भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 129, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 129
११४सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

राजाद्भुतकनकमयस्तावकीनप्रतापादह्माण्डानां समूहो द्रव इव भवितेत्येव संभाव्य यत्नात् । तस्यापि प्लावनाथं जलनिधि-निकरे व्यर्थतामत्र याते देव त्वद्वैरिनारीनयननयनजैर्निर्ममे नीरधिर्न ॥९॥

श्रीकर्ण प्रौढतेजाः प्रबलगिपुबलासद्यसतापपक्षो नाय श्रीमत्प्रतापो जगति विलसति श्रीमहोराज कितु । मन्येऽहं कौशिकस्यानुपमितमहसा नूतनस्वर्गसृष्टावुत्कृष्टः सृष्ट एष प्रखरतरकरो भास्कगेऽसौ द्वितीयः ॥ १० ॥

कर्णाटवसुंधराधिपः

मागाः प्रत्युपकारकातरधिया वैवर्ण्यमाकर्ण्य श्रीकर्णाटवसुंधराधिपसुधासिक्तानि सूक्तानि नः । वर्ण्यन्ते कति नाम नार्णवनदीदावाग्निवन्ध्याटवीसंध्यामारुतनिर्झरप्रभृतयस्तेभ्यः किमात्तं मया ॥ ११ ॥

कलिङ्गेश्वरः

आयुर्दानमहोत्सवस्य विनतक्षोणीभृता मूर्तिमान्विश्वासो नयनोत्सवो मृगदृशा कीर्तेः प्रकाशः परः । आनन्दकेलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैष निकेतनं विजयते वीरः कलिङ्गेश्वरः ॥ १२ ॥

धम्मिंल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः । एकोऽपि त्रिकलिङ्गभूभितिलक त्वत्कीर्तिराशियौ नानाखण्डनता पुरंदरपुरीवामभ्रुवा विग्रहे ॥१३॥

कल्याणदासः

कीर्तिस्वर्गत रंगिणी हिमगिरिर्विद्यानटीरङ्गमूर्लावण्यामृतभाजनं रसिकतावलीरसालद्रुमः । कान्तापाङ्गमृगस्थली तरुणतालक्ष्मीविलासाम्बुजं जीयाद्विश्वविभूषण नरपतिः कल्याणदासामिधः ॥ १४ ॥

काबिलेन्द्रः

विस्फार्य व्योमगङ्गाबलदुरुुलहरीकैतवात्केसरालीरुच्चैर्मस्तिष्कदेशे हिमकरकपटान्मण्डलीकृत्य पुच्छम् । दिङ्गारस्थलम्भस्तव विशदयशःकेसरी काबिलेन्द्र ब्रह्माण्डारण्यवीथीगिरिगहनदरीसम्ध्रमी बंभ्रमीति ॥ १५ ॥

वैलामुल्लङ्घ्य हेलादलितधरणभृद्वाहिनीकोटिपूरैरुद्वेल्लत्काबिलेन्द्रप्रबलजलनिधिः प्लावनायोज्जजृम्भे । सान्नम्रा मेदिनीयं प्रबलभुजबलप्रौढतच्चन्द्रहासज्वालाभिः सततं चेन्न दहति वडवावीतिहोत्रोवघेता (?) ॥ १६ ॥

कार्तवीर्यः

काष्ठानुषङ्गात्परिवर्धमाने जाग्रत्प्रतापज्वलने त्वदीये । श्रीकार्तवीर्य प्रसंभ पतन्ति प्रत्यर्थिपृथ्वीपतयः पतङ्गा ॥१७॥

कुसुमेन्द्रसाहिः

वीर श्रीकुसुमेन्द्रसाहिनृपतेः प्रौढप्रतापो वरः कन्या कांचन मालवक्षितिपतेः साम्राज्यलक्ष्मीरियम् । तस्या वेषकरग्रहस्य समये तत्कुम्भसस्थापनं कर्तु मण्डपबन्धनं विरचितुं विप्रा वयं प्रेषिताः ॥ १८ ॥


