भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

६८ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्

प्रज्ञे स्थिरत्वं भज । लज्जे तिष्ठ पराङ्मुखी क्षणमहो तृष्णे पुरः स्थीयता पापौ यावदहं ब्रवीमि धनिनं देहीति दीन वचः ॥ ६९ ॥ यो गङ्गामतरत्तथैव यमुना यो नर्मदा शर्मदा$^१$ का वार्ता सरिदम्बुलङ्घनविधौ यश्चार्णवास्तीर्णवान् । सोऽस्माक चिरमास्थितोऽपि सहसा दारिद्र्यनामा सखा त्वद्दानाम्बुसरित्प्रवाहलहरीमग्नो न संभाव्यते ॥ ७० ॥ दारिद्र्याद्ध्रियमेति ह्रीपरिगतः$^३$ सत्त्वात्परिभ्रश्यते$^२$ निःसत्त्वः$^४$ परिभूयते परिभवान्निर्वेद$^५$मापद्यते । निर्विण्णः शुचमेति शोकनिहतो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामार्मास्पदम्$^६$ ॥ ७१ ॥ शीतेनोद्धुषितस्य माषशिमिवचिन्तार्णवे मज्जतः शान्ताग्नि स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे । निद्रा काव्यवमानितेव दयिता सत्यज्य दूर गता सत्यान्नप्रतिपादितेव वसुधा न क्षीयते शर्वरी ॥ ७२ ॥ दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः । सत्त्व ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते पाप कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते ॥ ७३ ॥ सङ्ग नैव हि कश्चिदस्य कुरुते संभाव्यते नादरात्संप्राप्तो गृहमत्सवेषु धनिना सावज्ञमालोक्यते । दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपर षष्ठं महापातकम् ॥ ७४ ॥ चौरैर्भ्यो न भय न दण्डपतन त्रासो न वा भूपतेर्निःसङ्गं शयन निशासु गमनं दुर्गेषु मार्गेषु च । दारिद्र्य सुखमेव केवलमहो दोषद्वय वर्तते जाया निन्दति चाङ्गभोगसमये मुञ्चन्ति वै याचकाः ॥ ७५ ॥ वासश्चर्म विभूषण शवशिरो भस्माङ्गलेपः सदा भैको गौः स च लाङ्गलाद्यकुशलः सम्पत्तिरेतादृशी । इत्यालोच्य विमुच्य शङ्करमगाद्भाकर जाह्नवी कष्ट निर्धनिकस्य जीवितमहो दारैरपि त्यज्यते ॥ ७६ ॥ मद्गेहे मूषकीव मूषकवधूर्भूषकैव मार्जारिका मार्जारीव शुनी शुनीव गृहिणी वाच्यः किमन्यो जनः । इत्यापन्नशिशून्प्रसूनविजहतो दृष्ट्वा तु झिल्लीरवैर्हता तन्तुवितानसंवृतमुखी चुल्ली चिर रोदिति ॥ ७७ ॥ पीठाः$^७$ कच्छपवत्तरन्ति सलिले संमार्जनी मीनवद्दर्वी सर्पविचेष्टितानि कुरुते संत्रासयन्ती शिशून् । शूर्णार्यावृतमस्तका च गृहिणी भित्तिः प्रपातोन्मुखी रात्रौ पूर्णतडागसन्निभमभूद्राजन्मदीय गृहम् ॥ ७८ ॥ शीलं शातयति श्रुत शमयति प्रज्ञा निहन्त्यादर दैन्य दीपयति क्षमा क्षपयति व्रीडामपि ह्यस्यति । तेजो जर्जरयत्यपास्यति मति विस्तारयत्यर्थिता पुंसः क्षीणधनस्य किं न कुरुते वैरं कुटुम्बग्रहः ॥ ७९ ॥ दारिद्र्येण समीरितापि बहुशः कण्ठ समालम्बते कण्ठात्कष्टशतैः कथं कथमपि प्राप्नोति जिह्वातलम् । जिह्वाकीलककीलितेव सुदृढ तस्मान्न निर्यात्यसौ वाणी प्राणपरिक्षयेऽपि महता देहीति नास्तीति च ॥ ८० ॥ दृष्ट दुर्जनचेष्टितं परिभवो लब्धः समानाज्जनात्पिण्डार्थे धनिना कृत श्लडितं भुक्त कपालेष्वपि । पन्थामध्वनि$^१$ सप्रयातमसकृत्सुप्त तृणप्रस्तरे यच्चान्यत्र कृतं कृतान्त कुरु हे तत्रापि सज्जा वयम् ॥ ८१ ॥ आसे चेत्स्वगृहे कुटुम्बभरणं कर्तुं न शक्तोऽस्म्यहं सेवे चेत्सुखसाधनं मुनिवनं मुष्णन्ति मा तस्कराः । क्षेत्रे चेत्स्वतनु त्यजामि नरकाद्भीरात्महत्यावशान्नो जाने करवाणि दैव$^२$ किमहं मर्तुं न वा जीवितुम् ॥ ८२ ॥ मा भूजन्म महाकुले तदपि चेन्मा भूद्विपत्सापि चेन्मा भूद्दारि कलत्रमस्ति यदि तन्मा भूद्दयार्द्रं मनः । तच्चेदस्ति तदस्तु मृत्युरथ चेत्तस्यापि नास्ति क्षणस्तजन्मान्तरनिर्विरोधसदशदेशान्तरेऽस्तु स्थितिः ॥ ८३ ॥ यैः कारुण्यपरिग्रहान्न गणित. स्वार्थ. परार्थे प्रति यैश्चात्यन्तदयापरैर्न विहिता वन्ध्यार्थिना प्रार्थना । ये चासन्नरदुःखदुःखितधियस्ते साधवोऽस्त गताशङ्कः संहर बाष्पवेगमधुना कस्साम्रतो रुद्यते ॥ ८४ ॥ सक्तूञ्छोषयति द्रुतान्त्रतिकरोत्याक्रन्दतो बालकान्प्रत्यासिञ्चति कर्परेण सलिलं शय्यातृण रक्षति । धृत्वा मूर्ध्नि पुराणशूर्पशकलं शून्ये गृहे व्याकुला किं तद्यन्न करोति दुर्गतवधूर्देवे भृशं वर्षति ॥ ८५ ॥ दारिद्र्यक्षितिपः स मे निजपतिस्तस प्रसादद्भवाच्या जीवनमम्बर दश दिशो वासश्च देवालये । असद्वैरिणि लब्धसगतिरिति त्वय्याश्रये कुप्यता मद्बुत्ति विनियोजितास्तवदयः का नाम वृत्तिर्मम ॥ ८६ ॥ आसीत्ताम्रमयं शरीरमधुना सौवर्णवर्ण गत मुक्ताहारलताश्रुबिन्दुनिर्वहैनैःश्वस मे कल्पिता । स्वल्प स्वल्पमनल्पकल्पमधुना दीर्घे वयः कल्पितं स्वामिन्दुःख भवत्प्रसादवशतः किं कि न लब्धं मया ॥ ८७ ॥


दानप्रशंसा

अनुकूले विधौ देयं यतः पूरयिता$^३$ हरिः । प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ॥ १ ॥
यद्ददाति यदश्नाति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ २ ॥
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने । तत्ते वित्तमह मन्ये शेषमन्यस्य रक्षसि ॥ ३ ॥
त्याग एको गुणः श्लाघ्यः किमन्यैर्गुणराशिभिः । त्यागा-


पादटिप्पण्यः (Left Footnotes):
१ सुखदात्रीम्
२ न दृश्यते.
३ लज्जा प्राप्नोति.
४ लज्जा युक्त
५ खेदम्
६ स्थानम्
७ आसनानि

पादटिप्पण्यः (Right Footnotes):
१ गर्ते
२ दैवे
३ पूरणकर्ता

दानप्रशंसा-लोभनिन्दा६३
जगत्सु पूज्यन्ते पशुपाषाणपादपाः ॥ ४ ॥ भवन्ति नरका-विधिना वितीर्णः स प्रीतिदायो बहुमन्तुमर्हः ॥ २४ ॥
पापात्पाप दारिद्र्यसम्भवम् । दारिद्र्यमप्रदानेन तस्माद्दानपरोदानेन भूतानि वशीभवन्ति दानेन वैराण्युपि यान्ति नाशम् ।
भवेत् ॥ ५ ॥ ग्रासादर्थमपि ग्रासमर्थिभ्यः किं न यच्छसि ।परोऽपि बन्धुत्वमुपैति दानैर्दान हि सर्वव्यसनानि हन्ति
इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ ६ ॥॥ २५ ॥ तुरगशतसहस्रं गोगजाना च लक्ष कनककनरजत-
गौरवं प्राप्यते दानान्न तु वित्तस्य सञ्चयात् । स्थितिरुच्चैःपात्रं मेदिनी सागरान्ताम् । विमलकुलवधूना कोटिकन्याश्च
पयोदाना पयोधीनामधः स्थितिः ॥ ७ ॥ दरिद्रान्भर कौन्तेयदद्यान्नहि नहि सममेतैरन्नदान प्रधानम् ॥ २६ ॥ कामं
मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्यवाचः कतिचिदफलाः सन्तु लोके कवीना सन्त्येवान्या मधु-
किमौषधैः ॥ ८ ॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।रिपुकथाः संस्तवात्कामदोग्ध्र्यः । वित्त काम भवतु विफल
देशे काले च पात्रे च तद्दान सात्त्विकं विदुः ॥ ९ ॥दत्तमश्रोत्रियेभ्यः पात्रे दत्तर्भवति हि धनैर्धन्यता भूरिदातुः
उपार्जिताना वित्ताना त्याग एव हि रक्षणम् । तडागोदर-॥ २७ ॥ देयं भो ह्यघने धनं सुकृतिभिर्नो सचितं सर्वदा
संस्थाना परीवाह इवाम्भसाम् ॥ १० ॥ दानोपभोगवन्ध्याश्रीकर्णस्य बलेश्र विक्रमपतेरद्यापि कीर्तिः स्थिता । आश्चर्य मधु-
या सुहृद्भिर्या न भुज्यते । पुंसा यदि हि सा लक्ष्मीरलक्ष्मीःदानभोरहित नष्ट चिरात्सचितं निर्वेदादिति पाणिपादयुगल
कतमा भवेत् ॥ ११ ॥ किं तया क्रियते लक्ष्म्या या वधूरिवघर्षन्त्यहो मक्षिकाः ॥ २८ ॥
केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ १२ ॥
आयासशतलब्धस्य प्राणैभ्योऽपि गरीयसः । गतिरेकैव वित्तस्यलोभनिन्दा
दानमन्या विपत्तयः ॥ १३ ॥ दानेन श्लाघ्यता यान्तिलोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च । द्वेषक्रोधादि-
पशुपाषाणपादपाः । दानमेव गुणः श्लाघ्यः किमन्यैर्गुण-जनको लोभः पापस्य कारणम् ॥ १ ॥ लोभात्क्रोधः प्रम-
कोटिभिः ॥ १४ ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्तिवति लोभात्कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः
वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवतिपापस्य कारणम् ॥ २ ॥ लोभात्क्रोधः प्रभवति क्रोधाद्द्रोहः
॥ १५ ॥ यो न ददाति न भुङ्क्ते सति विभवे नैव तस्यप्रवर्तते । द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः
तद्द्रव्यम् । तृणमयकृत्रिमपुरुषो रक्षति सस्यं परस्यार्थे॥ ३ ॥ मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम् । लोभाविष्टो
॥ १६ ॥ दातव्य भोक्तव्य सति विभवे सञ्चयो ननरो हन्ति स्वामिन वा सहोदरम् ॥ ४ ॥ लोभेन
कर्तव्यः । पश्येह मधुकरीणा सचितमर्थ हरन्त्यन्येबुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमाप्नोति
॥ १७ ॥ मीयता कथमभीप्सितमेषा दीयता द्रुतमयाचित-परत्रेह च मानवः ॥ ५ ॥ लोभाविष्टो नरो वित्त वीक्षते न
मेव । त धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसर सहतेस चापदम् । दुग्धं पश्यति मार्जारो न तथा लघुडाहतिम्
यः ॥ १८ ॥ प्रापितेन चटूघाकुविर्डम्ब लम्भितेन बहुया-॥ ६ ॥ प्रायेण धनिनामेव धनलोभो निरन्तरम् । पश्य
चनल्जाम् । अर्थिना यदघमर्ज्यते दाता तन्न लुम्पति विल-कोटिद्वयोपेत लक्षीय प्रणत धनुः ॥ ७ ॥ लोभः सदा
म्ब्य ददानः ॥ १९ ॥ यत्प्रदेयमुपनीय वदान्यैर्दीयतेविचिन्त्यो लुब्धेभ्यः सर्वतो भय दृष्टम् । कार्याकार्यविचारो
सलिलमर्थिजनाय । याचनोक्तिविफलत्वविशङ्कात्रासमुर्च्छन-लोभाविमूढस्य नास्त्येव ॥ ८ ॥ सत्यप्रसमतपोभिः सत्यधनैः
चिकित्सितमेतत् ॥ २० ॥ अर्थिने न तृणवद्धनमात्र किंतुशास्त्रवेदिभिर्विजितः । लोभोऽर्बटं प्रविष्टः कुटिल हृदय
जीवनमपि प्रतिपाद्यम् । एवमाह कुशवज्जलदायी द्रव्यदान-किराटीनाम् ॥ ९ ॥ स्नेहोपपन्न इति पूर्णदशाविशेषशाली
विधिरुक्तिविदग्धः ॥ २१ ॥ पङ्कसंगरविगर्हितमहं नस्वमात्मनि वसुप्रकरं निधाय । लब्धोदये तमथ गृह्णति
श्रियः कमलममाश्रयणार्य । अर्थिपाणिकमलं विमल तद्वास-पद्मबन्धौ दीपा भवन्ति कलुषा बलवान्हि लोभः ॥ १० ॥
वेश्म विदधीत सुधीस्तत् ॥ २२ ॥ दानपात्रमधमर्णमिहै-यहुर्गामैटवीमटन्ति विकटं क्रामन्ति देशान्तर गाहन्ते
कमाहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैर्यदिगहन समुद्रमथनक्लेश कृषि कुर्वते । सेवन्ते कृपणं पतिं
कर्तु पारलौकिककुसीदमसीदत् ॥ २३ ॥ अर्थी विनैवार्थ-गद्घटासघट्टदुःसचर सर्पन्ति र्प्रधनं धनान्धितधियस्तलोम-
नयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः । मान्येन मन्येविस्फूर्जितम् ॥ ११ ॥

पादटिप्पणी (वाम भाग)पादटिप्पणी (दक्षिण भाग)
१ अनेकोपभोग्या २ नाश इत्यर्थः ३ तृणकृतकपटपुरुषाकार सस्यरक्षणार्थमुच्चप्रदेशे शृगालादिभयहेतुस्तृणादिघटित पुरुष स्थाप्यत इति प्रसिद्धम् ४ ऐश्वर्ये ५ भ्रमरीणाम्. ६ हास्यत्वम्१ तिष्ठतीति शेष २ धनुष प्रान्तभागद्वयम्, हृदयगुहायामित्यर्थ ३ लक्ष लक्ष्यम्, पक्षे,-लक्षसंख्या ४ गर्तम् ५ किराटो वणिग्जातिविशेषः ६ गहनाम् ७ अरण्यम् ८ युद्धम् ९ विलास·
७०सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

उदारप्रशंसा

शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता दशसहस्रेषु दाता भवति वा न वा ॥ १ ॥

अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति । दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥ २ ॥

रक्षन्ति कृपणाः पाणौ द्रव्यं कैव्यमिवात्मनः । तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ॥ ३ ॥

याचितो यः प्रहृष्येत दत्त्वा च प्रीतिमान्भवेत् । तं दृष्ट्वाप्यथवा श्रुत्वा नरः स्वर्गमवाप्नुयात् ॥ ४ ॥

आकारमात्रविज्ञानसंपादितमनोरथाः । ते धन्या ये न शृण्वन्ति दीनाः प्रणयिना गिरः ॥ ५ ॥

कर्णल्लङ्घिगुणोत्कर्षास्त्यागिनो धन्यनास्तथा । निष्फलान्न विमुञ्चन्ति मार्गणान्सुमुखे स्थितान् ॥ ६ ॥

देहि देहीति जल्पन्ति त्यागिनोऽप्यर्थिनोऽपि च । आलोकयन्ति रभसादस्ति नास्तीति न क्वचित् ॥ ७ ॥

युध्यन्ते पक्षिपशवः पठन्ति शुकसारिकाः । दातुं शक्नोति यो वित्तं स शूरः म च पण्डितः ॥ ८ ॥

अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ९ ॥

लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः । धन्यो बलिः स येनास्य भिक्षापात्रीकृतः करः ॥ १० ॥

कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ ११ ॥

दाता नीचोऽपि सेव्यः स्यान्निष्फलो न महानपि । जलार्थी वारिधिं त्यक्त्वा पश्य कूपं निषेवते ॥ १२ ॥

पुंसामुन्नतचित्तानां सुखावहमिदं द्वयम् । सर्वसङ्गविवृत्तिर्वा विभूतिर्वा सुविस्तरा ॥ १३ ॥

जरामरणदौर्गत्यव्याधयस्तावदास्ताम् । जन्मैव किं न वीरस्य भूयो भूयश्चपाकरम् ॥ १४ ॥

अपि नाम स दृश्येत पुरुषातिशयो भुवि । गर्वोच्छूनमुखा येन धनिनो नावलोकिताः ॥ १५ ॥

पृथ्वी पृथ्वीगुणा मान्याः सन्ति भूपा विवेकिनः । पराभवपदं यान्ति कस्मादुन्नतबुद्धयः ॥ १६ ॥

परिपूर्णगुणोपभोगगरिमोद्धार एव सः । त्रिजगत्स्पृहणीयेऽस्मिन् रुचिर्द्रविणेऽपि यत् ॥ १७ ॥

त्यागो गुणो वित्तवता वित्तं त्यागवता गुणः । परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना ॥ १८ ॥

नृणां धुरि स एवैको यः कश्चित्त्यागपाणिना । निर्माष्टिं प्रार्थनापांसुधूसरं मुखमर्थिनाम् ॥ १९ ॥

बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलम् । सत्त्वं चानयसंपन्नं तत्पुंस्त्वं न पौरुषम् ॥ २० ॥

अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः । यदुपक्रियमाणोऽपि प्रीयते न विलीयते ॥ २१ ॥

सैवं परं न विनश्यति तैनुरपि या श्रीर्निवेशिता सत्सु । अवशिष्यते हिमांशोः सैव कला या स्थिता शंभौ ॥ २२ ॥

कियती पक्षसहस्री कियती लक्षापि कोटिरपि कियती । औदार्योन्नतमना रत्नवती वसुमती कियती ॥ २३ ॥

प्रत्युपकुर्वत्पूर्वं कृतोपकारमपि लज्जयति चेतः । यस्तु विहितोपकारादुपकारः सोऽधिको मृत्योः ॥ २४ ॥

जीवञ्जीवयति हि यो ज्ञातिजनं परिजनं च सुहृदश्च । तस्य सफलं गृहश्रीर्धिगनुपजीव्यां धनसमृद्धिम् ॥ २५ ॥

