् ॥ २४७ ॥ एतस्योन्नतसर्वकर्मकृति-
नस्त्रैलोक्यचूडामणेः शंभुब्रह्मपुरंदरप्रभृतयः स्तुत्यै न शक्ता
यदि । देवः पन्नगनायको भगवती वाणी स्वयं
चेज्जडा सौन्दर्यस्य निरूपणे वद कथ शक्तो भवेन्मा-
नव. ॥ २४८ ॥ अर्ध दानववैरिणा गिरिजयोप्यर्ध
हरस्याहृतं देवेत्थं भुवनत्रये स्वरहराभावे संमुन्मीलति ।
गङ्गा सागरमम्बर शशिकला शेषश्च पृथ्वीतल सर्वज्ञ-
त्वमधीश्वरत्वमगमत्त्वा मा च भिक्षाटनम् ॥ २४९ ॥
अन्यास्ता गुणरत्नरोहणभुवो धन्या मुदन्यैव सा सभारा-
खलु तेऽन्य एव विधिना यैरैव सृष्टो युवा । श्रीमत्कान्ति-
जुषा द्विषा करतलात्क्षीणा नितम्बस्थलादृष्टे यत्र पतन्ति
मूढमनसामस्त्राणि वस्त्राणि च ॥ २५० ॥ यैर्दृष्टोऽसि तदा
ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्रुतिपाटलीकृतपु-
रोभागः परान्दारयन् । तेषा दुःसदकामदेहदहनप्रोद्भूतनेत्रा-
ञ्चलज्वालालीभरभासुरे पुररिपावस्रुं गतं कौतुकम् ॥ २५१ ॥
येऽणुत्वं मनसि स्वके विवृणुते रीत्या कयापि स्फुटं काणा-
दाचरणस्य तत्समुचितं मन्ये प्रतिक्षाम्यताम् । न्यायाभि-
ज्ञतमोऽपि यत्प्रथयसे चित्ते महत्त्वं निजे मीमांसामतपक्ष-
पातत इदं मन्ये त्वयाङ्गीकृतम् ॥ २५२ ॥ ये लब्धाश्रय-
मायतः फलभृत कुर्वन्ति किंचिद्गुण वाधौं वारिमुचो न
कस्य विदितास्ते कर्ममीमासकाः । आलोच्यैव निराश्रयान्फ-
लभरैः सबन्धतः सद्गुणाञ्छ्रीमद्राम तवादृत पुनरिदं मीमां-
सकत्वं स्तुमः ॥ २५३ ॥ त्रैलोक्यामयलग्नकेन भवता
वीरेण विस्मारितः सञ्जीभूतमहूर्त मण्डलधनुः पाण्डित्यमा-
खण्डलः । कि चाजसमखार्पितेन हविषा सफुल्लभासोल्लस-
त्सर्वाङ्गीणवलीविलुप्तनयनव्यूहः कथं वर्तते ॥ २५४ ॥
कल्पक्षोणिरुहोऽयमित्यनुदिन भूमीसुरैर्भाव्यसे कामोऽसा-
विति कामिनीभिरभितश्चित्ते चिरं चिन्त्यसे । श्रीनारायण
एव केवलमिति प्रेम्णा श्रिया ध्यायसे त्वं कालोऽयमिति
प्रतिक्षितिधरैरैकोऽप्यनेकात्मभृत् ॥ २५५ ॥ नीतिस्त्रीसुकुरो

जयध्वजनवस्तम्भः प्रतापाशुमत्गुर्वा दिक्परिपन्थिभूपति-
महासपन्मृगीवागुरा । उद्यत्पुण्यलतावालमतनून्मत्तद्विपैला-
नकं यः श्रीकेलिनिकेतनं गुणमणिश्रेणी नवीनाकरः ॥२५६॥
रत्नान्यम्बुधितोयगर्भमगमन्मेरुः सुराञ्शिश्रिये स्वीयाङ्के
कमला निधाय विदधे निद्रा हरिनीरधौ । यस्मिन्दित्सति
भूरि दातरि नृणा भालस्थले दुलिपि व्रीडानम्रशिराः कमण्ड-
लुमथं जग्राह मार्गं विधिः ॥ २५७ ॥ लक्ष्मीश्चैन्न मरस्वती
तदुभयं यद्यस्ति नोदारता सा चैतत्रितयं भवेच्च कुहचित्यु-
ण्येरणण्येैरपि । सौजन्यं न विजृम्भते तदपि चेन्नास्तेऽवकृप्ता
मतिस्तत्सर्वं परमेश्वरस्य कृपया त्वय्येव सम्भाव्यते ॥ २५८ ॥
शत्रूणा यमदण्डता मृगदृशा कंदर्पकोदण्डता गीर्वाणद्रुम-
भावमर्थिविदुषा मध्ये त्रयागामिति । आश्चर्यं मनुजेन्द्ररत्न
भवतो यद्बाहुदण्डद्वयं नानाव्वं गतमेकमेव जगता मध्ये
त्रयाणामिति ॥ २५९ ॥ रक्तेनैव विलोचनेन कैरुणारत्नाकरेण
त्वया दृश्यन्ते नरदेवरत्न सुहृदः विद्वेषिणो नो नृपा ।
कि सिक्ताः प्रथगं सुधाभिरभवन्दावानलै. कि परैः पूर्व
पल्लविताः कुतः किमपरे भस्मत्वमासादितम् ॥ २६० ॥
या लाक्षावलयानि बाहुयुगले कण्ठे च काचस्रजं मन्यन्ते
बहुभूषणानि दनिता दीनद्विजाना पुरा । ता माणिक्य-
चितानि हेमवलयान्युञजन्ति मुक्तास्रजं यद्वाराम्बुदुदानशील-
नृपते त्वत्त्यागलीलायितम् ॥ २६१ ॥ मेरूर्दूरगतो हिमा-
लयगिरि. प्रालेयरूपोऽभवच्चन्द्रे श्रीसहजेऽपि याचकभया-
त्क्षीणत्वमुन्मीलति । कौपीनं कृतवान्हरोऽपि भगवान्विष्णु-
र्जल सेवेते वारा राशिरपेयतामुपगतः को नाम दातुं
क्षमः ॥ २६२ ॥ कल्याणं भवता यशः प्रसरता धर्मः
सदा वर्धता सपत्तिः प्रथता प्रजा प्रणमता शत्रुक्षयो जाय-
ताम् । वाक्यं सवदता वपुः प्रभवता लक्ष्मीपतिः प्रीयता-
मायुस्ते शरदा शतं विजयता दानाय दीर्घायुषे ॥ २६३ ॥
दृष्ट्रैवाडुकुशमुद्रया निगडितो दारिद्यदन्तावल्रो वाचा सुन्द-
रयार्चिया मम कृतो गङ्गावगाहोत्सवः । अभ्युत्थाननम-
स्क्रयार्धघटनैर्मानोऽपि दानोत्तरो लीलेयं भवता वय तु
विदुषा मूर्धानमध्यासिताः ॥ २६४ ॥ पद्मा सद्मनि केश-
वस्य गहने रत्नानि रत्नाकरे हेमाद्रिर्हिमसानुना व्यवहितः
स्वर्गे सुराणा तरुः । जम्बुद्वीपधरासु भूमिपतयो जाम्बू-
नदैर्दुर्मदास्त्वं तावत्सकलासयेऽसि सुलभो भाग्यैर्द्विजाना-
मिह ॥ २६५ ॥ राजनभ्युदयोऽस्तु जीव शरदां साग्रं
शतं तेऽरयो रोगैर्य्यान्तु लयं यशःशशधरः काष्ठासु देदीप्य-
ताम् । शिष्टान्याहि बुधान्भ्रय प्रणतिभिर्देद्यार्थिनां स्वं सदा

पादटिप्पण्यः (Left Footnotes): १ सुखेन. २ युगपत्. ३ दुःखाभावात्, पक्षे,-निर्गल्यभावात्
४ भयाभावात्; पक्षे,-दुष्प्रयोगाभावात् ५ अगमादिति भाव,
पक्षे,-प्रत्यक्षादिति भाव ६ संसारादित्यर्थे, पक्षे,-चापादित्यर्थे
७ सूर्यम्; पक्षे,-यथाश्रुतम्. ८ हरिणा हरिहरात्मकस्यैकस्य विग्रहस्य
प्रसिद्धेः. ९ प्रकाशमाने. १० पर्वतविशेष

पादटिप्पण्यः (Right Footnotes): १ आलानवद् गजवन्धनस्तम्भः• २ दयासागरेण.

११२सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

वाणी ते वदने रमा प्रतिदिन गेहे भुजे स्ताज्जयः ॥ २६६ ॥ प्रभ्रश्यच्छ्रुतिमस्तकः प्रविगलत्सद्द्रवर्णविप्रस्थितिर्नश्यत्स्वाद्वलबलः प्रनष्टवचनप्राग्भावपूर्णस्मृतिः । वृद्धोऽत्यन्तमयं स्वय कलिमहाम्लेच्छेन निर्मूलितो धर्म. सप्रति चाल्यते तव करालम्बेन भूमिपते ॥ २६७ ॥ बन्दीकृत्य नृप द्विषा मृगदृशस्ताः पश्यता प्रेयसा श्लिष्यन्ति प्रणयन्ति लान्ति परितश्चुम्बन्ति ते सैनिका. । अस्माकं सुकृतैर्दर्शनिपतितोऽसौचित्यवारानिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयते ॥ २६८ ॥ हित्वा त्वामुपरोधशून्यमनसा मन्ये न मौलिः परो लज्जावर्जनमन्तरेण न रमामन्यत्र सद्दश्यते । यस्यांगं तनुतेतरा सुखशतैरेत्याश्रिताया. श्रियः प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थिति. ॥ २६९ ॥ धर्म पालय नन्दय द्विजगणानाम समाराधय प्रत्यर्थिक्षितिपालभूरूहवनं निर्मूलमुन्मूलय । कान्ताचित्तसरोजसौभगवने भृङ्गत्वमासाद्य स्फीता कीर्तिम शेषलोकजयिनीमाकल्पमाकल्पय ॥ २७० ॥ ऐश्वर्य नहुषस्य शभुविषयश्रद्धा दशास्यस्य सा शौर्य श्रीरघुनायकस्य सहज गाम्भीर्यमम्भोनिधे. । दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा श्रीवीरक्षितिपालमौलिन्नृपतेः साम्यं कथंचिद्भवेत् ॥ २७१ ॥ भिक्षुद्वारि सदानवारिमधुपश्रेणीभिमान्द्यमभाङ्कत्ते यन्तुर्वधूर्वधूकरातलं शोणाम्बुजाशङ्कया । सैवान्वेति पलायितेति चकिता हस्ताग्रमाधुन्वती मुग्धा वीरमहीपते तदखिलं त्वद्दानलीलायितम् ॥ २७२ ॥ श्रीवीर क्षितिपाल ते सुललित दानोद्यमे यद्वचः कास्ते सर्वहिरण्यमित्युदमवत्तत्कालमाकर्ण्य तत् । तापं प्राप हिरण्यरेतसि जनं जाड्यं हिरण्याचले स्वेदाम्भोऽपि हिरण्यगर्भंवपुषि स्वापाय सत्रासत: ॥ २७३ ॥ राजानः शशिभास्करान्वयभुवः के के न संजज्ञिरे भर्तारं पुनरेकमेव हि भुवस्त्वां वीर मन्यामहे । येनाङ्ग परिसृद्य कुन्तलमथाकृष्य व्युदस्यायतं चोलं प्राप्य च मध्यदेशमसकृत्काञ्च्या करः प्रापितः ॥ २७४ ॥ स्वान्ते वैभवमस्ति नैव परत. प्रामाण्यनिर्धारणं नैवातद्वति तत्प्रकारकमतिर्नैवोयमानं तव । त्वद्देशेषु विभाति न च्छलकथा नो वा क्वचित्संशयः श्रीवीर प्रथिता कथ पुनरियं नैयायिकत्वप्रथा ॥ २७५ ॥ वीर क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलना मृगाङ्कमलिनो धत्ता कथं चन्द्रमाः । स्यादेतत्वदरातिसौधशिखरप्रोद्भूतदूर्वाङ्कुरग्रासव्यग्रमति. पतेद्यदि पुनस्तस्याङ्कशायी मृगः ॥ २७६ ॥ श्रीमद्वीर महीमहेन्द्र भवत. प्रस्थानकालोद्भवद्वादित्रध्वनिमीतमानुहरयो द्रागम्बर प्रागमन् । तस्मिन्नेवमुपद्रवे किल विपर्यस्तं समस्त रवेर्युग्यै. ससरथाङ्गेमकमपदः सूतश्चिरादुद्व्रभः ॥ २७७ ॥ गर्वग्रन्थिलगूर्जरज्वरकरः कर्णाटकणौटवीदावाग्निर्विडेन्द्रवीर्यदलनो गौडेन्द्रनिद्राहरः । हम्मीरप्रमदामदालसलसद्धूनंतनस्तम्भनप्रस्थाने तव वीर डिण्डिममचमत्कार. समुज्जृम्भते ॥ २७८ ॥ चिन्तागम्भीरकूपादनवरतचलद्धरिशोकारघट्टव्याकृष्टं निःश्वसन्त्य. पृथुनयनघटीयन्त्रनिर्मुंक्तधारम् । नासावंशप्रणालीविषमपथपतद्बाष्पपानीयमेता देव त्वद्वैरिनार्यः कुचकलशयुगेनान्वहं सवहन्ति ॥ २७९ ॥ त्वत्प्रारब्धप्रचण्डप्रैधननिर्धैनितारतिवीरातिरेकक्रीडत्कीलाैलकुल्यावलिभिरलभात क्ष्मीन्दमाकन्दमूर्वी । दम्भोतिस्तम्भमाखद्भुज भुजंगजगद्भर्तुशर्मुरेना तेनायं मूर्धरत्नद्युतिततिमभित. शोभते शोर्णंभावः ॥ २८० ॥ आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्तिः सप्ताक्रैपारयारीसदनजनघैनोद्गीतचापप्रताप. । वीरादक्षात्यर. क. पदयुगयुगपत्यातिभूपातिभूयचूडारत्नोडुपलीकैरेपरिचरणामन्दनन्दन्नखेन्दुः ॥ २८१ ॥ एतेनोत्कैत्तकण्ठप्रतिसुभटनैटैरन्धनाट्याह्रुताना कष्ट दृष्टैव नाम्बूद्रुवि सैँमरसमालोकिलेकास्पदेऽपि । अश्चैेरखेैरवेगेः कृत खुरखुरैलीमैँड्डुसँक्षुँद्यमानक्षमापृष्ठोत्थिष्टद्व्यंचकरणरणधुरोरेणुधारान्धकारात् ॥ २८२ ॥ मन्दोद्धूतैः शिरोभिर्मणिभरगुरुभिः प्रौढरोमाञ्चदण्डस्फायन्निर्मोकसधिप्रसरदविगलत्समदस्वेदपूरा. । जिह्वायुग्माभिपूर्णाननविषम समुद्गीर्णवर्णाभिरामं वेलाशैलाङ्कभाजो भुजगयुवतयस्त्वद्गुणानुद्गृणन्ति ॥ २८३ ॥ आ शैलेन्द्राच्छिलान्त.स्खलितसुरधुनीशीकरासारशीतादातीरान्नै करागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य । आगत्या गत्य भीतिप्रणत नृपशतैः शश्वदेव क्रियन्ते चूडारत्नौशुगर्भर्भास्तव चरणयुगस्याङ्गुलीरन्ध्रभागाः ॥ २८४ ॥ श्रावं श्रावं त्वदीयं गुणगणमखिलं सर्वदा याचकेभ्यस्त्वत्त्रासाभीप्सितेभ्यः सकलविषयजं भूपवर्ग विहाय । त्वत्तोऽह प्राप्तुमिच्छुर्विबुधतिलकतो त्वत्समीपेऽतिद्गदायातरत्वं शतायुर्भव कुरु च तथा येन नान्यं भजेऽहम् ॥ २८५ ॥ विद्यावन्तो विनीताः प्रसभमभिसभं वाक्प्रपंचेषु जीवाः के वा नैवारभन्ते त्रिजगति वितता कीर्तिवल्लीमतल्लीम् । तेषामधा-

टिप्पणी (Footnotes):

१ अन्दू पादशृङ्खला२ मङ्गणि
१ अश्वा२ जलमार्ग
३ संभ्रामः४ विनाश प्राप्ता
५ रुधिरनदी६ श्रेण्य
७ क्षरणम्.८ वज्रम्
९ शेषस्य१० रक्तिमा
११ समुद्रपरीवाराणाम्१२ निरन्तरम्.
१३ अश्व-, पक्षे,-हस्ता१४ छिन्नकण्ठै
१५ नर्तक१६ युद्धप्रेक्षकजनालयेऽपि
१७ अमन्दवेगै१८ खुरसंचारैः
१९ सपदि.२० सञ्चूर्ण्यमानात्
सामान्यराजप्रशंसा, विशिष्टराजप्रशंसा११३

