सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
| तृष्णानिन्दा, धीरप्रशंसा | ७७ |

विशीर्णा दन्तालिः श्रवणविकलो श्रोत्रयुगलम्। शिरः शुक्ल चक्षुस्तिमिरपटलैरावृतमहो मनो मे निर्लज्ज तदपि विषयेभ्यः स्पृहयति ॥ ४२ ॥ खलोल्लापा सोढाः कथमपि तदाराधन- तया निगुह्यान्तर्बाष्पं हसितमपि शून्येन मनसा। कृत- श्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे किमु परमितो नर्तयसि माम् ॥ ४३ ॥ निवृत्ता भोगेच्छा बहु- पुरुषमानो विगलितः समानाः खर्याततः सपदि सुहृदो जीवित- समाः । शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने अहो दुष्टः कायस्तदपि मरणापायचकितः ॥ ४४ ॥ अमीषां प्राणानां तुलितबिसिनीपत्रपयसा कृते किं नास्माभिर्विगलित- विवेकैर्यवसितम् । यदाढ्यौनामग्रे द्रविणमदनिःसङ्गमनसा कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ ४५ ॥ समारम्भा भग्नाः कति कति न वारास्तव पशो पिपासोस्तुच्छेद्सिन्द्र- विणमृगतृष्णार्णवजले । तथापि प्रत्याशा विरमति न ते मूढ शतधा न दीर्णं यच्चेतो नियतमशनिग्रावघटितम् ॥ ४६ ॥ विवेकव्याकोशे विकसति शमे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरति तरा सा परिणतिः । जरा जीर्णैश्वर्यग्रसनगहनाक्षेप- कृपणस्तुवापात्र यस्या भवति मँरुतामप्यधिपतिः ॥ ४७ ॥ अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धाना हरति विवशाना शमधनम् । विपद्दीक्षादक्षासहतरलतारैः प्रणयिनीकटाक्षैः कूटैः कपटकूटिलैः कामकितव. ॥ ४८ ॥ उत्खात निधिशङ्कया क्षितितल ध्माता गिरेर्धा- तवो निस्तीर्णं सरितापतिर्नृपतयो यत्नेन संतोषिताः । मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशा. प्राप्त काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ॥ ४९ ॥ निःस्वो वँष्टि शतं शती दशशतं लक्षं सहस्राधिपो लक्षेशः क्षितिराजता क्षितिपतिश्चक्रेशता वाञ्छति । चक्रेशः सुरराज- ता सुरपतिर्ब्रह्मास्पदं वाञ्छति ब्रह्मा विष्णुपद हरिः शिव- पद तृष्णावधि को गतः ॥ ५० ॥ माने नेच्छति वार्य- त्युपशमे र्कमालिकन्त्या हिया स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते । तृष्णे त्वामनुबध्नता फलमियत्प्राप्त जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न समन्यते ॥ ५१ ॥ दन्तैरुच्चलितं धिया तरलितं पाण्यङ्गिणा कम्पितं दृग्भ्या कुञ्चितं बलेन गलितं रूपश्रिया प्रोषितम् । प्रासाया यमभूपतेरिह महाधाट्या धरायामिह तृष्णा केवलमेकिकैव सुभटी धीरा पुरो नृत्यति ॥ ५२ ॥ श्रान्तं याचनतत्परेण मनसा देहीति वाक्प्रेरिता भुक्तं मानविवर्जितं परगृहे साशङ्कया काकवत् । साक्षेपं भ्रुकुटीकटाक्षकूटिलं दृष्टं खलानां मुखं तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रापि सज्जा वयम् ॥ ५३ ॥ श्रान्तं देशमनेकद दुर्गविषमं प्राप्तं न किंचित्फलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला । भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकव- त्तृष्णे जृम्भसि पापकर्मनिरते नाद्यापि संतुष्यसि ॥ ५४ ॥ आसिष्ये सुखितो गृहीति विहितो मोहेन दारग्रहस्तत्सङ्गा- त्समुतदासवान्धवसुहृत्सम्बन्धिनामुद्भवः । तन्निवाहकधर्त्ना- परिभवानौचित्यचिन्ताजुषः किं सौख्यं कतमा गृहस्थिति- रतोऽनर्थो मया स्वीकृतः ॥ ५५ ॥ शान्तेर्मातुर्विवेका- त्पितुरपि कृपणं मँङ्कु कृत्वा पृथक्त्यामाशा योषा स्वतन्त्रा व्रजति परगृहान्सर्वदा वीतैलज्जा । सचत्ते मत्कृशत्वं मम यमनिगमो भ्रातरौ भर्त्सयन्ती पुष्ट्रा चैवात्मबन्धूंस्तदपि पुँनरहो हन्त वन्ध्या श्रयाम. ॥ ५६ ॥ लज्जे त्वं मज्ज सिन्धौ गिरिवरशिखरे त्वं च तिष्ठ प्रतिष्ठे शान्ते प्रान्ते दिशान्ते कुरु वसतिमहो गर्व खर्वो भवाशु । तेजः पाताल- मूलं भज भुवि भगवन्मान मा नाम तेऽस्तु प्रेम्णैकामाश्च- यन्ती सतत महमिमा तूर्णमाशा श्रयिष्ये ॥ ५७ ॥
धीरप्रशंसा
स एव धन्यो विपदि स्वरूपं यो न मुञ्चति । त्यजत्य- र्ककरैस्तप्तं हिमं देहं न शीतताम् ॥ १ ॥ चलन्ति गिरयः कामं युगान्तपवनाहताः । कृच्छ्रेऽपि न चलत्येव धीराणा निश्चलं मनः ॥ २ ॥ कृतं पुरुषशब्देन जातिमात्रावलम्बि- ना । योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ३ ॥ ग्रसमानमिवाजौसि सहसा गौरवेरितम् । नाम यस्याभि- नन्दन्ति द्विषोऽपि स मतः पुमान् ॥ ४ ॥ सह परिजनेन विलसति धीरो गैहनानि तरति पुनरेकः । विषमेकेन निपीतं त्रिपुर्रजिता सह सुरैरमृतम् ॥ ५ ॥ श्लाघ्या महतामुन्नति- रद्भुतमध्यवसितं च धीराणाम् । कनकगिरिरनभिलङ्घयो रविरनिशमनुज्झितारम्भः ॥ ६ ॥ अङ्गणवेदी वसुधा कँल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञ- स्य धीरस्य ॥ ७ ॥ केदारितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टम् । अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा यान्ति कदाचिदेव ॥ ८ ॥ अर्थः सुखं कीर्तिर- पीह मा भूदन्नर्थ एवास्तु तथापि धीराः । निजप्रतिज्ञाम- नुरुध्यमाना महोद्यमाः कर्म समारभन्ते ॥ ९ ॥ र्लैर्महाहैं-
पादटिप्पण्यः (Left Footnotes): १ धनिकानाम् २ शून्यमनसान् ३ वज्रपाषाणघटितम् ४ इन्द्र ५ धननिक्षेपकल्पनया ६ सच्छिद्रापि कपर्दिका. ७ इच्छति ८ पृथ्वी ९ तवानुबन्ध कुर्वतेत्यर्थ १० मुकुलितम्
पादटिप्पण्यः (Right Footnotes): १ शीघ्रम् २ गतलब्जा निर्लज्जेत्यर्थ ३ अहो इत्याश्चर्ये. ४ दुस्तराणि ५ शकरेण ६ व्यापार ७ अजिरम् ८ कृत्रिमसरित्. ९ दरिद्रस्य १० दूरीकर्तुम्.
| ७८ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |

स्तुतुर्भुन देवा न भेजिरे भीमविषेण भीतिम् । सुधा
विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥ १० ॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु
गच्छतु वा यथेच्छम् । अद्यैव वा मरणमस्तु युगान्तरे
वा न्यायात्पथः१ प्रविचलन्ति पदं न धीरा ॥ ११ ॥
कान्ताकटाक्षविशिखा न लूँनन्ति४ यस्य चित्तं न निर्दहति
कोपकृशानुतापः । कर्षन्ति भूरि विषयाश्च न लोभपाशा
लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ १२ ॥ आपत्समुद्ध-
रणवीरधिय परेषा जाता महत्स्वपि कुले न भवन्ति सर्वे ।
विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमूसलो-
ल्लिखनं सहन्ते ॥ १३ ॥ विरम विरसायासादस्माद्दुरध्यव-
सायतो विपदि महता धैर्यध्वंसं यदीक्षितुमीहसे । अयि
जड विधे कल्पापायव्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा
नैते न वा जलराशयः ॥ १४ ॥
वीरप्रशंसा
एकेनापि हि शूरेण पदाक्रान्तं महीतलम् । क्रियते
भास्करेणेव स्फारस्फुरिततेजसा ॥ १ ॥ बहवः पङ्गवोऽपीह
नराः शास्त्राण्यधीयते । विरला रिपुखड्गाग्रधारापातसहि-
ष्णवः ॥ २ ॥ अनन्तोद्भूतभूतौघसङ्कले भूतलेऽखिले । शस्त्रे
शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः ॥ ३ ॥ महिम्नामन्तरं
पश्य शेषाहेः सान्निभूधरा । फणासहस्रस्रग्दाम्नि भ्रमरीव
विभाति भूः ॥ ४ ॥ स्पृहयति भुजयोरन्तरमायतकरवाल-
कररुहविदीर्णम् । विजयश्रीर्वीराणां व्युत्पन्नप्रौढवनितेव ॥ ५ ॥
भुजे विशाले विमलेऽसिपत्रे कोऽन्यस्य तेजस्सिकथा सहेत ।
गतासुरप्याहवसीम्नि वीरो द्विधा विधत्ते रविमण्डल य. ॥ ६ ॥
लोकोत्तर चरितमर्पयति प्रतिष्ठा पुंसा कुलं नहि निमित्त-
मुदारतायाः । वातापितापनमुनेः कलशात्प्रसूतिर्लीलायितं
पुनर्रसमुद्रसमुद्रपानम् ॥ ७ ॥ नायाति वाडवशिखाकथनेन
ताप शैत्यं हिमाद्रिपयसा विशता च नाब्धिः । कश्चिद्गमीर-
मनसा सततं विषादकाले प्रमोदसमये च समोऽनु-
भावः ॥ ८ ॥ संप्राप्नुवन्ति ननु मण्डलभेकमेव क्ष्मापा
जये समरसीम्नि वपुस्तु हित्वा । चण्डांशुमण्डलमथामि-
मतानि कामं प्रेमार्द्रनिर्जरवधूस्तनमण्डलानि ॥ ९ ॥
विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं समायुक्तोऽप्यर्थैः
परिभवपदं याति कृपणः । स्वभावादुद्भूता गुणसमुदया-
वाप्तिविषया द्युति सैंही२ कि श्वा धृतकनकमालोऽपि३
लभते ॥ १० ॥ को वीरस्य मनस्विनः स्वविषयः को वा
विदेशैस्तथा यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यदंष्ट्रानखलाङ्गुलप्रहरण मिहो वनं गाहते तस्मिन्नेव
हतद्विपेन्द्ररुधिरैस्तृष्णा छिनत्त्यात्मनः ॥ ११ ॥ सामो-
पायनयप्रपञ्चपटव प्रायेण ये भीरव शूराणा व्यवसाय
एव हि परं ससिद्धये कारणम् । विस्फूर्जद्विकटाटवीगज-
घटापीठैकसचूर्णनव्यापारैकरसस्य सन्ति विजये सिंहस्य के
मन्त्रिण ॥ १२ ॥ काकुत्स्थस्य दशाननो न कृतवान्दारापहारं
यदि काम्भोधिः क्व च सेतुबन्धघटना कोत्तीर्य लङ्काजयः ।
पार्थस्यापि पराभवं यदि रिपुर्नाधात्क्व ताहक्तपो नीयन्ते
रिपुभि समुन्नतिपदं प्रायः पर मानिनः ॥ १३ ॥ वह्निं
शीतयितुं हिमं ज्वलयितुं वातं निरोडुं पयो मूर्त व्योम
विधातुमुद्नमयितुं नेतुं नति वा महीम् । उद्धर्तुं किल भूभृतः
स्थलयितुं सिन्धुं च संभाव्यते शक्तिर्यस्य जनैः स एव नृपतिः
शेषाः पर पार्थिवाः ॥ १४ ॥ नाखिन्सन्ततवेधनोल्बण-
तमैस्तल्पैरूदेति व्यथा ग्रन्थिम्यश्चलितैर्न चालमसुभिर्मर्मव्यथा
जायते । क्रन्दद्बन्धुजनार्तनादचकितस्खान्तं न वा स्थीयते न
ह्येतन्मरणं सुखस्य सुभगा काप्येव सम्प्राप्तिभूः ॥ १५ ॥
तेजस्विप्रशंसा
बालस्यापि रखेः पाँदाः७ पतन्त्युपरि भूभृताम्८ । तेजसा
सह जातानां वयः कुत्रोपयुज्यते ॥ १ ॥ एकः स एव
तेजस्वी सैहिकेयैः९ सुरद्विषाम् । शिरोमात्रावशेषेण जीयन्ते
येन शत्रवः ॥ २ ॥ मौनी पादप्रहारेऽपि न क्षमी नीच एव
सः । आकृष्टशस्त्रो मित्रेऽपि न तेजस्वी खलो हि सः ॥ ३ ॥
तुल्येऽपराधे स्वैर्भानुर्भानुमन्तं११ चिरेण यत् । हिमांशुमाशु१२
ग्रसते तन्मैद्दिम्नः१३ स्फुटं फँलॅम् ॥ ४ ॥ स्वयं प्रणमतेऽल्पेऽपि
परवायावुपैयुषि६ । निदर्शनमँसाराणा१४ लँघुर्बहुँलृणं१५ नरः ॥ ५ ॥
तेजस्विमध्ये तेजस्वी दैवीयानपि१८ गण्यते । पञ्चमः पैञ्चतपस-१९
स्तपनो जातवेदसाम् ॥ ६ ॥ अकृत्वा हेलया पादमुच्चैर्मूर्धसु
१ न्यायादनपेतात् २ मार्गात् ३ कटाक्षा एव विशिखा बाणा
४ न छिन्दन्ति ५ कोप क्रोध स एव कृशानुग्निस्तत्ताप
६ सम्पूर्णम् ७ अगाधसमुद्रपानम् ८ पराजयस्थानम्
१ कान्तिम् २ सिंहसबन्धिनीम् ३ सुवर्णमालाअलकृतोऽपि
४ परदेश ५ दष्टानखलाङ्गलाश्च प्रहरण यस्य नखा एव लाङ्गनानि विदारकत्वात् हलानि इति रूपकम् 'पान्तु वो नरसिंहस्य नखलाङ्गलकोटय ' इति कस्यचित्प्रयोग ६ प्रविशति ७ किरणा, पक्षे,-चरणा ८ पर्वतानाम्; पक्षे,-राज्ञाम् ९ राहु १० राहु ११ सूर्यम् १२ चन्द्रम् १३ मार्दवस्य १४ दृष्टान्त १५ दुर्बलानाम् १६ निष्पौरुष १७ तृणकल्पमित्यर्थ १८ दूरस्थोऽपि १९ पञ्चाग्निसाम्य तपो यस्य
तेजस्विप्रशंसा, मनस्विप्रशंसा | ७९
| तेजस्विप्रशंसा (क्रमशः) | तेजस्विप्रशंसा / मनस्विप्रशंसा |