यच्छल्लमपि जलदो वल्लभतामेति सर्वलोकस्य । नित्यं प्रसारतिकरः सवितापि भवत्यचक्षुष्यः ॥ २६ ॥

नासौ यत्केनचिदपि मनोरथा अपि यतो निवर्तन्ते । तद्यदि न लभ्यतेऽन्यन्मनस्विन किमभिमानफलम् ॥ २७ ॥

घटन विघटनमथवा कार्याणां भवति विधिनियोगेन । उचितेऽनुचिते कर्मणि वृत्तिनिवृत्ती समादत्ते ॥ २८ ॥

कल्पस्थायि न जीवितमैश्वर्यं नाप्यते च यदभिमतम् । लोकस्ताप्यकार्यं कुरुते कार्यं किमुद्दिश्य ॥ २९ ॥

धनबाहुल्यमहेतुः कोऽपि निसर्गेण सुत्ककरः । प्रावृषि कस्यानुसुचः संपत्ति किमधिकाम्बुनिधेः ॥ ३० ॥

द्रविणार्जनजः परिश्रमः फलितोऽप्यस्य जनस्य नीरसः । द्रविणार्जनमात्मतुष्टये परमावर्जयितुं गुणार्जनम् ॥ ३१ ॥

नाक्षराणि पठता किमपाठि पाठितोऽपि किमु विस्मृत एव । इत्थमर्थिजनसंशयदोलाखेलना खलु चकार नकारः ॥ ३२ ॥

यः प्रशसति नरो नरमन्यं देवतासु वरदासु सतीषु । मुग्धधीर्धनलवस्पृहयालुस्तन्नृशंसमहमाद्यमवैमि ॥ ३३ ॥

यथा शरीरं किल जीवितेन विनाकृतं काष्ठमिवावभाति । तथैव तज्जीवितमप्यवैमि लोकोत्तरेण स्फुरितेन शून्यम् ॥ ३४ ॥

जातश्च नाम न विनङ्क्ष्यति चेत्युक्तमुत्पाद एव नियमेन विनाशहेतु । तुल्ये च नाम मरणव्यसनोपतापे मृत्युर्वरं परहितावहताशयस्य ॥ ३५ ॥

उत्पादिता स्वयमियं यदि तत्तन्नूजा तातेन वा यदि तदा भगिनी खलु श्रीः । यद्यन्यसगमवती च तदा परस्त्री तत्यागशङ्क-मनसः सुधियो भवन्ति ॥ ३६ ॥

त्वयि सति शिवदार्य्यसर्वस्वैर्मार्थितानामितरमनुमरन्तो दर्शयन्तोऽर्थिमुद्राम् । चौरमचरणपातैर्दुर्ग्रह दोग्धुकामा करभमनुसरामः कामधेनौ स्थितायाम् ॥ ३७ ॥

इयत्यप्येतस्मिन्मघवधिमहत्यध्वनि गुणास्त एवामी द्वित्रा जरठजरठा यान्ति गणनाम् । अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः स्वयस्तब्वो यावत्कलयति समग्रं तृणमिदम् ॥ ३८ ॥

क्वचित्परिचिन्त्यैव परितापमात्मन्यमी न बिभ्रति मनस्विनो


पाद-टिप्पणी (Footnotes)

[वामभागः]
१ मासम्
२ बाणान्, पक्षे,-याचकान्
३ स्वकीय
४ एतन्नामको राजा
५ नृपश्रेष्ठः
६ मुनीश्वर
७ समुद्रम्
८ स्फीतवदनाः

[दक्षिणभागः]
१ अल्पा
२ याचितानाम्
३ पाश्चात्यचरणपातै
४ ऊर्ध्वम्

उदारप्रशंसा-कृपणनिन्दा

७१


यदमुना न तावत्क्षितिः । अहर्निशमिहैव ये परमनोऽनुवृत्त्या पुनर्वहन्ति विजिगीषुता किमिव तेऽनुकम्पास्पदम् ॥ ३९ ॥ भुज्यन्ते स्वगृहस्थिता इव सुख यस्यार्थिभिः संपदः पद्मौ यस्य मतिस्तमःप्रहतये द्यावेव तौ प्राणितः । यस्त्वात्मभरिरुन्नतेऽपि विभवे हीनश्च विद्वत्तया तस्यालेख्यमणेरिवाकृतिभृतः सत्ताप्यसत्ता ननु ॥ ४० ॥ आधाराय धरावकाशविधयेऽप्याकाशमालोकने भास्वानात्ममहत्त्वसाधनविधावन्थे गुणाः केचन । इत्यस्मिन्नुपकारकारिणि सदा वर्गे पर दुस्त्यजे दैन्यव्रीडकलब्धमज्जतु कथं चेतो महाचेतसाम् ॥ ४१ ॥ नित्य या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते पश्यन्ति स्पृहयालवो न रिपवो या विक्रमासादिताम् । यस्याः साधुपरिक्षयेण सुहृदा नाशेन वा संभवो नो सपद्विपदेव सा गुणवता प्रीतिस्तया कीदृशी ॥ ४२ ॥ न्याय्य मार्गममुञ्झतः सुकृतिनो दैवाद्भवन्त्यापदो यास्ताः सन्तु बलेरिवादिपुरुषाद्योऽर्थी स्वय यच्छतः । शक्तस्येव जुगुप्सितैः सुबहुभिर्निन्दैश्च कर्मभिर्देवानामुपरि प्रभुत्वमपि मे मा भून्नृपाकारणम् ॥ ४३ ॥ रुद्रोऽद्रिं जलधि हरिर्दिविषदो दूर विहायःश्रिता भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः । लीनाः पद्मवने सरोजनिलया मन्येऽर्थिसार्थाद्विया दीनोद्धारपरायणाः कलियुगे सत्पुरुषाः केवलम् ॥ ४४ ॥


कृपणनिन्दा

भिक्षाद्वारा गृहे गृहे । दीयता दीयता नित्यमदातुः फलमीदृशम् ॥ ९ ॥ द्वारं द्वार रटन्तीह भिक्षुकाः पात्रपाणयः । दर्शयन्त्येव लोकानामदातुः फलमीदृशम् ॥ १० ॥ न दातुं नोपभोक्तु च शक्नोति कृपणः श्रियम् । किं तु स्पृशति हस्तेन नपुंसक इव स्त्रियम् ॥ ११ ॥ किंशुके कि शुकः कुर्यात्फलितेऽपि बुभुक्षितः । अदातरि समृद्धेऽपि कि कुर्मुरुपजीविनः ॥ १२ ॥ वरं विभवहीनेन प्राणैः संतर्पितोऽनलः । नोपचारपरिश्रष्टः कृपणः प्रार्थितो जनः ॥ १३ ॥ उदारचरितस्याग्नी याचितः कृपणोऽधिकः । एको धनं ततः प्राणानन्यः प्राणास्ततो धनम् ॥ १४ ॥ नोपभोक्तुमपि क्लीबो जानात्युपचिता श्रियम् । ग्राम्यो विरागयत्येव रमयन्नपि कामिनीम् ॥ १५ ॥ कृपण. स्ववधूसङ्ग न करोति भयादिह । भविता यदि मे पुत्रः स मे वित्तं हरेदिति ॥ १६ ॥ यद्गोधोऽधः क्षितौ वित्तं निचखान मितपचः । तदैवोनिरयं गन्तु चक्रे पन्थानमग्रतः ॥ १७ ॥ निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति । परार्थ भारवाहीव क्लेशस्यैव हि भाजनम् ॥ १८ ॥ असम्भोगेन सामान्यं कृपणस्य धनं परैः । अस्येदमिति संबन्धो हानौ दुःखेन गम्यते ॥ १९ ॥ सति द्राक्षाफले क्षीरे मृदामास्वादनं मुदे । अहो मातुरियं रीतिः कृपणे गर्भवर्तिनि ॥ २० ॥ अदातुर्मानस कापि न स्पृशन्ति कवेर्गिरः । दोषायैवातिवृद्धस्य विलासास्तरुणीकृताः ॥ २१ ॥ शरणं किं प्रपन्नानि विषवन्मारयन्ति किम् । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥ २२ ॥ धनं यदिह मे दत्से विधे मा देहि कहिंचित् । औदार्य धनिनो देहि यन्मदीये हृदि स्थितम् ॥ २३ ॥ वीणेव श्रोत्रहीनस्य लोलक्षीव विर्चक्षुषः । व्यसोः कुसुममालेव श्रीः कदर्यस्य निष्फला ॥ २४ ॥ लुब्धो न विसृजत्यर्थं नरो दारिद्र्यशङ्कया । दातापि विसृजत्यर्थं तैयैव ननु शङ्कया ॥ २५ ॥ या विपत्तिर्धनापाये नृणा भोगिवदान्ययोः । प्रज्ञापकर्षत्यागेव प्राप्ता हि कृपणेन सा ॥ २६ ॥ गृहमध्यनिखातेन धनेन रमते यदि । स तु तेनानुसारेण रमते कि न मेरुणा ॥ २७ ॥ अतिसंचयकर्तृणा वित्तमन्यस्य कारणात् । अन्यैः सचीयते यत्नादन्यैश्च मधु पीयते ॥ २८ ॥ विडम्बनैव पुंसि श्रीः परप्रणयपांसुले । कान्तिं कामिहि कुर्वीत कुणौ कटककल्पना ॥ २९ ॥ कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियाम् । दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः ॥ ३० ॥ दैववशादुत्पन्ने सति विभवे यस्य नास्ति भोगेच्छा ।

कृपणेन समो दाता न भूतो न भविष्यति । अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ १ ॥ यदर्ज्यते परिक्लेशैरर्जितं यन्न भुज्यते । विभज्यते यदन्तेऽन्यैः कस्यचिन्मास्तु तद्धनम् ॥ २ ॥ यत्करोत्यरतिं क्लेशं तृष्णा मोहं प्रजागरम् । न तद्धनं कदर्याणा हृदये व्याधिरेव सः ॥ ३ ॥ मृत्युः शरीरगोप्ताऽर धनरक्ष वसुंधरा । दुश्चारिणी च हसति स्वपति पुत्रवत्सलम् ॥ ४ ॥ त्यागभोगविहीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ ५ ॥ दानोपभोगरहिता दिवसा यस्य यान्ति वै । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ ६ ॥ अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ ७ ॥ कृपणेन शवेनेव मृतेनापि न दीयते । मास वर्धयता तेन कौकस्योपकृतिः कृता ॥ ८ ॥ बोधयन्ति न याचन्ते


पाद-टिप्पण्यः (Footnotes)

[वामभागः] १ संपाद्यते २ अवसाने ३ अस्वस्थत्वम् ४ विचाराशक्ति ५ कृपणानाम् ६ पीडैव ७ कस्य का उपकृतिरुपकार कृता, अपि तु न कस्यापि कापीत्यर्थे, पक्षे, -काकस्य पक्षिण

[दक्षिणभागः] १ भिक्षुका इति शेष २ त्यजतीति शेष ३ आरोपयामास ४ नरकम् ५ चञ्चलाक्षी मृगनयनेति यावत् ६ अन्धस्य ७ प्राणरहितस्य, प्रेतस्येति यावत् ८ दारिद्र्यशङ्क्यैव

७२ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्


न च परलोकसमीहा स भवति धनपालको मूर्खः ॥ ३१ ॥ उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम् । कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे ॥ ३२ ॥ यदि भवति धनेन धनी $^३$क्षितितलनिहितेन भोगरहितेन । तस्माद्वयमपि धनिनस्तिष्ठति नः काञ्चनो मेरुः ॥ ३३ ॥ $^५$नन्दनरेन्द्रद्रविणैर्दुष्कृतमिव किमपि विहितमतिघोरम् । वसुधातलोपमणको विरमति नाद्यापि यत्तेभ्यः ॥ ३४ ॥ $^६$दृढतरनिबद्धमुष्टेः कोश$^७$निष्षण्णस्य $^८$सहजमलिनस्य । कृपणस्य कृपाणस्य च केवल$^९$माकारतो भेदः ॥ ३५ ॥ कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः । जलसंपदोऽ$^१^०$म्बुराशेर्यान्ति वशं सर्वदैव $^१^१$वडवाग्नेः ॥ ३६ ॥ प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः । $^१^२$मुखपाकः किल भवति द्राक्षापाके $^१^३$बलिभुजा हि ॥ ३७ ॥ अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थीनाम् । योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ ३८ ॥ केऽपि स्वभावलुब्धास्तीव्रतरा यातना मपि सहन्ते । न तु संत्यजन्ति वित्तं मात्सर्यमिवाधमाः सततम् ॥ ३९ ॥ और्वा इवातिलुब्धा भवन्ति धनलवणवारिबिन्दुवृष्णाः । तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ ४० ॥ $^{१४}$अर्थिनि कवयति $^{१५}$कवयति पठति च पठति स्तवोधते स्तौति । पश्चाद्यामीत्युक्ते कृपणः $^{१६}$प्रणतोऽञ्जलिं कुरुते ॥ ४१ ॥ दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः । वयमपि किमिति न धनिनस्तिष्ठति नः काञ्चनो मेरुः ॥ ४२ ॥ धनिनोऽप्यदानभोगा गण्यन्ते धुरि महादरिद्राणाम् । हन्ति न यतः पिपासामतः समुद्रोऽपि मरुखि ॥ ४३ ॥ अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः । कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव ॥ ४४ ॥ ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः । केवलमर्जनरक्षणवियोगदुःखान्यनुभवन्ति ॥ ४५ ॥ याचमानजनमानसकृतेः पूरणाय बत जन्म न यस्य । तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥ ४६ ॥ मा धन्वानि कृपणः खलु जीवस्तृष्ण्यार्पयतु जातु परस्मै । तत्र नैव कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि ॥ ४७ ॥ लोक एष परलोकमुपेता हा विधाय निधने धनमेकः । इत्यमुं खलु तदस्य निनीषत्यर्थिबन्धुरुदय$^१$दयचित्तः ॥ ४८ ॥ सचित ऋतुषु नोपयुज्यते याचितं गुणवते न दीयते । तत्कदर्यपरिरक्षितं धनं चौरपार्थिवगृहेषु गच्छति ॥ ४९ ॥ वरममी तरवो वनगोचराः शकुनिसार्थविलुप्तफलश्रियः । न तु धनान्धगृहाः कृपणाः फणानिहितरत्नभुजंगमवृत्तयः ॥ ५० ॥ न निर्यातासन्ति कदर्यहस्ताद्धनानि पासोरिव तैललेशाः । दैवात्कदाचिद्विनियोक्तुरेव निर्गन्तुमिच्छन्त्यसुभिः सहैव ॥ ५१ ॥ सुसङ्गतैर्जीवितवत्सुरक्षितैर्निजेऽपि देहे कृतयन्त्रणस्य च । तवानुमार्गं व्रजतो भवान्तरे शठैर्धनैः पश्वनदी न पूरिता ॥ ५२ ॥ अहो धनानां महती विदग्धता सुखोपितानां कृपणस्य वेश्मनि । व्रजन्ति न त्यागदशां न भोग्यतां परां च काचित्प्रथयन्ति निर्वृतिम् ॥ ५३ ॥ फलं स्वेच्छालभ्यं प्रतिवनमखेदं $^३$क्षितिरुहाम् पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहन्ते संतापं तदपि धनिनां द्वारि कृपणाः ॥ ५४ ॥ यदेते साधूनामुपरि विमुखाः सन्ति धनिनो न चैषावज्ञैषामपि तु निजवित्तव्ययभयम् । अतः खेदो नास्मिन्परमनुकम्प्यैव भवति क्षमासत्रस्तेभ्यः क इह हरिणेभ्यः परिभवः ॥ ५५ ॥ न शान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैः क्षतच्छायाः कायश्चिरविरसरूक्षाशनतया । अनिद्रा मन्दानिर्भृतपसलिलचौरानलभयात्कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥ ५६ ॥ जहाति सहसाननं झटिति पृच्छति स्वागतं नमस्यति कृताञ्जलिः $^५$श्रुतिमनोंहरं भाषते । ददाति कुसुमं फलं शिथिलयत्यभीष्टां क्रियामहो न परिचीयते कृपणवञ्चनाचातुरी ॥ ५७ ॥ $^६$अयश्चणकचर्वणं फणिफणामणेः कर्षणं करेण गिरितोलनं जलनिधेः पदा लङ्घनम् । $^७$प्रसुप्तहरिबोधनं $^८$निशितखड्गसंस्पर्शनं कदाचिदखिलं भवेन्न च शठाद्धनसार्जनम् ॥ ५८ ॥ एकैकातिशयालयः परगुणज्ञानैकवैज्ञानिकाः सन्येते धनिकाः कलासु सकलास्वाचार्यचर्यांचणाः । अप्येते सुमनोगिरा निशमनाद्विस्मृत्यहो श्लाघया धूते मूर्धनि कुण्डले क्वणतः क्षीणे भवेतामिति ॥ ५९ ॥ प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया भीतः प्रत्युपकारकारणभयन्नाक्रुष्यते सेवया । मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति ॥ ६० ॥ मत्वा सारं गुणानां


पादटिप्पणी (Footnotes)

[वामभागः] १ इच्छा. २ उत्तमकन्या. ३ भूम्यन्तर्गतेन. ४ उपभोगहीनेन. ५ नवनवतिकोटिमितं कनकदीनाराः पाटलिपुत्रमहीपतिना नन्देन भूमौ निहिता अद्यापि तिष्ठन्तीति प्रसिद्धिः. ६ दृढतरमतिनिबिडं निष्पन्नं मुष्टिर्येन; पक्षे,-दृढतरं निबद्धा मुष्टिः त्सुरूर्यस्य. ७ कोशारे निष्षण्णस्य स्थितस्य, पक्षे,-कोशे खङ्गपिधाने स्थितस्य. ८ स्वभावमलिनस्य. मलिनवेषत्वात्, पक्षे,-कृष्णवर्णत्वात्. ९ आकारत आकृत्या भेदः; पक्षे,-कृपणशब्देऽकारो वर्तते कृपाणशब्दे आकारो वर्तते एतावतैव भेदो भिन्नत्वम्, कृपाणः खड्गः. १० समुद्रस्य. ११ वाडवाग्नेः. १२ मुखरोगः. १३ काकानाम्. १४ याचके. १५ कवितां करोति. १६ नम्रः.

[दक्षिणभागः] १ उद्यत्करुणं चित्तं यस्य. २ क्लेशरहितम्. ३ वृक्षाणाम्. ४ सत्वरम्. ५ कर्णमधुरम्. ६ लोहम्. ७ निद्रितसिंहोत्थापनम्. ८ तीक्ष्ण. ९ वर्धणतः.