रभावं भुवनभरमृतो बिभ्रतो ये लसन्ते ते तु त्रैलोक्यतुङ्गा विमलफलजुषः खःपतिं खल्पयन्ति ॥ २८६ ॥ वक्राम्भोजं सरखत्यधिवसति सदा शोणे एवाघरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दीक्षणस्ते समुद्रः । र्वाहिन्द्यः पार्श्वमेताः सुचिरपरिचिता नैव मुञ्चन्त्यभीक्ष्णं खच्छेऽन्त- र्मानसेऽस्मिन्कथमवनिफ्ते तेऽम्बुपानाभिलाषः ॥ २८७ ॥ केचिद्बद्धाः सहेलं निजभवनगता मोचिताः केऽपि केचिद्देहा- द्देहान्तराणि क्षणमपि गमिताः केऽपि नीता निबन्धम् । हत्वा हत्वा च केचित्प्रतिपदमदयं प्रापिता व्यर्थभावं क्ष्मोणीनाथस्य तस्सोन्नतभुजपरिघेनारयः सारयश्च ॥ २८८ ॥ उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या न च वचसि कटुश्चित्रपाकानुभावी । कोषापेक्षी परखादुचितबहुकथस्तत्परः पुण्यलोके चित्रं राजाधिराज त्वमिव तव रिपुस्तत्र कंपं प्रतीमः ॥ २८९ ॥ उत्पत्युत्पन्नशिष्टा विविधगुणगणा यत्र यान्ति प्रतिष्ठा बाधेन प्राक्तनाना न च नियमविधिर्नापि सख्यार्थदाने । ऊहः सर्वत्र यस्य स्फुरति च सकलः सत्य एवार्थवादो मीमांसाभावमव्यन्मथिनवमधुना मूर्तिरेषा त्वदीया ॥ २९० ॥ हेलाप्रस्थानवेलाहतपृथुपटनादुन्दुभिध्वानधाराधारावहिप्रस- ङ्गादसमन्नृपसकृत्सभ्रमभ्रान्तचित्ताः । दैवादाकुञ्चिताङ्गं विगलितनयनस्पन्दमिन्दीवराक्ष्यो लीयन्ते त्वद्रिपूणा निज- गृहवलभीचारुचित्राङ्गनासु ॥ २९१ ॥ श्रीकृष्णठासक्त- हस्तोऽधिगतमणिगणः शैशवाभ्यस्तविद्यो लावण्यध्वस्तकामः कविजनमिलितो यौवनासप्रकामः । आदत्तक्षोणिदण्डो द्विजवशकृतधीः कङ्कणाहारयुक्तः स श्रीमान्वीर वीर त्वमिव तव रिपुस्तत्र मुक्तादिवर्णः ॥ २९२ ॥ लोकाना मानमात्रं मनुजजनरतिस्त्वं ससूदाक्षिरक्षो राज्ञामासत्त्वदक्षः कृतसमयरुचिर्मण्डितो वीरवर्गैः । कायत्वञ्चीनकेतुः कर- कलितयवा कोषमानैर्विहीनः श्रीमद्वीराधिराज त्वमिव तव रिपुस्तत्र मैन्दं प्रतीमः ॥ २९३ ॥ वादानाशान्युक्तो नगरकृतमतियौवनाक्रान्तदेहः संग्रामप्राप्तधैर्यो न विदलित- रुची राजलक्ष्मातिहीनः । नित्यं दारासभस्थः प्रखर- तनुनिभो यः सुभिक्षानुवर्ती श्रीमद्वीराधिराज त्वमिव तव रिपुस्तत्र मुक्तादिवर्णः ॥ २९४ ॥ श्रीवीर त्वद्रिपूणा रणशिरसि शरैर्भिन्नशीर्षाङ्गकाना वीरावेशाद्व्रताना दिवमधिक- रुषान्योन्यशौर्यार्यभाजम् । श्लेषेदिव्याङ्गनाना भुवि कचनिचयो द्राकटाक्षे शरासासीषुभ्रान्त्यारिवीरभ्रमुकुटिल- हृदामाजिरावर्तते स्म ॥ २९५ ॥

विशिष्टराजप्रशंसा

अकबरः

हस्ताम्भोजालिमाला नखशशिरुचिरश्यामलग्रच्छायवीचि- स्तेजोऽभेर्धूमधारा वितरणकरिणो गण्डदानप्रणाली । वैरिश्रीवेणिदण्डो लवणमसरसीबालशैवालवलीवेल्ललामन्ते- धरश्रीरकबरधरणीपालपाणौ कृपाणः ॥ १ ॥ वीर त्वं कार्मुकं चेदकबर कलयस्युद्गटोद्गारघोषं दूरे सद्यः कलङ्का इव धरणिभृतो यान्ति कङ्कालशेषाः । शङ्कापन्नश्च किं कारणमिति मनसा भ्रान्तिपङ्काथितेन त्यक्त्वाऽहंकारमङ्गा- द्विसृजति गृहिणीं किं च लङ्काधिनाथः ॥ २ ॥ कर्णाटं देहि कर्णाधिकविधिबिहितत्याग लाटं ललाटप्रोत्तुङ्गं द्राविडं वा प्रचलभुजबलप्रौढिमागाढराढम् । प्रस्फूर्जङ्गुर्जरं वा दलित- रिपुवधूगर्भ वैदर्भकं वा गाजी राजीवदृष्टे कुशशत मथवा शाहजंलालुदीन ॥ ३ ॥ गाजीजल्लालुदीन क्षितिपकुलमणे द्राक्प्रयाणे प्रतीते प्रेयसः प्रारमन्ते तरलतरगतिव्याकुला मङ्गलानि । नेत्राम्भःपूरपूर्णस्तनकलशमुखन्यस्तबालप्रवाला- क्षुब्धन्मुक्ताकलापच्युतकुचकुसुमच्छद्मनाकीर्णलाजाः ॥ ४ ॥

अनङ्गभीमः

पृथ्वीश्रीमदनङ्गभीम महती तद्वेष्टनं वारिधिः पीतोऽसौ कलशोद्भवेन मुनिना स व्योम्नि खद्योतवत् । तद्विष्णोर्दनुजा- घिनाथजयिनः पूर्णे पदं नामवद्देवश्वेतसि वर्तते तब सदा खंतो महाज्ञापरः ॥ ५ ॥

अर्जुननेन्द्रः

आयातस्ते समीप तव गुणविमलान्यण्डितो वादकर्ता काव्ये भव्ये हि रेवाभवविगतरसे रुग्युगे रोगहर्ता । नाहं जाने चिकित्सा सकलगुणनिधे दुर्दरिद्रत्वरोगे श्रीमद्राजार्जुननेन्द्र प्रबलमपि यते कल्पिता सा चिकित्सा ॥ ६ ॥

कर्णः

मुखे हारावात्तिर्नयनयुगले कङ्कणमरो नितम्बे पत्रान्ती सैंतिलकमभूत्पाणियुगलम् । अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशादपूर्वोऽयं भूषाविधिरहह जातः किमघुना ॥ ७ ॥ त्वं दित्राणि पदानि गच्छसि महीमुल्लङ्घ्य यान्ति द्विषंस्त्वं बाणान्दश पञ्च मुञ्चसि परे सर्वाणि शस्त्राण्यपि । ते ˚देवीपत्यस्त्वदस्त्रनिहतास्त्वं मानुषीणा पतिर्निन्दा तेषु कथं स्तुतिस्तव कथं श्रीकर्ण निर्णीयताम् ॥ ८ ॥ लोकेशः कर्ण-

पादटिप्पणी: १ वाणी, पक्षे,-नदीविशेष २ आरक्त, पक्षे,-नदविशेष' ३ मुदाभिः सहितः, पक्षे,-अब्धिः ४ सेना, पक्षे,-नभः ५ अन्त करणे, पक्षे,-सरोविशेषे. ६ अष्टापदखर्यक्रीडनकल्य गुटिकाः ७ ककारस्थाने पकारम्. ८ इह पद्ये शत्रुपक्ष आद्या क्षरत्याग ९ पञ्चस्विन्न् अकारस्थाने इकार पठनीयः १५ सु र भां.

१ अकबरस्यैव नामान्तरम् २ मुखे हाहा इति रावस्य शब्दस्या- वासिः ३ नयनयुगले क उदकं तस्य कणास्तेषां भरः ४ नितम्बे पत्राणामार्विः पङ्क्तिः ५ तिलकवृक्षालम्बिपाणियुगलम् ६ वैरिणः. ७ देवाङ्गनास्वामिनः

११४सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

राजाद्भुतकनकमयस्तावकीनप्रतापादह्माण्डानां समूहो द्रव इव भवितेत्येव संभाव्य यत्नात् । तस्यापि प्लावनाथं जलनिधि-निकरे व्यर्थतामत्र याते देव त्वद्वैरिनारीनयननयनजैर्निर्ममे नीरधिर्न ॥९॥

श्रीकर्ण प्रौढतेजाः प्रबलगिपुबलासद्यसतापपक्षो नाय श्रीमत्प्रतापो जगति विलसति श्रीमहोराज कितु । मन्येऽहं कौशिकस्यानुपमितमहसा नूतनस्वर्गसृष्टावुत्कृष्टः सृष्ट एष प्रखरतरकरो भास्कगेऽसौ द्वितीयः ॥ १० ॥

कर्णाटवसुंधराधिपः

मागाः प्रत्युपकारकातरधिया वैवर्ण्यमाकर्ण्य श्रीकर्णाटवसुंधराधिपसुधासिक्तानि सूक्तानि नः । वर्ण्यन्ते कति नाम नार्णवनदीदावाग्निवन्ध्याटवीसंध्यामारुतनिर्झरप्रभृतयस्तेभ्यः किमात्तं मया ॥ ११ ॥

कलिङ्गेश्वरः

आयुर्दानमहोत्सवस्य विनतक्षोणीभृता मूर्तिमान्विश्वासो नयनोत्सवो मृगदृशा कीर्तेः प्रकाशः परः । आनन्दकेलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैष निकेतनं विजयते वीरः कलिङ्गेश्वरः ॥ १२ ॥

धम्मिंल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः । एकोऽपि त्रिकलिङ्गभूभितिलक त्वत्कीर्तिराशियौ नानाखण्डनता पुरंदरपुरीवामभ्रुवा विग्रहे ॥१३॥

कल्याणदासः

कीर्तिस्वर्गत रंगिणी हिमगिरिर्विद्यानटीरङ्गमूर्लावण्यामृतभाजनं रसिकतावलीरसालद्रुमः । कान्तापाङ्गमृगस्थली तरुणतालक्ष्मीविलासाम्बुजं जीयाद्विश्वविभूषण नरपतिः कल्याणदासामिधः ॥ १४ ॥

काबिलेन्द्रः

विस्फार्य व्योमगङ्गाबलदुरुुलहरीकैतवात्केसरालीरुच्चैर्मस्तिष्कदेशे हिमकरकपटान्मण्डलीकृत्य पुच्छम् । दिङ्गारस्थलम्भस्तव विशदयशःकेसरी काबिलेन्द्र ब्रह्माण्डारण्यवीथीगिरिगहनदरीसम्ध्रमी बंभ्रमीति ॥ १५ ॥

वैलामुल्लङ्घ्य हेलादलितधरणभृद्वाहिनीकोटिपूरैरुद्वेल्लत्काबिलेन्द्रप्रबलजलनिधिः प्लावनायोज्जजृम्भे । सान्नम्रा मेदिनीयं प्रबलभुजबलप्रौढतच्चन्द्रहासज्वालाभिः सततं चेन्न दहति वडवावीतिहोत्रोवघेता (?) ॥ १६ ॥

कार्तवीर्यः

काष्ठानुषङ्गात्परिवर्धमाने जाग्रत्प्रतापज्वलने त्वदीये । श्रीकार्तवीर्य प्रसंभ पतन्ति प्रत्यर्थिपृथ्वीपतयः पतङ्गा ॥१७॥

कुसुमेन्द्रसाहिः

वीर श्रीकुसुमेन्द्रसाहिनृपतेः प्रौढप्रतापो वरः कन्या कांचन मालवक्षितिपतेः साम्राज्यलक्ष्मीरियम् । तस्या वेषकरग्रहस्य समये तत्कुम्भसस्थापनं कर्तु मण्डपबन्धनं विरचितुं विप्रा वयं प्रेषिताः ॥ १८ ॥

कृष्णः

श्रीकृष्ण त्वत्प्रतापेन प्रतप्ताङ्गीर्दिगङ्गनाः । दिग्गजा वीजयन्त्येव कर्णतालैः पुनःपुनः ॥ १९ ॥

मन्येऽरण्ये कुलगिरिगुहागहरे पर्यटन्ती विद्धा दर्भैः किमपि चरणे वासुदेवस्य कीर्तिः । इन्दौ कुन्दे कुमुदसुकुले चामरे चन्दने वा दत्त्वा दत्त्वा मृदुनि पुरतः पादमेषा प्रयाति ॥ २० ॥

क्षीरक्षालितपाञ्चजन्यकिरणश्रीगर्वसर्वंकषाः श्रीकृष्णार्जुनमारथेडसुररिपो त्वत्कीर्तिविस्फूर्तयः । कैलासन्ति हिमाचलन्ति विकसत्कुन्दन्ति कन्दन्ति च क्षीरोदन्ति हलायुधन्ति विबुधाहारन्ति हीरन्ति च ॥ २१ ॥

त्वद्वाहूद्भूतधूल्यः करिकरनिकरैः सीकराश्च प्रयुक्ता व्योम व्याप्य समन्ताद्यदुमुकुटमणे तत्र पङ्कोऽद्रुतोऽभूत् । आगच्छद्भिः सुरैः क्ष्मा तव भजनकृते स्फाटिकीभिः शिलाभिर्बद्धः पन्थास्तदानी सुरसरिदिति तं मानवा मानयन्ति ॥ २२ ॥

गूर्जराधीशः

कालिन्दि ब्रूहि कुम्भोद्भवं जलविरहं नाम गुह्यामि कस्माच्छ्रोत्रेर्मं नर्मदाऽहं त्वमपि कथमहो मत् सपत्न्याश्च नाम । मालिन्यं ब्रूहि किं ते प्रविरलविगलत्कज्जलैर्मांलवीना नेत्राम्भोभिः किमासा समजने कुपितो गुर्जराणामधीशः ॥२३॥

चोलेन्द्रः

त्वत्खङ्गखण्डितसपैनविलासिनीना भूषाभवन्त्यभिनवा भुवनैकवीर । नेत्रेषु कङ्कणमथोरुषु पत्रवली चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥ २४ ॥

सिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकैस्तत्रासोल्लासलीला. किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायाल्पन्त्यः पिकनिनदधिया ताडिताः काकलोकैरित्थं चोलेन्द्रसिंह त्वदरिमृगदृशा नाप्यरण्य शंरण्यम् ॥ २५ ॥

जगद्देवः

चक्र. पप्रच्छ पान्थं कथय मम सखे नास्ति स क्वापि देशो वस्तु नो यत्र रात्रिर्भवति भुवि खगायैति स प्रत्युवाच । नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाम्ना सूर्येऽनन्तर्हितेऽस्मिन्कतिपयदिवासैर्वासराद्वैतसृष्टिः ॥ २६ ॥

जनकः

ज्याघातः कार्मुकस्य श्रयति करतलं कण्ठमोकारनादस्तेजो भाति प्रतापाभिधमवनितले ज्योतिरात्मीयमन्तः । राज्यं सिंहासनश्रीः शममपि परमं वक्ति पद्मासनश्रीर्यैषां ते यूयमेते निमिकुलकुमुदानन्दचन्द्रा नरेन्द्राः ॥ २७ ॥

पादटिप्पण्यः (Footnotes)

१ भूतकार.
२ स्नानम्
३ केशचूडे
४ बलात्कारेण
१ नर्मदायाः समुद्रस्य च संवादोऽयम्
२ यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्ते कोपात्साकूतमिदं नर्मदाया उत्तरम्-'हे कुम्भोद्भव अगस्त्यमुने' ब्रूहि इति
३ शत्रु
४ जलऋणम्, पक्षे,-वलयम्
५ पत्रयुक्ता, पक्षे,-पत्रिकारचना
६ तिलयुक्त क जलम्; पक्षे,-ललाटभूषणम्.
७ आश्रयस्थानम्