| विद्विषाम् । कैथंकारमने॑लम्बा कीर्तिर्याम॑धिरोहति ॥ ७ ॥
अङ्गाधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरैक्षिप्त-
मृगयूथो मृगाधिपः ॥ ८ ॥ तेजस्विनि क्षमोपेते नातिका-
र्कश्यमाचरेत् । अतिनिर्मन्थनादग्निश्चन्दनादपि जायते ॥ ९॥
तेजोहीने महीपाले स्वे परे च विकुर्वते । निःशङ्को हि
जनो धत्ते पदं भस्मन्न्य॑नूष्मणि ॥ १० ॥ एकचक्रो रथो
यँन्ता विक॑लो विषमा हँयाः । आक्रमत्येव तेजस्वी तथा-
प्यर्को नभस्तलम् ॥ ११ ॥ साधनं सुमहद्यस्य यन्नान्यस्य
विलोक्यते । तस्य धीशालिनः कोऽन्यः सहेतारा॑लिता
ध्रुवम् ॥ १२ ॥ येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ।
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ॥ १३ ॥ सिंहः
शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सँत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ १४ ॥
यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनैकान्तः ।
तत्तेजस्वी पुरुषः परकृतविकृतिं कथं सहते ॥ १५ ॥
दर्शिता॑तोपोच्छ्रायैस्तेजोवद्भिः सुगोत्रसँर्जातैः । हीरैरपिस्व
धीरैरापत्सापि गम्यते नाधः ॥ १६ ॥ दीप्यन्ता ये दीप्त्यै
¹⁷घटिता मणयश्च वीरपुरुषाश्च । तेज. सविनाशाय तु
भवति तृणानामिव लघूनाम् ॥ १७ ॥ मदसिक्तमुरैर्गन्धाधिपः
करिभिर्वर्तयते स्वयंहृतै. । लघयन्वखलु तेजसा जगन्न
महानिच्छति भूतिमन्वतः ॥ १८ ॥ तीक्ष्णोष्णदुर्विषहवीर्य-
भृतः परेषा तेजस्विनो न गणयन्ति वपुर्महत्त्वम् । यत्पद्म-
रागशकलाकृतिरद्रितुङ्गं कात्स्न्येन भक्षयति काष्ठचयं
स्फुलिङ्गः ॥ १९ ॥ न तेजस्तेजस्वी ⁴प्र॑सृतमपरेषा
प्रसहते स तस्य स्वो भावः प्रैर्कृतिनियतत्वादकैंतकः ।
मयूखैरैैश्चान्तं तपति यदि देवो दिनकरः किमो-
ग्नेयग्रावा निर्कृत इव तेजासि ²³वमति ॥ २० ॥ हस्ती
स्थूलतनुः स चाङ्कुशवशः कि हस्तिमात्रोऽङ्कुशो वज्रेणाभि-
हता पतन्ति गिरयः कि शैलमात्रः ²⁵पेविः । दीपे प्रज्वलिते
विनश्यति तमः कि दीपमात्रं तमस्तेजो यस्य विराजते स
बलवान् स्थूलेषु कः प्रत्येयः ॥ २१ ॥ स्वल्पस्नायुवसावशेष-
मलिनं निर्मासमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति न | तु तत्तस्य क्षुधः शान्तये । सिंहो जम्बुकमङ्कमागतमपि
त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः
सत्त्वानुरूपं फलम् ॥ २२ ॥ शमयति गजानन्यान गन्धद्विप.
कलभोऽपि सन्भवति सुतरा वेगोद्रं भुजंग शिशोर्विषम् ।
भुवमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं न खलु वयसा
जात्यैवार्य स्वकार्यसहो भर ॥ २३ ॥

### मनस्विप्रशंसा

काम प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः । इच्छन्ति
न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ १ ॥ नूत नूतन-
कूष्माण्डफलाना के भवन्त्यमी । अङ्गुलीदर्शनाद्येन विली-
यन्ते मनस्विन. ॥ २ ॥ ब्रह्माण्डमण्डलीमात्रं किं लोभाय
मनस्विनः । शैफरीस्फुरितैर्नाब्धेः क्षुब्धता जातु जायते ॥ ३॥
कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्व-
लोकस्य शीर्यते वन एव वा ॥ ४ ॥ पादाहतं समुत्थाय
मूर्द्धानमधिरोहति । स्वैस्थादेवापमानेऽपि ⁶देहिनस्तद्वरं
रज. ॥ ५ ॥ समूलघातम॑र्ध्नन्तः परांञ्चोध्नन्ति मानिनः ।
प्रध्वंसिता॑न्धतमसस्तत्रोदाहरणं रविः ॥ ६ ॥ स पुमाने॑र्थ
वज्जन्मा यस्य नाग्नि पुर स्थिते । नान्यमङ्ङ्गुलिमभ्येति
सख्यौयामुद्यताङ्गुलिः ॥ ७ ॥ स्थित्यैतिक्रान्तिभीरूणि स्व-
च्छान्यौकुलितान्यपि । तोयानि तोयराशीना मनासि च
मनस्विनाम् ॥ ८ ॥ ¹⁵शॅक्तिवैकल्यैन॑म्रयस निःसौरत्वाईंघी-
यसः । ¹⁹ज॑न्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ९ ॥
अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् । प्रियता ज्या-
यसीं मा गान्महता केन तुङ्गता ॥ १० ॥ तावदाश्रीयते
लक्ष्म्या तावदस्य स्थिर यशः । पुरुषस्तावदेवासौ यावन्मा-
नान्न हीयते ॥ ११ ॥ दुरासदत्वमज्यायानगम्यस्तुङ्गोऽपि
भूधर. । न जहाति मैहाँजस्कं मैन॑प्रांशुमुलङ्घ्यता ॥ १२ ॥
गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा । येषा यशासि
शुभ्राणि हेपयन्तीन्दुमण्डलम् ॥ १३ ॥ उदाहरणमाशीःषु
प्रथमे ते मनस्विनाम् । शुष्केऽशनिरिवामर्षो यैररातिषु
पात्यते ॥ १४ ॥ तुङ्गत्वमितैरै नाद्रौ नेदं सिन्धाव- |
पादटिप्पण्यः (Footnotes)
| पादटिप्पणी (वाम भाग) | पादटिप्पणी (दक्षिण भाग) |

| १ कथमित्यर्थ . २ निराधारा ३ हत ४ उष्णत्वरहिते ५ सारथि
६ अनूरु = अरुण ७ तुरगा ८ कुटिलताम् ९ प्रशस्तकोपेलेषु
१० बलवताम् ११ सूर्यकान्त १२ अपमानम् १३ कान्ति, पक्षे,
-प्रताप १४ कान्त्याधिक्यम्, पक्षे,-धनुष औन्नत्यम् १५ प्रकाश-
कत्वम्; पक्षे, सामर्थ्यम्. १६ पर्वत, पक्षे,-कुलम् १७ विधातु-
निष्पादिता १८ विस्तृतम् १९ स्वभावधीनत्वात् २० अकृत्रिम
२१ किरणै २२ सततम् २३ सूर्यकान्त.. २४ विकृत इव २५ वज्रम्
२६ विश्वास • | १ प्रभावानुरूपम् २ यथेच्छम् ३ मत्स्यीस्फुरणेन ४ कदाचित्
५ गुच्छस्य ६ अव्यग्रात् ७ चेतनाव् ८ अनुन्मूलयन्त ९ शत्रून्
१० गाढ तम ११ सार्थकजन्मा १२ पुरुषगणनाप्रस्तावे १३ म-
र्यादोल्लङ्घनाद्वेतोर्भीरूणि १४ सक्षोभितानि १५ उत्साहादिशक्ति
वैधुर्यण, पक्षे, अवष्टम्भसामर्थ्यविरहेण १६ प्रह्रीभूतस्य, पक्षे,-
विधेयभूतस्य १७ दुर्बलत्वाद्, पक्षे,-स्थिराशरहितत्वात् १८ गौर-
वहीनस्य, पक्षे,-नीरसस्य १९ जन्तोः. २० प्रतापसपन्नम्.
२१ मानोन्नतपुरुषम् २२ अगाधता २३ तुङ्गत्वम् |
| ८० | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |

गाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ १५ ॥ न
क्वचिच्च बहिर्यान्ति मानिनां प्रार्थनागिरः । यदि निर्यातुमि-
च्छन्ति तदा प्राणपुरःसराः ॥ १६ ॥ असेवितेश्वरद्वारमदृष्ट-
विरहव्यथम् । अनुक्तक्लीबवचनं धन्यं कस्यापि जीवितम्
॥ १७ ॥ मानिनो हतमानस्य मानोऽपि न सुखप्रदः ।
जीवन्न मानमूलं हि माने म्लाने कुतः सुखम् ॥ १८ ॥
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । अपि
निर्वाणमायाति नानलो याति शीतताम् ॥ १९ ॥ मनस्वि-
हृदयं धत्ते रोषेणैव प्रसन्नताम् । भस्मना मुकुरः प्रायः प्रसादं
लभतेतराम् ॥ २० ॥ मनस्विनो न मन्यन्ते परतः
प्राप्य जीवनम् । बलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि
कोकिलाः ॥ २१ ॥ दूर्वाङ्कुरतृणाहारा धन्यास्ते वै वने मृगाः ।
विभवोन्मत्तचित्तानां न पश्यन्ति सुखानि यत् ॥ २२ ॥
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः । अर्थैरयत्नसुलभै-
र्जलदर्भाङ्कुरादिभिः ॥ २३ ॥ उपकारेण दूयन्ते न सहन्तेऽनु-
कम्पिताम् । आपत्स्वपि दुराराध्या नित्यदुःखा मन-
स्विनः ॥ २४ ॥ जलसेकेन वर्धन्ते तरवो नाश्मसंचयाः ।
भव्यो हि द्रव्यतामेति क्रिया प्राप्य तथाविधाम् ॥ २५ ॥
अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु
सत्त्वानामवमानात्परं भयम् ॥ २६ ॥ न सदश्वाः कशाघातं
न सिंहा घनगर्जितम् । परैरङ्गुलिनिर्दिष्टं न सहन्ते
मनस्विनः ॥ २७ ॥ कामं वनेषु हरिणास्तृणेन जीवन्त्य-
यत्नसुलभेन । धनिषु न दैन्यं विदधति ते खलु पशवो
वयं सुधियः ॥ २८ ॥ १प्रत्युपकुर्वन्बह्वपि न भवति पूर्वो-
पकारिणा तुल्यः । एकोऽनेकं२करोति कृतं निष्कारणमेव
कुरुतेऽन्यः ॥ २९ ॥ न नटा न विटा न गायका न परद्रोह-
निबद्धबुद्धयः । नृपसद्मनि नाम के वयं स्तनभारानमिता
न योषितः ॥ ३० ॥ अभिमानधनस्य गत्वरैरसुभिः स्यान्नु
यशश्चिचीषतः । अचिरांशुविलासचञ्चला ननु लक्ष्मीः
फलमानुषङ्गिकम् ॥ ३१ ॥ ज्वलितं न हिरण्यरेतसं चय-
मास्कन्दति भस्मना जनः । अभिभूतिभयादसूनतः सुख-
मुज्झन्ति न धाम मानिनः ॥ ३२ ॥ पुरो वा पश्चाद्वा
वयमुपविशामः क्षितिभुजा ततः किं नश्छिन्नं वचनरचना-
क्रीतजगताम् । अगारे कान्तारे कुचकलशभारे मृगदृशां
मणेस्तुल्यं मूल्यं सहजसुभगस्य द्युतिमतः ॥ ३३ ॥ अमुक्तैकस्या
यस्याः क्षणमपि न यातं नृपशतैर्भुवस्तस्या लाभे क इव
बहुमानः क्षितिभुजाम् । तदंशस्याप्यंशे तदवयवलेशेऽपि
पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ३४ ॥
क्वचिद्भूभौ शय्या क्वचिदपि च पर्यङ्कशयनं क्वचिच्छाका-
हारी क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्थाधारी
क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति
दुःखं न च सुखम् ॥ ३५ ॥ स जातः कोऽप्यासीन्मदन-
रिपुणा मूर्ध्नि धवलं कपालं यस्योच्चैर्विनिहितमलंकारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमद्भिः कः
पुंसामयमतुलदर्पज्वरभरः ॥ ३६ ॥ विपुलहृदयैर्यत्नैः
कैश्चिज्जगज्जनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं
यथा । इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपय-
पुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ३७ ॥ वरमहि१मुखे
क्रोधाध्माते२ करो विनिवेशितो विषमपि वरं पीत्वा सुप्तं
कृतान्तनिवेशने३ । गिरिवरतटान्मुक्तश्चात्मा वरं शतधा
कृतो न तु खलजनावासैरर्थैः कृतं हितमात्मनः ॥ ३८ ॥
नानीयन्ते मधुनि मधुपैः पारिजातप्ररोहैर्नाम्यर्थ्यन्ते तुहिन-
रुचिना चन्द्रिकायाश्चकोराः । असद्वाचां धुरि मधुरिमा
यद्यपूर्वावतारः सोल्लासाः स्युः स्वयमिह बुधाः किं सुधाम्यर्थ-
नाभिः ॥ ३९ ॥ मृत्पिण्डो जलरेखया वलयितः सर्वो-
ऽप्ययं नन्वणूनाङ्गीकृत्य स एव सयुगशतै राज्ञां गणैर्भुज्यते ।
तद्दद्युर्ददतेऽथवा न किमपि क्षुद्रा दरिद्रा भृशं धिग्धिकता-
न्पुरुषाधमान् धनकणं वाञ्छन्ति तेभ्योऽपि ये ॥ ४० ॥
त्वं चेन्नीचजनानुरागमरसादस्मासु मन्दादरः का नो मानद
मानहानिरियती भूः किं त्वदेकप्रभूः । गुञ्जापुञ्जपरम्परा-
परिचयाद्भिल्लीजनैरूज्झितं मुक्तादाम न धारयन्ति किमहो
कण्ठे कुरङ्गीदृशः ॥ ४१ ॥ त्वं राजा वयमप्युपासितगुरु-
प्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु
प्रतन्वन्ति नः । इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ ४२ ॥
ब्रह्माण्डं कियदस्ति तत्र वसुधापिण्डं किमाचक्ष्महे तत्राप्ये-
कतरं तु खण्डममितास्तस्मिन्नृपाः केचन । तेभ्यो दैन्यशतो-
पनीतविभवा दृष्टानुकम्पास्तु ते धिङ्मूढाः स्पृहयन्ति हन्त
किमपि स्वार्थेन तेभ्योऽपि ये ॥ ४३ ॥ पातालात्र विमो-
चितो बत बलिर्नीतो न मृत्युं क्षयं नोन्मृष्टं शशलाञ्छनस्य
मलिनं नोन्मूलिता व्याधयः । शेषस्यापि धरां विधृत्य
न कृतो भारावतारः क्षणं चेतः सत्पुरुषाभिमानमनिशं
मिथ्या वहन्खिद्यसे ॥ ४४ ॥ नास्माकं शिबिका न चास्ति
कटकाद्यालक्रियासत्क्रिया नोत्तुङ्गास्तुरगो न कश्चिदनुगो
नाप्यम्बरं सुन्दरम् । किं तु क्ष्मातलवर्त्यशेषविदुषां साहित्य-
विद्याजुषां चेतस्तोषकरी शिरोनतिकरी विद्याऽनवद्यास्ति
पादटिप्पण्यः (Footnotes):
१ प्रत्युपकारं कुर्वन्
२ अनुकरणं करोति
१ सर्पमुखे
२ क्रोधपूर्णे
३ यमगृहे.
मनस्विप्रशंसा, अपौरुषत्वनिन्दा, गुणप्रशंसा ८१
नः ॥ ४५ ॥ लक्ष्मीर्निर्गृहितेमति हीनचरितैर्यैरैव तच्छिक्षया
कि नाथैव करोमि तामनुचरी रामा सकामामिव । ब्रह्माण्डे
निपतत्यपि स्खलति न प्रायेण येषा मनस्तेषामार्यमनस्विनामनु-
पद गन्तास्मि नाह यदि ॥ ४६ ॥ पुण्ये ग्रामे वने वा महति
सितेपटच्छन्नपालीं कपालीमादाय न्यायगर्भ द्विजहुतहुत-
भुग्धूमधूम्रोपकण्ठम् । द्वार द्वार प्रवृत्तो वरमुदरदरीपूरणाय
क्षुधार्तो मानी प्राणी स्वदेशे न पुनरनुदिन तुल्यकुल्येषु
दीनः ॥ ४७ ॥ अर्थीनामीशिषे त्व वयमपि च गिरामह्री-
श्महे यावदित्थ शूरस्त्वं वादिदर्पज्वरशमनविधावक्षयं
पाटवं नः । सेवन्ते त्वा धनाढ्या मतिमलहतये मामपि
श्रोतुकामा मय्यप्यास्था न चेत्तत्त्वयि मम सुतरामेष राज-
न्ग़तोऽस्मि ॥ ४८ ॥ श्रेयस्वी यत्र मानं व्रजति दुरित-
कृच्चापमानं मनुष्यैरज्ञेयं यत्र दूतैः प्रभुमनु मनुजो नीयते
चानपेक्षः । मृत्योर्गेहं वर तन्न तु कुधनवता यत्र सर्वापमानो
लोकैर्विज्ञायमानः स्वयमभितिथिता यत्र चार्थी प्रयाति ॥ ४९ ॥
अपौरुषत्वनिन्दा
माजीव्यः परावज्ञादुःखदग्धोऽपि जीवति । तस्यार्जन-
निरेवास्तु जननीक्लेशकारिणः ॥ १ ॥ असपादयतः कंचि-
दर्थं जातिक्रियागुणैः । यदृच्छाशब्दवत्पुंसः सजायै जन्म
केवलम् ॥ २ ॥
गुणप्रशंसा
गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसता सताम् । केतकी-
गन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ १ ॥ गुणवज्जनसंपर्का-
द्याति स्वल्पोऽपि गौरवम् । पुष्पाणामनुषङ्गेण सूत्रं शिरसि
धार्यते ॥ २ ॥ कलावतः सैव कला ययौघे क्रियते भवः ।
बहींभिश्च कलाभिः कि याभिरेङ्कः प्रदर्श्यते ॥ ३ ॥ न
पुत्रत्वेन पूज्यन्ते गुणैरासाद्यते पदम् । रखेर्व्यापारमादत्ते
प्रदीपो न पुन. शनिः ॥ ४ ॥ गुणाः सर्वत्र पूज्यन्ते पितृ-
वंशो निरर्थकः । वासुदेवं नमस्यन्ति वसुदेवं न
मानवाः ॥ ५ ॥ यदि सन्ति गुणाः पुंसा विकसन्त्येव ते
स्वयम् । नहि कस्तूरिकामोद. शपथेन निवार्यते ॥ ६ ॥
किमाढद्यत्वगुरुत्वाभ्या चरमोऽपि गुणैर्गुरुः । केतकीकुसुमे
पश्य लघुपत्रऽपि गौरवम् ॥ ७ ॥ केतकीकुसुमं भृङ्ग-
खण्ड्यमानोऽपि सेवते । दोषाः कि नाम कुर्वन्ति गुणापहृत-
चेतस. ॥ ८ ॥ शरीरस्य गुणाना च दूरमत्यन्तमन्तरम् ।
शरीर क्षणविध्वंसि कल्पान्तस्थायिनो गुणा. ॥ ९ ॥ गुणे-
ष्वेव हि कर्तव्यः प्रयत्न पुरुषै. सदा । गुणयुक्तो दरिद्रो-
ऽपि नेश्वरैर्गुणैः सम. ॥ १० ॥ गुणे. सर्वज्ञकल्पोऽपि
सीदत्येको निराश्रयः । अनर्घमपि माणिक्यं हेमाश्रयमपेक्षते
॥ ११ ॥ गुणेषु क्रियता यत्न किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥ १२ ॥ गुणैर्गौ-
रवमायाति न महत्यापि संपदा । पूर्णेन्दुर्न तथा वन्द्यो निष्क-
लङ्को यथा कृशः ॥ १३ ॥ स्वयं समुखविस्तारादूर्णनाभः
पतत्यध. । तमेव संहरन्भूयः पदमुच्चैर्विगाहते ॥ १४ ॥
गुणो दूषणता याति दूषणं गुणता क्वचित् । तथा हि नम्रता
दोषः स्तनयोः स्तब्धता गुणः ॥ १५ ॥ गुणैरुत्तुङ्गता याति
नोच्चैरासनसंस्थितः । प्रासादशिखरस्थोऽपि काकः किं
गरुडायते ॥ १६ ॥ अहो गुणाना प्राप्त्यर्थ यतन्ते बहुधा
नराः । मुक्ता यदर्थं भग्नासा इतरेषा च का कथा ॥ १७ ॥
गुणेन स्पृहणीय. स्यान्न रूपेण युतो जनः । सौगन्ध्यवर्ज्य
नादेयं पुष्पं कान्तमपि क्वचित् ॥ १८ ॥ प्रभुभिः पूज्यते
लोके कलैव न कुलीनता । कलावान्मान्यते मूर्ध्नि सत्सु
देवेषु शंभुना ॥ १९ ॥ गुणयुक्तोऽपि पूर्णोऽपि कुम्भ. कूपे
निमज्जति । तस्य भारसहो नास्ति गुणग्राहको यदि ॥ २० ॥
अहो वैचित्र्यमेतस्स संसारस्स किमुच्यते । गुणोऽपि क्लेश-
हेतु. स्याद्विश्रान्तः कण्ठकन्दले ॥ २१ ॥ जात्युत्कृष्टस्य हि
मणेर्नोचितं शाणघर्षणम् । आदर्शे चित्रकारै. किं लिख्यते
प्रतिबिम्बितम् ॥ २२ ॥ गुणयुक्तोऽप्यधो याति रिक्तः
कूपे घटो यथा । निर्गुणोऽपि भृतः पश्य जनै शिरसि
धार्यते ॥ २३ ॥ गुणिनोऽपि हि सीदन्ति गुणग्राही न
चेदिह । सगुण. पूर्णकुम्भोऽपि कूप एव निमजति ॥ २४ ॥
गुणो गुणान्तरापेक्षी स्वरूपस्यातिहेतवे । स्वभाव रम्यं
लावण्यं तारुण्येन मनोहरम् ॥ २५ ॥ गुणै. पूजा भवे-
त्पुंसा नैकस्माज्जायते कुलात् । चूडारत्नं शशी शंभोर्यानमु-
क्षैःश्रवो हरेः ॥ २६ ॥ सर्वत्र गुणवानेव चकास्ति प्रथितो
नरः । मणिर्मूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥ २७ ॥
पादटिप्पण्यः (Left Footnotes):
१ शुभ्रवस्त्रेण पिहिता पाली यस्या २ भिक्षापात्रम् ३ गर्हितं जीवतीति माजीवन् ४ परै कृता याऽवज्ञा तदेव दुख तेन दग्धः खिन्न ५ अनुत्पत्ति ६ ब्राह्मणत्वादि ७ इज्याध्ययनादि. ८ शौर्यादि. ९ भ्रमरा.. १० चन्द्रस्य, पक्षे,-विदुष ११ षोडशो भाग, पक्षे,-चतु षष्टिकलानामन्यतमा १२ अधोभागे ध्रियते, पक्षे,-तिरस्क्रियते. १३ शिव, पक्षे,-संसार १४ कलङ्क, पक्षे,-दोष
११ सु. र. भा
पादटिप्पण्यः (Right Footnotes):
१ गुणाकृष्टान्त करणस्य २ शिवतुल्य ३ दुख प्राप्नोति ४ अमूल्यम् ५ आडम्बरै ६ राजभवनम् ७ मौक्तिकानि, पक्षे,-मोक्षमापन्ना ८ रज्जुयुक्त, पक्षे,-विनयादिगुणसपन्न ९ रिक्त; पक्षे,-निर्द्रव्य १० पूर्ण ११ रज्जुबद्ध १२ अश्व १३ इन्द्रस्य
८२ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्]
गुणानर्चन्ति जन्तूना न जाति केवला क्वचित् । स्फाटिकं भाजन भग्न काकिन्यापि न गृह्यते ॥ २८ ॥ नहि जन्मनि ज्यैष्ठत्व ज्येष्ठत्वं गुण उच्यते । गुणाद्गुरुत्वमायाति दधि दुग्धं घृत यथा ॥ २९ ॥ गुणवान्सुचिरस्थायी दैवे- नापि न सह्यते । तिष्ठत्येको निशा चन्द्र श्रीमान्संपूर्ण- मण्डल. ॥ ३० ॥ सर्वत्र गुणवान्देशे चकास्ति प्रथते- तराम् । मणिर्मूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥ ३१ ॥ गुण आकर्षणयोग्यो धनुष इवैकोऽपि लक्षलाभाय । लूता- तन्तुभिरिव कि गुणैर्विमर्दासहैर्र्बहुभि. ॥ ३२ ॥ अनवसरे गुणवानपि हृदयादवतार्यते हार. । पश्य शलाकावसरे तृणेऽपि भूपैः प्रसार्यते स्वकरः ॥ ३३ ॥ गुणवन्त क्लिश्यन्ते प्रायेण भवन्ति निर्गुणा सुखिन । बन्धनमायान्ति शुका यथेष्टसंचारिण. काका ॥ ३४ ॥ गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोष. । अलिरेति वनात्कमलं न दर्दुरस्तन्निवासोऽपि ॥ ३५ ॥ अवल- म्बितविष्णुपदः कर्षितजनचक्षुरतुलगतिः । पत्रमयोऽपि पदार्थः पतङ्कतामेति गुणयोगात् ॥ ३६ ॥ अमित- गुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ ३७ ॥ दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते । प्रीत्यैव शशिनि पतितं पश्यति लोक कलङ्कमपि ॥ ३८ ॥ अन्तर्गतैर्गुणैः कि द्विन्ना अपि यत्र साक्षिणो विरलाः । स गुणो गीतेर्यदसौ वनेचर हरिणमपि हरति ॥ ३९ ॥ गुणा गुणज्ञेषु गुणोभवन्ति ते निर्गुण प्राप्य भवन्ति दोषा. । सुस्वादुतोयाः प्रवहन्ति नद्यः समुद्रासाद्य भवन्त्यपेयाः ॥ ४० ॥ गुणेषु यत्न. पुरुषेण कार्यो न किंचिदप्राप्यतमं गुणानाम् । गुणप्रकर्षात्तुडुपेन शंभोरलङ्घ्यमुलङ्घितमुत्त- माङ्गम् ॥ ४१ ॥ निष्कलङ्कलकलयैकयापि यः संयुक्तः स खलु पूज्यते जनै. । भद्र पश्य जलजोऽपि धार्यते शंकरेण शिरसा निशाकरः ॥ ४२ ॥ वकोऽपि पङ्कजनि- तोऽपि दुरोसदोऽपि व्यौलाश्रितोऽपि विफलोऽपि सकण्ट- कोऽपि । गन्धेन बन्धुरसि केतकपुष्पजेन ह्येको गुण. खलु निहन्ति समस्तदोषान् ॥ ४३ ॥ न खनति खुरैः क्षोणीपृष्ठं न नर्दति सादर प्रकृतिपुरुषं प्रेक्ष्याप्यग्रे न कुप्यति गोचरम् । वहति च धुर धुर्यो वैर्यादनुङ्खितकंधरो
जगति गुणिनः कार्यौदार्यात्परानतिशेरते ॥ ४४ ॥ गुणा- नामज्ञाता प्रचुरधनदातापि न मुदे मुदे विद्याज्ञाता भवति मितदातापि गुणिनाम् । दृशौ ग्राम्या दत्ते न पुनरवधत्ते च चतुरो दृशः प्रान्तं दत्त्वा वशयति नितान्तं पुरवधूः ॥ ४५ ॥ उपादाता यावन्न भवति गुणाना गुणवतामस- त्कल्पास्तावत्त्रिभुवनमहार्घा अपि गुणाः । अपि प्राग्दैत्यारे- र्हृदयवसतेः कौस्तुभमणेः स कि नासीदब्धौ श्रुतिरपि न यस्य क्वचिदभूत् ॥ ४६ ॥ विवादप्रारम्भ. प्रथयति पर दम्भमतुलं गुणाना गाम्भीर्ये तव भवति साक्षी कलकलः । पयःपूर्णः कुम्भो ध्वनति न तथा वातवलितो यथा रिक्तो भाभाध्वनिमनिभृतं सुधति मुहुः ॥ ४७ ॥ कौशेयं कृमिजं सुवर्णमुपलाद्दूर्वापि गोरोमंत. पङ्कोत्तोमरसं शशाङ्क उदधेरि- न्दीवर गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गोपत्तितो रोचना प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति कि जन्मना ॥ ४८ ॥
उद्यमप्रशंसा
उद्योग खलु कर्तव्यः फलं मार्जारवद्भवेत् । जन्मप्रभृति गौर्नास्ति पयः पिबति नित्यश. ॥ १ ॥ उद्यमं साहसं धैर्य बुद्धिः शक्ति. पराक्रमः । षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥ २ ॥ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा. ॥ ३ ॥ न• दैवमिति संचिन्त्य त्यजेदुद्योगमात्मन. । अनु- द्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥ ४ ॥ विहाय पौरुषं यो हि दैवमेवावलम्बते । प्रासादसिंहवत्तस्य मूर्ध्नि तिष्ठन्ति वायसा. ॥ ५ ॥ पूर्वजन्मकृतं कर्म तद्दैवमिति कथ्यते । तस्मा- त्पुरुषकारेण विना दैवं न सिध्यति ॥ ६ ॥ यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ ७ ॥ यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । एवमात्म- कृतं कर्म मानवः प्रतिपद्यते ॥ ८ ॥ निर्पानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । सोद्योगं नरमायान्ति विवशाः सर्वसंपदः ॥ ९ ॥ दैवं पुरुषकारेण सीध्यसिद्दिनिबन्धनम् । १५योऽति- क्रमितुमिच्छेत स लोके नावसीदति ॥ १० ॥ योजनाना सहस्रं तु शनैर्गच्छेत्पिपीलिका । अगच्छन्वैनतेयोऽपि पद- मेकं न गच्छति ॥ ११ ॥ कामपि श्रियमासाद्य यस्तद्वृद्धौ न चेष्टते । तस्याँयतिषु न श्रेयो बीजमोजिकुटुम्बवत्
| १ विचारक्षम, पक्षे,-यथाश्रुतम् | १ पाषाणात् |
| २ लक्षसख्याकरुधनलाभाय, पक्षे,-वेधलाभाय | २ धेनुकेशेभ्य |
| ३ विचारासहै, पक्षे,-आकर्षणासहै | ३ कर्दमात् |
| ४ केश प्राप्नुवन्ति | ४ रक्तकमलम् |
| ५ भ्रमर | ५ नील कमलम् |
| ६ मेक | ६ आश्रयति |
| ७ आकाशाय | ७ प्रसादे देवालयशिखरे य पाषाणनिर्मित सिंहस्तद्वत् |
| ८ पतङ्ग सूर्य, पक्षे,-पत्र (कागद)निर्मित सूत्रनिबद्ध क्रीडार्थं गगने उड्डाय्यते 'पतंग' इति नाम्नैव देशभाषाया प्रसिद्ध | ८ कूपः |
| ९ पूजित. | ९ उद्यमेन |
| १० चन्द्रेण | १० साध्यसिद्ध्यधीनं तदायत्तमित्यर्थे |
| ११ निर्मलविद्यया | ११ उल्लङ्घयितुम्. |
| १२ दुष्प्राप | १२ व्यापार न करोति. |
| १३ सर्पाश्रितोऽपि | १३ उत्तरकालेषु, भविष्यकाले इत्यर्थ |
| १४ फलहीनोऽपि | १४ कल्याणम्. |
| १५ सनमित्रमीव |
संहतिप्रशंसा, क्षमाप्रशंसा, विनयप्रशंसा, सत्यप्रशंसा, असत्यनिन्दा, आत्मश्लाघानिन्दा, स्वभाववर्णनम् ८३
॥ १२ ॥ उद्योगिनः करालम्बं करोति कमलाल्या ।
अनुद्योगिकरालम्बं करोति कमलाग्रजा ॥ १३ ॥ काकता-
लीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते
पुरुषार्थमपेक्षते ॥ १४ ॥ आलस्यं हि मनुष्याणां शरी-
रस्थो महान्रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसी-
दति ॥ १५ ॥ संपदा सुस्थितंमन्यो भवति स्वल्पयापि
यः । कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ १६ ॥
न लभन्ते विनोद्योगं जन्तवः संपदां पदम् । सुराः क्षीरोद-
विक्षोभमनुभूयाममृतं पपुः ॥ १७ ॥ नात्युच्चशिखरो मेरुर्ना-
तिनीचं रसातलम् । व्यवसायद्वितीयानां नाप्यपारो महो-
दधिः ॥ १८ ॥ पूर्वजन्मजनितं पुराविदः कर्म दैवमिति
संप्रचक्षते । उद्यमेन तदुपार्जितं चिराद्दैवमुद्यमवशं न
तत्कथम् ॥ १९ ॥ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवं
हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमा-
त्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ २० ॥
संहतिप्रशंसा
संहतिः श्रेयसी राजन्विगुणेष्वपि बन्धुषु । तुषैरपि परि-
भ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ १ ॥ अल्पानामपि वस्तूनां
संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः
॥ २ ॥ बहूनामल्पसाराणां समवायो दुरत्ययः । तृणैर्वि-
धीयते रज्जुर्बध्यन्ते तेन दन्तिनः ॥ ३ ॥
क्षमाप्रशंसा
क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति । अतृणे
पतितो वह्निः स्वयमेवोपशाम्यति ॥ १ ॥ नरस्याभरणं रूपं
रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा
॥ २ ॥ क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा । क्षमा
वशीकृतिर्लोके क्षमया किं न सिध्यति ॥ ३ ॥
विनयप्रशंसा
तिष्ठतो तपसि पुण्यमथैजन्संपदोऽनुगुणैन्समुखैषिणाम् ।
योगिना परिणमन्विमुक्तये केन नास्तु विनयः सता
प्रियः ॥ १ ॥
पादटिप्पणी (वामभाग):
१ लक्ष्मी २ अलक्ष्मी ३ काकागमने सति तालपतनमिव काकतालीय तद्वत् अवितर्कितम् अकस्मादिति यावत् ४ खिन्नो न भवति ५ पुरुषश्रेष्ठम् ६ कुत्सितपुरुषा ७ समात् ८ धान्यत्वक् ९ अङ्कुरजननक्षमा न भवन्तीति भाव १० रज्जुत्वम् ११ शान्ति १२ तपोनिष्ठानाम् १३ संपादयन् १४ अनुकूलयन् १५ सपद्ममान. १६ अपवर्ग्याय
सत्यप्रशंसा
सूनृतं सर्वशास्त्रार्थनिश्चितान्ज्ञानशोभितम् । भूषणं सर्व-
वचसां लज्जेव कुल्योषिताम् ॥ १ ॥ अश्वमेधसहस्रं च
सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशि-
ष्यते ॥ २ ॥ गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः ।
अलुब्धैर्दानशूरैश्च सप्तभिर्धार्यते मही ॥ ३ ॥
असत्यनिन्दा
नासत्यवादिनः सख्यं न पुण्यं न यशो भुवि । दृश्यते
नापि कल्याणं कालकूटमिवाक्षत ॥ १ ॥ असत्यमप्रत्यय-
मूलकारणं कुवासनासद्मसमृद्धिधारणम् । विपन्निदानं पर-
वञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ २ ॥ यशो
यस्मात्क्षीणीभवति दववह्नेरिव वनं निदानं दुःखानां यदव-
निरुहाणामिव जलम् । न यत्र स्वाच्छायातप इव तपःसं-
यमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ ३ ॥
जिह्वैकैव सतामुभे फणिवतां सृष्टेश्चतस्रश्च तास्ताः सैसैव
विभोर्वसोर्नियमिताः षट्कार्तिकेयस्य च । पौलस्त्यस्य दशा-
भवन्फणिपतेर्जिह्वासहस्रद्वयं जिह्वालक्षशतैककोटिनियमो नो
दुर्जनानां मुखे ॥ ४ ॥
आत्मश्लाघानिन्दा
परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत् ।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ १ ॥ न
सुखं न च सौभाग्यं स्वयं स्वगुणवर्णने । यथैव च पुरं-
ध्रीणां स्वहस्तकुचमर्दने ॥ २ ॥ स्वयं तथा न कर्तव्यं स्वगु-
णाख्यापनं पुनः । स्वगुणाख्यापनं युक्त्या परद्वारा प्रयोजयेत्
॥ ३ ॥ न सौख्यसौभाग्यकरा गुणा नृणां स्वयं गृहीताः
सुदृशा कुचा इव । परैर्गृहीता द्वितयं वितन्वते न तेन
गृह्णन्ति निजं गुणं बुधाः ॥ ४ ॥ निजगुणगरिमा सुखा-
करः स्वात्मयमब्रुवर्णयता सता न तावत् । निजकरकम-
लेन कामिनीनां कुचकलशाकलनेन को विनोदः ॥ ५ ॥
स्वभाववर्णनम्
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य
हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते ॥ १ ॥ किं कुलेनो-
पादटिप्पणी (दक्षिणभाग):
१ विषम् २ भक्षयतः ३ अविश्वास ४ विपत्तेः कारणम् ५ कुशलैः ६ दावाग्नेः ७ आदिकारणम् ८ वृक्षाणाम् ९ वक्ति १० सर्पाणाम् ११ ब्रह्मणः १२ अग्नेः १३ रावणस्य १४ शेषस्य १५ अतिक्रम्य
| ८४ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |

पदिष्टेन शीलमेवात्र कारणम् । भवन्ति सुतरा स्फीताः सुक्षेत्रे कण्टकिद्रुमा ॥ २ ॥ य स्वभावो हि यस्यास्ते स नित्य दुरतिक्रम । श्वा यदि क्रियते राजा तत्कि नाश्नात्युपानहम् ॥ ३ ॥ परोपदेशकुकुशला दृश्यन्ते बहवो जना । स्वभावमतिवर्तन्त सहस्त्रेष्वपि दुर्लभाः ॥ ४ ॥ किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमय. किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ५ ॥ सति शीले गुणा भान्ति पुंसा शौर्यादयो यथा । यौवने सदलकारा शोभा बिभ्रति सुश्रुव ॥ ६ ॥ अद्रोह सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च शीलमेतद्विदुर्बुधा ॥ ७ ॥ वृत्त यत्नेन सरक्षेद्वित्तमायाति याति च । अक्षीणो वित्तत क्षीणो वृत्ततस्तु हतो हत ॥ ८ ॥ यथा हि मलिनेर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलितवृत्तस्तु वृत्तशेष न रक्षति ॥ ९ ॥ न कुलं वृत्तहीनाना प्रमाणमिति मे मति. । अन्येष्वपि हि जाताना वृत्तमेव विशिष्यते ॥ १० ॥ अकुलीन कुलीनश्च मर्यादा यो न लङ्घयेत् । धर्मापेक्षी मृदुदीन्तो न कुलीनशतैर्वरः ॥ ११ ॥ शीलं रक्षतु मेधावी प्राप्नुमिच्छुः सुखत्रयम् । प्रशंसा वित्तलाभं च प्रेत्य स्वर्गे च मोदनम् ॥ १२ ॥ विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं धर्म. शीलं सर्वत्र वै धनम् ॥ १३ ॥ रक्तत्वं कमलाना सत्पुरुषाणा परोपकारित्वम् । असता च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम् ॥ १४ ॥ वचो हि सत्यं परमं विभूषणं यथाङ्गनायाः कृशता कटौ तथा । द्विजस्य विद्यैव पुनस्तथा क्षमा शीलं हि सर्वस्य नरस्य भूषणम् ॥ १५ ॥ न धर्मशास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मन. । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुर गवां पयः ॥ १६ ॥ निम्नॊन्नतं वक्ष्यति को जलाना विचित्रभावं मृगपक्षिणा च । माधुर्यमिक्षौ कटुता च निम्बे स्वभावत.. सर्वमिदं हि सिद्धम् ॥ १७ ॥ वरं विन्ध्याटव्यामनशनतृषार्तस्य मरणं वरं सर्पाकीर्णे तृणपिहितकूपे निपतनम् । वरं गर्तावर्त गहनजलमध्ये विलयनं न शीलाद्विभ्रंशो भवतु कुलजस्य श्रुतवतः ॥ १८ ॥ वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्मेरु स्वल्पशिलायते मृगपते. संघ कुरङ्गायते । व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ १९ ॥ ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपस क्षमा बलवता धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ २० ॥ काक. पद्मवने रति न कुरुते हंसो न कूपोदके मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने । कुस्त्री सज्जनसङ्गमे न रमते नीचं जनं सेवते या यस्य प्रकृति स्वभावजनिता केनापि न त्यज्यते ॥ २१ ॥ व्याघ्रः सेवति काननं सुगहनं सिंहो गुहा सेवते हंस सेवति पद्मिनी कुसुमिता गृध्र. श्मशानस्थलीम् । साधु. सेवति साधुमेव सततं नीचोऽपि नीचं जनं या यस्य प्रकृति. स्वभावजनिता केनापि न त्यज्यते ॥ २२ ॥ पाण्डित्यस्य विभूषणं मधुरता शौर्यस्य वाक्संयमो ज्ञानस्योपशम. श्रुतस्य विनयो वित्तस्य पात्रे व्यय. । अक्रोधस्तपसः क्षमा प्रभवतो धर्मस्य निर्व्याजता सर्वस्यास्य पुनस्तथैव जगतः शीलं परं भूषणम् ॥ २३ ॥
वाग्वर्णनम्
तास्तु वाचः सभायोग्या याश्चित्ताकर्षणक्षमा. । स्वेषा परेषा विदुषा द्विषामविदुषामपि ॥ १ ॥ गौनाब्धेस्तु पर पार नोपेर्याय सरस्वती । अतो निमज्जनभयात्तुंम्बी वहति वक्षसि ॥ २ ॥ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ३ ॥ वर्णै. कतिपयैरेव ग्रथितस्य स्वरैरिव । अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ ४ ॥ बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते । अनुज्झितार्थसंबन्ध. प्रबन्धो दुरुदाहर. ॥ ५ ॥ श्लक्ष्णीयसीपि दैर्येनामन्पगुर्णेर्कल्पिताम् । प्रसारयन्ति कुशलाश्चित्रां वाच पटीमित्र ॥ ६ ॥ सर्वालंकारयुक्तापि न श्लिष्टा वनिवेव सा । वाणी मनोजातसुखं प्रौढांना न तनोति हि ॥ ७ ॥ या कर्षति नियोगादन्तर्गतजीर्वनानि
टिप्पणी :
१ अतिक्रम्य वर्तते २ नीचोच्चम् ३ तीक्ष्णताम् ४ कृत्रिमसरिदिवाचरति ५ सर्प ६ माला ७ अमृतम् ८ विजृम्भते ९ सौजन्यम् १० वाङ्नियमनम् ११ शान्ति .
१ निष्कपटत्वम् २ सुस्वभाव ३ गानसमुद्रस्य ४ गायनसमुद्रपरपार न प्राप ५ इक्ष्वाकुफलम् जलतरणार्थं तुम्ब्या संग्रह लोका कुर्वन्तीति प्रसिद्धम् ६ प्रसन्नवदना, पक्षे,-उत्तानाथी ७ कान्त्या शोभया मनोहारिण्य, पक्षे,-भाषणगुणेन मनोहारिण्य ८ आलिङ्गनम्; पक्षे,-श्लेष ९ परिमितै १० निषादादिभि ११ स्वप्रतिभानुसारेण १२ यथेष्टम् १३ असंगतम् १४ दुर्वचः १५ अतिसुकुमाराक्षराम्; पक्षे,-श्लक्ष्णतराम् १६ अर्थगुर्वीम्, पक्षे,-सान्द्राम्, कदलीदल कल्पामित्यर्थ १७ श्लेषादिभि , पक्षे,-तन्तुभि १८ रचिताम्, पक्षे-निर्मिताम् १९ शब्दादिविचित्राम्, पक्षे,-विचित्ररूपाम्. २० शाटीमित्र २१ उपमादिभिः, पक्षे,-कङ्कणादिभिः २२ श्लेषरहिता, पक्षे,-आलिङ्गनमहिता २३ मन प्रति जात यत्सुख तत्; पक्षे,-कामहर्षम् २४ चतुराणाम्, पक्षे,-प्रकर्षेण विधिपूर्वक विवाहितानाम् २५ हृद्गतानि जीवनानि, पक्षे,-उदकानि.
| वाग्वर्णनम्, वाग्मिप्रशंसा | ८५ |