याचकनिन्दा | ७३


शिरसि यदि शशी स्थापितो दैवयोगादीशेन क्षीणबिम्ब.
सकलमुपचयं किं न नीतः क्षणेन । मिथ्यैव ख्यापयन्तो
गुणििन सरलता लोकभक्त्यर्थमुच्चैराख्या. कुर्वन्ति वित्त-
व्ययचकितधियो मानमर्थेन शून्यम् ॥ ६१ ॥

याचकनिन्दा

वेपथुर्मलिनं वक्त्रं दीना वाग्गद्गद. स्वरः । मरणे यानि
चिह्नानि तानि चिह्नानि याचके ॥ १ ॥ विधावतः कुली-
नस्य धनं याचितुमिच्छतः । कण्ठे पारावतस्येव वाकरोति
गतागतम् ॥ २ ॥ दक्षिणाशाप्रवृत्तस्य प्रसार्यितकरस्य च ।
तेजस्तेजस्विनोऽर्कस्य हीयतेऽन्यस्य का कथा ॥ ३ ॥
साधुरेवार्थिभिर्याच्यः क्षीणवित्तोऽपि सर्वदा । शुष्कोऽपि
हि नदीमार्गः खन्यते सलिलार्थिभिः ॥ ४ ॥ तृणादपि
लघुस्तूलस्तूलादपि च याचक. । वायुना किं न नीतोऽसौ
मामयं प्रार्थयेदिति ॥ ५ ॥ देहीति वचनं श्रुत्वा देहस्थाः
पञ्च देवताः । मुखान्निर्गत्य गच्छन्ति श्रीह्रीधीधृतिकीर्तयः
॥ ६ ॥ नवीनदीनभावस्य याचकस्यातिमानिनः । वचो-
जीवितयोरासीत्पुरोनिःसरणे रणः ॥ ७ ॥ अदृष्टमुखभङ्गस्य
युक्तमन्धस्य याचितुम् । अहो बत महत्कष्टं चक्षुष्मानपि
याचते ॥ ८ ॥ गतेर्भङ्गः स्वरो हीनो गात्रे स्वेदो महद्भयम् ।
मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ ९ ॥ दारिद्र्या-
नलसंताप. शान्तः सन्तोषवारिणा । याचकाशाविधातान्तर्दाहः
केनोपशाम्यति ॥ १० ॥ दरिद्रस्य परा मूर्तिस्तृष्णा न
द्रविणालपता । जरद्गवधनः शम्भुस्तथापि परमेश्वरः ॥ ११ ॥
वदनाच्च बहिर्यान्ति प्राणा याञ्चाक्षरै. सह । ददामीत्यक्षरै-
र्दातुः पुन कर्णाद्विशन्ति हि ॥ १२ ॥ देहीति वक्तुका-
मस्य यद्दुःखमुपजायते । दाता चेत्तद्विजानीयाद्दद्यात्स्वंपिशि-
तान्यपि ॥ १३ ॥ काक आह्वयते काकान् याचको न तु
याचकान् । काक-याचकयोर्मध्ये वरं काको न याचकः ॥ १४ ॥
तीक्ष्णधारेण खड्गेन वरं जिह्वा द्विधाकृता । न तु मानं
परित्यज्य देहि देहीति भाषितम् ॥ १५ ॥ पुरतः प्रेरय-
त्याशा लज्जा पृष्ठावलम्बिनी । ततो लज्जाशयोर्मध्ये दोला-
यत्यर्थिनो मनः ॥ १६ ॥ करानप्रसार्य रविणा दक्षिणाशा-
वलम्बिना । न केवलमनेनात्मा दिवसोऽपि लघूकृतः ॥ १७ ॥
एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता । दातृ-याचक-
योर्भेदः कराभ्यामेव सूचितः ॥ १८ ॥ हृदि लज्जोदरे वह्निः
स्वभावादभिरुच्छिखः । तेन मे दग्धलज्जस्य पुनरागमनं
नृप ॥ १९ ॥ सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव
लावण्यम् । हरिहरकथेव दुरितं गुणशतमप्यर्थिता
हरति ॥ २० ॥ याचकवीरो धन्यः करदानग्राहकः सदा-
तृभ्यः । कुरुते पराङ्मुखं वा ह्यतिनम्रं वा हृत्यसौ
पुण्यम् ॥ २१ ॥ अनुसरति करिकपोलं भ्रमरः श्रवणेन
ताड्यमानोऽपि । गणयति न तिरस्कारं दानान्यध्रविलोचनो
नीचः ॥ २२ ॥ कतरत्पुरहर परुषं हालाहलकवलयाचना-
वचसोः । एकैव तव रसज्ञा तदुभयरसतारतम्यज्ञा ॥ २३ ॥
अग्रे लघिमा पश्चान्महतापि पिधीयते नहि महिना । वामन
इति त्रिविक्रममभिदधति दशावतारविदः ॥ २४ ॥ ताव-
न्महता महती यावत्किमपि हि न याच्यते लोकम् । बलि-
मनुयाचनसमये श्रीपतिरपि वामनो जातः ॥ २५ ॥ गुरु-
तासुपयातिति यन्मूतः पुरुषस्तद्विदितं मयाधुना । ननु लाघव-
हेतुरर्थिता न मृते तिष्ठति सा मनोऽपि ॥ २६ ॥ याचना
हि पुरुषस्य महत्त्वं नाशयत्यखिलमेव तथा हि । सद्य एव
भगवानपि विष्णुर्वामनो भवति याचितुमिच्छन् ॥ २७ ॥
उत्तमर्णधनदानशङ्कया पावकोत्थशिखया हृदिस्थया । देव
दग्धवसना सरस्वती नासतो बहिरुपैति लज्जया ॥ २८ ॥
नीचतामनवलम्ब्य जनः को याचनाद्वचिनोति फलानि ।
हन्त वामनपदं प्रतिपेदे भिक्षुतामुपगतो जगदीशः ॥ २९ ॥
अन्यतो यदि निजोपचिकीर्षा मानहानिरिति भीतिरनीतिः ।
श्रीधरोऽपि हि बलेः श्रियमिच्छन्मानमातनुत वामन-
मेव ॥ ३० ॥ सतापितानां मधुरैर्वचोभिर्मिथ्योपचारैश्च
वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां
वञ्चयितव्यमस्ति ॥ ३१ ॥ स्वार्थे धनानि धनिकात्प्रतिगृह्णतो
यदास्रं भजेन्मलिनतां किमिदं विचित्रम् । गृह्णन्परार्थमपि
वारिनिधेः पयोऽपि मेघोऽयमेति सकलोऽपि च कालिमा-
नम् ॥ ३२ ॥ जंनस्थाने भ्रान्तं कनकभृगतृष्णाकुलतया
वचो वैदेहीति प्रतिपदमुदश्रुप्रलपितम् । कृतोल्काभर्तु-


पादटिप्पण्यः :

१ कम्प
२ मृतोऽपि दक्षिणस्या दिशि गच्छति, तस्य वा, पक्षे,- दक्षिणाया आशा तया प्रवृत्तस्य
३ प्रसारिता विस्तारिता करा किरणा येन, पक्षे,-प्रसारितं करो हस्तो येन
४ कार्पास
५ अहमहमिकया अग्रतो निःसरणे
६ वृद्धवृषभ एव धनं यस्य स शिवस्तथापि 'परमेश्वर' इति कथ्यते
७ माला नि
८ किरणान् , पक्षे,-हस्तान्
९ दक्षिणदिक्, पक्षे,-दक्षिणाया आशा स्पृहा
१० सु र भा
१ चन्द्रकान्ति
२ याचकत्वम्
३ कराद्धस्ताद्दानस्य ग्राहकः, पक्षे,-करो राजग्राह्यो दण्डस्तस्य दानं समर्पणं तद्ग्राहकः
४ हे शिव
५ लक्ष्मीपतिरपि
६ ह्रस्व, पक्षे,-लघु
७ किंचिदपि
८ जनानां स्थानानि नगरपत्तनादीनि तेषु भ्रमणं कृतम्, पक्षे,-जनस्थाने नासिकाख्यजनपदे परिभ्रमणं कृतम्
९ कनकं द्रव्यमेव मृगतृष्णा मरीचिका तया; पक्षे,-कनकस्य मृगो मायारूपधारी मारीचो राक्षसस्तस्य तृष्णा तया
१० वै इति पदच्छेदः देहीति प्रलपितम्, पक्षे,-वैदेही जानकीति प्रलपितम्
११ कामर्तुः कुत्सितस्वामिनो वदनपरिपाटीषु घटना अलमत्यर्थं कृता, पक्षे,-लङ्काभर्तू रावणस्य वदनपरिपाख्यामिषुपटना बाणरचना कृता

७४सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

वैदनपरिपाटीषु घटना मयातं रामत्वं कुशलवसुता नत्व-
धिगता ॥ ३३ ॥ क्व गन्तासि भ्रातः कृतवसत्तयो यत्र
धनिन किमर्थं प्राणाना स्थितमनुविधातुं कथमपि । धनै-
र्याच्ञाजालैर्वनंनु परिभवोऽभ्यर्थनफलं निकारोऽये पश्चाद्धन-
महह भोस्तद्वि निधनम् ॥ ३४ ॥ पङ्गो वन्द्यस्त्वमसि न
गृहं यासि योऽर्थी परेषा वन्योधन्धस्त्वं धनमदवता नेक्षसे
यन्मुखानि । श्लाध्यो मूक त्वमपि कृपणं स्तौषि नार्थायशा
य सोतव्यस्त्वं बधिर न गिर य. खलाना शृणोषि ॥ ३५ ॥
भ्रातर्धार्तरशेषयाचकजने वैरायसे सर्वदा यस्माद्विक्रमशा-
लिवाहनमहीभृन्मुञ्जभोनादय. । अत्यन्तं चिरजीविनो न
विहितास्ते विश्वजीवातवो मार्कण्डध्रुवलोमशप्रभृतय सृष्टा
प्रभूतायुष. ॥ ३६ ॥ उड्डीना गुण१त्रिण. सुखफलान्यार्ग-
द्विकीर्णान्यव पर्यस्ता परितो यश स्तवकिताः सपल्लत्ता-
पल्लवाः । प्रागेवाप्रसृतप्रमोदहरिणच्छाया कथान्तं गता दैन्यो
रण्यमतंगजेन महता भग्नोऽभिमानद्रुमे ॥ ३७ ॥ शूरा.
केऽपि पुर स्थिता रिपुनरश्रेणि सहन्ते सुखं वीरा. केचन
कामबाणसदृशा कान्तादृगन्ताहतिम् । केचित्क्रूररवाश्च पञ्च-
वदनान्दन्तीचपेदान्मटा नैवार्थिप्रकर प्रसारिर्तकरं कश्चिद्वि
सोढुं क्षम. ॥ ३८ ॥ दौर्बल्येन समीरिता हृदयतः कण्ठ
समालम्बते कण्ठालम्बततरं कथं कथमपि प्राप्नोति जिह्वाञ्चलम् ।
लज्जाकीलकलकिलीतेव निबिडं तस्मान् निर्यात्यहो वाचा
प्राणपरिक्षयेऽपि महता देहीति नास्तीति च ॥ ३९ ॥
वक्त्रादुद्भव मे हठाद्विवस त्वं वाणि वक्र मनागीशाना
तदनु वृथा भजतु मा लक्ष्मीरिमानुज्जतु । पश्चात्तेषु पठत्सु
मा प्रति यशोगाथावलीस्तृष्णया वक्रं मध्यथ वक्रयत्यनु-
भवन्व्वेतेऽपि तथातनाम् ॥ ४० ॥ तावत्सर्वगुणालय.
पटुमति. साधु सता वल्लभः शूर. सच्चरित कलङ्करहितो
मानी कृतज्ञ. कवि. । दक्षो धर्मरतः सुशीलगुणवास्तावत्प्रतिष्ठान्वितो यावन्निष्ठुरवज्रपातसदृश देहीति नो भाष-
ते ॥ ४१ ॥ आस्वाद्य स्वयमेव वच्मि महतीर्मर्मच्छिदो
वेदना मा भूत्कस्यचिदप्यय परिभवो याञ्चेति ससारिण ।
पश्य भ्रातरियं हि यौवनजराधिकारकेलिस्थली मानम्लान-
मयी गुणव्यतिकरप्रागल्भ्यगर्वच्युति. ॥ ४२ ॥ प्राणाना
बत कि ब्रुवे कठिनता तैरेव साविष्कृता निष्क्रामन्ति कथ-
चिदेव हि न ये याच्ञावचोभिः समम् । आत्मानं पुनरा-
क्षिपामि विदितस्थैर्योऽपि येषामहो मिथ्याशङ्किततद्वियोग-

विधुरो यत्प्रार्थये सर्वश. ॥ ४३ ॥ वासो वल्कलमास्तरः
किसलयान्योकै१स्तरूणा तलं मूलानि क्षतये क्षुधा गिरि-
नदीतोय तृपाशान्तये । क्रीडा मुग्धमृगैर्र्यासि सुहृदो नक्त
प्रदीप. शशी स्वाधीने विभवे तयापि कृपणा याचन्त इत्य-
द्भुतम् ॥ ४४ ॥ सन्ति स्वादुफला वनेषु तरव स्वच्छ
पयो नैर्झर वामो वल्कलमाश्रयो गिरिगुहा शय्या लता-
वल्लरी । आलोकाय निशासु चन्द्रकिरणा. सख्य कुरङ्गैः सह
स्वाधीने विभवेऽप्यहो नरपति सेवन्त इत्यद्भुतम् ॥ ४५ ॥
निष्कन्दा किमु कन्दरोदरभुव क्षीणास्तरूणा त्वच कि
शुष्काः सरित. स्फुरद्विरिगुरुग्रावस्खलद्वीचय । प्रत्युत्थान-
मितस्तत प्रतिदिन कुर्वद्भिरुद्धीविभिर्ह्यारार्पितदृष्टिभिः
क्षितिमुजा विद्वद्भिरुपास्यते ॥ ४६ ॥ कामं जीर्णपलाश-
संहतिकृता कन्था वसानो वने कुर्यामम्बुभरिप्ययाचितसुखै-
प्राणानुबन्धस्थितिम् । साङ्गग्लानि सवेपित सचकित
सान्तर्निदाघज्वर वक्तु न त्वहमुत्सहे सकृपण देहीति दीन
वच ॥ ४७ ॥ द्वारे द्वारेऽवरेषामविरलमटति द्वारपालै.
करालैर्हटो योऽप्याहत. सन्नणति गणयति स्वापमानं तु नैव ।
क्षन्तुं शक्नोति नान्यं स्वसदशमितरागारमप्याश्रयन्तं श्राम्य-
त्यात्मोदरार्थे कथमहह शुना नो समो याचक. स्यात् ॥ ४८ ॥

परोपकारप्रशंसा

परोपकारः कर्तव्य. प्राणैरपि धनैरपि । परोपकारजं पुण्यं
न स्यात्क्रतुशतैरपि ॥ १ ॥ धनानि जीवितं चैव परार्थे
प्राज्ञ उत्सृजेत् । तन्निमित्तो वर त्यागो विनाशे नियते
सति ॥ २ ॥ रविचन्द्रौ घना वृक्षा नदी गावश्च सज्जना. ।
एते परोपकाराय युगे देवेन निर्मिता ॥ ३ ॥ तृणं चाह
वर मन्ये नरादनुपकारिण. । घासो भूत्वा पशून्पाति
भीरून्याति रणाङ्गणे ॥ ४ ॥ ४परोपकृतिकै५वल्ये तो६लयित्वा
जनार्दनः । गुर्वीमुपकृति७ मत्वा ह्य८वतारान्दश९ग्रहीत् ॥ ५ ॥
आत्मार्थे जीवलोकेऽस्मिन्को न जीवति मानव । पर
परोपकारार्थं यो जीवति स जीवति ॥ ६ ॥ परोपकार-
शून्यस्य विब्मानुष्यस्य जीवितम् । जीवन्तु पशवो येषा
चर्माप्युपकरिष्यति ॥ ७ ॥ रागिणि नलिने लक्ष्मी दिवसो
निदधाति दिनकरप्रभवाम् । अनपेक्षितगुणदोष परोपकारः
सता व्यसनम् ॥ ८ ॥ कृच्छ्रानुवृत्तयोऽपि हि परोपकार
त्यजन्ति न महान्त. । तृणमात्रजीवना अपि करिणो दान-


१ कुशलं च वसु च द्रव्य तद्भावो न सपादित, पक्षे-कुशलबौ सुतौ यस्याः सा वैदेही न प्राप्ता २ तिरस्कार ३ गुणा एव पक्षिण ४ समीपे. ५ दैन्यमेवारण्यमतगज ६ कान्ताकटाक्षवेधम् ७ सिंहान्
१ गृहम् २ विकराल ३ भीतान् ४ परोपकार ५ मोक्ष- ६ उभयोस्तुलनां कृत्वा ७ श्रेष्टाम् ८ मत्स्यादीन् ९ जग्राह

परोपकारप्रशंसा, कृतघ्ननिन्दा, संतोषप्रशंसा, तृष्णानिन्दा ७५


द्वार्द्रकरा ॥ ९ ॥ परोपकाराय फलन्ति वृक्षा परोप- काराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः परोप- कारार्थमिदं शरीरम् ॥ १० ॥ भवन्ति नम्रास्तरव फलोद्ग- मैर्नवाम्बुभिर्भूरिविलम्बिनो घनाः । अनुद्धता सत्पुरुषाः समृ- द्धिभि स्वभाव एवैष परोपकारिणाम् ॥ ११ ॥ ^१श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति काय खलु सज्जनाना परोपकारेण न चन्दनेन ॥ १२ ॥ पद्माकर दिनकरो विकचं करोति चन्द्रो विकासयति कैरव- चक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहितेषु कृताभियोगाः ॥ १३ ॥ दातुः परोप- कृतिनिर्भरचित्तवृत्तेरासन्नदूरगणना नहि संश्रितेषु । भानुर्वि- कासयति हन्त सरोजखण्डं पाणिस्थपङ्कजसमं भुवनान्त- रेषु ॥ १४ ॥


कृतघ्ननिन्दा

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा । निष्कृति- र्विहिता लोके कृतघ्ने नास्ति निष्कृतिः ॥ १ ॥ उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् । तं जन^५मसत्यसंधं भगवति वसुधे कथं वहसि ॥ २ ॥ ^६व्योमनि शम्बाकुरुते चित्रं ^७निर्माति यत्नतः सलिले । क्षपयति पवनं सलिलैर्यस्तु खले चरति सत्कारम् ॥ ३ ॥ शोकं मा कुरु कुँक्कुर सत्त्वे- ष्वधमधम इति मुँथा साधो । कष्टातपि कष्टतर दृष्ट्वा श्वानं कृतघ्ननामानम् ॥ ४ ॥


संतोषप्रशंसा

संतोषामृततृप्ताना यत्सुखं शान्तचेतसाम् । कुतस्तद्धन- लुब्धानामितश्चेतश्च धावताम् ॥ १ ॥ अकृत्वा परसंताप- मगत्वा खलनम्रताम् । अनुत्सृज्य सता मार्गं यत्स्वल्पमपि तद्वँहु ॥ २ ॥ आगमिष्यन्ति ते भावा ये भावा मयि भाविनः । अहं तैरनुगन्तव्यो न तेषामन्यतो गति ॥ ३ ॥ यो मे गर्भगतस्यापि ^११वृत्तिं कल्पितवान्स्वयम् । शेषे^१२वृत्तिविधाने च स कि सुप्तोऽथवा मृतः ॥ ४ ॥ अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैन्यमत्रा- तिरिच्यते ॥ ५ ॥ पञ्चमेऽहनि षष्ठे वा शाकं पचति यो गृहे । अनृणी चाप्रवासी च स वारिचर मोदते ॥ ६ ॥