विशिष्टराजप्रशंसा ११५

दलपतिरायः

चन्द्रं चन्द्रार्धचूडं चतुरुदधिचयं चन्द्रिका चन्द्रकान्तं
चार्वङ्गीलोचनान्तं चमरसहचरीबालमारोच्य च खर्वीकुर्वन्ति
दुर्वीकरतिलकम्पि ध्वस्तगुर्वीतिभीति खर्वीध्रिप्रस्थितास्ते
दलपतिगृहिणी त्वद्यशस्तोमसोमाः ॥ २८ ॥

दशरथः

चिरादक्ष्णोर्जाड्यं शमयति समस्तासुरवधूकचाकृष्टिक्रीडा-
प्रसभसुभगंभावुकभुजः । त्रिलोकीजङ्गालोज्ज्वलसहजतेजा-
मनुकुलप्रसूतिः सुत्राणो विजयसहकृत्वा दशरथः ॥ २९ ॥
यस्योद्यद्बुजदण्डचण्डिमवलत्कोदण्डलीलायितैर्निष्पीते दनु-
जेन्द्रचन्द्रवदनाद्रूवल्लीविभ्रमे । लक्ष्मीमसृविपाटलक्षतमयी-
मालम्बते केवलं पौलोमीकरजाङ्कुरव्यतिकरादाखण्डलीय
वपुः ॥ ३० ॥

दिल्लीन्द्रचूडामणिः

राजेति क्षणदाकर विजयते दानोरुलक्ष्मीरिति स्वर्नाग
बहुवाहिनीपतिरिति क्षीरोदमास्कन्दति । दुर्गाधीश इति
स्फुटं पुररिपु विद्विष्टि मोगोद्ग्रटश्रीरियर्हति वासुकि स्वयशसा
दिल्लीन्द्रचूडामणिः ॥ ३१ ॥

नाना

जयश्रियः कृपाणीय वेणी नानानृपभूपतेः । अस्या
करगृहीतायामसावभिमुखी तव ॥ ३२ ॥

निजामशाहः

नृपतिनिजाम तवाङ्गुतचरणार्पणबहलपीडामिः । रचयति
बहिरिद रसनामरुणध्वजकैतवादवनिः ॥ ३३ ॥ धरणिधर
निजामशाह युष्मत्करकरवालकरालकालसर्पैः । द्विषदसुपवनं
निपीय पीनो दिशि दिशि मुखति कशूकं यशस्ते ॥ ३४ ॥
अटकटकटघोटकप्रकटचापटङ्कारवच्चटच्चटदिति स्फुटं स्फुटति
मेदिनी कर्परम् । निजामधरणीपतौ वलति कौतुकाडम्बरा-
दिदं भुवनमण्डल दरदरीदरीदर्यहो ॥ ३५ ॥ क्षोणीकाम
निजामशाह भवतः प्रौढैः प्रतापानलैर्दागेव द्रवरूपतामुपगते
क्षौमीकराणां चये । अश्यद्भासवधामधोरणि मुहुर्मज्जद्ग्रह-
ग्रासुनि त्रस्यत्कामिनि नि.पतद्दनितलं मेरोः समुन्मीलति
॥ ३६ ॥ क्षोणीकाम निजाम तावकभुजं लब्ध्वा भुजगीश्वर
जानीमः करवालकालभुजगी किं नाम गर्भिण्यभूत् । मत्तेभेन्द्र-
विभिन्नकुम्भविदलन्मुक्ताकलापच्छलादच्छामण्डपरम्परामधि-
रणं सूते स्फुरन्ती मुहुः ॥ ३७ ॥ वाहव्यूहखुरक्षता वसुमती
सवीक्ष्य मूर्च्छावती मेरीझाङ्कृतिचञ्चलेन पयसा वारानिधिः
सिञ्चति । दिग्वाला तनुते निजामनृपतेर्वातं पताकांशुकैर्धूली-
धोरणिरश्विनीसुतमिव प्रष्ठु दिवं धावति ॥ ३८ ॥ विद्धद्रोष्ठी-
गरिष्ठ प्रतिभटदयन श्रीनिजामः प्रतीम कृत्वा त्वत्कीर्तिगाथा
वहति गणविधि पद्मयोनि कठिन्‍या । वकालेन्वा गुरूणाम्-
मृतकरकला कश्चमल्ली मरालाः शुद्धा लेखा लघूना विसभुजग-
नभोनिन्र्गगादन्तिदन्ताः ॥ ३९ ॥ अङ्गा स्रजातभङ्गाद्यनब-
नवसतिप्राप्तरङ्गाः कलिङ्गास्तैलङ्गाः स्वर्गगङ्गाभिषवणमतयः
शीर्यदङ्गाश्च वङ्गाः । लटाः स्विद्यल्ललाटाः पदगमनहढा
श्वासलोलाश्र चोला जायन्ते श्रीनिजाम प्रचुरण भवतः
प्रौढनि सापनादात् ॥ ४० ॥

नृसिंहः

आहवे जगदुद्दण्डराजमण्डलगहवे । श्रीमृसिंह महीपाल
स्वस्त्यम्तु तव बाहवे ॥ ४१ ॥ त्वयि लोचनगोचर गते
सफल जन्म नृसिंहभूपते । अजनिष्ट ममेति सादर युधि
विज्ञापयति द्विषा गणः ॥ ४२ ॥ कौमुदीव तुहिनांशुमण्डल
जाह्रवीव शँशिखण्डमण्डनम् । पश्य कीर्तिरनुरूपमाश्रिता
त्वा विभाति नरसिंहभूपते ॥ ४३ ॥ गैण्डामोगे विहरति
मदे पिच्छिैले दिग्गजाना वैरिस्त्रीणा नयनकमलेष्वञ्जनानि
प्रैमार्ष्टि । यद्यप्येषा हिमकरकराद्वैतसौबैस्तिकी ते कीर्तिर्दिक्षु
स्फुरति तदपि श्रीमृसिंहक्षितीन्द्र ॥ ४४ ॥ विचार्यं
सरसकविता यानग्ब्ल तुरगो वाञ्छाग्ब परमपदवी भोगरत्नं
मृगाक्षी । स्रोतोम्न विबुधतटिनी मासग्बं वसन्तो भूभूद्गल
कनकशिखरी भूपरत्नं नृसिंहः ॥ ४५ ॥ निशारत्नं चन्द्रः शयन-
तलरत्नं शशिमुखी मभारत्नं विद्वान् श्रवणपुटरत्नं हरिकथा ।
कलारत्नं गानं दिविगमनरत्नं दिनकरो महीरत्नं मन्ये सपदि
नरसिंह क्षितिपतिः ॥ ४६ ॥ श्रीलक्ष्मीनरसिंहसान्द्रजलदे
चञ्चन्नखालीतडिद्भाञ्चि च्छन्नरिपुप्रतापतपने कोपावलि वर्षति ।
पूर्णा शोणितवाहिनी सुरमनःसतापदावानलः शान्तोऽभूद्विर-
राम वैपिनितासीमन्तमागौदयः ॥ ४७ ॥ निर्यच्छोणित-
पूरताम्रवपुषः स्वैर रुदन्तो मुहुर्देव श्रीनरसिंह ते रिपुजना
दिग्गससो निख्नपाः । उद्गच्छञ्जठरान्त्रनालसहितास्ते नून-
मासन्नपुनर्जन्मानो रणभूमिमातुरुदरात्तत्कालमेव च्युताः ॥४८॥
देव त्वच्चरणप्रतापशिखिनो निःशेषमेधीयते शत्रूणा पटलं
तदीयमयशो जानामि धूमायते । मार्तण्डाशुलसन्नखावलिरसौ
ज्वालाकलापायते दुःखाना निकरस्तथा- सुमनसा सङ्घः
पतङ्गायते ॥ ४९ ॥ कि मध्याहृदिवाकरोऽयमपरः किं वाय-
मौर्वानलः कि वासौ चपलाचयः पशुपतेः कि भालनेत्रानलः ।
कि वाऽसौ प्रलयनलः किमथवा सर्वोऽपि भौमानलः श्रीमत्सिंह
भवत्प्रतापमहिमा नोदेति केषा मतिः ॥ ५० ॥ काठिन्यं
कुचकुम्भयोर्नयनयोश्चाञ्चल्यमेतद्वयं भो ब्रह्मन्भवता कथ न
पदयोरक्षाकमासादितम् । इत्थ श्रीनरसिंह ते त्रिभुवनाधीशस्य
घाटीभिया कान्तारेषु मिथः पलायनपरा जल्पन्ति वैरित्रियः
॥५१॥ एताः सम्प्रति गर्भगौरवभराद्राज्ञोऽवरोधाङ्गनाः कान्ता-
रेषु पलायितु बत कथं पद्मा भवेयुः क्षमाः । इत्थ चेतसि

१ दलपतिराय कश्चिन्नृपस्तस्यपत्नीसंबोधनम् २ इन्द्रस्य ३ सुवर्णम्
१ चन्द्रकलाभूषणम्, हरमित्यर्थे २ गण्डप्रदेशे ३ पङ्किले ४ प्रोञ्छति ५ स्वस्तीत्याहेत्यर्थे, अतिशूत्रेत्यर्थे. ६ इन्धनायते.

११६सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

संविभाव्य सदय वैकुण्ठकण्ठीरव त्वन्नादावलिभिः सलीभिरिव किं तद्गर्भपातः कृतः ॥ ५२ ॥ स्नातस्त्वद्रिपुरक्तपाथसि यशोधौताम्बर धारयँल्लक्ष्मीश त्वदरातिवक्त्रकमलैर्भूदेवता पूजयन् । मुहुश्चैतदसूनप्रकोप दहने युष्मत्प्रतापोदयः शत्रुच्छत्रधरार्थदर्पणशसा प्राणाहूतीराददे ॥ ५३ ॥ कीर्तिः श्रीनरसिंह ते त्रिपथगा तत्रोदितं कैरव चान्द्रं मण्डलमत्र नीलमिव यत्तद्भृङ्गवृन्दं किमु । यद्वा त्वद्दलिता रिबृन्दतरुणोत्तंसोत्पले स्थलं चन्द्रस्तत्र विभाति नीलमिव यद्भृङ्गैः समन्ता- ॥ ५४ ॥ अन्तर्विष्णोखिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धौ सोऽप्येकदेशे तमपि चुलुकया कुम्भयोनिष्चकार । धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंहक्षितीन्द्र त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीय विभाति ॥ ५५ ॥ नृत्यद्दर्गाट्टहासप्रचयसहचरैस्तावकीनैर्यशोभिर्धावल्यं नीयमाने त्रिजगति परितः श्रीमन्महि क्षितीन्द्र । नैर्घण्येण नाभीकमलपरिमलप्रौढिमासादयिष्यद्देवानाम नाभविष्यत्कथमपि कमलाकामुकस्यावबोधः ॥ ५६ ॥ श्रीमद्वैकुण्ठकण्ठीरव तव निनदाकर्णनत्रासधावच्छक्रेभोद्भिन्नगण्डस्थलविगलदतित्सच्छमुक्तामणीनाम् । माला तारावलीय विलसति च पतद्दानपाथः पयोधिनौ चेत्कत्या तु तारावलिरथ लवणः साग रोऽसौ कुतस्त्यः ॥ ५७ ॥ द्विर्भावः पुष्पकेतोर्विबुधविटपिना पौनरुक्त्यं विकल्पश्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्वन्नानन्दं कोविदाना जगति विजयते श्रीमन्सिंहक्षितीन्द्रः ॥ ५८ ॥

परशुरामः

आदर्शाय शशाङ्कमण्डलमिदं हर्म्याय हेमाचलं दीपाय द्युमणि महीमिव कथ नो भिक्षवे दत्तवान् । दित्सापल्लवितप्रमोदसलिलव्याकीर्णनेत्राम्बुजो जानीमो भृगुनन्दनस्तदखिल न प्रायशो दृष्टवान् ॥ ५९ ॥ गोत्राचारविचारपारगतया वृद्धाभिरादिष्टया मात्रा वस्तुषु तेषु तेषु पुरतः प्रस्तारितेषु क्रमात् । अन्नप्राशनवासरे सरभस वक्षोभरोत्सर्पिणा येनार्च धनुरौर्जिताश्च सपदि क्षत्रावतसा दिशः ॥ ६० ॥ तन्वन्ती तिमिरद्युति कृतवती प्रत्यर्थिचक्रव्यथामेषा भार्गव तावकी विजयते निस्त्रिशधारा निशा ॥ युद्धक्रुद्धविपक्षपक्षविदलगुम्भीन्द्रकुम्भस्थल- अश्यन्मौक्तिककैतवेन परितस्तारावलीं वर्षति ॥ ६१ ॥

पाण्ड्यः

तवाङ्गणे सुन्दर वीर पाण्ड्य मतंगजाः शृङ्खलिनो विभान्ति । आवासदानादरिभूपतीनामाशान्तशैला इव सापराधः ॥ ६२ ॥ विन्ध्याद्रिः करसाधनी निरुपमो रत्नाकरः कोशभृत्सौगन्धी मलयाचलः परिचराः सर्वेऽपि विद्याधराः । विश्वाशापरिपूरणं वितरणं देशोऽप्यहो दक्षिणः पाण्ड्याखण्डल वीर पाण्ड्य भवतः किं किं न लोकोत्तरम् ॥ ६३ ॥ एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं सङ्ग्रामाङ्गणसीम्नि जङ्गमगिरिस्तोमभ्रमाधायिभिः । पृथ्वीन्द्र पृथुरे तदुयसमरप्रेक्षेपैनग्रामश्रेणीमध्यचरः पुरः क्षितिधरक्षेपाय धत्ते धियम् ॥ ६४ ॥

पारसीकक्षितीशः

यद्यपि कटकात्रयारोधि पायोधिना ते दिशि दिशि मम ... पारसीकक्षितीश । तदपि कुरु सुधा नो जीविदान्तं नितान्तं कथयति बहुभार्य नैकनारीवियोग ॥ ६५ ॥

पृथ्वीराजः

मन्दश्चन्द्रकिरीटपूजनरसे तृष्णा न कृष्णाचंने स्तम्भः शंभुनितम्बिनीप्रणतिषु व्यग्रो न धातुगृहे । अस्माकं परमर्द्नोऽस्ति वदने न्यस्तेन संरक्षितः पृथ्वीराजनरेश्वरादिति तृणं तत्पत्तने पूज्यते ॥ ६६ ॥

बङ्गालिदासः

बङ्गालिदास भवतः शुभनामवर्णाः पञ्चेषुपञ्चविशिखन्ति नितम्बिनीषु । प्राणन्ति बन्धुषु विरोधुषु पाण्डवन्ति देवद्रुमन्ति कविपण्डितमण्डलीषु ॥ ६७ ॥

बल्लालः

बल्लाल क्षोणिपाल त्वदहितनगरे संचरन्ती किराती कीर्णान्यालोक्य रत्नान्युरतरखदिराङ्गारशङ्काकुलाङ्गी । मुक्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदानुयातैर्मधुकरनिकरैर्धूमशङ्का बिभर्ति ॥ ६८ ॥

बाङ्गालक्षोणिपालः

आग्नेयास्त्रप्रवीणप्रबलमृगमटाः शत्रुसंक्षोभदक्षा यस्य प्रौढप्रतापानलबहलशिखाखिन्नतन्वं प्रयान्ति । सोऽय प्राचीपयोधिप्रहितकरततीतूर्णसम्पूर्णकोपो बाङ्गालक्षोणिपालस्त्रिभुवनजनतागीतकीर्तिप्ररोहः ॥ ६९ ॥

बीसलः

आ विन्ध्यादा हिमाद्रोर्विरचितविजयस्तीर्थयात्राप्रसङ्गादुद्ग्रीवेषु प्रहर्तृनृपतिषु विनमत्कन्धरेषु प्रपन्नः । आर्यावर्ते यथार्थ पुनरपि कृतवानम्लेच्छविच्छेदनाभिर्देवः शाकंभरीन्द्रो जगति विजयते बीसलः क्षोणिपालः ॥ ७० ॥

भावसिंहः

यस्याग्निः कोपपुञ्जे वसति खुरपुटे वाजिना गन्धवाहो लक्ष्मीः संस्नेहदत्तौ कमठकुलमणेर्वाचि वाचामधीशा । रौक्षे कौशेयैकाग्रे क्षपितरिपुगणे कोपनोऽसौ कृतान्तः कस्तं श्रीभावसिंहं प्रबलमखभुजाम्पाश्रयं नाश्रयेत ॥ ७१ ॥

भीमः

रुधिरविसरप्रसाधितकरालकरवालरुचिरभुजपरिघः । झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभाति नृपभीमः ॥ ७२ ॥

