भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 137, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 137

१२२ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्


भूणालमौलेरुद्वेलदुग्धवीचीबहलधवलिमाबद्धकक्षाः कटाक्षाः ॥ १६६ ॥ बीजं चिन्तामणिश्चेत्कनकगिरितटीजन्मभूमिर्भवेच्चेत्सेक्री चेत्कामधेनुर्विधिकुलमखिलं मूलसस्कारञ्चेत् । वित्तेशो रक्षिता चेत्सरसिजनिलया मञ्जरी चेत्तदा स्याद्राम क्ष्मापालमौले तव भुजलयता कल्पवृक्षः सदक्षः ॥ १६७ ॥ मन्ये मृत्योः सपत्नी जगति सुविदिता कालकूटस्य कन्या धात्री कर्कटकस्य स्मरणभयकरी कि च वज्रस्य माता । कल्पान्ताग्नेः पुरन्ध्री प्रभवति भगिनी भीषणा कालरात्रेर्दूतीयं ते कृपाणी सुगपुरसुदृशा रामचन्द्रक्षितीश ॥ १६८ ॥

रामजामः

क्षुभ्यत्प्रत्यर्थिपृथ्वीपतिहृदयसरस्तोषशोषं दधाने त्वद्दोषणा सुप्रतापे तपति बहुगुणे रामजाम क्षितीन्द्र । सूर्यो मित्रत्वमायात्समजनि दहनः कृष्णवर्त्मा निमज्जन्पारावाराश्मपूरे निवमति वडवावह्निरन्यत्किमु द्याम् ॥ १६९ ॥

रामनाथः

करकम्पितखड्गयष्टिभीमे रणेसनाहितरामनाथवीरे । अरिभूभृदमर्त्यसुन्दरीणामचलन्दक्षिणवामलोचनानि ॥ १७० ॥

रुद्रः

कतिपयदि<sup></sup>वसैः क्षयं प्रयायात्कनकगिरिः कृतवासरोवसान<sup></sup> । इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे ॥ १७१ ॥ कवीन्द्राणामास-प्रथमतरमेवाङ्गणभुवश्चलद्भृङ्गासङ्गाकुलकरिमदामोदमधुरा । अमी पश्चात्तेषामुपरि पतिता रुद्रनृपते कटाक्षा क्षीरोदप्रसरदुरुवीचीसहचराः ॥ १७२ ॥ भूयोभूयस्त्वदरिदलनाद्धासनाशासकाशाद्यातैर्वार्तैरहह तरणेरुल्बणेषु व्रणेषु । साय साय लणणमलिठस्पर्शबाधासमाधावस्यालस्याकलितवपुषो रुद्र कः स्यादुपायः ॥ १७३ ॥ चन्द्रोऽनेन कलङ्कितो बत वने रामोऽमुना वञ्चितः कि चानेन कुलाङ्गनानयनयोर्लावण्यलक्ष्मीर्हता । सन्नानामभिलाषकस्य भवतः श्रीरुद्रचन्द्र प्रभो तन्मन्ये हरिणस्य हन्त हननायाखेटकोपक्रमः ॥ १७४ ॥ रुद्रस्यापि दिगम्बरस्य कृपया स्वर्गेऽमराः कोटिशो याचन्ते न कदापि काञ्चनमहो शश्वत्सदा भुञ्जते । एकोऽहं वसुधातले न च पुन स्नेहस्य पात्रं सदा याचिष्ये कथमन्धभूपतिमतः श्रीरुद्रभूमीपते ॥ १७५ ॥

रूपनारायणः

अये यदि समीहसे परपुरावरोधं सदा समाकलय मङ्गचः किमपि रूपनारायण । प्रतीपन्नृपनागरीनयननीरकल्लोलिनीसमुत्तरणचातुरी तुरगराजमध्यापय ॥ १७६ ॥


रूपमणिः

श्रीमद्रूपमणे गुणेन यदयं हीनोऽपि नीतो गुरुर्गाढ गौरवमादरेण भवता तेनास्ति शंभुर्भवान् । यत्तेनाप्यऋजुकलङ्कविकलो दोषाकरोऽपि स्फुटं विप्राधीशपदे विधाय विधृतश्चन्द्रोऽनिशं मस्तके ॥ १७७ ॥