  • १ कर्ण
  • २ शास्त्रेण
  • ३ कासारम्
  • ४ कुमुदमण्डलम्
  • ५ असत्यप्रतिज्ञम्
  • ६ व्योमन्याकाशे शम्बाकुरुते हलेन क्षेत्र वारद्वय कर्षति
  • ७ आलेख्यम्
  • ८ पूजाम्
  • ९ हे भषक
  • १० व्यर्थम्
  • ११ जीवनोपायम्
  • १२ इहोदरनिर्वाहादिप्रबन्धे
  • १३ विशिष्यते

आत्माधीनशरीराणा खपता निद्रया खया । कँदन्नमपि मर्त्यानाममृतत्वाय कल्पते ॥ ७ ॥ सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम् । उपानद्गूढपादस्य ननु चर्मावृतेव भू ॥ ८ ॥ ते धन्या पुण्यभाजँस्ते तैस्तीर्णः क्लेशसागरः । जगत्समोहननी यैराशाशीविषी जिता ॥ ९ ॥ अकिंच- नस्य दान्तस्य शान्तस्य समचेतसः । सदा संतुष्टमनसः सर्वा सुखमया दिश ॥ १० ॥ न योजनशत दूर बाध्य- मानस तृष्णया । संतुष्टस्य कराग्रेऽप्यर्थे भवति नादरः ॥ ११ ॥ अर्थी करोति दैन्य लब्धार्थो गर्वमपरितोषं च । नष्टधनश्च स शोक सुखमास्ते नि स्पृहः पुरुषः ॥ १२ ॥ तन्मूल गुरुतायास्तत्सौख्य तद्यशस्तदौर्जित्यम् । तत्सौ- भाग्य पुंसा यदेतदप्रार्थनं नाम ॥ १३ ॥ सर्पाः पिबन्ति पवन न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति । कन्दै फलैर्मुनिवरा क्षपयन्ति कालं संतोष एव पुरुषस्य पर निधानम् ॥ १४ ॥ चीराणि किं पथि न सन्ति दिशन्ति भिक्षा ^७नैवाङ्घ्रिपाः फलभृतः सरितोऽप्यशुष्यन् । रुद्धा गुहाः किमजितोऽवति नोपपन्नान्कस्माद्भजन्ति कवयो धनदुर्म- दान्धान् ॥ १५ ॥ मन्निन्दया यदि जनः परितोषमेति नन्वप्रयत्नसुलभोऽयमँनुग्रहो मे । श्रेयोर्थिनोऽपि पुरुषाः पैरेस्तुष्टिहेतोर्दु:खार्जितान्यपि धनानि परित्यजन्ति ॥ १६ ॥ वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषो निर्विशेषो विशेषः । स हि भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ १७ ॥ गन्धाढ्या नवमल्लिका मधुकरस्त्यक्त्वा गतो यूथिका तां दृष्ट्वाशु गत. स चन्दनवनं पश्चात्सरोजं गतः । बद्धस्तत्र निशाकरेण सहसा रोदित्यसौ मन्दधीः संतोषेण विना परा- भवपदं प्राप्नोति सर्वो जनः ॥ १८ ॥ मृत्युर्माद्यति मूर्ध्नि श्वशुरदुरी घोरा जरारूपिणी त्वामेषा ग्रसते परिग्रहमयै- र्गृध्रैर्जगद्ग्रस्यते । धूत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः संतोषामृतसागरारम्भसि चिरं मग्नः सुखं स्थास्यसि ॥ १९ ॥


तृष्णानिन्दा

तृष्णे देवि नमस्तुभ्यं धैर्यविप्लैवकारिणि । विष्णूस्त्रैलोक्य- नाथोऽपि यत्त्वया वाँमनीकृतः ॥ १ ॥ तृष्णे कृष्णेऽपि ते शक्तिर्दृष्टा मर्त्येषु का कथा । त्रैलोक्यव्यापि यद्रूपं तद्रूपं वामनीकृतम् ॥ २ ॥ तृष्णा चेह परित्यज्य को दरिद्रः क


  • २ कुत्सितमन्नम्
  • २ उपानभ्यां गूढौ पिहितौ पादौ यस्य.
  • ३ सर्पिणी.
  • ४ गौरवस्य
  • ५ उत्साहशीलत्वम्
  • ६ अयाचनम्
  • ७ वृक्षा
  • ८ भगवान्
  • ९ संतोषम्
  • १० प्रसाद
  • ११ कल्याणोच्छव०
  • १२ अन्यसंतोष
  • १३ विलयम्
  • १४ ह्रस्वीकृत .
७६सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

ईश्वरः । तस्याश्चेत्प्रसरो दत्तो दासं च शिरसि स्थितम् ॥ ३ ॥ बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ४ ॥ नास्त्यन्या तृष्णया तुल्या कापि स्त्री सुभगा क्वचित् । या प्राणानपि मुष्णन्ती भवत्येवाधिकं प्रिया ॥ ५ ॥ च्युता दन्ता सिता केशा दृष्टिश्रोवः पदे पदे । पातसज्जमिमं देहं तृष्णा साध्वी न मुञ्चति ॥ ६ ॥ तृष्णे त्वमपि तृष्णार्ता त्रिषु स्थानेषु रज्यसि । व्यावितेष्वनपत्येषु जरापरिणतेषु च ॥ ७ ॥ तृष्णे देवि नमस्तुभ्यं या त्वं सर्वस्य सर्वदा । उत्पादयस्यत्नेन गोष्पदे सागरभ्रमम् ॥ ८ ॥ अपि मेरूपमं प्राज्ञमपि शूरमपि स्थिरम् । तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥ ९ ॥ आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला । यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥ १० ॥ तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशा पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ ११ ॥ गिरेर्महान्गिरेरब्धिर्महान्ब्वेर्नभो महत् । नभसोऽपि महद्ब्रह्म ततोऽप्याशा गरीयसी ॥ १२ ॥ आशैव राक्षसी पुंसामाशैव विषमञ्जरी । आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः ॥ १३ ॥ क्षुत्तृडाशाः कुटुम्बिन्यो मयि जीवति नान्यगाः । तासामाशा महासाध्वी कदाचिन्मा न मुञ्चति ॥ १४ ॥ यौवनं जरया ग्रस्तमारोग्यं व्याधिभिर्हतम् । जीवितं मृत्युरभ्येति तृष्णैका निरुपद्रवा ॥ १५ ॥ यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ १६ ॥ दारिद्र्यस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता । ऊर्ध्ववधनशमुस्तथापि परमेश्वरः ॥ १७ ॥ तृष्णा हि चेत्परित्यक्ता को दरिद्रः क ईश्वरः । तस्याश्चेत्प्रसरो दत्तो दासं च शिरसि स्थितम् ॥ १८ ॥ मनोरथरथारूढं युक्तमिन्द्रियवाजिभिः । भ्राम्यत्येव जगत्कृत्स्नं तृष्णासारथिचोदितम् ॥ १९ ॥ यथा हि शृङ्गं गोः काले वर्धमानस्य वर्धते । एवं तृष्णापि वित्तेन वर्धमानेन वर्धते ॥ २० ॥ अकर्तव्यव्यवसाधीव तृष्णा प्रेरयते जनम् । तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥ २१ ॥ आशा बलवती कष्टं नैराश्यं परमं सुखम् । आशा निराशाः कृत्वा तु सुखं स्वपिति पिङ्गला ॥ २२ ॥ तृष्णाखनिंरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते ॥ २३ ॥ आसन्नान्पुरतो भावान्दर्शयित्वा पुरः पुरः । छागो हरितमुष्ट्येव दूरं नीतोऽस्मि तृष्णया ॥ २४ ॥ वर्तते येन न विना नरो वाञ्छतु नाम तत् । ततोऽधिकार्थप्रणयी पृष्टो दद्यात्किमुत्तरम् ॥ २५ ॥ | तावद्गुणा गुरुत्वं च यावन्नार्थयते परम् । अर्थित्वे वर्तमानस्य न गुणा न च गौरवम् ॥ २६ ॥ विद्वत्ता चैव शौर्यं च सौजन्यं च कुलीनताम् । खलीकरोति याच्ञैका दुःशीलेवाङ्गना कुलम् ॥ २७ ॥ आशाया ये दासास्ते दासाः सर्वलोकस्य । आशा येषां दासी तेषां दासायते लोकः ॥ २८ ॥ दन्ता विश्लथदन्ताः केशा काशप्रसूनसंकाशाः । नयनं तमसा- मयनं तथापि चित्तं धनाञ्जनायत्तम् ॥ २९ ॥ त्वामुदर साधु मन्ये शाकैरपि यदसि लब्धपरितोषम् । हतहृदयं ह्यधिकाधिकवाञ्छाशतदुर्भेरं न पुन. ॥ ३० ॥ इच्छति शती सहस्रं सहस्रह्स कोटिमीहते कर्तुम् । कोटियुतोऽपि नृपत्वं नृपोऽपि बत चक्रवर्तित्वम् ॥ ३१ ॥ चक्रधरोऽपि सुरत्वं सुरोऽपि सुरराज्यमीहते कर्तुम् । सुरराजोऽप्यूर्ध्वगतिं तथापि न निवर्तते तृष्णा ॥ ३२ ॥ अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ॥ ३३ ॥ दिनयामिन्यौ सायं- प्रातः शिशिरवसन्तौ पुरतायातः । कालः क्रीडति गच्छ- त्यायुस्तदपि न मुञ्चत्याशावायुः ॥ ३४ ॥ आशावलम्बोप- चिता न कस्य तृष्णालतानर्थफलं प्रसूते । दिने दिने लब्धरुचिर्विवस्वांनीनं च मेष च वृषं च भुङ्क्ते ॥ ३५ ॥ विभूतिरल्प्यपि याचकाना न दुर्गंतं केचिदिहाद्रियन्ते । पीताम्बरोऽब्वे. समवाप लक्ष्मीं दिगम्बरस्योपनतोऽर्ध- चन्द्रः ॥ ३६ ॥ भिक्षाशनं तदपि नीरसमेकवार शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्रं सुजीर्णशतखण्डमयी च कन्था हा हा तथापि विषयान्न जहाति चेत ॥ ३७ ॥ या सा जगत्परिभवस्य निमित्तभूता हेतुः स्वयं सुरपतेरपि लाघवस्य । सा मा विडम्बयति नाथ सदैव तृष्णा छिन्धि प्रसह्य भगवन्पुनर्भवाय ॥ ३८ ॥ दुग्धं च यत्तदनु यत्क- थितं ततो नु माधुर्यमस्य हृतमुन्मथितं च वेगात् । जातं पुनर्धृतकृते नवनीतवृत्ति स्नेहो निबन्धनमनर्थपरम्पराणाम् ॥ ३९ ॥ गदोदन्ता दन्ताः पलितकलितः कुन्तलभरस्तमः- क्षेत्रे नेत्रेऽविषयपटुनी न श्रुतिपुटे । अभूदङ्गं रङ्गद्वलिवलय- वल्लीविलुलितं तथाप्येतच्चेतस्तरुण इव धावत्यनुदिनम् ॥ ४० ॥ गतं तत्तत्तारुण्यं तरुणहृदयानन्दजनकं विशीर्णा दन्तालिर्निजगतिरहो यष्टिशरणा । जडीभूता दृष्टि श्रवण- रहितं कर्णयुगलं मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृह- यति ॥ ४१ ॥ वपु कुब्जीभूत गतिरपि तथा यष्टिशरणा


पादटिप्पण्यः (Footnotes):

(वामभागः) १ हरन्ती २ वृद्धेषु ३ मेरुसदृशम् ४ तृणवल्लघूकरोति ५ पर्वत ६ कवृद्ववृषभ स एव धन यस्य स ७ तन्नामका वेश्या

(दक्षिणभागः) १ शिर २ दन्ता ३ मुखम् ४ आश्रय ५ सूर्य ६ मत्स्य, पक्षे,-मीनराशि ७ एडक, पक्षे,-मेषराशि ८ वृषभ, पक्षे,-वृषभराशि ९ दण्ड एव शरण रक्षको यस्याः सा

तृष्णानिन्दा, धीरप्रशंसा७७

विशीर्णा दन्तालिः श्रवणविकलो श्रोत्रयुगलम्। शिरः शुक्ल चक्षुस्तिमिरपटलैरावृतमहो मनो मे निर्लज्ज तदपि विषयेभ्यः स्पृहयति ॥ ४२ ॥ खलोल्लापा सोढाः कथमपि तदाराधन- तया निगुह्यान्तर्बाष्पं हसितमपि शून्येन मनसा। कृत- श्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे किमु परमितो नर्तयसि माम् ॥ ४३ ॥ निवृत्ता भोगेच्छा बहु- पुरुषमानो विगलितः समानाः खर्याततः सपदि सुहृदो जीवित- समाः । शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने अहो दुष्टः कायस्तदपि मरणापायचकितः ॥ ४४ ॥ अमीषां प्राणानां तुलितबिसिनीपत्रपयसा कृते किं नास्माभिर्विगलित- विवेकैर्यवसितम् । यदाढ्यौनामग्रे द्रविणमदनिःसङ्गमनसा कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ ४५ ॥ समारम्भा भग्नाः कति कति न वारास्तव पशो पिपासोस्तुच्छेद्सिन्द्र- विणमृगतृष्णार्णवजले । तथापि प्रत्याशा विरमति न ते मूढ शतधा न दीर्णं यच्चेतो नियतमशनिग्रावघटितम् ॥ ४६ ॥ विवेकव्याकोशे विकसति शमे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरति तरा सा परिणतिः । जरा जीर्णैश्वर्यग्रसनगहनाक्षेप- कृपणस्तुवापात्र यस्या भवति मँरुतामप्यधिपतिः ॥ ४७ ॥ अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धाना हरति विवशाना शमधनम् । विपद्दीक्षादक्षासहतरलतारैः प्रणयिनीकटाक्षैः कूटैः कपटकूटिलैः कामकितव. ॥ ४८ ॥ उत्खात निधिशङ्कया क्षितितल ध्माता गिरेर्धा- तवो निस्तीर्णं सरितापतिर्नृपतयो यत्नेन संतोषिताः । मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशा. प्राप्त काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ॥ ४९ ॥ निःस्वो वँष्टि शतं शती दशशतं लक्षं सहस्राधिपो लक्षेशः क्षितिराजता क्षितिपतिश्चक्रेशता वाञ्छति । चक्रेशः सुरराज- ता सुरपतिर्ब्रह्मास्पदं वाञ्छति ब्रह्मा विष्णुपद हरिः शिव- पद तृष्णावधि को गतः ॥ ५० ॥ माने नेच्छति वार्य- त्युपशमे र्कमालिकन्त्या हिया स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते । तृष्णे त्वामनुबध्नता फलमियत्प्राप्त जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न समन्यते ॥ ५१ ॥ दन्तैरुच्चलितं धिया तरलितं पाण्यङ्गिणा कम्पितं दृग्भ्या कुञ्चितं बलेन गलितं रूपश्रिया प्रोषितम् । प्रासाया यमभूपतेरिह महाधाट्या धरायामिह तृष्णा केवलमेकिकैव सुभटी धीरा पुरो नृत्यति ॥ ५२ ॥ श्रान्तं याचनतत्परेण मनसा देहीति वाक्प्रेरिता भुक्तं मानविवर्जितं परगृहे साशङ्कया काकवत् । साक्षेपं भ्रुकुटीकटाक्षकूटिलं दृष्टं खलानां मुखं तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रापि सज्जा वयम् ॥ ५३ ॥ श्रान्तं देशमनेकद दुर्गविषमं प्राप्तं न किंचित्फलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला । भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकव- त्तृष्णे जृम्भसि पापकर्मनिरते नाद्यापि संतुष्यसि ॥ ५४ ॥ आसिष्ये सुखितो गृहीति विहितो मोहेन दारग्रहस्तत्सङ्गा- त्समुतदासवान्धवसुहृत्सम्बन्धिनामुद्भवः । तन्निवाहकधर्त्ना- परिभवानौचित्यचिन्ताजुषः किं सौख्यं कतमा गृहस्थिति- रतोऽनर्थो मया स्वीकृतः ॥ ५५ ॥ शान्तेर्मातुर्विवेका- त्पितुरपि कृपणं मँङ्कु कृत्वा पृथक्त्यामाशा योषा स्वतन्त्रा व्रजति परगृहान्सर्वदा वीतैलज्जा । सचत्ते मत्कृशत्वं मम यमनिगमो भ्रातरौ भर्त्सयन्ती पुष्ट्रा चैवात्मबन्धूंस्तदपि पुँनरहो हन्त वन्ध्या श्रयाम. ॥ ५६ ॥ लज्जे त्वं मज्ज सिन्धौ गिरिवरशिखरे त्वं च तिष्ठ प्रतिष्ठे शान्ते प्रान्ते दिशान्ते कुरु वसतिमहो गर्व खर्वो भवाशु । तेजः पाताल- मूलं भज भुवि भगवन्मान मा नाम तेऽस्तु प्रेम्णैकामाश्च- यन्ती सतत महमिमा तूर्णमाशा श्रयिष्ये ॥ ५७ ॥

धीरप्रशंसा

स एव धन्यो विपदि स्वरूपं यो न मुञ्चति । त्यजत्य- र्ककरैस्तप्तं हिमं देहं न शीतताम् ॥ १ ॥ चलन्ति गिरयः कामं युगान्तपवनाहताः । कृच्छ्रेऽपि न चलत्येव धीराणा निश्चलं मनः ॥ २ ॥ कृतं पुरुषशब्देन जातिमात्रावलम्बि- ना । योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ३ ॥ ग्रसमानमिवाजौसि सहसा गौरवेरितम् । नाम यस्याभि- नन्दन्ति द्विषोऽपि स मतः पुमान् ॥ ४ ॥ सह परिजनेन विलसति धीरो गैहनानि तरति पुनरेकः । विषमेकेन निपीतं त्रिपुर्रजिता सह सुरैरमृतम् ॥ ५ ॥ श्लाघ्या महतामुन्नति- रद्भुतमध्यवसितं च धीराणाम् । कनकगिरिरनभिलङ्घयो रविरनिशमनुज्झितारम्भः ॥ ६ ॥ अङ्गणवेदी वसुधा कँल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञ- स्य धीरस्य ॥ ७ ॥ केदारितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टम् । अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा यान्ति कदाचिदेव ॥ ८ ॥ अर्थः सुखं कीर्तिर- पीह मा भूदन्नर्थ एवास्तु तथापि धीराः । निजप्रतिज्ञाम- नुरुध्यमाना महोद्यमाः कर्म समारभन्ते ॥ ९ ॥ र्लैर्महाहैं-


पादटिप्पण्यः (Left Footnotes): १ धनिकानाम् २ शून्यमनसान् ३ वज्रपाषाणघटितम् ४ इन्द्र ५ धननिक्षेपकल्पनया ६ सच्छिद्रापि कपर्दिका. ७ इच्छति ८ पृथ्वी ९ तवानुबन्ध कुर्वतेत्यर्थ १० मुकुलितम्

पादटिप्पण्यः (Right Footnotes): १ शीघ्रम् २ गतलब्जा निर्लज्जेत्यर्थ ३ अहो इत्याश्चर्ये. ४ दुस्तराणि ५ शकरेण ६ व्यापार ७ अजिरम् ८ कृत्रिमसरित्. ९ दरिद्रस्य १० दूरीकर्तुम्.