१ विष्णोरुदरे २ शेषे ३ ज्योतिरिङ्गणं ४ विस्तारस्य ५ सदृशै ६ कीर्तिवच्छुक्ल इत्यर्थ
१ उपगतानाम्. २ महती ३ खड्गाग्रे

विशिष्टराजप्रशंसा | ११७

भैरवः

धनानि विद्वत्कविमण्डलीषु पञ्चेषुबाणानपि कामिनीषु ।
वर्षन्ति वज्राण्यरिधोरणीषु श्रीभैरवक्षोणिमणेः कटाक्षा ॥ ७३ ॥

भोजः

त्वच्चित्ते भोज निर्व्याज द्वय तृणकणायते । क्रोधे विरोधिना सैन्य प्रसादे कनकोच्चयः ॥ ७४ ॥ भोज त्वद्दानपाथोधौ दरिद्रस निमज्जतः । न कोऽपि हि भुजालम्बं दत्ते मेऽभयदायकम् ॥ ७५ ॥ निजानपि गजान्भोजं ददानं प्रेक्ष्य पार्वती । गजेन्द्रवदन पुत्रं रक्षत्यथ पुनःपुनः ॥ ७६ ॥ प्रतापभीत्या भोजस्य तपनो मित्रतामगात् । और्वो वाडवता धत्ते तदिक्षणिकता श्रिता ॥ ७७ ॥ भोज त्वत्कीर्तिकान्ताया नभोभालस्थित महत् । कस्तूरीतिलकं राजन्यगुणागार विराजते ॥ ७८ ॥ अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् । शत्रूणा शृङ्खलैर्लोह ताम्रं शासनपत्रकैः ॥ ७९ ॥ धारेश त्वत्प्रतापेन पराभूतस्त्विषांर्पतिः । सुवर्णपात्रव्याजेन देव त्वामेव सेवते ॥ ८० ॥ स्वद्यशोजलधौ भोज निमज्जनभयादिव । सूर्यन्दुबिम्बमिषतो धत्ते कुम्भद्वयं नमः ॥ ८१ ॥ शुक्तिद्वयपुटे भोज यशोब्धौ तव रोदसी । मन्ये तदुद्भवं मुक्ताफल शीतांशुमण्डलम् ॥ ८२ ॥ अद्य धारा सदाधारा सदालम्बा सरस्वती । पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते ॥ ८३ ॥ श्रीभोज साम्यं तव कल्पवृक्षः सदा वदान्योऽपि कथं प्रयाति । यतो भवद्दानसुपुष्टविप्रहृष्येन कुक्षिभरिरस्य भर्ता ॥ ८४ ॥ भोजप्रतापं तु विधाय धात्रा शेषैर्नरस्तैः परमाणुभिः किम् । हरेः करेऽभूत्पविरम्बरे च भानुः पयोधेरूदरे कृशानुः ॥ ८५ ॥ भोजप्रतापाभिरपूर्वे एष जागर्ति भूभृत्कटकस्थलीषु । यस्मिन्प्रविष्टे रिपुपार्थिवाना तृणानि रोहन्ति गृहाङ्गणेपु ॥ ८६ ॥ यथा यथा भोजयशो विवर्धते सिता त्रिलोकीमिव कर्तुमुद्यतम् । तथा तथा मे हृदयं विदूयते प्रियालकालीधवलत्वशङ्कया ॥ ८७ ॥ पन्थाः सहर दीर्घता त्यज निज तेजः कठोर रखे श्रीमन्विन्ध्यगिरे प्रसीद सदयं सद्यः समीपे भव । इत्थं दूरपलायनश्रमवतीं दृष्ट्वा निजप्रेयसीं श्रीमद्भोज तव द्विषः प्रतिदिनं जल्पन्ति मूर्च्छन्ति च ॥ ८८ ॥ धाराधीश धरामहेन्द्रगणना कौतूहली यामयं वेधास्त्वद्गुणने चकार खटिकाखण्डेन रेखा दिवि । सैवेयं त्रिदशापगा समभवत्त्वत्तुल्यभूमीधराभावात्तु त्यजति स्म सोऽयमवनीपृष्ठे तुषाराचलः ॥ ८९ ॥ राजन्मुञ्जकुलप्रदीप सकलक्ष्मापालचूडामणे युक्तं संचरणं तवाद्भुतमणिच्छत्रेण रात्रावपि । मा भूत्त्वद्वदनावलोकनवशात्क्रीडामिन्नश्न शशी मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ॥ ९० ॥ छत्रं सैन्यरजोधरेण भवतः श्रीभोजदेव क्षमारक्षादक्षिण दक्षिणक्षितिपतेः प्रेक्ष्यान्तरीक्षं क्षणात् । निःशङ्को निरपत्रपो निरनुगो निर्बान्धवो निःसुहृन्निःस्त्रीको निरपत्यको निरनुजो निर्हाटको निर्गतः ॥ ९१ ॥ मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः प्रासाः प्राङ्गणसीम्नि मन्थरचलद्धालाङ्घ्रिलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्दिग्द्ध्रवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥ ९२ ॥ विद्वद्वृन्दगुणानुरूपविभवत्यागैककल्पद्रुमे स्वर्गे वासिनि भोजराजनृपतौ विद्यानवद्यात्मनि । दातारो भुवि नैव भूमिवलये मा सन्तु किं तावता ज्ञातारोऽपि न सन्ति हन्त नितरामेतावता दूयते ॥ ९३ ॥ स्पृष्टाकृष्टासिपिष्टोत्कटकरटिघटाकुम्भकूटावदान्तर्निर्य्यूतासृक्तटिन्यास्तटनिकटरटत्कोकपादाट्टहासः । भोजेन्द्र त्वद्रणक्ष्माक्षतभटविकटोरस्थलत्रोटकुड्यद्रवौघत्रोटिकोटिप्रकटचटचटाशब्दरौद्रोऽभवद्राक् ॥ ९४ ॥ मो मोः श्रीमोजदेवं श्रयत विनयनः शत्रवः क्षत्रवर्गाः प्राणत्राणाय नौका न भवति भवता काप्यरम्य शरण्यम् । मत्वा मातङ्गकुम्भद्वितयमिति पुरा कूरवृत्तिर्भिनत्ति कुद्धः शुद्धान्तकान्ताकुचकलशयुगं रंहसा सिंहशावः ॥ ९५ ॥ नीरक्षीरे गृहीत्वा सकलखगपतीन् याति नौलेकजन्मा चक्रं धृत्वा कराब्जे सकलजलनिधींश्चक्रपाणिर्मुकुन्दः । सर्वानुद्धृत्य शैलान्नदहति पशुपतिर्भालनेत्रेण पश्यन्व्याप्ता त्वत्कीर्तिकान्ता सकलवसुमती भोजराज क्षितीन्द्र ॥ ९६ ॥ स्वर्गाद्रोपाल कुत्र व्रजसि सुरमुने भूतले कामधेनोर्वत्सस्यानेतुकामस्तृणचयमधुना मुग्ध दुग्धं न तस्याः । श्रुत्वा श्रीमोजराजप्रचुरवितरणं व्रीडशुष्कस्तनी सा व्यर्थो हि स्यात्प्रयासस्तदपि तदरिमिश्चिंतं सर्वमुर्व्याम् ॥ ९७ ॥ कूर्मः पाताल गङ्गापयसि विहरता तत्तटीरूढमुस्तामादत्तामादिपोत्री शिथिलयतु फणामण्डलं कुण्डलीन्द्रः । दिङ्मातङ्गा मृणालीकवलनकलना कुर्वता पर्वतेन्द्राः सर्वे स्वैर चरन्तु त्वयि वहति विभो भोज देवीं धरित्रीम् ॥ ९८ ॥

मणिपालः

प्रामाण्यं परतो न शक्तिगणना सादृश्यलोपः सदा कार्य चेश्वरकर्तृ नन्वनुमितौ ज्ञानं विशिष्टात्मकम् । सर्वे न्यायनयानुसारि विबुधे चैतन्यनाशोपमान्पश्येतन्मणिपाल भूप भवतो नैयायिकत्व कुतः ॥ ९९ ॥

पाद-टिप्पण्यः (Footnotes)

वाम-स्तम्भ-टिप्पण्यःदक्षिण-स्तम्भ-टिप्पण्यः
१ सूर्यं
२ गण्डस्थलद्वितयम्
३ द्यावापृथिव्यौ
४ इन्द्र
५ कुतूहलविशिष्टः
६ 'खडू' इति प्रसिद्धेन कठिनशकलकेन.१ सुरतक्रीडाया विच्छिन्नसूत्राद्वाराद्गलिता
२ अपसारिताः.
३ जवेन.
४ ब्रह्मा
११८सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

| मल्लशाहः
मृगः प्रमीललोचन. पिक. कृतोक्तिमोचनः श्रितानति कृताततिर्मरालिकास्खलद्गति. । निरीक्ष्यते लसन्मते सुमल्लशाहभूपते तवारिकामिनी वृथाद्भुत हुताटवी यथा ॥ १०० ॥ पलायिता तवारिवामलोचना यदा यदा पुलिन्दनायकै. सुलिसकालकूटसायकै । विहाय नासिकासु मौक्तिकं सज च मौक्तिकी विलुण्ठिता. पुनर्भपञ्चमेह मल्लहूपते ॥ १०१ ॥ आदायादाय मुक्तास्तदनु शिखिधियादाय माणिक्यवर्गं धूम्रभ्रान्ति वहन्त्य खवदनकमल मोदलुब्धालिवृन्दे । पक्तु भिलद्य. प्रवृत्ता. सरभसमसकृत्तद्विषत्पत्तनेषु ब्रूमः कि कीर्तिपूर धवलितवसुधं मल्लशाहस्य तस्य ॥ १०२ ॥

माणिकः
यश.शशाङ्काभ्युदये प्रवृद्धो द्विषद्धधूनेत्रजलाम्बुराशि । नष्ट हि दारिद्यतमो बुधाना तव क्षितौ माणिक भूमिपाल ॥ १०३ ॥ सदर्महारैर्भवता प्रदत्तैर्मदङ्गना कण्ठतटायहारै । श्रीमाणिकक्षोणिपते प्रतुष्टा यथा यशो गायति तद्विधेहि ॥ १०४ ॥ सजाते द्रवरूपता हि रजताद्रौ स्वर्णशैले द्रुतं भूमीपालललाम माणिकविभो प्रौढैः प्रतापानलैः । योगेऽभूदनयो. सुपाण्डुररुचि. सातेऽरिकान्ताजनेर्नीता स्वीयकपोलयोश्च विरहव्याजेन गोपायते ॥ १०५ ॥ भोगासक्तैकचेता भयवशसुखकृद्वीतिहा स्वाश्रिताना भोगान्भव्याय यच्छञ्जगति भवनत साधु भण्डारतिश्च । भूपाना ग्लानिकर्ता भटनगजभयध्वसदेहो हि मल्लाकीर्णः श्रीमाणिकेन्द्रस्त्वमिव तव रिपुस्तत्र दम्भ प्रतीम. ॥ १०६ ॥ सङ्ग्रामक्षोणिदृप्यद्वपलरिरुपुचमूसिन्धुकीलालमाला पीत्वा काल`कृपाणोऽम्बुद उपसमर गजेते वीरघोषैः । वर्षत्युद्दामगौर दिशि दिशि तव भोः कीर्तिवारीभकुम्भप्रोद्यन्मुक्ताहिमाश्मच्छुरितमरिततेर्माणिकक्षोणिपाल ॥ १०७ ॥

माधवः
सत्यासक्तमना गुणाकरलताकीर्णो न दीनाश्रयोऽरिष्टध्वंसपराजद्यश्च सुमनोवृन्दैरलं वन्दितः । नानास्थानकलाप्रधानमहिमा नित्यं सदानन्दक. श्रीमान्माधव एव माधवसमः क्षोणीतले राजते ॥ १०८ ॥

मानसिंहः
काञ्ची काञ्ची न धत्ते कलयति न दृशा केलितल्पं कलिङ्गी सिन्दूर दूर एव क्षिपति करतलन्यस्तमान्त्री पुरंध्री । सौराष्ट्री मार्ष्टि भूयः सपदि नयनयो रक्तता रक्तिमान कार्णाटी कर्णिकाया मलिनयति मनो मानसिंहप्रयाणे ॥ १०९ ॥

मालवाखण्डलः
पर्यङ्को राजलक्ष्मा हरितमणिमयः पौरुषाम्धेस्तरङ्गः सङ्गामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाह. । भग्नप्रत्य- | र्थिवंशोल्बणविजयकरिखानदानाम्वुपङ्क. खड्गः क्ष्मासौविदलः समिति विजयते मालवाखण्डलस्य ॥ ११० ॥

मुकुन्ददेवः
करवारिरुहेण सधुनाने तरवारि नृपतौ सुकुन्ददेवे । वरयन्त्यमरावतीतरुण्य. प्रथमं काञ्चनगारिजातमाला. ॥ १११ ॥

मुञ्जः
लक्ष्मीर्यास्यति गोविन्दे वीरश्रीर्वीरमेष्यति । गते मुञ्जे यश पुञ्जे निरालम्बा सरस्वती ॥ ११२ ॥

मुद्दाफरशाहः
आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वीं भव प्रत्यक्षीकृतमादिराजयशसा युष्माभिरुज्जृम्भितम् । श्रीमुद्दाफरशाहपार्थिवयशोराशे. समुज्जृम्भणाद्वीजोच्छ्वासविदीर्णदाडिमदशा ब्रह्माण्डमारोह्यति ॥ ११३ ॥

राजबहादुरः
नित्यं वृद्धिमुपैषि सकलयसे सर्वाः कलाः सर्वदा सानन्दं कुमुदाकरं वितनुषे नास्ते कलङ्कस्तव । सर्वाशाः परिपूरयन्समुदयं धत्सेऽनिशं सर्वतो न श्रीगजबहादुरेन्द्र नृपते चन्द्राधिकस्त्व कथम् ॥ ११४ ॥

राजेन्द्रसिंहः
मूर्ध्ना कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या वचसि न च पटुश्चित्रपात्रानुभावी । क्रोषापेक्षी परस्मादुचितबहुकथः सर्वदा पूर्णलोक इत्थं राजेन्द्रसिंह त्वमिव तव रिपुस्तत्र कर्म प्रतीमः ॥ ११५ ॥

रामचन्द्रः
एकादशरुद्राणामेका गौरीत्यनौचितीं मत्वा । राघव नृप तव यशसा दशापि गौरीकृता हरितै. ॥ ११६ ॥ त्वद्वैरिमवनलिखितां सीतामाहर्तुमुद्यत्य । कपिकौणपमण्डलयो. शिव शिव भूयो भवन्ति सरम्भा. ॥ ११७ ॥ शरासने सायकमादधाने श्रीरामभद्रक्षितिपाल्मौलौ । सुराङ्गनाना वरलालसाना वामानि नेत्राणि परिस्फुरन्ति ॥ ११८ ॥ गायन्तु किन्नरगणाः सह किन्नरीभिः श्रीरामचन्द्र शिखरेषु हिमाचलस । शेषेन्दुकुन्ददलबाल्मृणालनालनीहारहारहरहाससितं यशस्ते ॥ ११९ ॥ नालीकमङ्गकृदतीव नदीनबन्धुर्नक्षत्रपो नैवसुधाविभवैकहेतुः । राजा किमिन्दुरपि ना॑र्यभिमानहारी राजा परं जयति राघवसार्वभौमः ॥ १२० ॥ नृपतिमुकुटरत्न त्वत्प्रयाणप्रशस्ति प्लवगपदनमज्जूर्निर्मराक्रान्तभोगैं । लिखति दृगनटङ्कैरून्नमद्भिर्नमद्भिर्जरठकमठभर्तुः क॑र्परे सर्पराजः ॥ १२१ ॥ रघुतिलक नृपाल त्वद्विपत्क्षोणि- |

१ वंशपरपरया वसुमतीप्रदानै१ दिज. २ अलीकमङ्गकृत्, पक्षे,-कमलविकासकृत् ३ अनाथबन्धु , पक्षे,-नदीन समुद्रस्तद्वन्धु ४ क्षत्रियश्रेष्ठ , पक्षे,-नक्षत्रनायक ५ वसुधैश्वर्यस्य कारणम्, पक्षे,-नवीनाया सुधाया यो विभवस्तस्य मुख्यकारणम् ६ शत्रुमानहारी, पक्षे,-नारीणा मानहारक ७ शरीरम् ८ कपाले ९ शेषराज