कृष्णः

श्रीकृष्ण त्वत्प्रतापेन प्रतप्ताङ्गीर्दिगङ्गनाः । दिग्गजा वीजयन्त्येव कर्णतालैः पुनःपुनः ॥ १९ ॥

मन्येऽरण्ये कुलगिरिगुहागहरे पर्यटन्ती विद्धा दर्भैः किमपि चरणे वासुदेवस्य कीर्तिः । इन्दौ कुन्दे कुमुदसुकुले चामरे चन्दने वा दत्त्वा दत्त्वा मृदुनि पुरतः पादमेषा प्रयाति ॥ २० ॥

क्षीरक्षालितपाञ्चजन्यकिरणश्रीगर्वसर्वंकषाः श्रीकृष्णार्जुनमारथेडसुररिपो त्वत्कीर्तिविस्फूर्तयः । कैलासन्ति हिमाचलन्ति विकसत्कुन्दन्ति कन्दन्ति च क्षीरोदन्ति हलायुधन्ति विबुधाहारन्ति हीरन्ति च ॥ २१ ॥

त्वद्वाहूद्भूतधूल्यः करिकरनिकरैः सीकराश्च प्रयुक्ता व्योम व्याप्य समन्ताद्यदुमुकुटमणे तत्र पङ्कोऽद्रुतोऽभूत् । आगच्छद्भिः सुरैः क्ष्मा तव भजनकृते स्फाटिकीभिः शिलाभिर्बद्धः पन्थास्तदानी सुरसरिदिति तं मानवा मानयन्ति ॥ २२ ॥

गूर्जराधीशः

कालिन्दि ब्रूहि कुम्भोद्भवं जलविरहं नाम गुह्यामि कस्माच्छ्रोत्रेर्मं नर्मदाऽहं त्वमपि कथमहो मत् सपत्न्याश्च नाम । मालिन्यं ब्रूहि किं ते प्रविरलविगलत्कज्जलैर्मांलवीना नेत्राम्भोभिः किमासा समजने कुपितो गुर्जराणामधीशः ॥२३॥

चोलेन्द्रः

त्वत्खङ्गखण्डितसपैनविलासिनीना भूषाभवन्त्यभिनवा भुवनैकवीर । नेत्रेषु कङ्कणमथोरुषु पत्रवली चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥ २४ ॥

सिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकैस्तत्रासोल्लासलीला. किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायाल्पन्त्यः पिकनिनदधिया ताडिताः काकलोकैरित्थं चोलेन्द्रसिंह त्वदरिमृगदृशा नाप्यरण्य शंरण्यम् ॥ २५ ॥

जगद्देवः

चक्र. पप्रच्छ पान्थं कथय मम सखे नास्ति स क्वापि देशो वस्तु नो यत्र रात्रिर्भवति भुवि खगायैति स प्रत्युवाच । नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाम्ना सूर्येऽनन्तर्हितेऽस्मिन्कतिपयदिवासैर्वासराद्वैतसृष्टिः ॥ २६ ॥

जनकः

ज्याघातः कार्मुकस्य श्रयति करतलं कण्ठमोकारनादस्तेजो भाति प्रतापाभिधमवनितले ज्योतिरात्मीयमन्तः । राज्यं सिंहासनश्रीः शममपि परमं वक्ति पद्मासनश्रीर्यैषां ते यूयमेते निमिकुलकुमुदानन्दचन्द्रा नरेन्द्राः ॥ २७ ॥


पादटिप्पण्यः (Footnotes)

१ भूतकार.
२ स्नानम्
३ केशचूडे
४ बलात्कारेण
१ नर्मदायाः समुद्रस्य च संवादोऽयम्
२ यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्ते कोपात्साकूतमिदं नर्मदाया उत्तरम्-'हे कुम्भोद्भव अगस्त्यमुने' ब्रूहि इति
३ शत्रु
४ जलऋणम्, पक्षे,-वलयम्
५ पत्रयुक्ता, पक्षे,-पत्रिकारचना
६ तिलयुक्त क जलम्; पक्षे,-ललाटभूषणम्.
७ आश्रयस्थानम्