७८सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

स्तुतुर्भुन देवा न भेजिरे भीमविषेण भीतिम् । सुधा
विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥ १० ॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु
गच्छतु वा यथेच्छम् । अद्यैव वा मरणमस्तु युगान्तरे
वा न्यायात्पथः<sup></sup> प्रविचलन्ति पदं न धीरा ॥ ११ ॥
कान्ताकटाक्षविशिखा न लूँनन्ति<sup></sup> यस्य चित्तं न निर्दहति
कोपकृशानुतापः । कर्षन्ति भूरि विषयाश्च न लोभपाशा
लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ १२ ॥ आपत्समुद्ध-
रणवीरधिय परेषा जाता महत्स्वपि कुले न भवन्ति सर्वे ।
विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमूसलो-
ल्लिखनं सहन्ते ॥ १३ ॥ विरम विरसायासादस्माद्दुरध्यव-
सायतो विपदि महता धैर्यध्वंसं यदीक्षितुमीहसे । अयि
जड विधे कल्पापायव्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा
नैते न वा जलराशयः ॥ १४ ॥


वीरप्रशंसा

एकेनापि हि शूरेण पदाक्रान्तं महीतलम् । क्रियते
भास्करेणेव स्फारस्फुरिततेजसा ॥ १ ॥ बहवः पङ्गवोऽपीह
नराः शास्त्राण्यधीयते । विरला रिपुखड्गाग्रधारापातसहि-
ष्णवः ॥ २ ॥ अनन्तोद्भूतभूतौघसङ्कले भूतलेऽखिले । शस्त्रे
शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः ॥ ३ ॥ महिम्नामन्तरं
पश्य शेषाहेः सान्निभूधरा । फणासहस्रस्रग्दाम्नि भ्रमरीव
विभाति भूः ॥ ४ ॥ स्पृहयति भुजयोरन्तरमायतकरवाल-
कररुहविदीर्णम् । विजयश्रीर्वीराणां व्युत्पन्नप्रौढवनितेव ॥ ५ ॥
भुजे विशाले विमलेऽसिपत्रे कोऽन्यस्य तेजस्सिकथा सहेत ।
गतासुरप्याहवसीम्नि वीरो द्विधा विधत्ते रविमण्डल य. ॥ ६ ॥
लोकोत्तर चरितमर्पयति प्रतिष्ठा पुंसा कुलं नहि निमित्त-
मुदारतायाः । वातापितापनमुनेः कलशात्प्रसूतिर्लीलायितं
पुनर्रसमुद्रसमुद्रपानम् ॥ ७ ॥ नायाति वाडवशिखाकथनेन
ताप शैत्यं हिमाद्रिपयसा विशता च नाब्धिः । कश्चिद्गमीर-
मनसा सततं विषादकाले प्रमोदसमये च समोऽनु-
भावः ॥ ८ ॥ संप्राप्नुवन्ति ननु मण्डलभेकमेव क्ष्मापा
जये समरसीम्नि वपुस्तु हित्वा । चण्डांशुमण्डलमथामि-
मतानि कामं प्रेमार्द्रनिर्जरवधूस्तनमण्डलानि ॥ ९ ॥
विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं समायुक्तोऽप्यर्थैः
परिभवपदं याति कृपणः । स्वभावादुद्भूता गुणसमुदया-
वाप्तिविषया द्युति सैंही<sup></sup> कि श्वा धृतकनकमालोऽपि<sup></sup>
लभते ॥ १० ॥ को वीरस्य मनस्विनः स्वविषयः को वा
विदेशैस्तथा यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यदंष्ट्रानखलाङ्गुलप्रहरण मिहो वनं गाहते तस्मिन्नेव
हतद्विपेन्द्ररुधिरैस्तृष्णा छिनत्त्यात्मनः ॥ ११ ॥ सामो-
पायनयप्रपञ्चपटव प्रायेण ये भीरव शूराणा व्यवसाय
एव हि परं ससिद्धये कारणम् । विस्फूर्जद्विकटाटवीगज-
घटापीठैकसचूर्णनव्यापारैकरसस्य सन्ति विजये सिंहस्य के
मन्त्रिण ॥ १२ ॥ काकुत्स्थस्य दशाननो न कृतवान्दारापहारं
यदि काम्भोधिः क्व च सेतुबन्धघटना कोत्तीर्य लङ्काजयः ।
पार्थस्यापि पराभवं यदि रिपुर्नाधात्क्व ताहक्तपो नीयन्ते
रिपुभि समुन्नतिपदं प्रायः पर मानिनः ॥ १३ ॥ वह्निं
शीतयितुं हिमं ज्वलयितुं वातं निरोडुं पयो मूर्त व्योम
विधातुमुद्नमयितुं नेतुं नति वा महीम् । उद्धर्तुं किल भूभृतः
स्थलयितुं सिन्धुं च संभाव्यते शक्तिर्यस्य जनैः स एव नृपतिः
शेषाः पर पार्थिवाः ॥ १४ ॥ नाखिन्सन्ततवेधनोल्बण-
तमैस्तल्पैरूदेति व्यथा ग्रन्थिम्यश्चलितैर्न चालमसुभिर्मर्मव्यथा
जायते । क्रन्दद्बन्धुजनार्तनादचकितस्खान्तं न वा स्थीयते न
ह्येतन्मरणं सुखस्य सुभगा काप्येव सम्प्राप्तिभूः ॥ १५ ॥


तेजस्विप्रशंसा

बालस्यापि रखेः पाँदाः<sup></sup> पतन्त्युपरि भूभृताम्<sup></sup> । तेजसा
सह जातानां वयः कुत्रोपयुज्यते ॥ १ ॥ एकः स एव
तेजस्वी सैहिकेयैः<sup></sup> सुरद्विषाम् । शिरोमात्रावशेषेण जीयन्ते
येन शत्रवः ॥ २ ॥ मौनी पादप्रहारेऽपि न क्षमी नीच एव
सः । आकृष्टशस्त्रो मित्रेऽपि न तेजस्वी खलो हि सः ॥ ३ ॥
तुल्येऽपराधे स्वैर्भानुर्भानुमन्तं<sup>११</sup> चिरेण यत् । हिमांशुमाशु<sup>१२</sup>
ग्रसते तन्मैद्दिम्नः<sup>१३</sup> स्फुटं फँलॅम् ॥ ४ ॥ स्वयं प्रणमतेऽल्पेऽपि
परवायावुपैयुषि<sup></sup> । निदर्शनमँसाराणा<sup>१४</sup> लँघुर्बहुँलृणं<sup>१५</sup> नरः ॥ ५ ॥
तेजस्विमध्ये तेजस्वी दैवीयानपि<sup>१८</sup> गण्यते । पञ्चमः पैञ्चतपस-<sup>१९</sup>
स्तपनो जातवेदसाम् ॥ ६ ॥ अकृत्वा हेलया पादमुच्चैर्मूर्धसु


१ न्यायादनपेतात् २ मार्गात् ३ कटाक्षा एव विशिखा बाणा
४ न छिन्दन्ति ५ कोप क्रोध स एव कृशानुग्निस्तत्ताप
६ सम्पूर्णम् ७ अगाधसमुद्रपानम् ८ पराजयस्थानम्

१ कान्तिम् २ सिंहसबन्धिनीम् ३ सुवर्णमालाअलकृतोऽपि
४ परदेश ५ दष्टानखलाङ्गलाश्च प्रहरण यस्य नखा एव लाङ्गनानि विदारकत्वात् हलानि इति रूपकम् 'पान्तु वो नरसिंहस्य नखलाङ्गलकोटय ' इति कस्यचित्प्रयोग ६ प्रविशति ७ किरणा, पक्षे,-चरणा ८ पर्वतानाम्; पक्षे,-राज्ञाम् ९ राहु १० राहु ११ सूर्यम् १२ चन्द्रम् १३ मार्दवस्य १४ दृष्टान्त १५ दुर्बलानाम् १६ निष्पौरुष १७ तृणकल्पमित्यर्थ १८ दूरस्थोऽपि १९ पञ्चाग्निसाम्य तपो यस्य

तेजस्विप्रशंसा, मनस्विप्रशंसा | ७९


तेजस्विप्रशंसा (क्रमशः)तेजस्विप्रशंसा / मनस्विप्रशंसा
विद्विषाम् । कैथंकारमने॑लम्बा कीर्तिर्याम॑धिरोहति ॥ ७ ॥<br>अङ्गाधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरैक्षिप्त-<br>मृगयूथो मृगाधिपः ॥ ८ ॥ तेजस्विनि क्षमोपेते नातिका-<br>र्कश्यमाचरेत् । अतिनिर्मन्थनादग्निश्चन्दनादपि जायते ॥ ९॥<br>तेजोहीने महीपाले स्वे परे च विकुर्वते । निःशङ्को हि<br>जनो धत्ते पदं भस्मन्न्य॑नूष्मणि ॥ १० ॥ एकचक्रो रथो<br>यँन्ता विक॑लो विषमा हँयाः । आक्रमत्येव तेजस्वी तथा-<br>प्यर्को नभस्तलम् ॥ ११ ॥ साधनं सुमहद्यस्य यन्नान्यस्य<br>विलोक्यते । तस्य धीशालिनः कोऽन्यः सहेतारा॑लिता<br>ध्रुवम् ॥ १२ ॥ येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ।<br>अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ॥ १३ ॥ सिंहः<br>शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।<br>प्रकृतिरियं सँत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ १४ ॥<br>यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनैकान्तः ।<br>तत्तेजस्वी पुरुषः परकृतविकृतिं कथं सहते ॥ १५ ॥<br>दर्शिता॑तोपोच्छ्रायैस्तेजोवद्भिः सुगोत्रसँर्जातैः । हीरैरपिस्व<br>धीरैरापत्सापि गम्यते नाधः ॥ १६ ॥ दीप्यन्ता ये दीप्त्यै<br>¹⁷घटिता मणयश्च वीरपुरुषाश्च । तेज. सविनाशाय तु<br>भवति तृणानामिव लघूनाम् ॥ १७ ॥ मदसिक्तमुरैर्गन्धाधिपः<br>करिभिर्वर्तयते स्वयंहृतै. । लघयन्वखलु तेजसा जगन्न<br>महानिच्छति भूतिमन्वतः ॥ १८ ॥ तीक्ष्णोष्णदुर्विषहवीर्य-<br>भृतः परेषा तेजस्विनो न गणयन्ति वपुर्महत्त्वम् । यत्पद्म-<br>रागशकलाकृतिरद्रितुङ्गं कात्स्न्येन भक्षयति काष्ठचयं<br>स्फुलिङ्गः ॥ १९ ॥ न तेजस्तेजस्वी ⁴प्र॑सृतमपरेषा<br>प्रसहते स तस्य स्वो भावः प्रैर्कृतिनियतत्वादकैंतकः ।<br>मयूखैरैैश्चान्तं तपति यदि देवो दिनकरः किमो-<br>ग्नेयग्रावा निर्कृत इव तेजासि ²³वमति ॥ २० ॥ हस्ती<br>स्थूलतनुः स चाङ्कुशवशः कि हस्तिमात्रोऽङ्कुशो वज्रेणाभि-<br>हता पतन्ति गिरयः कि शैलमात्रः ²⁵पेविः । दीपे प्रज्वलिते<br>विनश्यति तमः कि दीपमात्रं तमस्तेजो यस्य विराजते स<br>बलवान् स्थूलेषु कः प्रत्येयः ॥ २१ ॥ स्वल्पस्नायुवसावशेष-<br>मलिनं निर्मासमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति नतु तत्तस्य क्षुधः शान्तये । सिंहो जम्बुकमङ्कमागतमपि<br>त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः<br>सत्त्वानुरूपं फलम् ॥ २२ ॥ शमयति गजानन्यान गन्धद्विप.<br>कलभोऽपि सन्भवति सुतरा वेगोद्रं भुजंग शिशोर्विषम् ।<br>भुवमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं न खलु वयसा<br>जात्यैवार्य स्वकार्यसहो भर ॥ २३ ॥<br><br>### मनस्विप्रशंसा<br><br>काम प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः । इच्छन्ति<br>न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ १ ॥ नूत नूतन-<br>कूष्माण्डफलाना के भवन्त्यमी । अङ्गुलीदर्शनाद्येन विली-<br>यन्ते मनस्विन. ॥ २ ॥ ब्रह्माण्डमण्डलीमात्रं किं लोभाय<br>मनस्विनः । शैफरीस्फुरितैर्नाब्धेः क्षुब्धता जातु जायते ॥ ३॥<br>कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्व-<br>लोकस्य शीर्यते वन एव वा ॥ ४ ॥ पादाहतं समुत्थाय<br>मूर्द्धानमधिरोहति । स्वैस्थादेवापमानेऽपि ⁶देहिनस्तद्वरं<br>रज. ॥ ५ ॥ समूलघातम॑र्ध्नन्तः परांञ्चोध्नन्ति मानिनः ।<br>प्रध्वंसिता॑न्धतमसस्तत्रोदाहरणं रविः ॥ ६ ॥ स पुमाने॑र्थ<br>वज्जन्मा यस्य नाग्नि पुर स्थिते । नान्यमङ्ङ्गुलिमभ्येति<br>सख्यौयामुद्यताङ्गुलिः ॥ ७ ॥ स्थित्यैतिक्रान्तिभीरूणि स्व-<br>च्छान्यौकुलितान्यपि । तोयानि तोयराशीना मनासि च<br>मनस्विनाम् ॥ ८ ॥ ¹⁵शॅक्तिवैकल्यैन॑म्रयस निःसौरत्वाईंघी-<br>यसः । ¹⁹ज॑न्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ९ ॥<br>अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् । प्रियता ज्या-<br>यसीं मा गान्महता केन तुङ्गता ॥ १० ॥ तावदाश्रीयते<br>लक्ष्म्या तावदस्य स्थिर यशः । पुरुषस्तावदेवासौ यावन्मा-<br>नान्न हीयते ॥ ११ ॥ दुरासदत्वमज्यायानगम्यस्तुङ्गोऽपि<br>भूधर. । न जहाति मैहाँजस्कं मैन॑प्रांशुमुलङ्घ्यता ॥ १२ ॥<br>गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा । येषा यशासि<br>शुभ्राणि हेपयन्तीन्दुमण्डलम् ॥ १३ ॥ उदाहरणमाशीःषु<br>प्रथमे ते मनस्विनाम् । शुष्केऽशनिरिवामर्षो यैररातिषु<br>पात्यते ॥ १४ ॥ तुङ्गत्वमितैरै नाद्रौ नेदं सिन्धाव-

पादटिप्पण्यः (Footnotes)

पादटिप्पणी (वाम भाग)पादटिप्पणी (दक्षिण भाग)
१ कथमित्यर्थ . २ निराधारा ३ हत ४ उष्णत्वरहिते ५ सारथि<br>६ अनूरु = अरुण ७ तुरगा ८ कुटिलताम् ९ प्रशस्तकोपेलेषु<br>१० बलवताम् ११ सूर्यकान्त १२ अपमानम् १३ कान्ति, पक्षे,<br>-प्रताप १४ कान्त्याधिक्यम्, पक्षे,-धनुष औन्नत्यम् १५ प्रकाश-<br>कत्वम्; पक्षे, सामर्थ्यम्. १६ पर्वत, पक्षे,-कुलम् १७ विधातु-<br>निष्पादिता १८ विस्तृतम् १९ स्वभावधीनत्वात् २० अकृत्रिम<br>२१ किरणै २२ सततम् २३ सूर्यकान्त.. २४ विकृत इव २५ वज्रम्<br>२६ विश्वास •१ प्रभावानुरूपम् २ यथेच्छम् ३ मत्स्यीस्फुरणेन ४ कदाचित्<br>५ गुच्छस्य ६ अव्यग्रात् ७ चेतनाव् ८ अनुन्मूलयन्त ९ शत्रून्<br>१० गाढ तम ११ सार्थकजन्मा १२ पुरुषगणनाप्रस्तावे १३ म-<br>र्यादोल्लङ्घनाद्वेतोर्भीरूणि १४ सक्षोभितानि १५ उत्साहादिशक्ति<br>वैधुर्यण, पक्षे, अवष्टम्भसामर्थ्यविरहेण १६ प्रह्रीभूतस्य, पक्षे,-<br>विधेयभूतस्य १७ दुर्बलत्वाद्, पक्षे,-स्थिराशरहितत्वात् १८ गौर-<br>वहीनस्य, पक्षे,-नीरसस्य १९ जन्तोः. २० प्रतापसपन्नम्.<br>२१ मानोन्नतपुरुषम् २२ अगाधता २३ तुङ्गत्वम्
८०सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

गाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ १५ ॥ न
क्वचिच्च बहिर्यान्ति मानिनां प्रार्थनागिरः । यदि निर्यातुमि-
च्छन्ति तदा प्राणपुरःसराः ॥ १६ ॥ असेवितेश्वरद्वारमदृष्ट-
विरहव्यथम् । अनुक्तक्लीबवचनं धन्यं कस्यापि जीवितम्
॥ १७ ॥ मानिनो हतमानस्य मानोऽपि न सुखप्रदः ।
जीवन्न मानमूलं हि माने म्लाने कुतः सुखम् ॥ १८ ॥
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि
निर्वाणमायाति नानलो याति शीतताम् ॥ १९ ॥ मनस्वि-
हृदयं धत्ते रोषेणैव प्रसन्नताम् । भस्मना मुकुरः प्रायः प्रसादं
लभतेतराम् ॥ २० ॥ मनस्विनो न मन्यन्ते परतः
प्राप्य जीवनम् । बलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि
कोकिलाः ॥ २१ ॥ दूर्वाङ्कुरतृणाहारा धन्यास्ते वै वने मृगाः ।
विभवोन्मत्तचित्तानां न पश्यन्ति सुखानि यत् ॥ २२ ॥
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः । अर्थैरयत्नसुलभै-
र्जलदर्भाङ्कुरादिभिः ॥ २३ ॥ उपकारेण दूयन्ते न सहन्तेऽनु-
कम्पिताम् । आपत्स्वपि दुराराध्या नित्यदुःखा मन-
स्विनः ॥ २४ ॥ जलसेकेन वर्धन्ते तरवो नाश्मसंचयाः ।
भव्यो हि द्रव्यतामेति क्रिया प्राप्य तथाविधाम् ॥ २५ ॥
अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु
सत्त्वानामवमानात्परं भयम् ॥ २६ ॥ न सदश्वाः कशाघातं
न सिंहा घनगर्जितम् । परैरङ्गुलिनिर्दिष्टं न सहन्ते
मनस्विनः ॥ २७ ॥ कामं वनेषु हरिणास्तृणेन जीवन्त्य-
यत्नसुलभेन । धनिषु न दैन्यं विदधति ते खलु पशवो
वयं सुधियः ॥ २८ ॥ १प्रत्युपकुर्वन्बह्वपि न भवति पूर्वो-
पकारिणा तुल्यः । एकोऽनेकं२करोति कृतं निष्कारणमेव
कुरुतेऽन्यः ॥ २९ ॥ न नटा न विटा न गायका न परद्रोह-
निबद्धबुद्धयः । नृपसद्मनि नाम के वयं स्तनभारानमिता
न योषितः ॥ ३० ॥ अभिमानधनस्य गत्वरैरसुभिः स्यान्नु
यशश्चिचीषतः । अचिरांशुविलासचञ्चला ननु लक्ष्मीः
फलमानुषङ्गिकम् ॥ ३१ ॥ ज्वलितं न हिरण्यरेतसं चय-
मास्कन्दति भस्मना जनः । अभिभूतिभयादसूनतः सुख-
मुज्झन्ति न धाम मानिनः ॥ ३२ ॥ पुरो वा पश्चाद्वा
वयमुपविशामः क्षितिभुजा ततः किं नश्छिन्नं वचनरचना-
क्रीतजगताम् । अगारे कान्तारे कुचकलशभारे मृगदृशां
मणेस्तुल्यं मूल्यं सहजसुभगस्य द्युतिमतः ॥ ३३ ॥ अमुक्तैकस्या
यस्याः क्षणमपि न यातं नृपशतैर्भुवस्तस्या लाभे क इव
बहुमानः क्षितिभुजाम् । तदंशस्याप्यंशे तदवयवलेशेऽपि
पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ३४ ॥