॥ विशिष्टराजप्रशंसा ॥ १११

पालप्रतिलसदपकीर्तिश्या मले विश्वजाले । भगवति भज- माने कृष्णता शूलपाणौ किमुदधिगिरिपुत्र्यौ चक्रतुस्तन्न विद्मः ॥ १२२ ॥ अघाक्षीन्नो लङ्कामयमसुदुन्वन्तमतर- द्विशल्यं सौमित्रेरयमपनिनायौषधिवनम् । इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥ १२३ ॥ यदि क्षुण्णं पूर्वैरिति जहति रामस्य चरितं गुणैरेतावद्भिज्जगति पुनरन्यो जयति कः । स्वमा- त्मानं तत्तद्गुणरणिगमग्मीरमधुरस्फुरद्वाग्ब्रह्माणः कथमुप- करिष्यन्ति कवयः ॥ १२४ ॥ जगति जगतीमाग- च्छन्त्याः पितामहविष्टपान्महति पथि यो देव्या वाचः श्रमः समजायत । अथ कथमसौ सुस्वेदेन न चेदवगाहते रघु- पतिगुणग्रामश्लाघासुधामयदीर्घिकाम् ॥ १२५ ॥ लज्जा कीर्तिर्जनकतनया शैवकोदण्डभङ्गे तिस्रः कन्या निरुपमतया मेजिरे रामचन्द्रम् । अन्त्या पाणिग्रहणसमये ज्यायसी जातकोपा भूपैः सार्धं खलु गतवती मध्यमाऽथो दिग- न्तान् ॥ १२६ ॥ गेहे गेहे सुभग भवतो रामभद्र क्षितीश त्वामालिख्य खमपि सविधे सस्पृहं भावयन्त्यः । तस्मिन्नाकस्मिकमुपगते वल्लभे भीतिभाजः पौष्वं चाप तव करतले वेपमाना लिखन्ति ॥ १२७ ॥ अहो रघुशिरोमणे- रभिनवप्रतापावलिप्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्रयम् । सुराधिपतिरम्बुदान्कमलमन्दिरा सेवते हिमांशुरपि चन्द्रमाः सततमम्बुधौ मज्जति ॥ १२८ ॥ कीर्तिः श्रीरघुवंशरत्न भवतः स्वर्वाहिनीगाहिनी दिक्पालानखिलानिरीत्य दधती पाण्योः प्रतापानलम् । सप्ताम्भानिधिमण्डलान्यधिगता त्वय्येकपत्नी- व्रतख्यात्यै विष्णुपदं स्पृशत्यनुदिनं शेषस्य शीर्षा- ण्यपि ॥ १२९ ॥ कीर्तो व्यासिववेत्य वैरिवनिताबाष्पो- दधेः साधनाडुत्तुङ्गे पृथिवीसुजा परिवृढे शश्वद्वि- पक्षे स्थितम् । सर्वक्ष्मापतिमौलिमण्डनमणे श्रीरामचन्द्र प्रभो चित्रं पश्य तेव प्रतापदहनं जानन्ति सत्ता- र्किकाः ॥ १३० ॥ श्रीराम त्वदनेकचित्रचरितप्रोद्दामकी- र्तिश्रुतिप्रागल्भ्याद्वैधूतमुर्ध्नि सकलत्रैलोक्यलोकेऽपि यत् । अश्रोत्राः फणिनस्तदेतदुचितं नो चेदहित्वामिना व्याधूते शिरसि क्क भूः क गिरयः कामी दिशामीश्वराः ॥ १३१ ॥ श्रान्त्वा भूवलयं दशास्यदमन त्वत्कीर्तिहंसी दिवं याता ब्रह्माण्डोदरगमवशात्तया तत्र गर्मिण्यभूत् । पश्य स्वर्ग- तरङ्गिणीपरिसरे कैन्दावदातं तया मुक्त भाति विशाल- मण्डकमिदं शीतद्युतेर्मण्डलम् ॥ १३२ ॥ ये मजन्ति निमज्जयन्ति च परास्ते प्रस्तरा दुस्तरे बाधौं वीर तरन्ति वानरभटांस्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधि- गुणा नो वानराणा गुणाः श्रीमद्दाशरथे प्रतापमहिमा सोऽय समुज्जृम्भते ॥ १३३ ॥ कीर्तिः श्रीरघुवंशदीप भवतो दूती मुरारेः प्रियां यत्सान्त्व्यमदात्तदादि गिरिशो- ऽमूर्द्धनारीश्वरः । ब्रह्माऽभूच्चतुराननः सुरपतिश्चक्षुःसहस्रं दधौ स्कन्दो मन्दमतिश्चकार न करस्पर्शं स्त्रियाः शङ्कितः ॥ १३४ ॥ एकं काञ्चनभूधरं सुवलयं वासः सुधैावारिधिं तारं तॉरॅकरालमण्डलमिरं संप्राप्य सत्कुण्डलम् । देरै- स्थापि च तेन तेन सदृशं त्वा भूषणं चापरं स्त्री मँर्न- ग्रहिलेव यैाँचतितरा श्रीराम कीर्तिस्तव ॥ १३५ ॥ संग्रामे दिवैर्सायते तव भुजः पूर्वाचलेन्द्रायते त्वत्कोधो ऽप्यरुणा- यते तव लसच्छौर्यं प्रैकोशायते । त्वद्वैरी तिमिर्रायते तद-

१ स्वसतीत्वव्रतस्थापनार्थ दिव्यकरण युक्तमेव अत्राय भाव -या हि स्त्री दिव्यं कर्तुमिच्छति सा पूर्वं गङ्गा गाहते, अपर देवताः प्रद- क्षिणीकृत्य पाण्योरनलं दधती सप्तमण्डलान्यतिक्रामति, ततो विष्णुपद स्पृशति; तथा सर्प कर्षति, तद्वदिय त्वत्कीर्तिरपि जलाभिरास्पद विष्णू पदसर्पस्पर्शनारूयानि पञ्च दिव्यानि स्वसतीत्वनिर्वाहाय विधत्त इति. २ उत्कटा. ३ कम्पितः. ४ शेषशिरोवधूतन्वे भूमेः पात एव स्यात्तत- स्तेषा गिर्यादिवस्तूना क्वावस्थान भवेत्ततस्तेषा भूम्याश्रितत्वात्तस्याश्च शेषाश्रितत्वादित्यर्थं

१ इस २ तीरे ३ कुन्दवदुज्ज्वलम् ४ लक्ष्मीम् ५ तदाप्रभृति. ६ महेश्वरेणेत्थ तर्कितम्-यदद्यसुमा स्वपार्श्वे न स्थापयिष्यामि तदैवं कीर्तिदूती लक्ष्मीमवापह्नत्य मम कामिनी गौरीमपि रामाय प्रदास्यतीति धिया स्वाङ्ग एव गौरी स्थापिता तत्प्रभृत्यर्धनारीश्वरो हर इति ख्याति. ७ ब्रह्मणा स्वपत्नीरक्षणार्थ चतसृष्वपि दिक्षु मुखानि निर्मितानीति भाव ८ यतो बहूनि चक्षूषि मम चेद्भविष्यन्ति तदा स्वाप्सरसः प्रलोभ्यापहर्तुमागच्छन्ती कीर्तिदूतीमवलोकयिष्यामीति भाव ९ मन्दा विवाहैलसा मतिर्यस्य स १० यतश्चेद्ह कृच्छ्रेण प्राक्स्त्रिय परिणेष्यामि तथापि तदपहरणे मम तस्या वियोग एव भावी, ततः किमनेन परिणयनारम्भेणेति विचारादिति भाव. ११ ममैकः काञ्चनगिरिर्दक्षिणे करे कटकोऽस्ति, वामे तु न किमपीत्येकनेत्राञ्जनवन्नै शोभेते पाणी, अतोऽपर तादृश वलयाख्य भूषणं मह्यं देहीति प्रार्थयते १२ यतो न ह्येक वास उपर्यधश्चाने परिधातु शक्यते १३ उज्ज्वलम् १४ इदमेक तारकाणां राजा चन्द्रस्तस्य मण्डलं सत्कुण्डलमेक- स्मिन्कर्णे संप्राप्य तत्सममपरकुण्डल द्वितीयकर्णार्थं याचति १५ दि- कृपर्यन्त प्राप्तापि १६ स्त्रिया यो मान • खपतिसौभाग्यसुरुपत्वा- दिगर्वस्तेन ग्रहीला ग्रहमृहीता. १७ अन्यापि या मानिनी मानग्रह- गृहीता भवेत्सा विदेशस्थापि पतिं प्रभविष्णु तत्तद्वस्तु याचते यद्भूखण्डलेऽपि नाप्यते तथैय कीर्तिरप्यपर भूषण याचत इत्यर्थं . १८ यथा दिवसे सूर्य प्रभाप्रगल्भतामुपैति तथा त्वत्खड्गभानुरपि संग्रामे स्वस्पष्टता प्रकटयतीत्यर्थं १९ यथा भानुरुदयाचले भासते तथा चासौ त्वद्भूजे-भासत इत्यर्थं २० यथारुणो रक्तवर्णोऽग्रे प्रादु- र्भवति तथा क्रोधोऽपि रक्तमुखनेत्रादिना प्रादुर्भवतीत्यर्थं २१ यथा सूर्योदये सर्वत्र प्रकाशः प्रसरति तथा त्वत्खड्गभानोरुदये तव शौर्य स्पष्टमुदेतीत्यर्थं २२ यथा सूर्योदये तमांसि नाशमायान्ति तथा त्वत्खङ्गभानूदये तव वैरिणो दिगन्तगामिनो भवन्तीत्यर्थं.

१२० सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्

बलाहत्सूर्यकान्तायतेत्वत्कीर्तिः कमलायते रघुपते त्वत्खड्ग- चण्डद्युतेः ॥ १३६ ॥ अस्माकं पर मन्दिरस्य चरितं यद्यप्य- वाच्यं भवेत्स्वामी त्वं कथयामि तेन भवतः किंचित्प्रिया- दूषणम् । श्रीमद्राम नृप त्वया रणमुखे पाणिग्रहः सादरं यस्याः सासिलता परस्य हृदये दृप्ता लुठन्ती मया ॥ १३७ ॥ सत्य सा बहुरूपिणी समभवत्सिद्धिस्वरूपा भैत्वत्कीर्तिः श्रीरघुवशरत्न विमला जागतिं विश्वोदरे । क्ष्मापारे रिपुमन्दिरे नृपपुरे रत्नाकरे निर्झरे कान्तारे गिरि- शेखरे विषधरागारे तथैवाम्बरे ॥ १३८ ॥ गर्वावेश- विशालरावणभुजप्रोद्भूतप्रतापानलज्वालाजालिनवाम्बुदः कथम- सौ सीतापतिर्वर्ण्यते । यस्यानारितनृपाः कृपाणजलधौ मग्नाः पुरो गौरवादत्युच्चैर्गतयो भवन्ति च पुनर्भिंत्त्वा रवेर्मण्डलम् ॥ १३९ ॥ भीमं यज्ञलधि जवेन हनुमानुल्लङ्घ्य लङ्का गतो यच्चाशोकमहावन दलितवान्कक्ष च यक्षूर्ण- वान् । सीतोपायनमौलिरत्नसहित. प्राप्तश्च यस्त्वामसौ तत्राप्येष भवत्प्रतापमहिमा निर्यन्त्रणैः कारणम् ॥ १४० ॥ धत्ते नायक राम तावकयशो रैौमे शशाङ्के मरुँद्वाहे स्वर्गे- गजे हरौ फणिपतौ वाण्यां वृषे मे रुचिम । अन्येषु तु तँद्- म्बरे तँद्दिहिते तद्यञ्जने तन्मदे तत्कण्ठे च तदीक्षणे तद्गलके तैत्प्रोथके तैत्पथे ॥ १४१ ॥ श्रीमन्नायक राम- भद्र भवतः पाणौ कृपाणं रणे दृष्ट्वा यद्यद्भूदरिक्षिति- भुजा तत्तत्समाकर्णय । अङ्गे वेपँथुरन्धता नयनयोर्वक्त्रे तृणं भूयसी भीतिश्चेतसि वाचि सस्तुतिकथा हैंस्तद्वयं मस्तके ॥ १४२ ॥ आकृष्टे कवचादहीन्द्ररसनाकल्पे कृपाणे त्वया श्रीमन्नायक रामचन्द्र भवतः प्रत्यर्थिनां वेश्मसु । गाहन्ते सहसा लुलायचैमरीशौर्दूलर्शीखाचरीयक्षोरक्षश्चृगाल- कोलशैलभृद्गल्लूकभिल्लादयः ॥ १४३ ॥ रेफ व्यैञ्जनराज- ता तव तथाकारप्रकर्षः खरेष्वन्त्यस्यापि मकार विस्फु- रति ते वर्गोक्षरेष्वादिता । यैः संभूय निगद्यते रघु- कुलालकारहीराङ्कुरो देवः क्षोणिसुतापयोधरतटीशृङ्गार- हारो हरिः ॥ १४४ ॥ खेदाम्भःकणमण्डनानि खुरैली- खेलोद्भवन्त्यन्वह तद्बाहो रँसयेन्महाबल इति ख्यातिं गतो मरुतः । त चाखाद्य मुहुः सहस्रफणिता- शाली बलीयानैरिर्धत्ते कोमलकोमलैरपि फणैः श्रीराम- चन्द्र स्थिराम् ॥ १४५ ॥ श्रीरामे मृगया गतेऽपि धनुषा बाणे समारोपितेऽप्याकर्णान्तगतेऽथ मुष्टिगलितेऽप्ये- णाश्लेषेऽपि च । न त्रस्त न पलायित न चकितं नोत्क- म्पितं न द्रुतं मृग्या मद्धशंगं करोति दयितं कामोद्यमि- त्याशया ॥ १४६ ॥ गाम्भीर्येण महोदयेन शरणत्राणेन मर्यादया सर्वाशापरिपूरणेन महता स्थैर्येण धैर्येण च । राम त्वामनुकर्तुमिच्छतितरा वारांनिधिः कि त्वसौ पीतो वानरलङ्घितः प्रमथितो बद्धः श्रिया त्याजितः ॥ १४७ ॥ देव श्रीनृप रामचन्द्र भवतो दिग्जैत्रयात्रोत्सवे धावद्धीर- तुरगचञ्चलखुरक्षुण्णक्षमामण्डलात् । वातोद्धूतरजोमिलत्सुर- नदीसजातपङ्कस्थलीदूर्वाचुम्बनचञ्चवो हरिहयास्तेनैव वृद्धं दिनैः ॥ १४८ ॥ साधर्म्येन कथं गृणन्तु यमुनावेणी कृपाणीं च ते श्रीमद्राम चमूचरेण्य भवतो वाग्ब्रह्मसिद्धा- न्तिनः । नाकृष्टा हलिना न कालियवशात्क्रूरा न धारा- जडा न च्छायाजनिता न वर्कैबहुला न प्रोत्तंभङ्गा कचित् ॥ १४९ ॥ आवाल्यं पतिरेष मे जगदिदं जानाति तत्त्वं पुनर्भूमध्ये समुपागता तदपि ते विख्यायते य. पतिः । वृद्धा नास्य गृहे वसामि सुचिर तिष्ठन्स्थिरात्रेति तन्मात्स- र्यादिव राम भूप भवतः कीर्तिर्दिगन्तं गता ॥ १५० ॥ का शृङ्गारकथा कुतूहलकथा गीतादिकाना कथा माद्यद्-