सरैसानाम्। वाणी सैव गुणवती घटौय यद्वा वँधूटीव ॥ ८॥ रतरीतवीतवसना प्रियेव शुद्धापि वाग्भवेद् सैरसा। अरसा सौलकृतिरपि न रोचते शौलभञ्जीव ॥ ९ ॥ सुखयतितरा न रक्षति परिचयलेशं गॅणाङ्गेनेव श्री। कुलकामिनीय नोञ्झति वाग्देवी जन्मजन्मापि ॥ १० ॥ वाग्माधुर्यान्नान्यदस्ति प्रियत्व र्वाक्पारुष्याच्चोपकारोऽपि नेष्टः। कि तद्द्रव्य कोकिलेनोपनीत को वा लोके गदर्भस्यापराध. ॥ ११ ॥ कौर्मान्दुँधे विप्रकर्षत्यलक्ष्मी कीर्तिं सूते दुष्कृत या हिनस्ति। ता चाप्येता मातर मङ्गलाना वेनु धीराः सूनृँता वाचमाहु ॥ १२ ॥ विविक्कैर्वर्णाभरणा सुँखश्रुति प्रसादयन्ती हृदयान्यपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणा प्रसैन्नगम्भीरपदा सरस्वती ॥ १३ ॥ केयूरौ न विभूषयन्ति पुरुष हारा न चेन्द्रोज्ज्वला न स्नान न विलेपन न कुसुम नोलकृता मूर्द्धजा.। वाण्येका संमलंकरोति पुरुष या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १४ ॥ अस्त्यद्यापि चतु.समुद्रपरिखापर्यन्तमुर्वीतलं वर्तन्तेऽपि च तत्र तत्र रसिका गोष्ठीषु सक्ता नृपा. । एकत्रत्र निरादरो भवति चेदन्यो भवेत्साद्रो वैग्देवी वदनाम्बुजे वसति चेत्को नाम दीनो जन. ॥ १५ ॥ ये सूक्तीन्दुकलाकळङ्कजनका ये गाढगर्वज्वरा ये वा केवलतर्ककर्कशधियः साक्षाच्च ये श्रोत्रिया. । ये वा द्वेषमषीमलीमसमधियस्तान्प्राज्ञगोष्ठीरसप्रौढप्रावृडवयवहान्यरिहरन्वाचा प्रसार कुरु ॥ १६ ॥ तथ्य पथ्यं सहेतु प्रियमतिमृदुलं सारवदैन्यहीनं साभिप्राय दुराप सविनयमशठं चित्रमल्पाक्षर च बह्वर्थं कोषशून्यं स्मितयुतघनदाक्षिण्यसदेहहीनं वाक्य ब्रूयाद्रमज्ञ. परिषदि समये सप्रमेयाप्रमत्तम् ॥ १७ ॥ | नुलोमार्थान्वयाच. कृँतिना गिरः ॥ १ ॥ तीक्ष्णा नारुंतुदा बुद्धि कमे शान्तं प्रतापवत् । नोपताप मनः सोष्म वागेका वाग्मिन सत ॥ २ ॥ प्रसोदगम्योमौजस्वि गैरीयो लघववान्वित्तम् । साकाङ्क्षमुपस्कार विविक्तंगति निराकुलम् ॥ ३ ॥ न्यायनिर्णीतसारत्वान्निपेक्षमिर्वागमे । अंप्रकंप्यतयान्त्येषामन्नायवचनोपमम् ॥ ४ ॥ अलङ्घ्यत्वाज्जनैरन्यै. क्षुभितोदन्वदूर्जितम् । औदार्यादर्थसपत्ते शान्त चित्तमृषेरिव ॥ ५॥ इदमीदृग्गुणोपेत लब्ध्वावसरसाधनम् । व्याँकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदगाश्रये ॥ ६ ॥ श्रुतिसिद्धान्तशूरस्य तद्विरुद्धाञ्चिरुन्वत । वल्गितं र्बौर्वदृक्कस्य कृतिन कि न शोभते ॥ ७ ॥ अल्पाक्षररमणीय य कथयति निश्चितं स खलु वाग्मी । बहुवचनमल्पसार य. कथयति विप्रलापी सः ॥ ८ ॥ शुद्धकासरचितापि ललिता जिह्वैया यदि न योजिता भवेत् । कि तया र्करणमस्ति घण्टया जिह्वया जनिमता हि पूज्यया ॥ ९ भवन्ति ते सँम्यतमा विपैश्चिता मनोगतं वाचि निवेशयन्ति ये । नयन्ति तेर्श्वच्युपपन्ननैपुणा गँभीरमर्थ कतिचित्प्रका शताम् ॥ १० ॥ स्तुवन्ति शुर्वीमभिधेयसपदं विशुद्धिमुक्तेरपरे विपश्चितः । इति स्थिताया प्रतिपूरुष रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥ ११ ॥ पिकैस्तावत्कृष्णः परमरुँणेया पश्यति दृशा परापत्यद्वेषी खसुतमपि नो पालयति यः । तथाप्येपोऽमीषा सकलजगता वल्लभतमो न दोषा गण्यन्ते खलु मधुरवाचा कचिदपि ॥ १२ ॥ आध्वाघेष कषायमधुरसुरप्रेमानुबद्धाशयो माकन्दस्य यशासि कोकिलयुवा निर्माति दिग्भित्तिषु । माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी को
वाग्मिप्रशंसा
विरोधि वचसो मूकान्वागीशानपि कुर्वते । जडानध्ये-
| १ रसिकानाम्, पक्षे,-कूपीदीनाम् २ प्रागल्भ्यादिगुणयुक्ता, पक्षे,-रज्जुयुक्ता ३ स्त्रीव ४ अनुप्रासोपमाद्यलङ्काररहितापि ५ शृङ्गारादिमती पक्षे,-शृङ्गाररसवती ६ रसशून्या ७ अलकृतियुतापि, पक्षे,-कटककुण्डलयुतापि ८ काष्ठपुत्तलीव ९ वेश्येव, १० मनोरथान् ११ प्रपूरयति १२ सत्याम् १३ विविक्ता संयोगादिनांश्लिष्टा, स्फुटोच्चारिता वर्ण अक्षराण्येवाभरणानि यस्या सा, पक्षे,-विविक्तानि शुद्धानि वर्णो रूपमाभरणानि च यस्या सा १४ सुखा श्रुति श्रवण यस्या सा श्राव्येत्यर्थ, पक्षे,-श्रूयन इति श्रुतिर्वाक्स्या सुखा यस्या सा, मञ्जुभाषिणीत्यर्थ १५ प्रसन्नानि वाचक़ानि गम्भीराण्यवगर्भानि च पदानि सुप्तिङन्तरूपाणि यस्या सा, पक्षे,-प्रसन्ना विमला गम्भीरपदालमचरणा १६ वाङ्भूषणानि १७ चन्द्रवदुज्ज्वला १८ सुगन्धतैलादिना संस्कृता १९ केशा २० सम्यगलकरोति २१ सरस्वती २२ वक्ता २३ अनुकूलवादिन | १ प्रगल्भवाच २ कुशलानाम्, ३ अभिमानोष्णम् ४ प्रसादप्रसिद्धार्थपदत्व तेन रम्यम् ५ समासभूयिष्ठम् ६ अर्थभूयस्त्वपरिगतम् न तु शब्दाडम्बरमात्रमित्यर्थ ७ विस्तरदोषरहितम् ८ आकाङ्क्षावत्पदकदम्बात्मकम् न तु दशदाडिमादिवाक्यवदनाकाङ्क्षितमित्यर्थ ९ अध्याहारदोषरहितम् १० कृतार्थप्रतिपादकम् न तु सावशेषार्थमित्यर्थ ११ असंकीर्णार्थम् १२ न्यायेन युक्त्या निश्चितार्थत्वात् १३ स्वतन्त्रमिव १४ शास्त्रे १५ अनुमानादिभिरबाध्यत्वादप्रत्याख्यायतया १६ वेदवाक्यतुल्यमित्यर्थ १७ अनुल्लङ्घनीयत्वाव १८ उद्वेलाम्भोधिगम्भीरम् १९ अग्राम्यार्थत्वात्, पक्षे,-त्यागित्वात् २० प्रयोजनमपचे, पक्षे,-अणिमादिसमृद्धे २१ लब्धे प्राप्ते अवसरसाधने कालोपायौ येन तत् २२ व्याहरेत् २३ पञ्चमषष्ठपद्यद्वय विशेषक ज्ञेयम् २४ प्रतिवस्तु २५ घण्टाजिह्वा २६ कर्तव्यम् न किचित्कार्यमस्तीति भाव २७ सभाया साधुतामा निपुणतमा २८ विदुषाम् २९ वाचोद्विरन्तीत्यर्थ ३० वक्तृपु ३१ संभावितकौशल ३२ निगूढम् ३३ अर्थसपत्तिम् ३४ सामर्थ्यम् ३५ शब्दस्य ३६ कोकिल ३७ आरक्तया |

| ८६ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |

ब्रूतामसता सता च वचसा वर्म्मातिगं चेष्टितम् ॥ १३ ॥
श्रोतुंन्मूचयति ब्रुवन्स्थिरतरं कुर्वन्नमीषा मनो निर्बाष्पः परबाष्पकृत्परदृशामेकाश्रयो नान्यदृक् । यस्त्यक्ताङ्गविकम्पनः प्रचलयन्नित्यं सता मस्तक क्षीर श्रोतृषु मुख्यमात्मनि गुणं धत्ते स वत्कोत्तमः ॥ १४ ॥
तद्वक्ता सदसि ब्रवीतु वचनं यच्छृण्वता चेतसः प्रोल्लासं रसपूरणं श्रवणयोरक्ष्णोर्विकासश्रियम् । क्षुन्निद्राश्रमदुःखकालगतिहृत्कौर्यान्तरप्रस्मृति प्रोत्कण्ठामनिशं श्रुतौ वितनुते शोक विरामादपि ॥ १५ ॥
मौनगुणाः
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ १ ॥
रूपवानपि मूर्खोऽपि गत्वा च विपुला सभाम् ।
संरक्षेच्च स्विका जिह्वा भार्या दुश्चारिणी यथा ॥ २ ॥
स्वायत्तमेकान्तगुण विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदा समाजे विभूषणं मौनमपण्डितानाम् ॥ ३ ॥
कोलाहले काककुलस्य जाते विराजते कोकिलकूजितं किम् ।
परस्परं संवदता खलाना मौन विधेय सततं सुधीभिः ॥ ४ ॥
स्थानमाहात्म्यम्
नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ १ ॥
किंचिदाश्रयसंयोगाद्धत्ते शोभामसाध्वपि ।
कान्ताविलोचने न्यस्तं मलीमसमिवाञ्जनम् ॥ २ ॥
कुस्थानस्य प्रवेशेन गुणवानपि पीड्यते ।
वैश्वानरोऽपि लोहस्यः कारुकैरभिहन्यते ॥ ३ ॥
पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
पदच्युतस्य तस्यैव क्लेशदाहकरावुभौ ॥ ४ ॥
राजा कुलवधूर्विप्रा मन्त्रिणश्च पयोधराः ।
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नरा नखाः ॥ ५ ॥
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत् ॥ ६ ॥
पात्रविशेषे न्यस्तं गुणान्तर व्रजति शिल्पमाधातुः ।
जलमिव समुद्रशुक्तौ मुक्ताफलता पयोदस्य ॥ ७ ॥
अतिमात्रभास्वरत्वं पुष्यति भानो परिग्रहादनलः ।
अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ ८ ॥
प्रायो यत्किंचिदपि प्राप्नोत्युत्कर्षमाश्रयान्महतः ।
मत्तेभकुम्भतटगतमेति शृङ्गारता भस्म ॥ ९ ॥
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ १० ॥
आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः ।
विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ॥ ११ ॥
जानामि नागेन्द्र तव प्रभाव कण्ठे स्थितो गर्जसि शङ्करस्य ।
स्थान प्रधान न बल प्रधान स्थाने स्थितः कापुरुषोऽपि शूरः ॥ १२ ॥
उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः सदा मीन भुङ्क्ते वसति सकलः स्थाणुशिरसि ।
बके चान्द्रः सर्वो गुणसमुदयः किंचिदधिको गुणाः स्थाने मान्या नरवर न तु स्थानरहिताः ॥ १३ ॥
सिंहक्षुण्णकरीन्द्रकुम्भगलितं रक्ताक्तमुक्ताफलं कान्तारे बदरीधिया द्रुतमगाद्भिल्लस्य पत्नी मुदा ।
पाणिभ्यामवगृह्य शुक्लकठिनं तद्वीक्ष्य दूरे जहावस्थाने पततामतीव महतामेतादृशी स्याद्गतिः ॥ १४ ॥
सत्संगतिप्रशंसा
महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
रथ्याम्बु जाह्नवीसङ्गात्त्रिदशैरपि वन्द्यते ॥ १ ॥
महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम् ॥ २ ॥
महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
हरिहस्तगतः शङ्खः पवित्रः प्रथितो भुवि ॥ ३ ॥
मलयाचलगन्धेन त्विन्धनं चन्दनायते ।
तथा सज्जनसङ्गेन दुर्जनः सज्जनायते ॥ ४ ॥
वीणावंशाश्रया तुम्बी चुम्बत्युच्चैः कुचौ स्त्रियः ।
पिबत्यनार्यसंयोगाद्रक्तं नर्त्तन्चरी यथा ॥ ५ ॥
चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसंगतिः ॥ ६ ॥
साधूना दर्शनं पुण्यं तीर्थभूता हि साधवः ।
कालेन फलते तीर्थ सद्यः साधुसमागमः ॥ ७ ॥
करोति निर्मलौधारस्तुच्छक्षापि महार्घताम् ।
अम्बुनो बिन्दुरल्पोऽपि शुक्तौ मुक्ताफलं भवेत् ॥ ८ ॥
हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ ९ ॥
मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः ।
पङ्कच्छिदः फलस्येव निकर्षेणाविल पयः ॥ १० ॥
कीटोऽपि सुमनःसङ्गादारोहति सता शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ११ ॥
काचः काञ्चनसंसर्गाद्धत्ते मारकतीद्युतीः ।
तथा सत्संनिधानेन मूर्खो
पादटिप्पणी (Footnotes)
वामभागस्थिताः:
१ मूकान्करोति २ अच्लम्, तटस्थमिति यावत् ३ प्रकर्षेणोल्लास विकासम् ४ रसाना शृङ्गारादीना पूरणम् ५ अन्यकार्यविस्मृतिम् ६ स्वस्वाधीनम् ७ पिधानम् ८ मूर्खताया ९ सभायाम् १० मकर ११ भषकेण १२ लोहकारै १३ पद = स्थानम्, जलाशयम् १४ कौशलम् १५ मौक्तिकत्वम् १६ मेघस्य
दक्षिणभागस्थिताः:
१ विन्ध्यपर्वते २ मत्स्यान्, पक्षे,-मीनराशिम् ३ तरुशैलादयः, पक्षे,-शिव ४ देवैः ५ आश्रय ६ महामूल्यत्वम् ७ कतकफलस्येव ८ कलुषम् ९ उदकम् १० पाषाण ११ मरकतसंबन्धिनी
सत्संगतिप्रशंसा, असत्संगतिनिन्दा | ८७
| सत्संगतिप्रशंसा | सत्संगतिप्रशंसा |

| याति प्रवीणताम् ॥ १२ ॥ यथोदेयगिरौ द्रव्यं ^२संनिकर्षेण दीप्यते । तथा सत्संनिधानेन हीनवर्णोऽपि ^३दीप्यते ॥ १३ ॥ भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्पन्दं विदधाति सदागमः ॥ १४ ॥ यदि सत्संगनिरतो भविष्यसि भविष्यसि । अथ दुर्जनसंसर्गे पतिष्यसि पतिष्यसि ॥ १५ ॥ अलब्ध्वापि धनं राज्ञः सन्निता यान्ति सपदम् । महाहृदसमीपस्थं पश्य नीलं वनस्पतिम् ॥ १६ ॥ सङ्गः सर्वत्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ १७ ॥ क्षुद्रोऽपि तनुते तात तेजस्तेजस्विस्सङ्गतः । अर्कसपर्कतः पश्य दर्पणे दहनद्युतिम् ॥ १८ ॥ बृहतसहाय. कार्यान्तं क्षोदीयानपि गच्छति । सम्भूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १९ ॥ सज्जनसङ्गो मा भूद्यदि सङ्गो मास्तु तत्पुनः स्नेहः । स्नेहो यदि मा विरहो यदि विरहो मास्तु जीवितस्याशा ॥ २० ॥ वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ २१ ॥ गुरुरपि लघूपनीतो न निमज्जति नियतमँशाये निहितः । वानरकरोपनीतः शैलो मकरालयस्येव ॥ २२ ॥ ^५गैवाशनाना स शृणोति वाक्यमहं हि राजन्वचनं मुनीनाम् । न चास्य दोषो न च मद्गुणो वा संसर्गजा दोषगुणा भवन्ति ॥ २३ ॥ ^६कल्पद्रुमः कल्पितमेव सूते सा ^७कामधुक्कामितमेव दोग्धि । चिन्तामणिश्चिन्तितमेव दत्ते सता हि सङ्गः सकलं प्रसूते ॥ २४ ॥ असज्जनः सज्जनसङ्गिसङ्गात्करोति दुःसाध्यमपीह साध्यम् । पुष्पाश्रयाच्छंभुशिरोऽधिरूढा पिपीलिका चुम्बति चन्द्रबिम्बम् ॥ २५ ॥ शाखोटकैश्चन्दनसंगतोऽपि वक्षोजयोः क्रीडितमायताक्ष्याः । पयोऽपि मद्यं श्वपचे हि मन्यते संसर्गजा दोषगुणा भवन्ति ॥ २६ ॥ सत्सङ्गाद्भवति हि साधुता खलानां साधूनां नहि खलसंगमात्खलत्वम् । ^८आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि कुसुमानि धारयन्ति ॥ २७ ॥ कि वापरेण बहुना परिजल्पितेन संसर्ग एव महता महते फलाय । अम्भोनिधेस्तटरुहास्तरवोऽपि येन वेलाजलोच्छलितरत्नकृतालवालाः ॥ २८ ॥ ^९जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं ^१०दिशति ^११पापमपाकरोति । चेतः प्रसादयति दिक्षु ^१२तैनोति कीर्तिं सत्संगतिः कथय किं न करोति पुंसाम् ॥ २९ ॥ | दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरंतनमघं चुलुकीकरोति । भूतेषु किं च करुणा बहुलीकरोति सङ्गः सता किमु न मङ्गलमातनोति ॥ ३० ॥ कान्तारभूमिरुहमौलिनिवासशीलाः प्रायः पलायनपरा जनवीक्षणेन । कूजन्ति तेऽपि हि शुकाः खलु रामनाम सङ्ग. स्वभावपरिवर्तविधौ निदानम् ॥ ३१ ॥ ^१ऐके केचिद्यतिकरगता. पात्रसंज्ञा लभन्ते गायन्त्यन्ये सरसमधुर वीणया संप्रयुक्ताः । एके तेषा सहजगतिवशादुत्तर तारयन्ति केचिन्तेषा ज्वलितहृदया रक्तमेवापिबन्ति ॥ ३२ ॥ सँतेसायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्या सागरशुक्तिसंपुटगत तज्जायते मौक्तिकं प्रायेणाधममध्यमोत्तमगुणः संसर्गंतो जायते ॥ ३३ ॥ गङ्गेवाघविनाशिनी जनमनःसंतोषसचन्द्रिका तीक्ष्णांशोरपि सत्वमेव जगदज्ञानान्यकारपहा । छायेवाखिलतापनाशनकरी स्सर्धेनुवत्कामदा पुण्यैरेव हि लभ्यते सुकृतिभिः सत्संगतिर्दुर्लभा ॥ ३४ ॥ कीर्तिर्नृत्यति नर्तकीव भुवने विद्योतते साधुता ज्योत्स्नेव प्रतिभा सभासु सरसा गङ्गेव संमीलति । चित्तं रञ्जयति प्रियेव सतत संपत्प्रसादोचिता संगत्या न भवत्सता किल भवेत्किं किं न लोकोत्तरम् ॥ ३५ ॥ बुद्धिं वर्धयति श्रियं वितनुते वैदग्ध्यमामुञ्चति श्रेयः पल्लवयत्यघानि दलयत्युन्मीलयत्युन्नतिम् । विज्ञान परिशोधयत्युपचिनोत्युच्चैः कलाकौशलं किं किं नारभते हरेरिव कथाऽऽश्चर्ये सतां संगतुम् ॥ ३६ ॥ |
असत्संगतिनिन्दा
अहो दुर्जनसंसर्गान्मानहानिः पदे पदे । पावको ^२लोहसङ्गेन मुद्गरैरभिहन्यते ॥ १ ॥ अन्तर्मलिनसंसर्गाच्छुत्वानपि दुष्यति । यक्ष्क्षुःसंनिकर्षेण कर्णोऽभूत्कुटिलाश्रयः ॥ २ ॥ दुष्टा दुष्टसंसर्गाददुष्टमपि गच्छति । सुराविन्दुनिपातेन पञ्चगव्यघटी यथा ॥ ३ ॥ अणुरप्यसता सङ्गः सद्गुणं हन्ति विस्तृतम् । गुणरूपान्तरं याति तक्रयोगाद्यथा पयः ॥ ४ ॥ दुर्बुत्तः क्रियते धूर्तैः श्रीमानात्मविवृद्धये । किं नाम खलसंसर्गः कुरुते नाशयाशवत् ॥ ५ ॥ ^३आनन्दमृगदावाग्निः ^४शीलशाखिमदद्विपः । ^५ज्ञानदीपमहावायुरयं खलसमागमः ॥ ६ ॥ असत्सङ्गाद्दृणज्ञोऽपि विषयांसक्तमानसः । अकस्मात्प्रलयं याति गीतरक्तो यथा मृगः ॥ ७ ॥ आहृत्य
पादटिप्पणी (Footnotes)
[वाम भाग] १ उदयपर्वते. २ सूर्यसंनिधानेन. ३ प्रकाशितो भवति ४ अन्तःकरणे, पक्षे,-मध्ये ५ यवनानाम् यवनगृहस्थित सहोदरं शुकमुद्दिश्य मुनिगृहस्थितस्य शुकस्योक्तिरियम् ६ कल्पवृक्ष ७ कामधेनु. ८ सुगन्धम्. ९ मान्धम्. १० ददाति. ११ निराकरोति. १२ विस्तारयति.
[दक्षिण भाग] १ तुम्बील्यथं २ लोहे ३ आनन्द एव मृगस्तस्य दावाग्निरिव दाहकत्वात् ४ शीलमेव शाखी वृक्षस्तस्य मदद्विप इव उन्मूलकत्वात्. ५ ज्ञानमेव दीपस्तस्य महावात इन्न, निर्वाणकरणत्वात्
| ८८ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |

रक्ष्यमाणापि यत्नेनान्तर्विरागिणी । असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ॥ ८ ॥ पात्रं^१मपात्रीकुरुते दहति गुणं^२ स्नेहं^३माशु नाशयति । अमले मलं^४ निचच्छति दीपज्वालेव खलमैत्री ॥ ९ ॥ दुर्जनजनसंसर्गात्सज्जनपुरुषोऽत्र दोषमायाति । रावणकृतापराधाज्जलधेरपि बन्धनं प्राप्तम् ॥ १० ॥ संगतिं स्वविपरीतगुणैस्त्वं मा कृथाः खलु सखे समयेडस्मिन् । पश्य पूर्वमपि कृष्णरूपतामर्जुनोऽपि^५ समवाप निश्चितम् ॥ ११ ॥ दुर्वृत्तसंगतिरनर्थपरम्पराया हेतुः सतां भवति किं वचनीयमत्र । लङ्केश्वरो हरति दाशरथेः कलत्रं प्राप्नोति बन्धनमसौ किल सिन्धुराजः ॥ १२ ॥ हंसोऽध्वगः श्रममपोहयितुं दिनान्ते कारण्डकाकबककोककुलं प्रविष्टः । मूकोऽयमित्युपहसन्ति लुनन्ति पक्षान्नौचाश्रयो हि महतामपमानहेतुः ॥ १३ ॥
स्नेहवचनम्
सखि साहजिकं प्रेम दूरादपि विराजते । चकोरीनयनद्वन्द्वमानन्दयति चन्द्रमाः ॥ १ ॥ केन्दोर्मण्डलमम्बुधिः क्व च रविः पद्माकरः क्व स्थितः काश्राः सन्ति मयूरपङ्क्तिरमलो कालि. क्व वा मालती । हंसानां च कुलं क्व दूरविषये क्रास्ते सरो मानसं यो यस्याभिमतः स तस्स निकटे दूरेऽपि सन्वल्लभः ॥ २ ॥
सुमित्रप्रशंसा
कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी । अविचार्य प्रियं कुर्यात्तन्मित्रं मित्रमुच्यते ॥ १ ॥ यस्य मित्रेण संभाषा^६ यस्य मित्रेण संस्थितिः । मित्रेण सह यो भुङ्क्ते ततो^७ नास्तीह पुण्यवान् ॥ २ ॥ शुचित्वं^८ त्यागिता^९ शौर्यं सामान्यं^१० सुखदुःखयोः । दाक्षिण्यं^११ चानुरक्तिश्च^१२ सत्यता च सुहृद्गुणाः ॥ ३ ॥ अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः । प्रवर्त्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ ४ ॥ उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ५ ॥ स बन्धुर्यो विपन्नानामापदुद्धरणे क्षमः । नतु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ ६ ॥ औरसं कृतसंबन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ ७ ॥ याचते कार्यकाले यः स किं भृत्यः स किं सुहृत् । अकार्यकार्यकर्ता यस्त्वनादिष्टोऽप्यसौ सुहृत् ॥ ८ ॥ तदेवास्य परं मित्रं यत्र संक्रामति द्वयम् । दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ ९ ॥ व्याधितस्यार्थहीनस्य देशान्तरगतस्य च । नरस्य शोकदिग्धस्य सुहृद्दर्शनमौषधम् ॥ १० ॥ दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा । यत्र द्रव्यन्तरङ्गं स स्नेह इति कथ्यते ॥ ११ ॥ स्वाभाविकं तु यन्मित्रं भाग्यनैवाभिजायते । तदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ १२ ॥ न मातरि न दारेषु न सोदर्ये न चात्मनि । विश्वासस्तादृशः पुंसां याहग्विचे स्वभावजे ॥ १३ ॥ शोकाराति^२ भयत्राणं प्रीतिविश्रम्भभाजनम्^३ । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १४ ॥ उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावयन्समुद्धीनां फलं सुहृदनुग्रहम्^४ ॥ १५ ॥ नहि बुद्धिगुणेनैव सुहृदामर्थदर्शनम् । कार्यसिद्धिपथः सूक्ष्मः स्नेहेनाप्युपलभ्यते ॥ १६ ॥ प्राणैरपि हिता वृत्तिरद्रोहो व्याजवर्जनम् । आत्मनीव प्रियाधानमेतन्मैत्रीमहाव्रतम् ॥ १७ ॥ पापान्निवारयति योजयते हिताय गुह्यानि गूहति गुणान्प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १८ ॥ मित्रं प्रीतिरसायनं^५ नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तदुर्लभम् । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास्ते सर्वत्र मिलन्ति तत्त्वनिकषग्रावा तु तेषां विपत् ॥ १९ ॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ^६ हुतः । गन्तुं पावकमुन्मनस्तदमवद्दृष्ट्वा तु मित्रापदं^७ युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ २० ॥
कुमित्रनिन्दा
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १ ॥ रहस्यभेदो^८ याच्ञा^९ च नैष्ठुर्यं चलचित्तता । क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ २ ॥
संसारः
संसार तव निःसार पदवी^१० न दवीयसी^११ । अन्तरा^१२ दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ १ ॥ संसारविषवृक्षस्य द्वे फले अमृतोपमे । काव्यामृतरसास्वाद आलापः सज्जनैः
पादटिप्पण्यः (Footnotes):
| वामभागः | दक्षिणभागः |

| १ अयोग्यम् | १ अकपटमित्रता |
| २ सूत्रम्, पक्षे,-विनयादि | २ शत्रु |
| ३ तैलम्, पक्षे,-प्रीति | ३ विश्वास |
| ४ मषीम्, पक्षे,-दोषम् | ४ सुहृत्स्वनुग्रहः प्रसादस्तम् |
| ५ मध्यमपाण्डव, पक्षे,-शुक्लवर्ण | ५ प्रीतेः रसायनमिव रसायनम् प्रीतिवर्धकमित्यर्थः |
| ६ मिथो भाषणम् | ६ अग्नौ |
| ७ तस्मात्पुरुषात् | ७ मित्रविपत्तिम् |
| ८ निर्मलचित्तत्वम् | ८ गुप्तप्रकाशनम् |
| ९ दानशीलत्वम् | ९ प्रार्थनम् |
| १० समानस्य भावः सामान्यम्, समत्वमित्यर्थः | १० मार्ग |
| ११ सरलत्वम् | ११ अतिदूरा |
| १२ प्रीति | १२ मध्ये |
संसारः, गृहस्थाश्रमप्रशंसा, गृहस्थाश्रमदूषणम्, पुत्रप्रशंसा ८९
| [संसारः / गृहस्थाश्रमप्रशंसा / गृहस्थाश्रमदूषणम्] | [गृहस्थाश्रमदूषणम् / पुत्रप्रशंसा] |