क्वचिद्भूभौ शय्या क्वचिदपि च पर्यङ्कशयनं क्वचिच्छाका-
हारी क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्थाधारी
क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति
दुःखं न च सुखम् ॥ ३५ ॥ स जातः कोऽप्यासीन्मदन-
रिपुणा मूर्ध्नि धवलं कपालं यस्योच्चैर्विनिहितमलंकारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमद्भिः कः
पुंसामयमतुलदर्पज्वरभरः ॥ ३६ ॥ विपुलहृदयैर्यत्नैः
कैश्चिज्जगज्जनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं
यथा । इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपय-
पुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ३७ ॥ वरमहि१मुखे
क्रोधाध्माते२ करो विनिवेशितो विषमपि वरं पीत्वा सुप्तं
कृतान्तनिवेशने३ । गिरिवरतटान्मुक्तश्चात्मा वरं शतधा
कृतो न तु खलजनावासैरर्थैः कृतं हितमात्मनः ॥ ३८ ॥
नानीयन्ते मधुनि मधुपैः पारिजातप्ररोहैर्नाम्यर्थ्यन्ते तुहिन-
रुचिना चन्द्रिकायाश्चकोराः । असद्वाचां धुरि मधुरिमा
यद्यपूर्वावतारः सोल्लासाः स्युः स्वयमिह बुधाः किं सुधाम्यर्थ-
नाभिः ॥ ३९ ॥ मृत्पिण्डो जलरेखया वलयितः सर्वो-
ऽप्ययं नन्वणूनाङ्गीकृत्य स एव सयुगशतै राज्ञां गणैर्भुज्यते ।
तद्दद्युर्ददतेऽथवा न किमपि क्षुद्रा दरिद्रा भृशं धिग्धिकता-
न्पुरुषाधमान् धनकणं वाञ्छन्ति तेभ्योऽपि ये ॥ ४० ॥
त्वं चेन्नीचजनानुरागमरसादस्मासु मन्दादरः का नो मानद
मानहानिरियती भूः किं त्वदेकप्रभूः । गुञ्जापुञ्जपरम्परा-
परिचयाद्भिल्लीजनैरूज्झितं मुक्तादाम न धारयन्ति किमहो
कण्ठे कुरङ्गीदृशः ॥ ४१ ॥ त्वं राजा वयमप्युपासितगुरु-
प्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु
प्रतन्वन्ति नः । इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ ४२ ॥
ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं किमाचक्ष्महे तत्राप्ये-
कतरं तु खण्डममितास्तस्मिन्नृपाः केचन । तेभ्यो दैन्यशतो-
पनीतविभवा दृष्टानुकम्पास्तु ते धिङ्मूढाः स्पृहयन्ति हन्त
किमपि स्वार्थेन तेभ्योऽपि ये ॥ ४३ ॥ पातालात्र विमो-
चितो बत बलिर्नीतो न मृत्युं क्षयं नोन्मृष्टं शशलाञ्छनस्य
मलिनं नोन्मूलिता व्याधयः । शेषस्यापि धरां विधृत्य
न कृतो भारावतारः क्षणं चेतः सत्पुरुषाभिमानमनिशं
मिथ्या वहन्खिद्यसे ॥ ४४ ॥ नास्माकं शिबिका न चास्ति
कटकाद्यालक्रियासत्क्रिया नोत्तुङ्गास्तुरगो न कश्चिदनुगो
नाप्यम्बरं सुन्दरम् । किं तु क्ष्मातलवर्त्यशेषविदुषां साहित्य-
विद्याजुषां चेतस्तोषकरी शिरोनतिकरी विद्याऽनवद्यास्ति


पादटिप्पण्यः (Footnotes):
१ प्रत्युपकारं कुर्वन्
२ अनुकरणं करोति
१ सर्पमुखे
२ क्रोधपूर्णे
३ यमगृहे.

मनस्विप्रशंसा, अपौरुषत्वनिन्दा, गुणप्रशंसा ८१

नः ॥ ४५ ॥ लक्ष्मीर्निर्गृहितेमति हीनचरितैर्यैरैव तच्छिक्षया
कि नाथैव करोमि तामनुचरी रामा सकामामिव । ब्रह्माण्डे
निपतत्यपि स्खलति न प्रायेण येषा मनस्तेषामार्यमनस्विनामनु-
पद गन्तास्मि नाह यदि ॥ ४६ ॥ पुण्ये ग्रामे वने वा महति
सितेपटच्छन्नपालीं कपालीमादाय न्यायगर्भ द्विजहुतहुत-
भुग्धूमधूम्रोपकण्ठम् । द्वार द्वार प्रवृत्तो वरमुदरदरीपूरणाय
क्षुधार्तो मानी प्राणी स्वदेशे न पुनरनुदिन तुल्यकुल्येषु
दीनः ॥ ४७ ॥ अर्थीनामीशिषे त्व वयमपि च गिरामह्री-
श्महे यावदित्थ शूरस्त्वं वादिदर्पज्वरशमनविधावक्षयं
पाटवं नः । सेवन्ते त्वा धनाढ्या मतिमलहतये मामपि
श्रोतुकामा मय्यप्यास्था न चेत्तत्त्वयि मम सुतरामेष राज-
न्ग़तोऽस्मि ॥ ४८ ॥ श्रेयस्वी यत्र मानं व्रजति दुरित-
कृच्चापमानं मनुष्यैरज्ञेयं यत्र दूतैः प्रभुमनु मनुजो नीयते
चानपेक्षः । मृत्योर्गेहं वर तन्न तु कुधनवता यत्र सर्वापमानो
लोकैर्विज्ञायमानः स्वयमभितिथिता यत्र चार्थी प्रयाति ॥ ४९ ॥

अपौरुषत्वनिन्दा

माजीव्यः परावज्ञादुःखदग्धोऽपि जीवति । तस्यार्जन-
निरेवास्तु जननीक्लेशकारिणः ॥ १ ॥ असपादयतः कंचि-
दर्थं जातिक्रियागुणैः । यदृच्छाशब्दवत्पुंसः सजायै जन्म
केवलम् ॥ २ ॥


गुणप्रशंसा

गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसता सताम् । केतकी-
गन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ १ ॥ गुणवज्जनसंपर्का-
द्याति स्वल्पोऽपि गौरवम् । पुष्पाणामनुषङ्गेण सूत्रं शिरसि
धार्यते ॥ २ ॥ कलावतः सैव कला ययौघे क्रियते भवः ।
बहींभिश्च कलाभिः कि याभिरेङ्कः प्रदर्श्यते ॥ ३ ॥ न
पुत्रत्वेन पूज्यन्ते गुणैरासाद्यते पदम् । रखेर्व्यापारमादत्ते
प्रदीपो न पुन. शनिः ॥ ४ ॥ गुणाः सर्वत्र पूज्यन्ते पितृ-
वंशो निरर्थकः । वासुदेवं नमस्यन्ति वसुदेवं न
मानवाः ॥ ५ ॥ यदि सन्ति गुणाः पुंसा विकसन्त्येव ते
स्वयम् । नहि कस्तूरिकामोद. शपथेन निवार्यते ॥ ६ ॥
किमाढद्यत्वगुरुत्वाभ्या चरमोऽपि गुणैर्गुरुः । केतकीकुसुमे
पश्य लघुपत्रऽपि गौरवम् ॥ ७ ॥ केतकीकुसुमं भृङ्ग-
खण्ड्यमानोऽपि सेवते । दोषाः कि नाम कुर्वन्ति गुणापहृत-
चेतस. ॥ ८ ॥ शरीरस्य गुणाना च दूरमत्यन्तमन्तरम् ।
शरीर क्षणविध्वंसि कल्पान्तस्थायिनो गुणा. ॥ ९ ॥ गुणे-
ष्वेव हि कर्तव्यः प्रयत्न पुरुषै. सदा । गुणयुक्तो दरिद्रो-
ऽपि नेश्वरैर्गुणैः सम. ॥ १० ॥ गुणे. सर्वज्ञकल्पोऽपि
सीदत्येको निराश्रयः । अनर्घमपि माणिक्यं हेमाश्रयमपेक्षते
॥ ११ ॥ गुणेषु क्रियता यत्न किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥ १२ ॥ गुणैर्गौ-
रवमायाति न महत्यापि संपदा । पूर्णेन्दुर्न तथा वन्द्यो निष्क-
लङ्को यथा कृशः ॥ १३ ॥ स्वयं समुखविस्तारादूर्णनाभः
पतत्यध. । तमेव संहरन्भूयः पदमुच्चैर्विगाहते ॥ १४ ॥
गुणो दूषणता याति दूषणं गुणता क्वचित् । तथा हि नम्रता
दोषः स्तनयोः स्तब्धता गुणः ॥ १५ ॥ गुणैरुत्तुङ्गता याति
नोच्चैरासनसंस्थितः । प्रासादशिखरस्थोऽपि काकः किं
गरुडायते ॥ १६ ॥ अहो गुणाना प्राप्त्यर्थ यतन्ते बहुधा
नराः । मुक्ता यदर्थं भग्नासा इतरेषा च का कथा ॥ १७ ॥
गुणेन स्पृहणीय. स्यान्न रूपेण युतो जनः । सौगन्ध्यवर्ज्य
नादेयं पुष्पं कान्तमपि क्वचित् ॥ १८ ॥ प्रभुभिः पूज्यते
लोके कलैव न कुलीनता । कलावान्मान्यते मूर्ध्नि सत्सु
देवेषु शंभुना ॥ १९ ॥ गुणयुक्तोऽपि पूर्णोऽपि कुम्भ. कूपे
निमज्जति । तस्य भारसहो नास्ति गुणग्राहको यदि ॥ २० ॥
अहो वैचित्र्यमेतस्स संसारस्स किमुच्यते । गुणोऽपि क्लेश-
हेतु. स्याद्विश्रान्तः कण्ठकन्दले ॥ २१ ॥ जात्युत्कृष्टस्य हि
मणेर्नोचितं शाणघर्षणम् । आदर्शे चित्रकारै. किं लिख्यते
प्रतिबिम्बितम् ॥ २२ ॥ गुणयुक्तोऽप्यधो याति रिक्तः
कूपे घटो यथा । निर्गुणोऽपि भृतः पश्य जनै शिरसि
धार्यते ॥ २३ ॥ गुणिनोऽपि हि सीदन्ति गुणग्राही न
चेदिह । सगुण. पूर्णकुम्भोऽपि कूप एव निमजति ॥ २४ ॥
गुणो गुणान्तरापेक्षी स्वरूपस्यातिहेतवे । स्वभाव रम्यं
लावण्यं तारुण्येन मनोहरम् ॥ २५ ॥ गुणै. पूजा भवे-
त्पुंसा नैकस्माज्जायते कुलात् । चूडारत्नं शशी शंभोर्यानमु-
क्षैःश्रवो हरेः ॥ २६ ॥ सर्वत्र गुणवानेव चकास्ति प्रथितो
नरः । मणिर्मूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥ २७ ॥


पादटिप्पण्यः (Left Footnotes):
१ शुभ्रवस्त्रेण पिहिता पाली यस्या २ भिक्षापात्रम् ३ गर्हितं जीवतीति माजीवन् ४ परै कृता याऽवज्ञा तदेव दुख तेन दग्धः खिन्न ५ अनुत्पत्ति ६ ब्राह्मणत्वादि ७ इज्याध्ययनादि. ८ शौर्यादि. ९ भ्रमरा.. १० चन्द्रस्य, पक्षे,-विदुष ११ षोडशो भाग, पक्षे,-चतु षष्टिकलानामन्यतमा १२ अधोभागे ध्रियते, पक्षे,-तिरस्क्रियते. १३ शिव, पक्षे,-संसार १४ कलङ्क, पक्षे,-दोष
११ सु. र. भा

पादटिप्पण्यः (Right Footnotes):
१ गुणाकृष्टान्त करणस्य २ शिवतुल्य ३ दुख प्राप्नोति ४ अमूल्यम् ५ आडम्बरै ६ राजभवनम् ७ मौक्तिकानि, पक्षे,-मोक्षमापन्ना ८ रज्जुयुक्त, पक्षे,-विनयादिगुणसपन्न ९ रिक्त; पक्षे,-निर्द्रव्य १० पूर्ण ११ रज्जुबद्ध १२ अश्व १३ इन्द्रस्य

८२ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्]


गुणानर्चन्ति जन्तूना न जाति केवला क्वचित् । स्फाटिकं भाजन भग्न काकिन्यापि न गृह्यते ॥ २८ ॥ नहि जन्मनि ज्यैष्ठत्व ज्येष्ठत्वं गुण उच्यते । गुणाद्गुरुत्वमायाति दधि दुग्धं घृत यथा ॥ २९ ॥ गुणवान्सुचिरस्थायी दैवे- नापि न सह्यते । तिष्ठत्येको निशा चन्द्र श्रीमान्संपूर्ण- मण्डल. ॥ ३० ॥ सर्वत्र गुणवान्देशे चकास्ति प्रथते- तराम् । मणिर्मूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥ ३१ ॥ गुण आकर्षणयोग्यो धनुष इवैकोऽपि लक्षलाभाय । लूता- तन्तुभिरिव कि गुणैर्विमर्दासहैर्र्बहुभि. ॥ ३२ ॥ अनवसरे गुणवानपि हृदयादवतार्यते हार. । पश्य शलाकावसरे तृणेऽपि भूपैः प्रसार्यते स्वकरः ॥ ३३ ॥ गुणवन्त क्लिश्यन्ते प्रायेण भवन्ति निर्गुणा सुखिन । बन्धनमायान्ति शुका यथेष्टसंचारिण. काका ॥ ३४ ॥ गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोष. । अलिरेति वनात्कमलं न दर्दुरस्तन्निवासोऽपि ॥ ३५ ॥ अवल- म्बितविष्णुपदः कर्षितजनचक्षुरतुलगतिः । पत्रमयोऽपि पदार्थः पतङ्कतामेति गुणयोगात् ॥ ३६ ॥ अमित- गुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ ३७ ॥ दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते । प्रीत्यैव शशिनि पतितं पश्यति लोक कलङ्कमपि ॥ ३८ ॥ अन्तर्गतैर्गुणैः कि द्विन्ना अपि यत्र साक्षिणो विरलाः । स गुणो गीतेर्यदसौ वनेचर हरिणमपि हरति ॥ ३९ ॥ गुणा गुणज्ञेषु गुणोभवन्ति ते निर्गुण प्राप्य भवन्ति दोषा. । सुस्वादुतोयाः प्रवहन्ति नद्यः समुद्रासाद्य भवन्त्यपेयाः ॥ ४० ॥ गुणेषु यत्न. पुरुषेण कार्यो न किंचिदप्राप्यतमं गुणानाम् । गुणप्रकर्षात्तुडुपेन शंभोरलङ्घ्यमुलङ्घितमुत्त- माङ्गम् ॥ ४१ ॥ निष्कलङ्कलकलयैकयापि यः संयुक्तः स खलु पूज्यते जनै. । भद्र पश्य जलजोऽपि धार्यते शंकरेण शिरसा निशाकरः ॥ ४२ ॥ वकोऽपि पङ्कजनि- तोऽपि दुरोसदोऽपि व्यौलाश्रितोऽपि विफलोऽपि सकण्ट- कोऽपि । गन्धेन बन्धुरसि केतकपुष्पजेन ह्येको गुण. खलु निहन्ति समस्तदोषान् ॥ ४३ ॥ न खनति खुरैः क्षोणीपृष्ठं न नर्दति सादर प्रकृतिपुरुषं प्रेक्ष्याप्यग्रे न कुप्यति गोचरम् । वहति च धुर धुर्यो वैर्यादनुङ्खितकंधरो

जगति गुणिनः कार्यौदार्यात्परानतिशेरते ॥ ४४ ॥ गुणा- नामज्ञाता प्रचुरधनदातापि न मुदे मुदे विद्याज्ञाता भवति मितदातापि गुणिनाम् । दृशौ ग्राम्या दत्ते न पुनरवधत्ते च चतुरो दृशः प्रान्तं दत्त्वा वशयति नितान्तं पुरवधूः ॥ ४५ ॥ उपादाता यावन्न भवति गुणाना गुणवतामस- त्कल्पास्तावत्त्रिभुवनमहार्घा अपि गुणाः । अपि प्राग्दैत्यारे- र्हृदयवसतेः कौस्तुभमणेः स कि नासीदब्धौ श्रुतिरपि न यस्य क्वचिदभूत् ॥ ४६ ॥ विवादप्रारम्भ. प्रथयति पर दम्भमतुलं गुणाना गाम्भीर्ये तव भवति साक्षी कलकलः । पयःपूर्णः कुम्भो ध्वनति न तथा वातवलितो यथा रिक्तो भाभाध्वनिमनिभृतं सुधति मुहुः ॥ ४७ ॥ कौशेयं कृमिजं सुवर्णमुपलाद्दूर्वापि गोरोमंत. पङ्कोत्तोमरसं शशाङ्क उदधेरि- न्दीवर गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गोपत्तितो रोचना प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति कि जन्मना ॥ ४८ ॥