१ यथा भानोरुदये सूर्यकान्तमणिषु महास्ताप- सजायते तथा चैतदुदये सति वैरिकीहृदयेषु महान्पश्चात्तापो भवतीत्यर्थ २ यथा भानोरुदये कमलानि विकस्वराणि भवन्ति तथा त्वत्खड्गभानोरुदये त्वत्कीर्तिर्विकासमुपैतीत्यर्थ ३ तिग्मांशुत्वात्खड्गस्य सर्वथा सूर्योपमत्वमस्तीति शेष. ४ परस्त्रियाः. ५ यतो भक्ता. स्वस्वामिन कथमपि हानिं सोढुमक्षमाः. स्त्रीदुर्लक्षणं तु परमपमानकारणमतो ब्रवीमीत्यर्थः. ६ यथा काचित्पाणिगृहीती परपुरुषस्य हृदये विलासं कुर्यात्तदा तस्या असतीत्वलक्षणेन पुरुषस्य महद्दूषणं लग्नं भवेत् ७ नानारूपत्वेन विश्वव्यापिन्यभूदिति भाव. ८ अणिमाद्यष्टसिद्धिमती ९ यथा योगिनी सिद्धागिरिदर्यादिषु स्वकामचारिणी भवेत्तथा त्वत्कीर्तिरपीति भाव. १० देदीप्यमाना. ११ समूहः. १२ अन्योऽप्यनलोऽम्बुदेन शाम्यति यथा तथा तत्प्रतापाग्निरपि रामेण शमित इति भाव १३ स्वर्गयायिनो भवन्ति अन्यो हि यो जलधौ निमग्नो भवति स च नीचैर्गतिरेव भवतीति प्रसिद्धम् १४ मारितवान् १५ अस्खलित . १६ बलभद्रे. १७ उच्चैःश्रवसि. १८ ऐरावते १९ नक्षत्रे २० रामवस्त्रे तद्वस्त्रस्य नीलत्वादिति भाव २१ चन्द्रशत्रौ. राहावित्यर्थ २२ वृषनासिकार्याम् २३ नक्षत्रपथे. आकाश इत्यर्थ २४ कंप २५ येषा मुखे तृण दृश्यते ते शूरा अपि गोवद्वध्या इति भाव , २६ शिरसि करद्वय स्वप्रणानार्थ कृतवन्त इत्यर्थः.
१ सदृशे २ तन्मन्दिराणा शून्यत्वेन वनचरतिरश्चा तत्र प्रवेशस्यानिवार्यत्वादिति भाव.. ३ बनगाव . ४ व्याघ्रा ५ वानर्य . ६ शूकरा ७ शल्यका . ८ ऋक्षा . ९ व्यञ्जनेषु श्रेष्ठत्वम्. १० खखगादिषु ११ शास्त्राभ्यासः १२ आस्वादयन् १३ यदा त्वया वैरिणो हतास्तदा त्वड्जयो परिश्र मज खेद् उत्पन्नस्तच्छोषणदादावुर्महाबलोऽभूदिति भाव. १४ शेष १५ पृथ्विीम् १६ दूर्वाङ्कुरभक्षणे रता अरुणेन प्रेरिता अपि न तूर्णं प्रयान्ति कि तु शनैरेव अत एव ग्रीष्मतो महान्तो दिवसा जायन्त इति भाव १७ कथमन्तु १८ छाया सूर्यभार्या १९ पानीयवाहाः. २० जाततरङ्गाम्

विविधराजप्रशंसा | १२१

न्तिकथा तुरगमकथा कोदण्डदीक्षाकथा । एकैवास्ति परं पलायनकथा त्वद्वैरिभूमीभुजा देव श्रीरघुनाथ नाथ जगति त्वमेऽपि नान्या कथा ॥ १५१ ॥ त्वं चेत्कल्पतरुर्वयं सुम- नसस्त्वं चेत्सुधात्मा कलाः संपूर्णा वयमीश्वरो यदि भवान् स्वच्छा विभूतिर्वयम् । संपूर्णः कमलाकरो यदि भवान् श्रीराजहंसा वय स्वामिंस्त्वं शृणु रामचन्द्र नृपते किं कि न तेऽङ्ग वयम् ॥ १५२ ॥ बालकीडनमिन्दुशेखरधनुर्भ- ङ्गावधि प्रह्वता ताते काननसेवनावधि कृपा सुग्रीवमरुत्या- र्पथे । आज्ञा वारिधिबन्धनोवधि यशो लङ्केशेनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्यपेक्षायधि ॥ १५३ ॥ त्वत्कीर्तिर्धनिका धनं मधुरिमा तस्याधमर्णा सुधा शीतांशुः प्रतिभूस्तदर्थनकृते सैषा दिव धावति । सा लीना तत्र वाचि रामनृपते चन्द्रो निरस्तध्वनिः शङ्कातङ्कभृदंशुका- वृततनुर्नक्तं समुत्सर्पति ॥ १५४ ॥ अञ्चामास तृण प्रिया- दुहि तृणामास स्मरारेर्धनुर्द्वारामास सुनेः शिलापि नृव- रामाम स्वयं पादुका । कुल्यामास महार्णवोऽपि कपयो योधावभूवुस्तदा पौलस्त्यो मशकीबभूव भगवंस्त्वं मानु- षामास्थिता. ॥ १५५ ॥ उसा कीर्तिलता गुणैस्तव विभो सिक्ता च दानोदकैर्मेरुस्तम्भमवाप्य दिक्षु वितता प्राप्ता नभोमण्डलम् । धूपैस्त्वत्प्रतिपक्षलक्ष्मवनितानिःश्वासजैर्धू- पिता वृक्षैः कोरकितेन्दुना कुसुमिता श्रीरामचन्द्र प्रभो ॥ १५६ ॥ यद्वीजानि च मौक्तिकानि करिणा दन्ता यदीयाङ्कुरा यत्पत्राणि शरद्धना हिमगिरिर्यस्याः प्रकाण्डो महान् । यत्पुष्पाणि च तारका हिमरुचिर्यस्याः फल सुन्दर सेय राजति रामकीर्तिलतिका ब्रह्माण्डभाण्डो- दरे ॥ १५७ ॥ नो ग्लानि भजते दिने न च सुराधीशै समापीयते नो राहुग्रसते न वा मृगदृशा वक्त्रैः पराजीयते । नो मेघैश्च पिधीयते न च कुहूकालेऽपि सक्षीयते श्रीराम- क्षितिपाल भाति जगति त्वत्कीर्तिचन्द्रः सदा ॥ १५८ ॥ आकृष्टे युधि कार्मुके रघुपते वामोऽब्रवीद्दक्षिणं पुण्ये कर्मणि भोजने च भवत. प्रागल्भ्यमस्मिन्न किम् । वामान्यः पुनरब्रवीन्न मम भी पृच्छाम्यहं स्वामिनं छित्त्वा रावणवक्त्र- पङ्क्तिमथवेत्येकैकमादिश्यताम् ॥ १५९ ॥ अम्भः कई- मतामुपैति सहसा पङ्गः पुनः पांसुता रेणुर्वारणकर्णतालयु- गलैर्दिकप्रान्तनीहारताम् । निर्मग्नं गिरेयः समं विषमता शून्यं जैनाकीर्णता निर्याते त्वयि रामचन्द्रनृपते त्यक्त- स्वरूपं जगत् ॥ १६० ॥ पाताले मैंञ्जु मूलं फणिपतिरमितः कीर्तिवल्लेस्त्वैषा स्थूणा कैलासशैलो गगनमिह महाम- ण्डपः पाण्डुदण्डाः । दन्तीन्द्रस्थूलदन्ता दैैैलततिरतुला शारदाभ्राणि सारास्ताराः पुष्पाणि चन्द्रः फलमिदममलं रामराजेन्द्र मन्ये ॥ १६१ ॥ कूर्म पादोऽस्य यैष्टिर्भुजग- पतिरसौ भाँजनं भूतधात्री तैलापूरः समुद्राः कनकगिरि- रयं वृत्तैवर्तिप्ररोहः । ज्योतिष्ण्णडांशुरीचिर्र्गगनमलिनिमा कज्जलं दह्यमाना शत्रुश्रेणी पतङ्गा ज्वलति रघुपते त्वत्प्र- तापप्रदीपः ॥ १६२ ॥ शक्तिः सर्वतिरिक्ता विलसति न च ते पीलुपाकप्रियत्वं वाक्यं धर्मे प्रमाणं स्वयमपि चरितं नान्य ईशोऽस्ति कश्चित् । नो वार्य भेद आस्ते क्वचिदपि विषये नैव मिथ्याप्रवादश्चित्रं पाण्डित्यमेतद्गहसि रघुपते गौत- माद्यैरतर्क्यम् ॥ १६३ ॥ पूर्वत्रासिद्धबुद्धिर्द्विगुणितकरणे- ऽप्यस्ति तेऽल्पप्रयलो यः कश्चिन्नैव लोप भजति बहुतरा- पेक्षिणोऽप्यन्तरङ्गाः । नो वा बाध परेण क्वचिदपि विषये नापवादो गुणाना वृद्धीना वर्णमात्रं सदनमिति नवो राम- साधुत्वमार्ग ॥ १६४ ॥ प्रौढि धंत्ता कलासु प्रयैयतु कुमुदे सत्पथे ॰संचरेद्वा नेत्रा्रनन्दं विंधेत्तौ भैवैतु च विबुधा- नैर्स्तु राजा तथापि । दोषैन्वेषी कँलकी सँहँजजडतनुः सँक्षयः पक्षपाती नैैक्षत्रेर्शः कथं वा कलयतु तुलना राम- चन्द्रेण चन्द्रः ॥ १६५ ॥ मायद्वैतैैण्डगण्डच्युतमद- मदिरासचर्र्चैञ्चरीकीझाकारानन्दगीता' कविभवनभुवस्ता' पुरस्ताद्भवन्ति । पश्चाद्भ्वन्ति येषामुपरि करुणया राम-

१ यतोऽम्भसो द्रवत्वेऽपि भवदीयाश्वाथूत्यापितरज संपर्कात्तस्य कर्दमता जातेति भाव
२ घोटकखुरक्षुण्णा सन्त
३ त्वत्सेवया वने प्रवेशादरण्यमपि जनपदवद्भवति.
४ मनोहरम्.
१६ सु. र. भां.

१ स्तम्भ
२ श्वेतयष्टिका
३ पर्णसतति
४ अवष्टम्भहेतु'
५ दीपद्ण्ड
६ दीपाधारपात्रम्
७ मध्यवर्तित्वादङ्गुल्दशाङ्कुर
८ चन्द्रपक्षे,-तथा कलास्वशेषु प्रौढि प्रागल्भ्य धत्ता विभर्तु, रामपक्षे,-यथा कलासु विज्ञानेषु प्रौढि धत्ते
९ चन्द्रपक्षे,-तथा कुमुद प्रकाशं प्रययतु विस्तारयतु, रामपक्षे,-यथा को पृथिव्या मुद हर्ष जनयति
१० चन्द्रपक्षे,-तथा सता देवाना पन्था सत्पथ आकाशस्तस्मिन्संचरेत्, रामपक्षे,-यथा सत्पथे सता योग्ये मार्गे संचरति
११ चन्द्रपक्षे,-तथा नेत्राणा लोचनानामा्रनन्दं विधत्ता कुरुताम्, रामपक्षे,-यथा नेतॄणा रक्षकाणा्रमानन्द जनयति
१२ चन्द्रपक्षे,-तथा विबुधान्देवानवतु रक्षतु, रामपक्षे,-यथा विबुधान्पण्डितानवति
१३ चन्द्रपक्षे,-तथा च राजा शोभितोऽस्तु, रामपक्षे,-तथा नाज्ञा क्रियया गुणैश्च राजा
१४ चन्द्रपक्षे,-दोषा रात्रिस्तामन्वेषते तच्छील, रामपक्षे,-न दोषमन्वेषते कितु गुणान्
१५ चन्द्रपक्षे,-कलङ्कवान्, रामपक्षे,-कलङ्की न
१६ चन्द्रपक्षे,-सहजतो जलमयी तनुर्यस्य स रामपक्षे,-निसर्गतो मूढस्वभावो न
१७ चन्द्रपक्षे,-कृष्णपक्ष एकैककलाक्षयात्सक्षय ; रामपक्षे,-न कदाचन तस्य क्षय, किंतु सर्वदा वृद्विरेव
१८ चन्द्रपक्षे,-पक्षेऽतीतेऽमाया पतनशील , रामपक्षे,-पक्षपाती न
१९ चन्द्रपक्षे,-नक्षत्राणा तारकाणामीशः स्वामी; रामपक्षे,-न च नक्षत्रेर्श ; कितु सर्वेषा क्षत्राणामीशः;
२० इस्ती.
२१ भ्रमरी.

१२२ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्

भूणालमौलेरुद्वेलदुग्धवीचीबहलधवलिमाबद्धकक्षाः कटाक्षाः ॥ १६६ ॥ बीजं चिन्तामणिश्चेत्कनकगिरितटीजन्मभूमिर्भवेच्चेत्सेक्री चेत्कामधेनुर्विधिकुलमखिलं मूलसस्कारञ्चेत् । वित्तेशो रक्षिता चेत्सरसिजनिलया मञ्जरी चेत्तदा स्याद्राम क्ष्मापालमौले तव भुजलयता कल्पवृक्षः सदक्षः ॥ १६७ ॥ मन्ये मृत्योः सपत्नी जगति सुविदिता कालकूटस्य कन्या धात्री कर्कटकस्य स्मरणभयकरी कि च वज्रस्य माता । कल्पान्ताग्नेः पुरन्ध्री प्रभवति भगिनी भीषणा कालरात्रेर्दूतीयं ते कृपाणी सुगपुरसुदृशा रामचन्द्रक्षितीश ॥ १६८ ॥

रामजामः

क्षुभ्यत्प्रत्यर्थिपृथ्वीपतिहृदयसरस्तोषशोषं दधाने त्वद्दोषणा सुप्रतापे तपति बहुगुणे रामजाम क्षितीन्द्र । सूर्यो मित्रत्वमायात्समजनि दहनः कृष्णवर्त्मा निमज्जन्पारावाराश्मपूरे निवमति वडवावह्निरन्यत्किमु द्याम् ॥ १६९ ॥

रामनाथः

करकम्पितखड्गयष्टिभीमे रणेसनाहितरामनाथवीरे । अरिभूभृदमर्त्यसुन्दरीणामचलन्दक्षिणवामलोचनानि ॥ १७० ॥

रुद्रः

कतिपयदिवसैः क्षयं प्रयायात्कनकगिरिः कृतवासरोवसान । इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे ॥ १७१ ॥ कवीन्द्राणामास-प्रथमतरमेवाङ्गणभुवश्चलद्भृङ्गासङ्गाकुलकरिमदामोदमधुरा । अमी पश्चात्तेषामुपरि पतिता रुद्रनृपते कटाक्षा क्षीरोदप्रसरदुरुवीचीसहचराः ॥ १७२ ॥ भूयोभूयस्त्वदरिदलनाद्धासनाशासकाशाद्यातैर्वार्तैरहह तरणेरुल्बणेषु व्रणेषु । साय साय लणणमलिठस्पर्शबाधासमाधावस्यालस्याकलितवपुषो रुद्र कः स्यादुपायः ॥ १७३ ॥ चन्द्रोऽनेन कलङ्कितो बत वने रामोऽमुना वञ्चितः कि चानेन कुलाङ्गनानयनयोर्लावण्यलक्ष्मीर्हता । सन्नानामभिलाषकस्य भवतः श्रीरुद्रचन्द्र प्रभो तन्मन्ये हरिणस्य हन्त हननायाखेटकोपक्रमः ॥ १७४ ॥ रुद्रस्यापि दिगम्बरस्य कृपया स्वर्गेऽमराः कोटिशो याचन्ते न कदापि काञ्चनमहो शश्वत्सदा भुञ्जते । एकोऽहं वसुधातले न च पुन स्नेहस्य पात्रं सदा याचिष्ये कथमन्धभूपतिमतः श्रीरुद्रभूमीपते ॥ १७५ ॥

रूपनारायणः

अये यदि समीहसे परपुरावरोधं सदा समाकलय मङ्गचः किमपि रूपनारायण । प्रतीपन्नृपनागरीनयननीरकल्लोलिनीसमुत्तरणचातुरी तुरगराजमध्यापय ॥ १७६ ॥

रूपमणिः

श्रीमद्रूपमणे गुणेन यदयं हीनोऽपि नीतो गुरुर्गाढ गौरवमादरेण भवता तेनास्ति शंभुर्भवान् । यत्तेनाप्यऋजुकलङ्कविकलो दोषाकरोऽपि स्फुटं विप्राधीशपदे विधाय विधृतश्चन्द्रोऽनिशं मस्तके ॥ १७७ ॥

विक्रमार्कः

तत्कृतं यन्न केनापि तद्दत्तं यन्न केनचित् । तत्साधितमसाध्यं यद्विक्रमार्केण भूभुजा ॥ १७८ ॥ साग्मवत्त्वा विहता नवका विलसन्ति चरति नो कङ्क । सरसीव कीर्तिरीश गतवति भुवि विक्रमादित्ये ॥ १७९ ॥ हस्ती वन्यः स्फटिकघटिते भित्तिभागे स्वबिम्बं दृष्ट्वा दृष्ट्वा प्रतिगज इति त्वद्विषा मन्दिरेषु । दन्ताघाताद्दलितदशनस्तं पुनर्वीक्ष्य सद्यो मन्दं मन्दं स्पृशति करिणीशङ्कया विक्रमार्क ॥ १८० ॥ कीर्तिस्ते दयिता तदीयजठरे लोकत्रयं वर्तते तस्मात्त्वं जगतः पिता पितृधनं येनार्थिना त्वद्धनम् । वीर श्रीवर विक्रमार्क भवतस्त्यागं न मन्यामहे कस्त्यागः स्वकुटुम्बपोषणविधावर्थव्ययं कुर्वतः ॥ १८१ ॥