विक्रमार्कः

तत्कृतं यन्न केनापि तद्दत्तं यन्न केनचित् । तत्साधितमसाध्यं यद्विक्रमार्केण भूभुजा ॥ १७८ ॥ साग्मवत्त्वा विहता नवका विलसन्ति चरति नो कङ्क । सरसीव कीर्तिरीश गतवति भुवि विक्रमादित्ये ॥ १७९ ॥ हस्ती वन्यः स्फटिकघटिते भित्तिभागे स्वबिम्बं दृष्ट्वा दृष्ट्वा प्रतिगज इति त्वद्विषा मन्दिरेषु । दन्ताघाताद्दलितदशनस्तं पुनर्वीक्ष्य सद्यो मन्दं मन्दं स्पृशति करिणीशङ्कया विक्रमार्क ॥ १८० ॥ कीर्तिस्ते दयिता तदीयजठरे लोकत्रयं वर्तते तस्मात्त्वं जगतः पिता पितृधनं येनार्थिना त्वद्धनम् । वीर श्रीवर विक्रमार्क भवतस्त्यागं न मन्यामहे कस्त्यागः स्वकुटुम्बपोषणविधावर्थव्ययं कुर्वतः ॥ १८१ ॥

विग्रहराजः

श्रुते संप्रति चाहुवाणतिलकः शाकंभरीभूपतिः श्रीमान्विग्रहराज एष विजयी सतानजानात्मनः । अस्माभिः करदं व्यधायि हिमवद्विन्ध्यान्तरालं भुवः शेषस्वीकरणाय मास्तु भवतामुद्योगशून्यं मनः ॥ १८२ ॥

वीरभानः

लङ्काधामनि वीरभानुनृपतेः प्रेक्ष्य प्रतापोदयं प्रत्यागारमवीरनीरजदृशो भूयो हुताशभ्रमात् । क्षुभ्यद्भाणि विधूतपाणि विगलन्मुक्तामणि प्रस्खलद्बाष्पश्रेणि विलोलवेणि दयितं कण्ठस्थले बिभ्रति ॥ १८३ ॥ भेरीझाङ्कृतिमिस्तुरगनिनादैः कुम्भीन्द्रकोलाहलैः प्रस्थाने तव वीरभान दलितं ब्रह्माण्डभाण्डोदरम् । आधाय ज्वलति प्रतापदहने रङ्गैः पुनर्वेधसा तारानायकतारकासुरसरिद्वयाजादिवायोजितम् ॥ १८४ ॥

वीरवरः

कामो वामदृशा निधिनंयजुषा कालानलो विद्विषा खःशाखी विदुषा गुरुर्गुणवता पार्थो धनुर्धारिणाम् । लीलावासगृहं कलाकुलजुषा कर्णः सुवर्णार्थिना श्रीमान्वीरवरः क्षितीश्वरवरो वर्वर्ति सर्वोपरि ॥ १८५ ॥ जम्बूद्वीपगृहप्रकाशनकरी स्नेहक्षमाधायिनी नीत्योत्तीर्णमपीततिः खलजनश्रेणीपतङ्गान्तकृत् । गाजीन्द्राकबरक्षितीश्वरमनश्रान्तान्धकारापहा यस्य क्षोणिपतेरराजदखिलं दीपोपमा लेखनी ॥ १८६ ॥

वीरसिंहः

वीरसिंहारिनारीणामञ्जनाक्ताश्रुबिन्दवः । उरोजे पतिता रेजुः सरोजे मधूपा इव ॥ १८७ ॥ यसोच्छिन्ना न वेदा मनसि सदयता दूषणानामभावो दक्षो दूरेऽणुदृष्ट्या जहति कठिनता दानशक्तिर्गिरिष्ठा । आधत्ते यश्च कुन्दं शिरसि


१ क्वचित् २ अल्पै.. ३ मेरु.. ४ नाशः ५ दानम् ६ व्याधः