उद्यमप्रशंसा

उद्योग खलु कर्तव्यः फलं मार्जारवद्भवेत् । जन्मप्रभृति गौर्नास्ति पयः पिबति नित्यश. ॥ १ ॥ उद्यमं साहसं धैर्य बुद्धिः शक्ति. पराक्रमः । षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥ २ ॥ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा. ॥ ३ ॥ न• दैवमिति संचिन्त्य त्यजेदुद्योगमात्मन. । अनु- द्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥ ४ ॥ विहाय पौरुषं यो हि दैवमेवावलम्बते । प्रासादसिंहवत्तस्य मूर्ध्नि तिष्ठन्ति वायसा. ॥ ५ ॥ पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते । तस्मा- त्पुरुषकारेण विना दैवं न सिध्यति ॥ ६ ॥ यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ ७ ॥ यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । एवमात्म- कृतं कर्म मानवः प्रतिपद्यते ॥ ८ ॥ निर्पानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । सोद्योगं नरमायान्ति विवशाः सर्वसंपदः ॥ ९ ॥ दैवं पुरुषकारेण सीध्यसिद्दिनिबन्धनम् । १५योऽति- क्रमितुमिच्छेत स लोके नावसीदति ॥ १० ॥ योजनाना सहस्रं तु शनैर्गच्छेत्पिपीलिका । अगच्छन्वैनतेयोऽपि पद- मेकं न गच्छति ॥ ११ ॥ कामपि श्रियमासाद्य यस्तद्वृद्धौ न चेष्टते । तस्याँयतिषु न श्रेयो बीजमोजिकुटुम्बवत्


१ विचारक्षम, पक्षे,-यथाश्रुतम्१ पाषाणात्
२ लक्षसख्याकरुधनलाभाय, पक्षे,-वेधलाभाय२ धेनुकेशेभ्य
३ विचारासहै, पक्षे,-आकर्षणासहै३ कर्दमात्
४ केश प्राप्नुवन्ति४ रक्तकमलम्
५ भ्रमर५ नील कमलम्
६ मेक६ आश्रयति
७ आकाशाय७ प्रसादे देवालयशिखरे य पाषाणनिर्मित सिंहस्तद्वत्
८ पतङ्ग सूर्य, पक्षे,-पत्र (कागद)निर्मित सूत्रनिबद्ध क्रीडार्थं गगने उड्डाय्यते 'पतंग' इति नाम्नैव देशभाषाया प्रसिद्ध८ कूपः
९ पूजित.९ उद्यमेन
१० चन्द्रेण१० साध्यसिद्ध्यधीनं तदायत्तमित्यर्थे
११ निर्मलविद्यया११ उल्लङ्घयितुम्.
१२ दुष्प्राप१२ व्यापार न करोति.
१३ सर्पाश्रितोऽपि१३ उत्तरकालेषु, भविष्यकाले इत्यर्थ
१४ फलहीनोऽपि१४ कल्याणम्.
१५ सनमित्रमीव

संहतिप्रशंसा, क्षमाप्रशंसा, विनयप्रशंसा, सत्यप्रशंसा, असत्यनिन्दा, आत्मश्लाघानिन्दा, स्वभाववर्णनम् ८३


॥ १२ ॥ उद्योगिनः करालम्बं करोति कमलाल्या ।
अनुद्योगिकरालम्बं करोति कमलाग्रजा ॥ १३ ॥ काकता-
लीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते
पुरुषार्थमपेक्षते ॥ १४ ॥ आलस्यं हि मनुष्याणां शरी-
रस्थो महान्रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसी-
दति ॥ १५ ॥ संपदा सुस्थितंमन्यो भवति स्वल्पयापि
यः । कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ १६ ॥
न लभन्ते विनोद्योगं जन्तवः संपदां पदम् । सुराः क्षीरोद-
विक्षोभमनुभूयाममृतं पपुः ॥ १७ ॥ नात्युच्चशिखरो मेरुर्ना-
तिनीचं रसातलम् । व्यवसायद्वितीयानां नाप्यपारो महो-
दधिः ॥ १८ ॥ पूर्वजन्मजनितं पुराविदः कर्म दैवमिति
संप्रचक्षते । उद्यमेन तदुपार्जितं चिराद्दैवमुद्यमवशं न
तत्कथम् ॥ १९ ॥ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवं
हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमा-
त्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ २० ॥

संहतिप्रशंसा

संहतिः श्रेयसी राजन्विगुणेष्वपि बन्धुषु । तुषैरपि परि-
भ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ १ ॥ अल्पानामपि वस्तूनां
संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः
॥ २ ॥ बहूनामल्पसाराणां समवायो दुरत्ययः । तृणैर्वि-
धीयते रज्जुर्बध्यन्ते तेन दन्तिनः ॥ ३ ॥

क्षमाप्रशंसा

क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति । अतृणे
पतितो वह्निः स्वयमेवोपशाम्यति ॥ १ ॥ नरस्याभरणं रूपं
रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा
॥ २ ॥ क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा । क्षमा
वशीकृतिर्लोके क्षमया किं न सिध्यति ॥ ३ ॥

विनयप्रशंसा

तिष्ठतो तपसि पुण्यमथैजन्संपदोऽनुगुणैन्समुखैषिणाम् ।
योगिना परिणमन्विमुक्तये केन नास्तु विनयः सता
प्रियः ॥ १ ॥


पादटिप्पणी (वामभाग):
१ लक्ष्मी २ अलक्ष्मी ३ काकागमने सति तालपतनमिव काकतालीय तद्वत् अवितर्कितम् अकस्मादिति यावत् ४ खिन्नो न भवति ५ पुरुषश्रेष्ठम् ६ कुत्सितपुरुषा ७ समात् ८ धान्यत्वक् ९ अङ्कुरजननक्षमा न भवन्तीति भाव १० रज्जुत्वम् ११ शान्ति १२ तपोनिष्ठानाम् १३ संपादयन् १४ अनुकूलयन् १५ सपद्ममान. १६ अपवर्ग्याय


सत्यप्रशंसा

सूनृतं सर्वशास्त्रार्थनिश्चितान्ज्ञानशोभितम् । भूषणं सर्व-
वचसां लज्जेव कुल्योषिताम् ॥ १ ॥ अश्वमेधसहस्रं च
सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशि-
ष्यते ॥ २ ॥ गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः ।
अलुब्धैर्दानशूरैश्च सप्तभिर्धार्यते मही ॥ ३ ॥

असत्यनिन्दा

नासत्यवादिनः सख्यं न पुण्यं न यशो भुवि । दृश्यते
नापि कल्याणं कालकूटमिवाक्षत ॥ १ ॥ असत्यमप्रत्यय-
मूलकारणं कुवासनासद्मसमृद्धिधारणम् । विपन्निदानं पर-
वञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ २ ॥ यशो
यस्मात्क्षीणीभवति दववह्नेरिव वनं निदानं दुःखानां यदव-
निरुहाणामिव जलम् । न यत्र स्वाच्छायातप इव तपःसं-
यमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ ३ ॥
जिह्वैकैव सतामुभे फणिवतां सृष्टेश्चतस्रश्च तास्ताः सैसैव
विभोर्वसोर्नियमिताः षट्कार्तिकेयस्य च । पौलस्त्यस्य दशा-
भवन्फणिपतेर्जिह्वासहस्रद्वयं जिह्वालक्षशतैककोटिनियमो नो
दुर्जनानां मुखे ॥ ४ ॥

आत्मश्लाघानिन्दा

परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत् ।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ १ ॥ न
सुखं न च सौभाग्यं स्वयं स्वगुणवर्णने । यथैव च पुरं-
ध्रीणां स्वहस्तकुचमर्दने ॥ २ ॥ स्वयं तथा न कर्तव्यं स्वगु-
णाख्यापनं पुनः । स्वगुणाख्यापनं युक्त्या परद्वारा प्रयोजयेत्
॥ ३ ॥ न सौख्यसौभाग्यकरा गुणा नृणां स्वयं गृहीताः
सुदृशा कुचा इव । परैर्गृहीता द्वितयं वितन्वते न तेन
गृह्णन्ति निजं गुणं बुधाः ॥ ४ ॥ निजगुणगरिमा सुखा-
करः स्वात्मयमब्रुवर्णयता सता न तावत् । निजकरकम-
लेन कामिनीनां कुचकलशाकलनेन को विनोदः ॥ ५ ॥

स्वभाववर्णनम्

सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य
हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते ॥ १ ॥ किं कुलेनो-


पादटिप्पणी (दक्षिणभाग):
१ विषम् २ भक्षयतः ३ अविश्वास ४ विपत्तेः कारणम् ५ कुशलैः ६ दावाग्नेः ७ आदिकारणम् ८ वृक्षाणाम् ९ वक्ति १० सर्पाणाम् ११ ब्रह्मणः १२ अग्नेः १३ रावणस्य १४ शेषस्य १५ अतिक्रम्य

८४सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

पदिष्टेन शीलमेवात्र कारणम् । भवन्ति सुतरा स्फीताः सुक्षेत्रे कण्टकिद्रुमा ॥ २ ॥ य स्वभावो हि यस्यास्ते स नित्य दुरतिक्रम । श्वा यदि क्रियते राजा तत्कि नाश्नात्युपानहम् ॥ ३ ॥ परोपदेशकुकुशला दृश्यन्ते बहवो जना । स्वभावमतिवर्तन्त सहस्त्रेष्वपि दुर्लभाः ॥ ४ ॥ किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमय. किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ५ ॥ सति शीले गुणा भान्ति पुंसा शौर्यादयो यथा । यौवने सदलकारा शोभा बिभ्रति सुश्रुव ॥ ६ ॥ अद्रोह सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च शीलमेतद्विदुर्बुधा ॥ ७ ॥ वृत्त यत्नेन सरक्षेद्वित्तमायाति याति च । अक्षीणो वित्तत क्षीणो वृत्ततस्तु हतो हत ॥ ८ ॥ यथा हि मलिनेर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलितवृत्तस्तु वृत्तशेष न रक्षति ॥ ९ ॥ न कुलं वृत्तहीनाना प्रमाणमिति मे मति. । अन्येष्वपि हि जाताना वृत्तमेव विशिष्यते ॥ १० ॥ अकुलीन कुलीनश्च मर्यादा यो न लङ्घयेत् । धर्मापेक्षी मृदुदीन्तो न कुलीनशतैर्वरः ॥ ११ ॥ शीलं रक्षतु मेधावी प्राप्नुमिच्छुः सुखत्रयम् । प्रशंसा वित्तलाभं च प्रेत्य स्वर्गे च मोदनम् ॥ १२ ॥ विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं धर्म. शीलं सर्वत्र वै धनम् ॥ १३ ॥ रक्तत्वं कमलाना सत्पुरुषाणा परोपकारित्वम् । असता च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम् ॥ १४ ॥ वचो हि सत्यं परमं विभूषणं यथाङ्गनायाः कृशता कटौ तथा । द्विजस्य विद्यैव पुनस्तथा क्षमा शीलं हि सर्वस्य नरस्य भूषणम् ॥ १५ ॥ न धर्मशास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मन. । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुर गवां पयः ॥ १६ ॥ निम्नॊन्नतं वक्ष्यति को जलाना विचित्रभावं मृगपक्षिणा च । माधुर्यमिक्षौ कटुता च निम्बे स्वभावत.. सर्वमिदं हि सिद्धम् ॥ १७ ॥ वरं विन्ध्याटव्यामनशनतृषार्तस्य मरणं वरं सर्पाकीर्णे तृणपिहितकूपे निपतनम् । वरं गर्तावर्त गहनजलमध्ये विलयनं न शीलाद्विभ्रंशो भवतु कुलजस्य श्रुतवतः ॥ १८ ॥ वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्मेरु स्वल्पशिलायते मृगपते. संघ कुरङ्गायते । व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ १९ ॥ ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपस क्षमा बलवता धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ २० ॥ काक. पद्मवने रति न कुरुते हंसो न कूपोदके मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने । कुस्त्री सज्जनसङ्गमे न रमते नीचं जनं सेवते या यस्य प्रकृति स्वभावजनिता केनापि न त्यज्यते ॥ २१ ॥ व्याघ्रः सेवति काननं सुगहनं सिंहो गुहा सेवते हंस सेवति पद्मिनी कुसुमिता गृध्र. श्मशानस्थलीम् । साधु. सेवति साधुमेव सततं नीचोऽपि नीचं जनं या यस्य प्रकृति. स्वभावजनिता केनापि न त्यज्यते ॥ २२ ॥ पाण्डित्यस्य विभूषणं मधुरता शौर्यस्य वाक्संयमो ज्ञानस्योपशम. श्रुतस्य विनयो वित्तस्य पात्रे व्यय. । अक्रोधस्तपसः क्षमा प्रभवतो धर्मस्य निर्व्याजता सर्वस्यास्य पुनस्तथैव जगतः शीलं परं भूषणम् ॥ २३ ॥


वाग्वर्णनम्

तास्तु वाचः सभायोग्या याश्चित्ताकर्षणक्षमा. । स्वेषा परेषा विदुषा द्विषामविदुषामपि ॥ १ ॥ गौनाब्धेस्तु पर पार नोपेर्याय सरस्वती । अतो निमज्जनभयात्तुंम्बी वहति वक्षसि ॥ २ ॥ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ३ ॥ वर्णै. कतिपयैरेव ग्रथितस्य स्वरैरिव । अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ ४ ॥ बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते । अनुज्झितार्थसंबन्ध. प्रबन्धो दुरुदाहर. ॥ ५ ॥ श्लक्ष्णीयसीपि दैर्येनामन्पगुर्णेर्कल्पिताम् । प्रसारयन्ति कुशलाश्चित्रां वाच पटीमित्र ॥ ६ ॥ सर्वालंकारयुक्तापि न श्लिष्टा वनिवेव सा । वाणी मनोजातसुखं प्रौढांना न तनोति हि ॥ ७ ॥ या कर्षति नियोगादन्तर्गतजीर्वनानि


टिप्पणी :

१ अतिक्रम्य वर्तते २ नीचोच्चम् ३ तीक्ष्णताम् ४ कृत्रिमसरिदिवाचरति ५ सर्प ६ माला ७ अमृतम् ८ विजृम्भते ९ सौजन्यम् १० वाङ्नियमनम् ११ शान्ति .

१ निष्कपटत्वम् २ सुस्वभाव ३ गानसमुद्रस्य ४ गायनसमुद्रपरपार न प्राप ५ इक्ष्वाकुफलम् जलतरणार्थं तुम्ब्या संग्रह लोका कुर्वन्तीति प्रसिद्धम् ६ प्रसन्नवदना, पक्षे,-उत्तानाथी ७ कान्त्या शोभया मनोहारिण्य, पक्षे,-भाषणगुणेन मनोहारिण्य ८ आलिङ्गनम्; पक्षे,-श्लेष ९ परिमितै १० निषादादिभि ११ स्वप्रतिभानुसारेण १२ यथेष्टम् १३ असंगतम् १४ दुर्वचः १५ अतिसुकुमाराक्षराम्; पक्षे,-श्लक्ष्णतराम् १६ अर्थगुर्वीम्, पक्षे,-सान्द्राम्, कदलीदल कल्पामित्यर्थ १७ श्लेषादिभि , पक्षे,-तन्तुभि १८ रचिताम्, पक्षे-निर्मिताम् १९ शब्दादिविचित्राम्, पक्षे,-विचित्ररूपाम्. २० शाटीमित्र २१ उपमादिभिः, पक्षे,-कङ्कणादिभिः २२ श्लेषरहिता, पक्षे,-आलिङ्गनमहिता २३ मन प्रति जात यत्सुख तत्; पक्षे,-कामहर्षम् २४ चतुराणाम्, पक्षे,-प्रकर्षेण विधिपूर्वक विवाहितानाम् २५ हृद्गतानि जीवनानि, पक्षे,-उदकानि.

वाग्वर्णनम्, वाग्मिप्रशंसा८५

सरैसानाम्। वाणी सैव गुणवती घटौय यद्वा वँधूटीव ॥ ८॥ रतरीतवीतवसना प्रियेव शुद्धापि वाग्भवेद् सैरसा। अरसा सौलकृतिरपि न रोचते शौलभञ्जीव ॥ ९ ॥ सुखयतितरा न रक्षति परिचयलेशं गॅणाङ्गेनेव श्री। कुलकामिनीय नोञ्झति वाग्देवी जन्मजन्मापि ॥ १० ॥ वाग्माधुर्यान्नान्यदस्ति प्रियत्व र्वाक्पारुष्याच्चोपकारोऽपि नेष्टः। कि तद्द्रव्य कोकिलेनोपनीत को वा लोके गदर्भस्यापराध. ॥ ११ ॥ कौर्मान्दुँधे विप्रकर्षत्यलक्ष्मी कीर्तिं सूते दुष्कृत या हिनस्ति। ता चाप्येता मातर मङ्गलाना वेनु धीराः सूनृँता वाचमाहु ॥ १२ ॥ विविक्कैर्वर्णाभरणा सुँखश्रुति प्रसादयन्ती हृदयान्यपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणा प्रसैन्नगम्भीरपदा सरस्वती ॥ १३ ॥ केयूरौ न विभूषयन्ति पुरुष हारा न चेन्द्रोज्ज्वला न स्नान न विलेपन न कुसुम नोलकृता मूर्द्धजा.। वाण्येका संमलंकरोति पुरुष या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १४ ॥ अस्त्यद्यापि चतु.समुद्रपरिखापर्यन्तमुर्वीतलं वर्तन्तेऽपि च तत्र तत्र रसिका गोष्ठीषु सक्ता नृपा. । एकत्रत्र निरादरो भवति चेदन्यो भवेत्साद्रो वैग्देवी वदनाम्बुजे वसति चेत्को नाम दीनो जन. ॥ १५ ॥ ये सूक्तीन्दुकलाकळङ्कजनका ये गाढगर्वज्वरा ये वा केवलतर्ककर्कशधियः साक्षाच्च ये श्रोत्रिया. । ये वा द्वेषमषीमलीमसमधियस्तान्प्राज्ञगोष्ठीरसप्रौढप्रावृडवयवहान्यरिहरन्वाचा प्रसार कुरु ॥ १६ ॥ तथ्य पथ्यं सहेतु प्रियमतिमृदुलं सारवदैन्यहीनं साभिप्राय दुराप सविनयमशठं चित्रमल्पाक्षर च बह्वर्थं कोषशून्यं स्मितयुतघनदाक्षिण्यसदेहहीनं वाक्य ब्रूयाद्रमज्ञ. परिषदि समये सप्रमेयाप्रमत्तम् ॥ १७ ॥ | नुलोमार्थान्वयाच. कृँतिना गिरः ॥ १ ॥ तीक्ष्णा नारुंतुदा बुद्धि कमे शान्तं प्रतापवत् । नोपताप मनः सोष्म वागेका वाग्मिन सत ॥ २ ॥ प्रसोदगम्योमौजस्वि गैरीयो लघववान्वित्तम् । साकाङ्क्षमुपस्कार विविक्तंगति निराकुलम् ॥ ३ ॥ न्यायनिर्णीतसारत्वान्निपेक्षमिर्वागमे । अंप्रकंप्यतयान्त्येषामन्नायवचनोपमम् ॥ ४ ॥ अलङ्घ्यत्वाज्जनैरन्यै. क्षुभितोदन्वदूर्जितम् । औदार्यादर्थसपत्ते शान्त चित्तमृषेरिव ॥ ५॥ इदमीदृग्गुणोपेत लब्ध्वावसरसाधनम् । व्याँकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदगाश्रये ॥ ६ ॥ श्रुतिसिद्धान्तशूरस्य तद्विरुद्धाञ्चिरुन्वत । वल्गितं र्बौर्वदृक्कस्य कृतिन कि न शोभते ॥ ७ ॥ अल्पाक्षररमणीय य कथयति निश्चितं स खलु वाग्मी । बहुवचनमल्पसार य. कथयति विप्रलापी सः ॥ ८ ॥ शुद्धकासरचितापि ललिता जिह्वैया यदि न योजिता भवेत् । कि तया र्करणमस्ति घण्टया जिह्वया जनिमता हि पूज्यया ॥ ९ भवन्ति ते सँम्यतमा विपैश्चिता मनोगतं वाचि निवेशयन्ति ये । नयन्ति तेर्श्वच्युपपन्ननैपुणा गँभीरमर्थ कतिचित्प्रका शताम् ॥ १० ॥ स्तुवन्ति शुर्वीमभिधेयसपदं विशुद्धिमुक्तेरपरे विपश्चितः । इति स्थिताया प्रतिपूरुष रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥ ११ ॥ पिकैस्तावत्कृष्णः परमरुँणेया पश्यति दृशा परापत्यद्वेषी खसुतमपि नो पालयति यः । तथाप्येपोऽमीषा सकलजगता वल्लभतमो न दोषा गण्यन्ते खलु मधुरवाचा कचिदपि ॥ १२ ॥ आध्वाघेष कषायमधुरसुरप्रेमानुबद्धाशयो माकन्दस्य यशासि कोकिलयुवा निर्माति दिग्भित्तिषु । माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी को