विग्रहराजः

श्रुते संप्रति चाहुवाणतिलकः शाकंभरीभूपतिः श्रीमान्विग्रहराज एष विजयी सतानजानात्मनः । अस्माभिः करदं व्यधायि हिमवद्विन्ध्यान्तरालं भुवः शेषस्वीकरणाय मास्तु भवतामुद्योगशून्यं मनः ॥ १८२ ॥

वीरभानः

लङ्काधामनि वीरभानुनृपतेः प्रेक्ष्य प्रतापोदयं प्रत्यागारमवीरनीरजदृशो भूयो हुताशभ्रमात् । क्षुभ्यद्भाणि विधूतपाणि विगलन्मुक्तामणि प्रस्खलद्बाष्पश्रेणि विलोलवेणि दयितं कण्ठस्थले बिभ्रति ॥ १८३ ॥ भेरीझाङ्कृतिमिस्तुरगनिनादैः कुम्भीन्द्रकोलाहलैः प्रस्थाने तव वीरभान दलितं ब्रह्माण्डभाण्डोदरम् । आधाय ज्वलति प्रतापदहने रङ्गैः पुनर्वेधसा तारानायकतारकासुरसरिद्वयाजादिवायोजितम् ॥ १८४ ॥

वीरवरः

कामो वामदृशा निधिनंयजुषा कालानलो विद्विषा खःशाखी विदुषा गुरुर्गुणवता पार्थो धनुर्धारिणाम् । लीलावासगृहं कलाकुलजुषा कर्णः सुवर्णार्थिना श्रीमान्वीरवरः क्षितीश्वरवरो वर्वर्ति सर्वोपरि ॥ १८५ ॥ जम्बूद्वीपगृहप्रकाशनकरी स्नेहक्षमाधायिनी नीत्योत्तीर्णमपीततिः खलजनश्रेणीपतङ्गान्तकृत् । गाजीन्द्राकबरक्षितीश्वरमनश्रान्तान्धकारापहा यस्य क्षोणिपतेरराजदखिलं दीपोपमा लेखनी ॥ १८६ ॥

वीरसिंहः

वीरसिंहारिनारीणामञ्जनाक्ताश्रुबिन्दवः । उरोजे पतिता रेजुः सरोजे मधूपा इव ॥ १८७ ॥ यसोच्छिन्ना न वेदा मनसि सदयता दूषणानामभावो दक्षो दूरेऽणुदृष्ट्या जहति कठिनता दानशक्तिर्गिरिष्ठा । आधत्ते यश्च कुन्दं शिरसि

१ क्वचित् २ अल्पै.. ३ मेरु.. ४ नाशः ५ दानम् ६ व्याधः

विशिष्टराजप्रशंसा, राजविभूषावर्णनम्, गजप्रशंसा, तुरगप्रशंसा १२३

दरवता यश्च दूरीकृतार्ति. स श्रीमान्वीरसिंह त्वमिव तव रिपुस्तत्र दम्भं प्रतीमः ॥ १८८ ॥ वैकुण्ठामप्रकामः कमलयुतशिराः कुञ्जराकृष्टदृष्टिः कोदण्डोदारनामाप्यमितपरिजनो विश्वविख्यातकीर्तिः । सुन्दर्यासक्तचित्तः समरणविजयी कङ्कणाहारयुक्तो वीर श्रीवीरसिंह त्वमिव तव रिपुः किन्तु मुक्तादिवर्णः ॥ १८९ ॥

वेङ्कटपतिः

अत्र मन्मथमिवातिसुन्दरं दैनवारिमिव दिव्यतेजसम् ।
शैलैराजमिव धैर्यशालिनं वेद्मि वेङ्कटपतिं महीपतिम् ॥ १९० ॥

शाहिजहानः

भूभृन्मौलितटीषु वर्षति महाधाराधरेऽस्मिन्नसौ जाता भूप सरस्वती विजयिनी कल्लोलिनी पावनी । श्रीमच्छाद्दिजहा ब्रवीमि तदिदं माहात्म्यमस्या. कथं यस्या मज्जति पङ्कजीयति शिवस्तन्मूर्द्धजो लीयति ॥ १९१ ॥

सिन्धुराधीश्वरः

अशर्मदहनज्वलत्कटुकटाक्षरूक्षेक्षणक्षणक्षपितशात्रवे जयति सिन्धुराधीश्वरे । वय न बहु मन्महे निजभुजानमद्भाण्डिवच्युतास्रशिखिताण्डवज्वलितखाण्डवं पाण्डवम् ॥ १९२ ॥

हम्मीरः

मुञ्चति मुञ्चति ^१कोषं भजति च भजति त्रै कम्पमरिबर्गः ।
हम्मीरवीरखड्गे त्यजति त्यजति क्षमामाशु ॥ १९३ ॥
मा चकचेक्रिविरहज्वरकातरो भूः सङ्कोचमम्बुज न याहि न यामिनीयम् । हम्मीरभूपहयपादविदीर्णभूमीरेणूत्करैरयमकारि दिवान्धकारः ॥ १९४ ॥

राजविभूषावर्णनम्

यशःपटोऽयमद्भुतो न ते महीप कञ्चुकः । सुपुण्यकर्म भात्यदो जयप्रदं सुरक्षणम् ॥ १ ॥
प्रज्ञातृतीयोमविलोचनस्य भूत्योज्ज्वलस्येश्वरकामदातुः । कामारिसुत्युज्य मुदा सकामा उष्णीषगङ्गा तव भाति मूर्ध्नि ॥ २ ॥
चित्राभिरस्योपरि मौलिभाजा भाभिर्मणीनामनणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि ॥ ३ ॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् । बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ति ॥ ४ ॥
शिरोवेष्टनव्याजतस्ते मुखेन्दोः परं पक्षपाताद्द्रसत्येव राहुम् । रुषा मूर्ध्नि बद्धं कचच्छद्मनालं शशाङ्कोऽङ्गहीनो विभात्येष राजन् ॥ ५ ॥
ताराधिनाथमभिजित्य मुखश्रियायाद्वा राजस्त्वया पदककैतवतो व्यलम्बि । बन्दीकृता इव तदीयवधूसमूहा हारच्छलेन तव वक्षसि भान्ति नूनम् ॥ ६ ॥
धवलकुसुमभास्वतकञ्चकस्योपरिष्टात्कनकपरिकरेण आजसे राजराज । शरदि घनगणोद्यद्विद्युदुद्दामरेखालित इव घरेन्द्रः प्रोन्नतो विन्ध्यशैलः ॥ ७ ॥
स्वभावारक्तश्रीन्नखरसुषमानद्धकनकस्फुरद्विद्युद्राजत्कटकयुगलाभ्या तव करौ । विभात काश्मीरद्रवविलुलिताविन्द्रविजये हृते स्वर्गद्वारार्गल इव विभो द्विद्विस्थितिकृते ॥ ८ ॥

गजप्रशंसा

नीता कुम्भस्थलकठिनंता कामिनीनामुरोजैस्तेय धृत्वा धृतमणिगणैः कञ्चुकैरावृतैव । इत्यास्यातु नरपतिगृहद्वारि कुम्भेन्द्रडिम्भा. शुण्डादण्डैर्वपुषि बहुला धूलिमुद्धूलयन्ति ॥ १ ॥
सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावधिश्यामिके व्योमान्त.स्पृशि सिन्धुरेऽस्य समरारम्भोद्भुरे धावति । जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसंध्याधियेवास्त यान्ति समस्तबाहुजुमुजातेज.सँहसाशवः ॥ २ ॥
एतद्गन्धगजस्तुषाम्मसि भृशं कण्ठान्तमज्जत्तनुः फेनै. पाण्डुरितः स्वदिक्करिजयक्रीडायश स्पर्धिभिः । दन्तोद्दन्द्वजलौनुबिम्बिनचतुर्दन्तः कराम्भोर्वाम्वियाजादंश्रुमुवछभेन विरह निर्वापयत्यम्बुधेः ॥ ३ ॥
स्वीयोद्दानप्रगन्धप्रकुपितहृदयोत्तारितोद्दण्डशुण्डैरुच्छत्पुच्छगुच्छप्रतिकरटिधिया सिन्धुरैर्धावमानैः । तत्पाद्यन्यासनींभवदचलभरोद्धान्तिधारावघूर्णत्पारावाराम्बुपूर्णा धरणिर्तितरा शङ्कमाना चकम्पे ॥ ४ ॥

तुरगप्रशंसा

मेखलीयति मेदिन्याः ककुभः कङ्कणीयति । मण्डलीस्तुरग. कुर्वञ्जगत. कुण्डलीयति ॥ १ ॥
धावन्तमनुधावन्ति हरिण तव वाजिनः । नाभिनिर्मुक्तकस्तूरीलुब्धा इव समीरणाह ॥ २ ॥
अनूनवेगादयमद्वितीयश्छायातुरंगादपि लज्जमानः । खुरोद्धतैर्वीर तुरगमस्ते रजोभिरद्धाप्रतिमावृणोति ॥ ३ ॥
प्रयातुमस्माकमिदं कियत्पदं धरा तदम्भोधिपि स्थलायताम् । इतीव र्वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः ॥ ४ ॥
इयती जगती कियती

पाद-टिप्पण्यः (Footnotes)

१ दकारे भकारम्
२ इह पद्ये शङ्करूप आद्यक्षरत्यागः-
३ विष्णुः
४ हरम्
५ मदनशासकत्वात्
६ पिधानम्; पक्षे,-भाण्डागारम्
७ उल्लासनम्, पक्षे,-प्रकृष्टकम्पम्.
८ क्षान्तिम् पक्षे,-पृथ्वीम्
९ चक्रवाकीविरहातुरः.
१ अभ्रकषे
२ अनर्गल इत्यर्थे..
३ क्षत्रिय
४ सूर्या.
५ प्रतिबिम्बेन
६ करशीकर इत्यर्थेः
७ ऐरावतेन
८ अश्वै.

१२४ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्

भ्रमिता नमिता न न यामिति याति हयः । वियदङ्गणरिङ्गण-
रङ्गणभूर्विमृशन्निव नर्तनमातनुते ॥ ५ ॥ किमङ्गारबद्धा खुरैः
स्पर्शयन्त, कुरङ्गा इवाङ्गानि संकोचयन्त । अटन्तो
नटन्तो भट तोषयन्तस्तुरगाः सुरङ्गाः पुर गाहयन्ति
॥ ६ ॥ अलक्षितगतागतै कुलवधूकटाक्षैरिव क्षणानुवय-
शीतलैः प्रणयकेलिकोपैरिव । सुवृत्तमसृणोन्नर्तर्मुगद्गशा-
मुरोजैरिव त्वदीयतुरंगरैरिदं धरणिचक्रमाक्रम्यते ॥ ७ ॥
निर्भास मुखमण्डले परिमित मध्ये लघुं कर्णयो स्कन्धे
बन्धुरमप्रमाणमुरसि स्निग्ध च रोमोद्गमे । पीन पश्चिम-
पार्श्वयोः पृथुतर पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह
सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ ८ ॥ धूलीभिर्दिवमन्धयन्नबधिरय-
न्नाशा. खुराणा रवैर्वातं सयति खञ्जयञ्जवजयै. स्तोतृन्गृ-
णैर्मूकयन् । धर्माराधनसनियुक्तजगता राज्ञामुनाधिष्ठित.
सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरगोऽपि गाम् ॥९॥
वात स्थावरयन्नभ. पुटकयन्सोतस्वती सूत्रयन्सिन्धुं पल्व-
लयन्वनं विटपयन्भूमण्डलं लोष्टयन् । शैल सर्षपयन्दिश
चपलयंल्लोकत्रय कोडयन्हेलारूढरयो हयस्तव कथंकारं
गिरा गोचर. ॥ १० ॥ तसा गमिव सरस्पृशन्ति गति-
भिर्द्यामुत्पतन्तो मुहुर्भ्रान्तेवासिन आजवश्रुतगतीवाध्यापय-
न्तोऽनिलात् । देव स्वीयखुराग्रदीर्णवसुधाधूलीवितानं बला-
रात्यश्वो नटन पठिष्यति हि वस्त्रन्वन्ति वाहास्तव ॥ ११॥

खङ्गप्रशंसा

वर्णयामि विमलत्वमम्भसः किं त्वदीयकरवालवर्तिनः ।
एति यत्प्रभवमैन्दवी द्युति विश्वशुक्तिपुटमौक्तिकं यशः ॥१॥
खङ्गवारि भवत. किमुच्यते लोलशैवलमिवारिकुन्तलै. ।
यत्र राजति निवेशितं त्वया राजहंसनिवहोपम यशः ॥२॥
न पक्षवृत्तिर्न सपक्षवृत्तिर्विपक्षवृत्तिः करवालधूमः । तथापि
ते भूमिपते जगत्या प्रतापवह्निप्रमिति करोति ॥ ३ ॥
रिपुश्रियः कि कचसचयोऽय प्रतापवह्नेः किमु धूमराजिः ।
विलोक्य यत्पाणिगतं कृपाणमेव जनस्तर्कयते रणेषु ॥ ४ ॥
सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदन्दुिपाण्डु यशस्त्रिलोक्याभरण प्रसूते ॥५॥
दर्पान्धगन्धगजकुम्भकपाटकूटसक्रान्तनिश्चघनशोणितशोण-
शोचिः । वीरैरवेलोकि युधि कोपकषायकान्तिः काली-
कटाक्ष इव यस्य करे कृपाण• ॥ ६ ॥ धाराधरस्त्वदसिरेष
नरेन्द्र चित्र वर्षन्ति वैशिवनिताजनलोचनानि । कोशेन
सततमसगतिराहवेऽस्य दारिद्र्यमभ्युदयति प्रतिपार्थि-
वानाम् ॥ ७ ॥ कुरगाक्ष्या वेणी सुभग विपरीते रतिविधा-
वधिस्रन्वे बद्धा किमपि निवन्तन्तीमरिमट. । अधिग्रीवं
युष्मत्प्रचलकरवालव्यतिकर खरन्नेव स्तब्धो विरमति परी-
रम्भग्भसात् ॥ ८ ॥ कृपाणीय काली तव रिपुयश.क्षीर-
मनिशं पिबन्ती व्यालीव प्रथयति तथा दुर्विषहताम् ।
यथा दूरादस्याः स्फुरणमपि समाव्य सहसा विमुह्यन्ति
प्रौढप्रहरणभृतोऽपि प्रतिभटाः ॥ ९ ॥ राजन्वीर विपक्ष-
लक्षसुवधूवैधव्यदीक्षागुरु सङ्ग। माधवकर्म्ममर्मकुशलः प्रत्यर्थि-
पृथ्वीभुजाम् । प्राणानर्घ्यमणेर्मयापहरणं नाकारि कितु
प्रभो भ्रूभङ्गेन तवेति दिव्यमपिबत्कोशं स खङ्गः परः ॥१०॥
अखासिर्भुजग स्वकोशविवराकृष्टः स्फुरत्कृष्णिमा कम्प्रो-
न्मीलद्दंराललीलवलनेस्तेषा भिये भूभुजाम् । सङ्ग्रामेषु
निजाङ्गुलीमयमहासिद्धौषधीवीरुध. पर्वासु विनिवेश्य जाङ्गु-
लिकता कैनीम नालम्बिता ॥ ११ ॥ भूसून्मौलितटीषु
दर्शितसमारम्भोऽयमम्भोधरस्त्वत्खड्ग प्रतिपक्षपक्षपटल
प्रक्षालयन्धारया । युद्धक्रुद्धविरुद्धसिन्धुरगलद्रण्डस्थलप्रस्ख-
लन्मुक्ताभिः करकाभिराशु समरे क्षोणीतले वर्षति ॥ १२ ॥
आश्चर्य समराम्बरे रिपुयशश्चन्द्रप्रतापाकर्यो• सर्वग्रासमयं
सहैव तनुते त्वत्खङ्गराहु कथम् । कि चान्यत्परलोकनि-
र्भय भवास्तस्मिन्महत्युत्सवे गृह्लाति त्यजतामकम्पहृदयो
राज्ञा समस्ता भुवः ॥ १३ ॥ देव त्वत्करपद्मकोशविगलन्म-
त्तालिमालामसिवैधव्योद्भटधूमकेतुमपरे त्वद्वैरिवामभ्रुवाम् ।
वेणी कालवधोः प्रतापहुतभुग्धूम च केचिज्जगुर्मन्ये काल-
भुजंगलोलरसना हालाहलव्यापृता ॥ १४ ॥ सिक्ताया वीर-
कण्ठस्थलबहलगलद्रक्तधाराम्बुवर्षैर्माद्यन्मातंगकुम्भोद्दनवि-
लुलितैर्मौक्तिकैः पुष्पितायाम् । सङ्ग्रामोद्यानभूमौ तुरगखुर-
पुटोत्खातकृष्टस्थलाया जातं ते खङ्ग-वल्ल्याः फलमतुल-
रसास्वादहृद्यं जयश्री. ॥ १५ ॥ सर्पीवैषा कृपाणी तव
भुजभुजगासगत. सगगदौ सद्यःकृत्तारिखण्डच्युतरुधिररजो-
योगमभ्यावहन्ती । दृप्यद्वानाम्बुपूरोत्कटकरिघटनागण्ड-
शैलेषु लीना सूते सद्यः किलाब्दान्यतिविमलगलद्भरिमुक्ता-
च्छलेन ॥ १६ ॥ लेखन्ती व्योमगर्भ दिशि विदिशि मुहु-
र्निष्पतन्ती हरन्ती शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं

पादटिप्पणी:

१ अन्तरिक्षचारिणा दृष्टौ प्रतिबन्धक्तित्यर्थः २ तत्रत्यान्प्राणिन इत्यर्थ ३ वायोरप्यधिकवेग इत्यर्थ ४ जगतो धर्मैकसाधनकारिणा ५ वेगातिशयत्वाद्विरन्तरमूर्धचरणनिक्षेपव्याजात् ६ भुबम्; पक्षे,- धेनुम् 'गोब्राह्मणानलान्भूमिं गोष्ठिष्ठ न पदा स्पृशेत्' इति निषेधादिति भाव.
१ वक्रविलासा • २ प्रकटकुलगतिरित्यर्थ ३ ग्रन्थिम्. ४ विषवैद्यता

खड्गप्रशंसा, राजयात्रावर्णनम् १२५

वर्धयन्ती । यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोप- पकण्ठं प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमावि- ष्करोति ॥ १७ ॥ चूडापीडाभिरामः स्फुरदुरुमणिभिर्मुद्रि- ताकल्पभूतैर्दोर्दण्ड. कुण्डलीन्द्रस्तव जयति जगन्मण्डलाधार एष । क्षीराब्धान्यारिकीर्तिं सपदि समुदिता पातुकाम. प्रसर्पञ्जिह्वासुच्चैः किमेना चपलयति चमत्कारिणी खड्ग- धाराम् ॥ १८ ॥

राजयात्रावर्णनम्

प्रयाणे तव राजेन्द्र मुक्ता वैरिदृगीदृशाम् । राजहंस गति. पद्यामाननेन शशिद्युतिः ॥ १॥ दिङ्नारीणा स्पृशत्यर्को रज.सन्दूषिताम्बरम् । प्रस्थाने नृपते सन्तोऽपधैर्य्यान्ति रजो- वृताः ॥ २ ॥ त्वद्वाजिराजिनिर्यूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गा भूरिभारभिया हर. ॥ ३ ॥ यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री । आर्द्रव्रणाधि- ष्ठितपृष्ठपीठमकर्मठं कूर्मपति चकार ॥ ४ ॥ अस्य प्रया- णेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि । कुर्वन्ति सीमन्त- शिखामणीना प्रेमाप्ररोहास्तमयं रजासि ॥ ५ ॥ यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममङ्कितम् । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्गीभवदङ्गता विधौ ॥ ६ ॥ त्वय्यागते किमिति वेपत एष सिन्धुस्त्वं सेतुंमन्थकृदतः किमसो बिभेति । द्वीपान्तरेऽपि न हि तेऽस्त्यवशवदोऽद्य त्वा राजपुंगव निषेधत एव लक्ष्मीः ॥ ७ ॥ त्वयि प्रच- लति प्रभो तुरगवल्गनासु स्फुरद्वरावलयधूलिभिः सकलमेव कीर्ण नभः । दिवाकरहयावली निरवलम्बसञ्चारतः श्रमा- पनयनाय कि वसुमतीमूर्ध्व गता ॥ ८ ॥ चोली चोली न तु कलयते गुर्जरा जर्जराङ्गी भूर्जाक्रान्त विशति विपिनं मालवी सालवीथीम् । नो सगीत रचयति मनागङ्ग वङ्गी कृशाङ्गी नाङ्गी रागं रहसि तनुते भूपते त्वत्प्रयाणे ॥ ९॥ देव त्वद्विजयप्रयाणविलसत्सद्वाजिराजिव्रजक्षुण्णक्ष्मातललीन- पासुपटल्याप्तोऽनिमेषेक्षणः । सुत्रामा बहु मन्यते फणिपति पातालमूलस्थितं सोऽप्युद्दामकरीन्द्रदुर्धरभरक्लान्तः सहस्रे- क्षणम् ॥१०॥ देवे दिग्विजयोद्यते धृतधनुःप्रैल्यर्थिसीमन्तिनी- वैधव्यव्रतदायिनि प्रतिदिशं क्रुद्धे परिभ्राम्यति । आस्ता- मन्यनितम्बिनी रतिरपि प्रायो न पौर्षं करे भर्तुर्धर्तुर्मदा- न्मदान्धमधुपौनीलीनिचोलं धनुः ॥ ११ ॥ देव त्वद्विज्यो- द्यमे हरिखुरत्रोतक्षतक्ष्मातलान्म्रोद्धृते रजस. परागपटले दिक्कक्रमाक्रामति । अक्ष्णा पैङ्क्षशतानि निन्दैति निजं हस्तद्वयं निन्दैति स्वा निन्दैल्यनिमेषता परि- पतद्वाष्पाम्बुधारो हरि. ॥ १२ ॥ युष्मद्वाजिजिताजिराजि- चरणक्षेपक्षतैर्मोदिनीं मङ्गु क्षोणिमवेक्ष्य सिञ्चति धनेर्भर्ता नदीना जलैः । आशामण्डलमुत्कटध्वजपटैर्वातं तनोति द्रुतं चञ्चच्चञ्चलरेणुगन्धिनमिवानेतुं दिवं गच्छति ॥ १३ ॥ धूर्ताधोरण देव वासवकरी पङ्केन लितः कथं नीतः स्वर्गे- तरगिणीजलमसो तन्नास्ति पङ्क. कुतः । सर्वाशाविजयो- त्सवं प्रति कृतोद्योगे धराधीश्वरे स्फायन्ते करिकर्णताल- पवनोद्धूताश्मभूरेणवः ॥ १४ ॥ देव त्वद्धजवाजिपत्रैपंटल- ग्रोद्भूतधूलीभरैराकाशं वेंसैवायते खैरंकरः सोमायते निष्प्र- भ । कि चाधो भरकुण्ठित. फणवता नाथः स कूर्मी- यते कूर्मो भोर्र्पतीयते किमपर रौत्रीयते वासरः ॥ १५ ॥ वेल्लत्पक्षति राजहंसयुवतिभ्रूव्यमृणालावलिभ्राम्यत्खट्पदभूरि- झाङ्कतिपतच्चैकीकृतकेङ्कति । पर्यस्रन्नृपपक्षसङ्गति पतद्दिग्व- र्तिवेगस्थिति प्रस्थानध्वजवातलोलमजनि स्वर्गापगायाः पयः ॥ १६ ॥ सत्यं त्वं पुरुषोत्तमोऽसि नियतं तत्रापि रामो. भवान्प्रस्थाने तव लज्जयेव नमति व्यक्तं यतो मेदि- नी । द्राक्पूर्वाचलपश्चिमाचलकुचावावृण्वती प्रोच्छलडुङ्गा- रावचलत्तयोधिलहरीचेलावञ्चलैश्चञ्चलैः ॥ १७ ॥ प्रस्थाने तव भूमिपाल वसुधा जाता रजोदोषला त्वद्विद्वारपयो- धरोऽञ्जनवृतं वर्षत्यधोऽश्रूदकम् । झञ्झाश्वासहिमापमौक्तिक- गणान्ग्रामाः किरन्ति द्विषत्सञ्चोत्पात इति प्रतापदहने यास्यन्ति ते शत्रवः ॥ १८ ॥ एतद्वत्तासिघातश्ववदसृगसुहृ-

१ राजकुमारा २ सेतुश्च मन्थश्चेति. ३ इन्द्रः ४ शत्रव . ५ यदि मम भर्ता कामो धनुर्धारयिष्यति तदाय राजा मद्भर्तारं धनुर्धरत्वाद्धनिष्यतीति भयात्स्वभर्त्रा धनुर्नाग्राहयदिति भाव .

१ अश्वः २ समूह ३ दशशतानि. ४ यतश्चैतावद्रज. समुच्छलित येन तस्य सहस्रनेत्राणि तिरोहितानि बभूवुस्तेन यदि मम नेत्रसहस्र नाभविष्यत्तदा चैतावद्रजोनेकरखत्र नापतिष्यत्ततो नेत्रसहस्र मम किमर्थमभवदिति ५ सत्यपि नेत्रसहस्रे तत्तिरोधानाय यदि हस्तसहस्रमप्यभविष्यत्तदा हस्तै सर्वनेत्राच्छादन कर्तु शक्यमतो मम पाणिद्वय व्यर्थमेवेति ६ यत्रो मया देवतवादननिमेषता पक्ष्मपाताभाव किमिति प्राप्त यस्माच्चक्षुषो रज पाततोऽपि नाभविष्यदत स्वामनिमेषता निन्दतीति भाव ७ रज कणससर्गार्द्धरिपतन्ती निर्गच्छन्ती नेत्रेभ्यो बाष्पाम्बुधाराश्रुजलप्रवाहो यस्य स ८ इन्द्र ९ अश्विनीकुमारै वैद्यम् १० वाहनम् ११ त्वद्वाहिन्येतावती विपुलासीद्यत्तत्सम्मर्दादाकाशमपि रजोमय बभूवेति भाव. १२ चण्डाशु १३ यथा कूर्म स्व शरीर संकोचयति तथा शेषोऽपि त्वद्वाहिनीभरेण संकुचितशरीरोऽभूदिति भाव . १४ सकुचितशरीरोऽपि प्रलम्बकायोऽभूदित्यर्थ . १५ यत्तस्त्याइक्तवाहिन्या धूलीपटल समुच्छलित येन दिनमप्यन्धकारवशाद्रात्रिरेवाभवदिति भाव.. १६ चक्रवाकी

१२६सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

दृशैसान्द्रेन्धनैतद्दोरुद्दामप्रतापज्वलदनलमिलद्धूमभूमभ्रमाय । एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीदेतच्चेसी-रवाजिब्रजखुरजरजोजाजिंरङ्गिस्थलीषु ॥ १९ ॥ तत्तद्दिग्जैत्रयात्रोद्धुरतुरगखुरोद्गाढतैरन्धकारं निर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः । भूगोल्लंघायमैयामर्यगणितविदुज्ञेयकायो भिँयाभूदेतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः ॥ २० ॥ गान्धारा गुप्तदारास्त्वयि चलति गलद्वाष्पधारा विहारा रागखासान्नगाराः क्षितिपकुलमणे गुर्जरा जर्जराशाः । तैलङ्गास्त्यक्तलिङ्गास्त्रिभुवनतिलक क्लिष्टवङ्गा कलिङ्गा मोरङ्गा मुक्तकङ्गाः सपदि समभवन्वीर गङ्गाविहङ्गाः ॥ २१ ॥ काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मीर्श्रीका काश्चिदन्तर्दिश इव दधिरे दाहमुद्धान्तसत्त्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवाना मशिवमिति पुरोभावि नार्यः शशंसुः ॥ २२ ॥ जाने युष्मत्प्रयाणे क्षितितिलक रजोयोगदोषादशेषा दिग्घोषाः क्लान्ति सद्यस्त्वदरिनृपवधुनेत्रनीरापगासु । सगम्य त्वत्प्रतापैस्तदनु किमु दधुर्दोहनं देव तासा प्राची प्रातः प्रसूते यदिदमुरुमहोऽखण्डमार्तण्डबिम्बम् ॥२३॥ घूर्णन्ते तूर्णमेतत्कुलधरणिभृतो दिग्द्विपा दिग्वि दिक्षु क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमृदितो मर्मणा कूर्मराजः । प्रस्थाने यस्य गर्जत्करटिघनघटास भ्रमय्यच्चदुर्वीमुर्वी दर्वी-करेन्द्रः कल्पयितुमुदितश्चायमार्त्ति बिभर्त्ति ॥ २४ ॥ नृत्यत्खङ्गाजिराजिप्रसरखुरपुटप्रोद्धतैर्धूलिजालैरालोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते । विश्रान्तिं कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोकाः क्रन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः ॥ २५ ॥ इन्द्रः प्रक्षुब्धचित्तो दिशि दिशि सकलान्दिक्पतीन्सावधानान्कुर्वन्वज्राच्छपाणिः सुरवरवलिता देवसेना निगृह्य । स्वर्गद्वारे यदीयोद्धतबलनिहतप्रौढढक्कानिनादं श्रुत्वा तिष्ठन्नकम्पत्कुचकलशतटीकिंनरीगीयमानः ॥ २६ ॥ आजौ त्वद्वाजिराजिप्रखरखुरतरन्यासलीलामिरुर्व्या दीर्णाया देव निर्यन्नविरलमवनीपाल पातालवह्निः । अश्रीयाद्विश्वमेव प्रतिनृपतिवधूनेत्रधाराम्बुधारावारा यद्येनमारादरिकुलदमन द्राङ् न निर्वापयेयुः ॥ २७ ॥

पताका

भयेन कृष्णान्यरुणानि रागात्पाण्डूनि कान्तादिवियोगभाजाम् । द्विषा मनांसि ध्वजकैतवेन लोलानि भोस्त्वा नृप संश्रयन्ति ॥ २८ ॥

दुन्दुभिः

गङ्गाम्भसि सुरत्राण तव निःसाणनिःस्वनः । ज्ञातीवारिवधूर्वर्गगर्भपातनपातकी ॥ २९ ॥ ब्रह्माण्डं प्रविखण्ड्य भूधरगुहासुन्तान्हरीन्बोधयन् गर्भान्वैरिवधूव्रजस्य नृपते निष्पात्य हा पातकी । कीलालं परिशोष्य च प्रतिभटाना तेजसा तेऽद्भुतं शोढुं विष्णुपदं स्पृशत्यधिपयोराशि प्लुतो दुन्दुभिः ॥ ३० ॥ पौरीन्द्राणा धुरीणैरवनिधरगुहागतैः प्रोच्छलद्भिः स्वापभ्रशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः । त्वत्प्रस्थानान्तरुद्यन्मलयजलधरध्वानधिक्कारधीरो घुष्टक्षीराम्बुतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः ॥ ३१ ॥

गवाक्षविलोकनम्

आलोकमागं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्य । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ ३२ ॥ प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवी ततान ॥ ३३ ॥ विलोचन दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसनिकर्ष ययौ शलाकामपरा वहन्ती ॥ ३४ ॥ जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्ना न बबन्ध नीवीम् । नाभिमविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ३५ ॥ अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुनिमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ३६ ॥ स्तनं धयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती । सप्रस्रुता या पदवी स्तनाभ्या सिषेच काचित्पयसा गवाक्षम् ॥ ३७ ॥ अभिवीक्ष्य सौमिकृतमण्डनं यैती. कररुद्धनीविगलदंशुकाः स्त्रिय. । दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः ॥ ३८ ॥ रमसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः । परिवर्तित्ताम्बक्युगाः समापतन्र्वलयीकृतश्रवणपूरकाः स्त्रियः ॥ ३९ ॥ व्यतनोदपास्य चरणं प्रसाधिकीकरपल्लवाद्वसवशेन काचनं । द्रुतयावकैकपदचित्रितावनि पदवी गतेव गिरिजा हरार्धताम् ॥ ४० ॥ व्यचलन्विशङ्कट कटीर कस्थली शिखरस्खलन्मुखर मेखलाकुलाः । भवनानि तुङ्गतपनीयसङ्क्रमक्रमणात्कणत्कनकनूपुराः स्त्रियः ॥ ४१ ॥ करयुगमपद्ममुकुलापवर्जितैः प्रतिवेश्म लापकुसुमैरवाकिरन् । अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियकथाङ्गमञ्जना ॥ ४२ ॥ नलिनान्तिकोपहितपल्लवश्रिता व्यवधाय चारु मुखमेकपाणिना । स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा ॥ ४३ ॥

१ वेणव. २ सेनामुखम्. ३ रणभूमिषु. ४ उच्छृङ्खल. ५ कपटम्. ६ गणितशास्त्रोक्तेनैव. ७ ज्योति शास्त्रप्रमाणक यद्राहोर्भूच्छायात्मकं तदेतत्कीर्तिचन्द्रमियेत्युत्प्रेक्षा.
१ 'सुलतान' इति पदस्य शोधन सुरत्राण इति. २ सिंहानाम्. ३ अर्धम्. ४ गच्छन्ती.