भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 92, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 92
तृष्णानिन्दा, धीरप्रशंसा७७

विशीर्णा दन्तालिः श्रवणविकलो श्रोत्रयुगलम्। शिरः शुक्ल चक्षुस्तिमिरपटलैरावृतमहो मनो मे निर्लज्ज तदपि विषयेभ्यः स्पृहयति ॥ ४२ ॥ खलोल्लापा सोढाः कथमपि तदाराधन- तया निगुह्यान्तर्बाष्पं हसितमपि शून्येन मनसा। कृत- श्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे किमु परमितो नर्तयसि माम् ॥ ४३ ॥ निवृत्ता भोगेच्छा बहु- पुरुषमानो विगलितः समानाः खर्याततः सपदि सुहृदो जीवित- समाः । शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने अहो दुष्टः कायस्तदपि मरणापायचकितः ॥ ४४ ॥ अमीषां प्राणानां तुलितबिसिनीपत्रपयसा कृते किं नास्माभिर्विगलित- विवेकैर्यवसितम् । यदाढ्यौनामग्रे द्रविणमदनिःसङ्गमनसा कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ ४५ ॥ समारम्भा भग्नाः कति कति न वारास्तव पशो पिपासोस्तुच्छेद्सिन्द्र- विणमृगतृष्णार्णवजले । तथापि प्रत्याशा विरमति न ते मूढ शतधा न दीर्णं यच्चेतो नियतमशनिग्रावघटितम् ॥ ४६ ॥ विवेकव्याकोशे विकसति शमे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरति तरा सा परिणतिः । जरा जीर्णैश्वर्यग्रसनगहनाक्षेप- कृपणस्तुवापात्र यस्या भवति मँरुतामप्यधिपतिः ॥ ४७ ॥ अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धाना हरति विवशाना शमधनम् । विपद्दीक्षादक्षासहतरलतारैः प्रणयिनीकटाक्षैः कूटैः कपटकूटिलैः कामकितव. ॥ ४८ ॥ उत्खात निधिशङ्कया क्षितितल ध्माता गिरेर्धा- तवो निस्तीर्णं सरितापतिर्नृपतयो यत्नेन संतोषिताः । मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशा. प्राप्त काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ॥ ४९ ॥ निःस्वो वँष्टि शतं शती दशशतं लक्षं सहस्राधिपो लक्षेशः क्षितिराजता क्षितिपतिश्चक्रेशता वाञ्छति । चक्रेशः सुरराज- ता सुरपतिर्ब्रह्मास्पदं वाञ्छति ब्रह्मा विष्णुपद हरिः शिव- पद तृष्णावधि को गतः ॥ ५० ॥ माने नेच्छति वार्य- त्युपशमे र्कमालिकन्त्या हिया स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते । तृष्णे त्वामनुबध्नता फलमियत्प्राप्त जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न समन्यते ॥ ५१ ॥ दन्तैरुच्चलितं धिया तरलितं पाण्यङ्गिणा कम्पितं दृग्भ्या कुञ्चितं बलेन गलितं रूपश्रिया प्रोषितम् । प्रासाया यमभूपतेरिह महाधाट्या धरायामिह तृष्णा केवलमेकिकैव सुभटी धीरा पुरो नृत्यति ॥ ५२ ॥ श्रान्तं याचनतत्परेण मनसा देहीति वाक्प्रेरिता भुक्तं मानविवर्जितं परगृहे साशङ्कया काकवत् । साक्षेपं भ्रुकुटीकटाक्षकूटिलं दृष्टं खलानां मुखं तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रापि सज्जा वयम् ॥ ५३ ॥ श्रान्तं देशमनेकद दुर्गविषमं प्राप्तं न किंचित्फलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला । भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकव- त्तृष्णे जृम्भसि पापकर्मनिरते नाद्यापि संतुष्यसि ॥ ५४ ॥ आसिष्ये सुखितो गृहीति विहितो मोहेन दारग्रहस्तत्सङ्गा- त्समुतदासवान्धवसुहृत्सम्बन्धिनामुद्भवः । तन्निवाहकधर्त्ना- परिभवानौचित्यचिन्ताजुषः किं सौख्यं कतमा गृहस्थिति- रतोऽनर्थो मया स्वीकृतः ॥ ५५ ॥ शान्तेर्मातुर्विवेका- त्पितुरपि कृपणं मँङ्कु कृत्वा पृथक्त्यामाशा योषा स्वतन्त्रा व्रजति परगृहान्सर्वदा वीतैलज्जा । सचत्ते मत्कृशत्वं मम यमनिगमो भ्रातरौ भर्त्सयन्ती पुष्ट्रा चैवात्मबन्धूंस्तदपि पुँनरहो हन्त वन्ध्या श्रयाम. ॥ ५६ ॥ लज्जे त्वं मज्ज सिन्धौ गिरिवरशिखरे त्वं च तिष्ठ प्रतिष्ठे शान्ते प्रान्ते दिशान्ते कुरु वसतिमहो गर्व खर्वो भवाशु । तेजः पाताल- मूलं भज भुवि भगवन्मान मा नाम तेऽस्तु प्रेम्णैकामाश्च- यन्ती सतत महमिमा तूर्णमाशा श्रयिष्ये ॥ ५७ ॥

धीरप्रशंसा

स एव धन्यो विपदि स्वरूपं यो न मुञ्चति । त्यजत्य- र्ककरैस्तप्तं हिमं देहं न शीतताम् ॥ १ ॥ चलन्ति गिरयः कामं युगान्तपवनाहताः । कृच्छ्रेऽपि न चलत्येव धीराणा निश्चलं मनः ॥ २ ॥ कृतं पुरुषशब्देन जातिमात्रावलम्बि- ना । योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ३ ॥ ग्रसमानमिवाजौसि सहसा गौरवेरितम् । नाम यस्याभि- नन्दन्ति द्विषोऽपि स मतः पुमान् ॥ ४ ॥ सह परिजनेन विलसति धीरो गैहनानि तरति पुनरेकः । विषमेकेन निपीतं त्रिपुर्रजिता सह सुरैरमृतम् ॥ ५ ॥ श्लाघ्या महतामुन्नति- रद्भुतमध्यवसितं च धीराणाम् । कनकगिरिरनभिलङ्घयो रविरनिशमनुज्झितारम्भः ॥ ६ ॥ अङ्गणवेदी वसुधा कँल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञ- स्य धीरस्य ॥ ७ ॥ केदारितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टम् । अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा यान्ति कदाचिदेव ॥ ८ ॥ अर्थः सुखं कीर्तिर- पीह मा भूदन्नर्थ एवास्तु तथापि धीराः । निजप्रतिज्ञाम- नुरुध्यमाना महोद्यमाः कर्म समारभन्ते ॥ ९ ॥ र्लैर्महाहैं-


पादटिप्पण्यः (Left Footnotes): १ धनिकानाम् २ शून्यमनसान् ३ वज्रपाषाणघटितम् ४ इन्द्र ५ धननिक्षेपकल्पनया ६ सच्छिद्रापि कपर्दिका. ७ इच्छति ८ पृथ्वी ९ तवानुबन्ध कुर्वतेत्यर्थ १० मुकुलितम्

पादटिप्पण्यः (Right Footnotes): १ शीघ्रम् २ गतलब्जा निर्लज्जेत्यर्थ ३ अहो इत्याश्चर्ये. ४ दुस्तराणि ५ शकरेण ६ व्यापार ७ अजिरम् ८ कृत्रिमसरित्. ९ दरिद्रस्य १० दूरीकर्तुम्.