वाग्मिप्रशंसा

विरोधि वचसो मूकान्वागीशानपि कुर्वते । जडानध्ये-


१ रसिकानाम्, पक्षे,-कूपीदीनाम् २ प्रागल्भ्यादिगुणयुक्ता, पक्षे,-रज्जुयुक्ता ३ स्त्रीव ४ अनुप्रासोपमाद्यलङ्काररहितापि ५ शृङ्गारादिमती पक्षे,-शृङ्गाररसवती ६ रसशून्या ७ अलकृतियुतापि, पक्षे,-कटककुण्डलयुतापि ८ काष्ठपुत्तलीव ९ वेश्येव, १० मनोरथान् ११ प्रपूरयति १२ सत्याम् १३ विविक्ता संयोगादिनांश्लिष्टा, स्फुटोच्चारिता वर्ण अक्षराण्येवाभरणानि यस्या सा, पक्षे,-विविक्तानि शुद्धानि वर्णो रूपमाभरणानि च यस्या सा १४ सुखा श्रुति श्रवण यस्या सा श्राव्येत्यर्थ, पक्षे,-श्रूयन इति श्रुतिर्वाक्स्या सुखा यस्या सा, मञ्जुभाषिणीत्यर्थ १५ प्रसन्नानि वाचक़ानि गम्भीराण्यवगर्भानि च पदानि सुप्तिङन्तरूपाणि यस्या सा, पक्षे,-प्रसन्ना विमला गम्भीरपदालमचरणा १६ वाङ्भूषणानि १७ चन्द्रवदुज्ज्वला १८ सुगन्धतैलादिना संस्कृता १९ केशा २० सम्यगलकरोति २१ सरस्वती २२ वक्ता २३ अनुकूलवादिन१ प्रगल्भवाच २ कुशलानाम्, ३ अभिमानोष्णम् ४ प्रसादप्रसिद्धार्थपदत्व तेन रम्यम् ५ समासभूयिष्ठम् ६ अर्थभूयस्त्वपरिगतम् न तु शब्दाडम्बरमात्रमित्यर्थ ७ विस्तरदोषरहितम् ८ आकाङ्क्षावत्पदकदम्बात्मकम् न तु दशदाडिमादिवाक्यवदनाकाङ्क्षितमित्यर्थ ९ अध्याहारदोषरहितम् १० कृतार्थप्रतिपादकम् न तु सावशेषार्थमित्यर्थ ११ असंकीर्णार्थम् १२ न्यायेन युक्त्या निश्चितार्थत्वात् १३ स्वतन्त्रमिव १४ शास्त्रे १५ अनुमानादिभिरबाध्यत्वादप्रत्याख्यायतया १६ वेदवाक्यतुल्यमित्यर्थ १७ अनुल्लङ्घनीयत्वाव १८ उद्वेलाम्भोधिगम्भीरम् १९ अग्राम्यार्थत्वात्, पक्षे,-त्यागित्वात् २० प्रयोजनमपचे, पक्षे,-अणिमादिसमृद्धे २१ लब्धे प्राप्ते अवसरसाधने कालोपायौ येन तत् २२ व्याहरेत् २३ पञ्चमषष्ठपद्यद्वय विशेषक ज्ञेयम् २४ प्रतिवस्तु २५ घण्टाजिह्वा २६ कर्तव्यम् न किचित्कार्यमस्तीति भाव २७ सभाया साधुतामा निपुणतमा २८ विदुषाम् २९ वाचोद्विरन्तीत्यर्थ ३० वक्तृपु ३१ संभावितकौशल ३२ निगूढम् ३३ अर्थसपत्तिम् ३४ सामर्थ्यम् ३५ शब्दस्य ३६ कोकिल ३७ आरक्तया
८६सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

ब्रूतामसता सता च वचसा वर्म्मातिगं चेष्टितम् ॥ १३ ॥
श्रोतुंन्मूचयति ब्रुवन्स्थिरतरं कुर्वन्नमीषा मनो निर्बाष्पः परबाष्पकृत्परदृशामेकाश्रयो नान्यदृक् । यस्त्यक्ताङ्गविकम्पनः प्रचलयन्नित्यं सता मस्तक क्षीर श्रोतृषु मुख्यमात्मनि गुणं धत्ते स वत्कोत्तमः ॥ १४ ॥
तद्वक्ता सदसि ब्रवीतु वचनं यच्छृण्वता चेतसः प्रोल्लासं रसपूरणं श्रवणयोरक्ष्णोर्विकासश्रियम् । क्षुन्निद्राश्रमदुःखकालगतिहृत्कौर्यान्तरप्रस्मृति प्रोत्कण्ठामनिशं श्रुतौ वितनुते शोक विरामादपि ॥ १५ ॥

मौनगुणाः

आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ १ ॥

रूपवानपि मूर्खोऽपि गत्वा च विपुला सभाम् ।
संरक्षेच्च स्विका जिह्वा भार्या दुश्चारिणी यथा ॥ २ ॥

स्वायत्तमेकान्तगुण विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदा समाजे विभूषणं मौनमपण्डितानाम् ॥ ३ ॥

कोलाहले काककुलस्य जाते विराजते कोकिलकूजितं किम् ।
परस्परं संवदता खलाना मौन विधेय सततं सुधीभिः ॥ ४ ॥

स्थानमाहात्म्यम्

नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ १ ॥

किंचिदाश्रयसंयोगाद्धत्ते शोभामसाध्वपि ।
कान्ताविलोचने न्यस्तं मलीमसमिवाञ्जनम् ॥ २ ॥

कुस्थानस्य प्रवेशेन गुणवानपि पीड्यते ।
वैश्वानरोऽपि लोहस्यः कारुकैरभिहन्यते ॥ ३ ॥

पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
पदच्युतस्य तस्यैव क्लेशदाहकरावुभौ ॥ ४ ॥

राजा कुलवधूर्विप्रा मन्त्रिणश्च पयोधराः ।
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नरा नखाः ॥ ५ ॥

स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत् ॥ ६ ॥

पात्रविशेषे न्यस्तं गुणान्तर व्रजति शिल्पमाधातुः ।
जलमिव समुद्रशुक्तौ मुक्ताफलता पयोदस्य ॥ ७ ॥

अतिमात्रभास्वरत्वं पुष्यति भानो परिग्रहादनलः ।
अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ ८ ॥

प्रायो यत्किंचिदपि प्राप्नोत्युत्कर्षमाश्रयान्महतः ।
मत्तेभकुम्भतटगतमेति शृङ्गारता भस्म ॥ ९ ॥

अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ १० ॥

आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः ।
विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ॥ ११ ॥

जानामि नागेन्द्र तव प्रभाव कण्ठे स्थितो गर्जसि शङ्करस्य ।
स्थान प्रधान न बल प्रधान स्थाने स्थितः कापुरुषोऽपि शूरः ॥ १२ ॥

उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः सदा मीन भुङ्क्ते वसति सकलः स्थाणुशिरसि ।
बके चान्द्रः सर्वो गुणसमुदयः किंचिदधिको गुणाः स्थाने मान्या नरवर न तु स्थानरहिताः ॥ १३ ॥

सिंहक्षुण्णकरीन्द्रकुम्भगलितं रक्ताक्तमुक्ताफलं कान्तारे बदरीधिया द्रुतमगाद्भिल्लस्य पत्नी मुदा ।
पाणिभ्यामवगृह्य शुक्लकठिनं तद्वीक्ष्य दूरे जहावस्थाने पततामतीव महतामेतादृशी स्याद्गतिः ॥ १४ ॥


सत्संगतिप्रशंसा

महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
रथ्याम्बु जाह्नवीसङ्गात्त्रिदशैरपि वन्द्यते ॥ १ ॥

महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम् ॥ २ ॥

महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
हरिहस्तगतः शङ्खः पवित्रः प्रथितो भुवि ॥ ३ ॥

मलयाचलगन्धेन त्विन्धनं चन्दनायते ।
तथा सज्जनसङ्गेन दुर्जनः सज्जनायते ॥ ४ ॥

वीणावंशाश्रया तुम्बी चुम्बत्युच्चैः कुचौ स्त्रियः ।
पिबत्यनार्यसंयोगाद्रक्तं नर्त्तन्चरी यथा ॥ ५ ॥

चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः ॥ ६ ॥

साधूना दर्शनं पुण्यं तीर्थभूता हि साधवः ।
कालेन फलते तीर्थ सद्यः साधुसमागमः ॥ ७ ॥

करोति निर्मलौधारस्तुच्छक्षापि महार्घताम् ।
अम्बुनो बिन्दुरल्पोऽपि शुक्तौ मुक्ताफलं भवेत् ॥ ८ ॥

हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ९ ॥

मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः ।
पङ्कच्छिदः फलस्येव निकर्षेणाविल पयः ॥ १० ॥

कीटोऽपि सुमनःसङ्गादारोहति सता शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ११ ॥

काचः काञ्चनसंसर्गाद्धत्ते मारकतीद्युतीः ।
तथा सत्संनिधानेन मूर्खो


पादटिप्पणी (Footnotes)

वामभागस्थिताः:
१ मूकान्करोति २ अच्लम्, तटस्थमिति यावत् ३ प्रकर्षेणोल्लास विकासम् ४ रसाना शृङ्गारादीना पूरणम् ५ अन्यकार्यविस्मृतिम् ६ स्वस्वाधीनम् ७ पिधानम् ८ मूर्खताया ९ सभायाम् १० मकर ११ भषकेण १२ लोहकारै १३ पद = स्थानम्, जलाशयम् १४ कौशलम् १५ मौक्तिकत्वम् १६ मेघस्य

दक्षिणभागस्थिताः:
१ विन्ध्यपर्वते २ मत्स्यान्, पक्षे,-मीनराशिम् ३ तरुशैलादयः, पक्षे,-शिव ४ देवैः ५ आश्रय ६ महामूल्यत्वम् ७ कतकफलस्येव ८ कलुषम् ९ उदकम् १० पाषाण ११ मरकतसंबन्धिनी

सत्संगतिप्रशंसा, असत्संगतिनिन्दा | ८७


सत्संगतिप्रशंसासत्संगतिप्रशंसा
याति प्रवीणताम् ॥ १२ ॥ यथोदेयगिरौ द्रव्यं ^२संनिकर्षेण दीप्यते । तथा सत्संनिधानेन हीनवर्णोऽपि ^३दीप्यते ॥ १३ ॥ भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्पन्दं विदधाति सदागमः ॥ १४ ॥ यदि सत्संगनिरतो भविष्यसि भविष्यसि । अथ दुर्जनसंसर्गे पतिष्यसि पतिष्यसि ॥ १५ ॥ अलब्ध्वापि धनं राज्ञः सन्निता यान्ति सपदम् । महाहृदसमीपस्थं पश्य नीलं वनस्पतिम् ॥ १६ ॥ सङ्गः सर्वत्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ १७ ॥ क्षुद्रोऽपि तनुते तात तेजस्तेजस्विस्सङ्गतः । अर्कसपर्कतः पश्य दर्पणे दहनद्युतिम् ॥ १८ ॥ बृहतसहाय. कार्यान्तं क्षोदीयानपि गच्छति । सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १९ ॥ सज्जनसङ्गो मा भूद्यदि सङ्गो मास्तु तत्पुनः स्नेहः । स्नेहो यदि मा विरहो यदि विरहो मास्तु जीवितस्याशा ॥ २० ॥ वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ २१ ॥ गुरुरपि लघूपनीतो न निमज्जति नियतमँशाये निहितः । वानरकरोपनीतः शैलो मकरालयस्येव ॥ २२ ॥ ^५गैवाशनाना स शृणोति वाक्यमहं हि राजन्वचनं मुनीनाम् । न चास्य दोषो न च मद्गुणो वा संसर्गजा दोषगुणा भवन्ति ॥ २३ ॥ ^६कल्पद्रुमः कल्पितमेव सूते सा ^७कामधुक्कामितमेव दोग्धि । चिन्तामणिश्चिन्तितमेव दत्ते सता हि सङ्गः सकलं प्रसूते ॥ २४ ॥ असज्जनः सज्जनसङ्गिसङ्गात्करोति दुःसाध्यमपीह साध्यम् । पुष्पाश्रयाच्छंभुशिरोऽधिरूढा पिपीलिका चुम्बति चन्द्रबिम्बम् ॥ २५ ॥ शाखोटकैश्चन्दनसंगतोऽपि वक्षोजयोः क्रीडितमायताक्ष्याः । पयोऽपि मद्यं श्वपचे हि मन्यते संसर्गजा दोषगुणा भवन्ति ॥ २६ ॥ सत्सङ्गाद्भवति हि साधुता खलानां साधूनां नहि खलसंगमात्खलत्वम् । ^८आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥ २७ ॥ कि वापरेण बहुना परिजल्पितेन संसर्ग एव महता महते फलाय । अम्भोनिधेस्तटरुहास्तरवोऽपि येन वेलाजलोच्छलितरत्नकृतालवालाः ॥ २८ ॥ ^९जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं ^१०दिशति ^११पापमपाकरोति । चेतः प्रसादयति दिक्षु ^१२तैनोति कीर्तिं सत्संगतिः कथय किं न करोति पुंसाम् ॥ २९ ॥दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरंतनमघं चुलुकीकरोति । भूतेषु किं च करुणा बहुलीकरोति सङ्गः सता किमु न मङ्गलमातनोति ॥ ३० ॥ कान्तारभूमिरुहमौलिनिवासशीलाः प्रायः पलायनपरा जनवीक्षणेन । कूजन्ति तेऽपि हि शुकाः खलु रामनाम सङ्ग. स्वभावपरिवर्तविधौ निदानम् ॥ ३१ ॥ ^१ऐके केचिद्यतिकरगता. पात्रसंज्ञा लभन्ते गायन्त्यन्ये सरसमधुर वीणया संप्रयुक्ताः । एके तेषा सहजगतिवशादुत्तर तारयन्ति केचिन्तेषा ज्वलितहृदया रक्तमेवापिबन्ति ॥ ३२ ॥ सँतेसायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्या सागरशुक्तिसंपुटगत तज्जायते मौक्तिकं प्रायेणाधममध्यमोत्तमगुणः संसर्गंतो जायते ॥ ३३ ॥ गङ्गेवाघविनाशिनी जनमनःसंतोषसचन्द्रिका तीक्ष्णांशोरपि सत्वमेव जगदज्ञानान्यकारपहा । छायेवाखिलतापनाशनकरी स्सर्धेनुवत्कामदा पुण्यैरेव हि लभ्यते सुकृतिभिः सत्संगतिर्दुर्लभा ॥ ३४ ॥ कीर्तिर्नृत्यति नर्तकीव भुवने विद्योतते साधुता ज्योत्स्नेव प्रतिभा सभासु सरसा गङ्गेव संमीलति । चित्तं रञ्जयति प्रियेव सतत संपत्प्रसादोचिता संगत्या न भवत्सता किल भवेत्किं किं न लोकोत्तरम् ॥ ३५ ॥ बुद्धिं वर्धयति श्रियं वितनुते वैदग्ध्यमामुञ्चति श्रेयः पल्लवयत्यघानि दलयत्युन्मीलयत्युन्नतिम् । विज्ञान परिशोधयत्युपचिनोत्युच्चैः कलाकौशलं किं किं नारभते हरेरिव कथाऽऽश्चर्ये सतां संगतुम् ॥ ३६ ॥

असत्संगतिनिन्दा

अहो दुर्जनसंसर्गान्मानहानिः पदे पदे । पावको ^२लोहसङ्गेन मुद्गरैरभिहन्यते ॥ १ ॥ अन्तर्मलिनसंसर्गाच्छुत्वानपि दुष्यति । यक्ष्क्षुःसंनिकर्षेण कर्णोऽभूत्कुटिलाश्रयः ॥ २ ॥ दुष्टा दुष्टसंसर्गाददुष्टमपि गच्छति । सुराविन्दुनिपातेन पञ्चगव्यघटी यथा ॥ ३ ॥ अणुरप्यसता सङ्गः सद्गुणं हन्ति विस्तृतम् । गुणरूपान्तरं याति तक्रयोगाद्यथा पयः ॥ ४ ॥ दुर्बुत्तः क्रियते धूर्तैः श्रीमानात्मविवृद्धये । किं नाम खलसंसर्गः कुरुते नाशयाशवत् ॥ ५ ॥ ^३आनन्दमृगदावाग्निः ^४शीलशाखिमदद्विपः । ^५ज्ञानदीपमहावायुरयं खलसमागमः ॥ ६ ॥ असत्सङ्गाद्दृणज्ञोऽपि विषयांसक्तमानसः । अकस्मात्प्रलयं याति गीतरक्तो यथा मृगः ॥ ७ ॥ आहृत्य


पादटिप्पणी (Footnotes)

[वाम भाग] १ उदयपर्वते. २ सूर्यसंनिधानेन. ३ प्रकाशितो भवति ४ अन्तःकरणे, पक्षे,-मध्ये ५ यवनानाम् यवनगृहस्थित सहोदरं शुकमुद्दिश्य मुनिगृहस्थितस्य शुकस्योक्तिरियम् ६ कल्पवृक्ष ७ कामधेनु. ८ सुगन्धम्. ९ मान्धम्. १० ददाति. ११ निराकरोति. १२ विस्तारयति.

[दक्षिण भाग] १ तुम्बील्यथं २ लोहे ३ आनन्द एव मृगस्तस्य दावाग्निरिव दाहकत्वात् ४ शीलमेव शाखी वृक्षस्तस्य मदद्विप इव उन्मूलकत्वात्. ५ ज्ञानमेव दीपस्तस्य महावात इन्न, निर्वाणकरणत्वात्