| सह ॥ २ ॥ दुःखाङ्गारकतीव्रः संसारोऽयं मैहानसो गहनः । इह विषयामृतलालस मानसमार्जार मा निपत ॥ ३ ॥ अयमविचारितचारुतया संसारो भाति रमणीयः । अत्र पुनः परमार्थदृशा न किमपि सारमणीयः ॥ ४ ॥ क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकहलः क्वचिद्वीणावाद क्वचिदपि च हाहेति रुदितम् । क्वचिद्रम्या रामा क्वचिदपि जराजर्जरतनुर्न जाने संसारः किममृतमयः किं विषममयः ॥ ५ ॥ कृच्छ्रेणो-मेध्यमध्ये नियॅमिततनुभिः स्थीयते गर्भंगर्ते कान्ताविश्लेष-दुःखव्यतिकरविषमे यौवने विप्रयोगः । नारीणामप्यवज्ञा विलसति नियतं वृद्धभावोऽप्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्तोकमप्यस्ति किंचित् ॥ ६ ॥ | यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ॥ १ ॥ न विप्रपादोदकपङ्किलानि न वेदशास्त्रध्वनिगर्जि-तानि । स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि ॥ २ ॥ क्रोशन्तः शिशवः सेवारि सदनं पङ्कावृतं चाङ्गणं शय्या दंशवती च रूक्षमशनं धूमेन पूर्णे गृहम् । भार्या निष्ठुरैभाषिणी प्रभुरपि क्रोधेन पूर्णः सदा स्नानं शीतलवारिणा हि सततं धिग्धिग्गृहस्थाश्रमम् ॥ ३ ॥ तावद्विद्याऽनवद्या गुणगणमहिमा रूपसंपत्तिगौर्यै स्वस्थाने सर्वशोभा परगुणकथने वाक्यदुस्तावदेव । यावत्पाकाकुलाभिः स्वगृहयुवतिभिः प्रेषितापत्यवक्त्राद्वे बौबा नास्ति तैलं न च लवणमपीत्यादिवाचा प्रचारः ॥ ४ ॥ |
| ### गृहस्थाश्रमप्रशंसा | ### पुत्रप्रशंसा |
| न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । शास्त्रवित्स-त्यवादी च गृहस्थोऽपि विमुच्यते ॥ १ ॥ यदि राँमा यदि च रँमा यदि तनयो विनयधीगुणोपेतः । तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ॥ २ ॥ सविप्रैपादोदककर्दमानि सवेदशास्त्राध्वनिगर्जितानि । स्वाहास्वधाकारनिरन्तराणि स्वानन्दतुल्यानि गृहाणि तानि ॥ ३ ॥ सानन्दं सँदनं सुताश्च सुधियः कान्ता न दुर्भाषिणी सन्मित्रं सुधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः । आतिथ्यं शिवपूजनं प्रतिदिनं मृष्टान्नपानं गृहे साधोः सङ्गमुपासते हि सततं धन्यो गृह-स्थाश्रमः ॥ ४ ॥ मानुष्यं वॅर्रवंशजन्म विभवो दीर्घापुरा-रोग्यता सन्मित्रं सुसुतः सती प्रियतमा भक्तिश्च नारायणे । विद्वत्त्वं सुजनत्वमिन्द्रियजयः सत्यात्रदाने रतिस्ते पुण्येन विना त्रयोदश गुणाः संसारिणां दुर्लभाः ॥ ५ ॥ वंशो विश्वावतंसो जनुरनुपहतं स्वान्तमौज्ज्यकान्तं लीला शीला-नुकूला क्षपितकलिमला कापि विद्यौँनवद्या । वाणी वेणी गुणाना समधिकयशसा साँधिका साधिका श्रीः श्रीमन्मँद्री-मयूरीसुदिर पुरहर त्वत्कृपाया विपॉकेः ॥ ६ ॥ | इदं तत्स्नेहसर्वस्वं सममाब्द्यदरिद्रयोः । अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ १ ॥ गृहे जॊनुचरः केल्या मुग्धस्मित-मुखाम्बुजः । पुत्रः पुण्यवतामेव पात्रीभवति नेत्रयोः ॥ २ ॥ स्वगर्भशुक्तिनिर्मिञ्चं सुवृत्तं सुतमौक्तिकम् । वंशश्रीमितलकी-भूतं मन्दभाग्यस्य दुर्लभम् ॥ ३ ॥ वर्धते न चिर लोकं वशलक्षीरसंततिः । स्वल्पावशेषितस्नेहवर्तिमालेव दीपिकI ॥ ४ ॥ अन्तःकरणतत्त्वस्य दंपत्यो स्नेहसंश्रयात् । आन-न्दग्रन्थिरैकोऽयमपत्यमिति कथ्यते ॥ ५ ॥ दिग्वॉससं गत-व्रीडं जटिलं धूलिधूसरम् । पुण्याधिका हि पश्यन्ति गङ्गा-धरमिवात्मजम् ॥ ६ ॥ धूलिधूसरस्र्वाङ्गो विकसितदन्तकेसरः । आस्ते कस्यापि धन्यस्य द्वारि दन्ती गृहेऽर्भकः ॥ ७ ॥ निन्दते पितृभिस्तैस्तैर्निरपत्यधनः पुमान् । अैध्वनीनैरति-श्रान्तैरैवॆकेशीव पादपः ॥ ८ ॥ किं मृष्टं सुतवचनं मृष्टतरं किं तदेव सुतवचनम् । मृष्टान्मृष्टतमं किं श्रुतिपरिपकं तदेव सुतवचनम् ॥ ९ ॥ उरोरुहादुद्गमितैः पयोभिारापूर्य केत्या निजमास्यगर्भम् । फूत्कृत्य मातुर्वदने हसन्त तनू-भवं पश्यति कोऽपि धन्यः ॥ १० ॥ कृतचङ्क्रमणं गणेषु किचित्क्वणत्किंकिणिरुङ्घद्विपद्मम् । यदि सन्महितं सुतं श्रितं स्यात्तदिदं सद्य हृतं भवेत्तदानीम् ॥ ११ ॥ अहँ किमेम्बा किमेँभीष्टपदे तवेति मातुर्घुरि तातपृच्छया । प्रैलोभ्यतुल्यं प्रवदन्तमर्भकं मुदा हँसेजिघ्रति मूर्ध्नि पुण्य-भाक् ॥ १२ ॥ आलख्यदन्तसुकुलाननिमित्तहासैरव्यक्त- |
| ### गृहस्थाश्रमदूषणम् | |
| यत्र नास्ति दधिमन्थनघोषो यत्र नो लघुलघूनि शिशूनि । |
पादटिप्पणी (Footnotes)
[वामभागस्थ-टिप्पण्यः]
१ पाकगृहम् २ अशुचिमलादि तन्मध्ये. ३ जरायुणा बद्धशरीरै ४ गर्भाशये ५ अवमान ६ अल्पम् ७ न्यायेन संपादित धन येन ८ मुक्तो भवति ९ स्त्री १० लक्ष्मी . ११ ब्राह्मणचरण-क्षालनोदकेन पङ्किलानि १२ गृहम्. १३ उत्तमकुल उत्पत्ति १४ ऐश्वर्यम्. १५ विश्वभूषणम् १६ अन्त करणम् १७ निर्दोषा १८ प्रवाह १९ साधयित्री. २० गौर्यैव मयूरी तस्या मुदिरो मेघ, पक्षे, कामुक वल्लभ २१ हे त्रिपुरनाशक २२ परिणामः, फलमि त्यर्थ. २३ शिशुशब्दस्यात्र नपुसकत्व चिन्त्यम्
१२ सु र भा.
[दक्षिणभागस्थ-टिप्पण्यः] १ उदकपूर्णम् २ मत्कुणपूर्णा ३ सखिग्धम् ४ कठोरभाषिणी. ५ इद तु पितुर्लौकिक सबोधनम् ६ जानुभ्यां चरतीति स , रिङ्गमाण इत्यर्थः ७ संततिरहिता ८ नम्रम् ९ पान्थै. १० वन्ध्य . ११ स्तनात् १२ माता १३ इष्टस्थाने. १४ प्रलोभ्यस्य प्रलोभनार्थं दर्शितस्य वस्तुनोऽनुरूपम् १५ अवघ्राणं करोति
९० | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम्
वर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनस्तनयानवहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ १३ ॥ आनन्दसुतिरा- त्मनो नयनयोरन्तं सुधाम्ब्यञ्जनं प्रस्तारः प्रणयस्य मन्मथतरोः पुष्पं प्रसादो रतेः । आलाने हृदयद्विपस्य विषयारण्येषु संचा- रिणो दंपत्योरिह लभ्यते सुकृततः संसारसारः सुतः ॥१४॥
कन्यापितृनिन्दा
जातेति कन्या महती हि चिन्ता कस्मै प्रदेयेति महा- न्वितर्कः । दत्ता सुख यास्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम् ॥ १ ॥
सत्पुत्रप्रशंसा
एकोऽपि गुणवान्पुत्रो निर्गुणैः किं शतैरपि । एकश्चन्द्रो जगच्चक्षुर्नक्षत्रैः किं प्रयोजनम् ॥ १ ॥ एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासित तद्वनं सर्व सुपुत्रेण कुलं यथा ॥ २ ॥ प्रज्ञया वा विसारिण्या यो बलेन धनेन वा । धुरं वहति गोत्रस्य जननी तेन पुत्रिणी ॥ ३ ॥ एकेनापि सुपुत्रेण विद्यायुक्तेन भासते । कुलं पुरुषसिंहेन चन्द्रेणेव हि शर्वरी ॥ ४ ॥ को धन्यो बहुभिः पुत्रैः कुशूलापूरणा- ढकैः । वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ ५ ॥ पुण्यतीर्थे कृतं येन तपः काप्यतिदुष्करम् । तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः ॥ ६ ॥ वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ ७ ॥ एकेनापि सुपुत्रेण सिङ्गी स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति रासभी ॥ ८ ॥ एकेनापि सुपुत्रेण जायमानेन सत्कुलम् । शशिना चैव गगन सर्वदैवोज्ज्वलीकृतम् ॥ ९ ॥ किं जातैर्बहुभिः पुत्रैः शोक- संतापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥ १० ॥ कुम्भः परिमितमम्भः पिबत्यसौ कुम्भसंभवोऽ- म्भोधिम् । अतिरिच्यते सुजन्मा कश्चिज्जनक निजेन चरि- तेन ॥ ११ ॥ विद्याविहीना बहवोऽपि पुत्राः कल्पायुषः सन्तु पितुः किमेतैः । क्षयिष्णुना वापि कलावता वा तस्य प्रमोदः शशिनेव सिन्धोः ॥ १२ ॥ पात्रं न तापयति नैव मलं प्रसूते स्नेहं न संहरति नैव गुणान्क्षिणोति । द्रव्यावसानसमये चलता न धत्ते सत्पुत्र एष कुलसद्मनि कोऽपि दीपः ॥ १३ ॥
कुपुत्रनिन्दा
किं तेन जातु जातेन मातुर्यौवनहारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥ १ ॥ किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥ २ ॥ एकेन शुष्कवृक्षेण दह्य- मानेन वह्निना । दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥३॥ कोटरान्तःस्थितो वह्निस्तरुरेकमं दहेत्खलु । कुपुत्रस्तु कुले जातः स्वकुलं नाशयेत्तहो ॥ ४ ॥ अजातमृतमूर्खाणां वर- माद्यौ न चान्तिमः । सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥ ५ ॥ अजातमृतमूर्खेभ्यो मृताऽजातौ सुतौ वरम् । यतस्तावल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ६ ॥ यस्य पुत्रो न वै विद्वान्न शूरो न च धार्मिकः । अप्रकाशं कुलं तस्य नष्टचन्द्रेव शर्वरी ॥ ७ ॥ अविनीतः सुतो जातः कथं न दहनात्मकः । विनीतैस्तु सुतो जातः कथं न पुरुषो- त्तमः ॥ ८ ॥ दाने तपसि शौर्ये च यस्य न प्रथितं यशः । विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ ९ ॥ निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम् । मा स्म सीमन्तिनी काचि- ज्जनयेत्पुत्रमीदृशम् ॥ १० ॥ वरं गर्भस्रावो वरमृतुषु च नैवाभिगमनं वरं जातप्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर्न चाविद्वान् रूप- द्रविणगुणयुक्तोऽपि तनयः ॥ ११ ॥ पित्रोर्नैव वचः शृणोति दिवसत्यागे ब्रजत्यालयं यान्तीर्भियुवतीभिरध्वनि मुहुः कौतू- हलं विन्दति । बन्धूनामुपदेशवाचि वदति क्रोधैकतानं वचः साधून्निन्दति दुर्जनं च मनुते मित्रं कुपुत्रो जनः ॥ १२ ॥
दैवाख्यानम्
दैवमुल्लङ्घ्य यत्कार्यं क्रियते फलवन्न तत् । सरोम्भश्चा- तकेनात्तं गलरन्ध्रेण गच्छति ॥ १ ॥ भाग्यवंतं प्रसूयेथा मा शूरं मा च पण्डितम् । शूराश्च कृतविद्याश्च वने सीदन्ति पाण्डवाः ॥ २ ॥ न केवलं मनुष्येषु दैवं देवेष्वपि प्रभु । सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥ ३ ॥ सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चक्षुः पात्रं कज्जलभक्सनः ॥ ४ ॥ भगवन्तौ जगन्नेत्रे सूर्याचन्द्र- मसावपि । पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते ॥ ५ ॥ किं करोति नरः प्राज्ञः शूरो वाप्यथ पण्डितः । दैवं
पादटिप्पण्यः (Footnotes)
वामभागस्थटिप्पण्यः: १ लालनार्थमङ्कारूढशिशून् २ गजबन्धनस्तम्भ ३ प्रसरणशील्या ४ कार्यभारम् ५ पुरुषश्रेष्ठेन. ६ रात्रि ७ गर्दभी ८ अगस्त्य ९ अधिको भवति. १० आचरणेन ११ क्षयशीलेन १२ कलापूर्णेन १३ दीपपात्र, पक्षे, -मातापितरौ १४ कज्जलं, पक्षे,-मषीम् १५ अनुरागं, पक्षे,-तैलम् १६ कुलमेव सद्म गृह तस्मिन्
दक्षिणभागस्थटिप्पण्यः: १ कदाचित् २ यौवनलोपहेतुना. ३ दोहनशीला. ४ प्रकाशरहितम् ५ विनयसहितः; पक्षे,-अविना मेषेण नीतः अग्रेर्मेषो वाहनम् ६ अग्निरूपः ७ विनययुक्त, पक्षे,-विना पक्षिणा गरुडेन नीतः ८ पुरुषश्रेष्ठ ; पक्षे,-विष्णु. ९ मलविसर्जनम् १० दैवम्
दैवाख्यानम् ९१
| यस्य फलान्वेषि करोति विफलाः क्रियाः ॥ ६ ॥ दैवे विमुखता याते न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या भ्राता वाऽथ सहोदरः ॥ ७ ॥ पिबन्ति मधु पद्मेषु भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसम् ॥ ८ ॥ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेवाप्स्यद्यद्विधेर्मनसि स्थितम् ॥ ९ ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे हरिलक्ष्मीं हरो विषम् ॥ १० ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । पाषाणस्य कुतो विद्या येन देवत्वमागतः ॥ ११ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १२ ॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वं काल नातिवर्तन्ते तथा कर्म पुरा कृतम् ॥ १३ ॥ विपत्तौ किं विषादेन संपत्तौ हर्षेणेन किम् । भवितव्यं भवत्येव कर्मणामीदृशी गतिः ॥ १४ ॥ हरिणापि हरेणापि ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा न शक्या परिमार्जितुम् ॥ १५ ॥ सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि । नानुसरन्ति स्वजन यस्य दैवमदक्षिणम् ॥ १६ ॥ अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १७ ॥ अयाचितः सुख दत्ते याचितश्च न यच्छति । सर्वस्व चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥ १८ ॥ मनोरथान्करोत्युच्चैर्जनो दैवहतस्तपि । सिद्धयस्सिद्ध्योः सम कुर्याद्दैवं हि फलसाधनम् ॥ १९ ॥ पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी । शङ्खो रोदिति भिक्षार्थी फलं भाग्यानुसारतः ॥ २० ॥ तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः । सहायास्तादृशाश्चैव यादृशी भवितव्यता ॥ २१ ॥ भवितव्यं भवत्येव नारिकेलफलाम्बुवत् । गन्तव्य गतमित्यादुर्हगजभुक्तकपित्थवत् ॥ २२ ॥ महतामाश्रयः पुंसा फल भाग्यानुसारतः । ईशस्य कण्ठलग्नोऽपि वासुकिर्वायुभक्षकः ॥ २३ ॥ कर्मणा बाध्यते बुद्धिर्न बुद्ध्या कर्म बाध्यते । सुबुद्धिरपि यद्रामो हैमं हरिणमन्वगात् ॥ २४ ॥ गुणोऽपि दोषता याति वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन् दोषोऽपि च गुणायते ॥ २५ ॥ अवश्यंभाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ २६ ॥ पुरुषः पौरुषं तावद्यावद्दैव तु सन्मुखम् । विपरीतेगते दैवे पुरुषो न च पौरुषम् ॥ २७ ॥ न देशसेवया याति कर्मबन्धः परिक्षयम् । जघास घास- | मेवासौ बलीवर्दः कपर्दिनः ॥ २८ ॥ अवश्यभाविभावाना प्रतीकारो भवेद्यदि । तदा दुःखैर्न लिप्येरन्नलरामयुधिष्ठिराः ॥ २९ ॥ भवितव्यं यथा येन नासो भवति चान्यथा । नीयते तेन मार्गेण स्वय वा तत्र गच्छति ॥ ३० ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मणा । प्रागेव हि मनुष्याणा बुद्धिः कर्मानुसारिणी ॥ ३१ ॥ लिखिता चित्रगुप्तेन ललाटेऽक्षरमालिका । ता देवोऽपि न शक्नोति व्युल्लङ्घ्य लिखितु पुनः ॥ ३२ ॥ येन यत्रैव भोक्तव्य सुखं वा दुःखमेव वा । स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते ॥ ३३ ॥ सा सा संपद्यते बुद्धिः सा मतिः सा च भावना । सहायास्तादृशा एव यादृशी भवितव्यता ॥ ३४ ॥ अनुरागवती संध्या दिवसस्तत्तैःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ३५ ॥ अघटितघटितं घटयति सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥ ३६ ॥ विकटाटव्यामटन शैलारोहणमपानिधेस्तरणम् । निगडं गुहाप्रवेश विधिविपाकः कथं न संधार्यः ॥ ३७ ॥ किं त्वं न वेत्सि जगति प्रख्यातं लाभकारणे मूलम् । विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ ३८ ॥ द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ ३९ ॥ अनुकूले सति धैातरि भवत्यनिष्टादपीष्टमविलम्बम् । पीत्वा विषमपि शंभुर्मृत्युंजयतामवाप तत्कालम् ॥ ४० ॥ अनुचितमेवाचरित पशुपतिना यद्विधेः शिरश्छिन्नम् । छिन्नो न चास्य हस्तो येनाय दुर्लिपिं लिखति ॥ ४१ ॥ नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥ ४२ ॥ सर्वाङ्गमर्पयन्ती लीलासुरसं क्रमेण शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥ ४३ ॥ आरोहतु गिरिशिखर तरतु समुद्र प्रयातु पातालम् । विधिलिखिताक्षरभालं फलति कपालं न भूपालः ॥ ४४ ॥ सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशत. ईश्वरो जनार्दनः सोऽपि चित्रमिदम् ॥ ४५ ॥ यन्मनोरथशतैरगोचर न स्पृशन्ति च गिरः कवेरपि । स्वमवृत्तिरपि यत्र दुर्लभा लीलयैव विदधाति तद्विधिः ॥ ४६ ॥ अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहत विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥ ४७ ॥ दाता बलिः |
| १ पराक्रम . २ प्राप्नोति ३ अप्रेर्यमाणानि ४ खेदेन ५ दैवे ६ वामम् प्रतिकूलमिति यावत् ७ सुवर्णमयम् ८ प्रतिकूलत्वमापन्ने दैवे | १ शिवस्य २ रक्तिमा, पक्षे,-रति ३ अग्रवर्ती, पक्षे,-आज्ञाकरः. ४ दैवे ५ शिवेन ६ दुर्लेखम् ७ पुरुषवदाचरन्ती स्त्री कामशास्त्रे प्रसिद्धा, तद्वत् ८ मत्स्यावतार |
९२ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
प्रार्थयिता च विष्णुर्दानं भुवो वाजिमखस्य कालः । नमो- ऽस्तु तस्मै भवितव्यतायै यस्याः फलं बन्धनमेव जातम् ॥ ४८ ॥ प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः । तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं नहि तत्परेषाम् ॥ ४९ ॥ मा धाव मा धाव विनैव दैव नो धावन साधनमस्ति लक्ष्म्याः । चेद्धावन साधनमस्ति लक्ष्म्याः श्वा धावमानोऽपि लभेत लक्ष्मीम् ॥ ५० ॥ ईशः करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलाख्यः । तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः ॥ ५१ ॥ स्वयं महेशः श्वशुरो नगेशः सखा धनेशस्तनयो गणेशः । तथापि भिक्षाटनमेव शंभोर्बलीयसी केवलमीश्वरे- च्छा ॥ ५२ ॥ असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समासन्नविपत्तिकाले धियोऽपि पुंसां मलिनीभवन्ति ॥ ५३ ॥ न भूतपूर्वो न च केन दृष्टो हेम्नः कुरंगो न कदापि वार्ता । तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥ ५४ ॥ धनानि भूमौ पशवश्च गोष्ठे भार्या गृहद्वारि जनः श्मशाने । देहश्चितायां परलोक- मार्गे कर्मानुगो गच्छति जीव एकः ॥ ५५ ॥ वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥ ५६ ॥ सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा । अहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः ॥ ५७ ॥ यः सुन्दरस्तद्दयिता कुरूपा या सुन्दरी सा पतिरूपहीना । यत्रोभयं तत्र दरिद्रता च विधेर्विचित्राणि विचेष्टितानि ॥ ५८ ॥ अमन्वनान्ते नवमञ्जरीषु न षट्पदो गन्धफलीमजिघ्रत् । सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ॥ ५९ ॥ विधौ विरुद्धे न पयः पयोनिधौ सुधौघसिन्धौ न सुधा सुधाकरे । न वाञ्छितं सिध्यति कल्पपादपे न हेम हेमप्रभवे गिरावपि ॥ ६० ॥ अव- श्यमन्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥ ६१ ॥ निपतति किल दुर्बलेषु दैवं तद्वितथं ननु येन कारणेन । बलवति न तथा यथाबलानां प्रभवति कृष्टशरा- सनो मनोभूः ॥ ६२ ॥ हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादे । अयि खलु विषमैः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ॥ ६३ ॥ क्व च ननु जनकाधिराजपुत्री क्व च दशकंधरमंदिरे निवासः । अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ॥ ६४ ॥ क्व नु कुलमकलङ्कमायताक्ष्याः क्व नु रजनीचर- संगमापवादः । अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ॥ ६५ ॥ क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता । नियतं प्रतिकूलवर्तिनो बत धातुश्चरितं सुदुःसहम् ॥ ६६ ॥ सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुवः । तदपि तत्क्षणभङ्गि करोति चेदहह कष्टमपण्डितता विधेः ॥ ६७ ॥ गजभुजंगमयोरपि बन्धनं शशिदिवाकरयोर्ग्रहपीडनम् । मतिमतां च समीक्ष्य दरि- द्रता विधिरहो बलवानिति मे मतिः ॥ ६८ ॥ यदपि जन्म बभूव पयोनिधौ निवसनं जगतीपतिमस्तके । तदपि नाथ पुराकृतकर्मणा पतति राहुमुखे खलु चन्द्रमाः ॥ ६९ ॥ प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ७० ॥ यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च तच्च तावच्च तत्र च विधातुवशादुपैति ॥ ७१ ॥ नैवाकृतिः फलति नैव कुलं न शीलं विद्यापि नैव न च यत्नकृतापि सेवा । भाग्यानि पूर्वतपसा किल संचितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ७२ ॥ आकाशमुत्पततु गच्छतु वा दिगन्तमम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । जन्मा- न्तरार्जितशुभाशुभकृन्नराणां छायेव न त्यजति कर्मफलानु- बन्धः ॥ ७३ ॥ भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः सुजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधि- रत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ ७४ ॥ कैवर्त- कर्कशकरग्रहणच्युतोऽपि जालान्तरे निपतितः शफरो वराकः । दैवात्ततो विगलितो गिलितो बकेन वक्रे विधौ वद कथं व्यवसायसिद्धिः ॥ ७५ ॥ दैवे समर्प्य चिरसंचितकर्मजालं सुस्थाः सुखं वसत किं परयाचनाभिः । मेरुं प्रदक्षिणयतोऽपि दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिदष्टौ ॥ ७६ ॥ येनाञ्चलेन सरसीरुहलोचनायास्त्रातः प्रभूतपवनादुदये प्रदीपः । तेनैव सोऽस्तसमयेऽस्तमयं विनीतः कष्टे विधौ भजति मित्रममित्रभावम् ॥ ७७ ॥ आधोरणाङ्कुशभयात्करि- कुम्भयुग्मं जातं पयोधरयुगं हृदयेऽङ्गनानाम् । तत्रापि वल्लभ- नखक्षतभेदभिन्नं नैवान्यथा भवति यल्लिखितं विधात्रा ॥ ७८ ॥ संजातसान्द्रमकरन्दरसां क्रमेण पातुं गतश्च कलिकां कम- लस्य भृङ्गः । दग्धा निपत्य सहसैव हिमेन सैषा वामे विधौ नहि फलन्त्यभिवाञ्छितानि ॥ ७९ ॥ सिंहो बली गिरि-
पादटिप्पण्यः (Footnotes)
[वामभागः] १ अश्वमेधस्य. २ दैवाय. ३ दैवे, पक्षे,-चन्द्रे ४ वक्रे, पक्षे,-विपरीते ५ हिमालय. ६ पूर्वसञ्चितकर्मसंबद्ध ७ अमर ८ चम्पककलिकाम् ९ दुरासदा, दुःप्रतीकारा वा १० नितान्तचञ्चलस्वभावेन ११ मदनः. १२ क्लेशदः १३ परिणामः
[दक्षिणभागः] १ मूर्खता. २ दैवम् ३ दैववशात् ४ कैवर्तो धीवरः, तस्य कठोरकरग्रहणाच्च्युतः ५ शत्रुस्वभावम्
दैवाख्यानम् ९३
गुहागहनप्रवासी वासोदरे वसति भूमिभृता बिडालः। नो^१ पौरुषं कुलमपि प्रचुरा न वाणी दैव बलीय इति मुञ्च सखे विषादम् ॥ ८० ॥ सदसि विदुरभीष्मद्रोणशारद्वतानां पतिभिरमरकल्पैः पञ्चभिः पालितापि । अहह परिभवस्य^३ द्रौपदी पात्रमासीद्बलवति सति दैवे बन्धुभिः किं विधेयम् ॥ ८१ ॥ गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरवधार्या^४ यत्नतः पण्डितेन । अतिरभसकृतानां^६ कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ८२ ॥ स हि गगन-^७ विहारी कलुषध्वंसकारी^८ दशशतकरकारी ज्योतिषा मध्य- चारी । विधुरपि विधियोगाद्ग्रस्यते राहुणासौ लिखितमिह ललाटे प्रोज्झितुं कः समर्थः ॥ ८३ ॥ अयममृतनिधानं नायकोऽप्योषधीनां शतभिषगनुयातः^१० शम्भुमूर्द्धोऽवतंसः । विरहयति न चैनं राजयक्ष्मा शशाङ्कं हतविधिपरिपाकः केन वा लङ्घनीयः ॥ ८४ ॥ शशिनि खलु कलङ्कः कण्टकः पद्मनाले युवतिकुचनिपातः पकता केशजाले । जलधिजल- मपेयं पण्डिते निर्धनत्वं वयसि धनविवेको निर्विवेको विधाता ॥ ८५ ॥ प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परापरि- चयचले चिन्ताचके निधाय विधिः खलः । मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालवद्भ्रमयति मनो नो जानीमः किमत्र करिष्यति ॥ ८६ ॥ क्वचित्पाणिप्राप्तं घटितमपि कार्यं विघटयत्यशक्यं केनापि क्वचिदघटमानं घटयति । तदेव सर्वेषामुपरि परितो जाग्रति विधावुपालम्भः कोऽयं जनतनुघनोपार्जनविधौ ॥ ८७ ॥ नमस्यामो देवान्ननु हत- विधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैक- फलदः । फलं कर्म्मायत्तं यदि किममरैः किं च विधिना नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति^११ ॥ ८८ ॥ त्रिलोकेशः शार्ङ्गी^१२ शबरशर^१३ लक्ष्यत्वमगमद्विधाता^१४ लोकाना- मलभत शिरःकृन्तनविधिम्^१५ । प्रयातो तौ राहोर्दिनकर- शशाङ्कौ कवलतां^१६ प्रभुर्नभः शंसुः शिरसि लिखितं लङ्घयति कः ॥ ८९ ॥ सुधाशौर्जातेयं कथमपि कलङ्कस्य कणिका विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि । स किं नात्रेः पुत्रो न किमु हरचूडार्चनमणिर्न वा हन्ति ध्वान्तं^१७ जगदु-
परि कि वा न वसति ॥९०॥ लीलाये^१ गोमये^२ मृगपरिषद्वि श्वापदकुले करिष्यन्कार्पण्यं किमिह महिमानं गमयसि । निमग्नः पङ्केऽस्मिन्ननुभव करीन्द्राधिपदगामभद्रं^५ भद्रं वा विधिलिखितमुन्मूलयति कः ॥ ९१ ॥ धुनोति ध्वान्तानि^३ व्यपनयति नीहारपटल^४ कुलं राजीवानां^५ दलयति रथाङ्गं^६ रमयति । जगद्धात्री देवैः^७ सुखयति जनानां च नयनं न याति क्षेमान्^८ यदि तदिह दैवं जयतु कः ॥ ९२ ॥ त एवामी बाणास्तदपि हरलब्धं धनुरिदं स एवाहं पार्थः प्रमथितसुसरातिनिचयः । इमास्तास्ता गोप्यो हरिचरण- चित्तैकशरणा ह्रियन्ते गोपालैर्विधिरिह बलीयान्न तु नरः ॥ ९३ ॥ अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे^९ मूर्ध्नि स्थितवति वयं के पुनरमी ॥ ९४ ॥ पिता रत्नाभारः शुचिमहचरास्ते च मणयः स्वसा स्निग्धा लक्ष्मीरयमवरजः कल्पविटपी । अहो काम्यं धातु- स्तदपि खलु शङ्खः^१० प्रतिपदं रुदित्वा यद्दीर्घं दिशि दिशि वराटं^१३ मृग्यते ॥ ९५ ॥ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं नोलूकेन^११ विलोक्यते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं यद्धात्रा निजभालपट्टलिखितं तन्मार्जितुं^१२ कः क्षमः^१३ ॥ ९६ ॥ या साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात् । तामाराध्य सत्क्रिया भगवतीं भोक्तुं फलं वाञ्छितं हे साधो व्यसनिन्गुणेषु विपु- लेष्वास्थां वृथा मा कृथाः ॥ ९७ ॥ ब्रह्मा येन कुलालव-^१४ न्नियमतो ब्रह्माण्डभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तः सदा संकटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ९८ ॥ यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि^१५ नितरां मेरौ ततो नाधिकम् । तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधा- वपि घटो गृह्णाति तुल्यं जलम् ॥ ९९ ॥ नेता यस्य बृहस्पतिः प्रहरणं^१६ वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः किल हरेरैरावतो वारणः^१७ । इत्याश्चर्यबलान्वितोऽपि बलभि-^१८ द्भूभः परैः सगरे तद्युक्तं वरमेव दैवशरणं धिग्धिग्वृथा पौरुषम्^१९ ॥ १०० ॥ जातः सूर्यकुले पिता दशरथः क्षोणी-^१९ भुजामग्रणीः सीता सत्यपरायणा प्रणयिनी यस्यानुजो लक्ष्मणः । दोर्दण्डेन समो न चास्ति भुवने प्रत्यक्षविष्णुः
पादटिप्पण्यः (Footnotes)
वामभागः (Left Column): १ सभायाम् २ देवतुल्यै ३ पराभवस्य ४ परिणाम ५ नि- श्चेतव्या ६ अतित्वरया. ७ आकाशसंचारी ८ अन्धकारनाशकर्ता ९ नक्षत्राणाम् १० नक्षत्रविशेषेण, पक्षे,-भिषजां वैद्यानां शतेन ११ समर्थो भवति १२ कृष्ण १३ शबरो जरानामा भिल्ल प्रभासे परस्पर कलहेनाखिलयादवोपसंहारानन्तरमश्वत्थस्याधस्तादामोरो दक्षिण पाद निधायस्थिते भगवति जरानाम्ना भिल्लेन दूरतो भगवच्चरण दृष्ट्वा मृगमुखभ्रमाद्भगवत्पादो बाणेन विद्ध इति भागवते १४ ब्रह्मा १५ शिरःकर्तनम् १६ आस्ताम् १७ अन्धकारम्
दक्षिणभागः (Right Column): १ महिषे २ मृगधूतके ३ तमांसि ४ हिमपटलम् ५ हस्तिनाम् ६ चक्रम् ७ सूर्यं ८ दृढत्वम् ९ चन्द्रे, पक्षे,-दैवे १० कपर्दकम् ११ दिवाभीतेन १२ शोधयितुम् १३ समर्थ १४ कुम्भकार १५ क्षारभूमौ १६ अयुध्यम् १७ गज १८ इन्द्र० १९ नृपाणाम्
| ९४ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |

स्वयं रामो येन विडम्बितोऽपि विधिना चान्ये जने का कथा ॥ १०१ ॥ जामाता पुरुषोत्तमो भगवती लक्ष्मीः स्वयं कन्यका दूतो यस्य बभूव कौशिकमुनिर्यज्वा वसिष्ठः स्वयम् । दाता श्रीजनकः प्रदानसमये चैकादशस्था ग्रहाः किं ब्रूमो भवितव्यता हतविधे रामोऽपि यातो वनम् ॥ १०२ ॥ आसाद्यापि महोदधिं न वितृषो जातो जलैर्वाडवो मेघं प्राप्य न चातकोऽपि चरणौ भानुं न लेभेऽरुणः । चन्द्रं शंकरशेखरेऽपि निवसन्पक्षक्षये क्षीयते प्रायः सज्जनसङ्गतोऽपि लभते दैवानुरूपं फलम् ॥ १०३ ॥ आहारे शुचिता ध्वनौ मधुरता वाचालता माधवे$^२$ बन्धौ निर्ममता जनेषु निरता नीडे$^३$ पराधीनता । एतैरेव गुणैर्युताः परभृतस्त्यक्त्वा किमेते जना वन्दन्ते खलु खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ॥ १०४ ॥ गीतं कोकिल ते मुदा रसविदः शृण्वन्ति कर्णामृतं नो किंचिद्वितरन्ति ते तरुदलैरेव स्वयं जीवसि । कर्णाग्रैर्मुदमुद्विरन्ति विरुतं काकास्तु तेभ्यो बलिं प्राज्ञा एव दिशन्ति हन्त धिगिदं वक्रं विधेः क्रीडितम् ॥ १०५ ॥ छित्त्वा पाशमपास्य कूटरचना भङ्क्त्वा वलाद्वागुरां पर्यन्ताग्निशिखाकलापजटिलान्निःसृत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य धावन्मृगः कूपान्तः पतितः करोति विमुखे किं वा विधौ पौरुषम् ॥ १०६ ॥ लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः स्थित्यर्थं परमेश्वराभ्युपगतस्तेनापि मूर्ध्नि धृतः । वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥ १०७ ॥ रामे प्रव्रजनं बलेर्नियमनं पाण्डोः सुताना वनं वृष्णीना निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । कारागारनिषेवणं च मरण सञ्चिन्त्य लङ्केश्वरे सर्वः कालवशेन नश्यति नरः को वा परित्रायते ॥ १०८ ॥ भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतिते नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसो तेनैव यातः पथा लोकाः पश्यत दैवमेव हि नृणा वृद्धौ क्षये कारणम् ॥ १०९ ॥ माता यस्य धराघरेन्द्रदुहिता तातो महेशस्तथा भ्राता विघ्नकुलान्तकः पितृसखो देवो धनाना पतिः । ख्यातः क्रौञ्चविदारणे सुरपतेः सेनाग्रग. षण्मुखस्तद्देवबलेन कुत्र घटते नाद्यापि पाणिग्रहः$^१$ ॥ ११० ॥ काश्चित्तुच्छयति प्रपूरयति वा काश्चिन्नयत्युन्नतिं काश्चित्पातविधौ करोति च पुन. काश्चिन्नयत्याकुलान् । अन्योन्यं प्रतिपक्षसङ्घतिमिमा लोकस्थिति बोधयन्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ १११ ॥
तुल्यं भूभृति$^१$ जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपुस्तुल्यं दोर्वीर्यममुद्गटङ्कदलन$^३$ तुल्यं च पाषाणयोः । एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं तद्वारे विहिता परस्य तु पदाघातास्पद देहली ॥ ११२ ॥ यद्बभ्रं धनुरीश्वरस्य समरे यज्जामदग्न्यो जितस्त्यक्ता येन गुरोर्गिरा वसुमती सेतुः पयोधौ कृतः । एकैक दशकंधरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्ण्य येन सोऽपि सहसा नीतः कथाशेषताम् ॥ ११३ ॥ खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके वाञ्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रापदा भाजनम् ॥ ११४ ॥ भूयिष्ठं द्रविणात्मजं$^४$ जनयितुं लिप्सावता चेतसा नार्यः पञ्च मया क्रमेण कुलजाः काले संमुद्वाहिताः$^५$ । सद्भिद्या कविता विदेशवसतिः सेवा तथाभ्यर्थना दैवेन प्रतिबन्धकेन युगपद्ध्याः$^६$ समस्ताः कृताः ॥ ११५ ॥ मजत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे$^७$ वाणिज्यं कृपिसेवनादिसकला विद्याः कलाः शिक्षतु । आकाशं सकलं प्रयातु खगवत्कृत्वा प्रयत्नं परं नोऽभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ११६ ॥ लक्ष्मीकौस्तुभपारिजातसहजः सूनुः सुधाम्भोनिधेर्देवेन प्रणयप्रसादविधिना मूर्ध्ना धृतः शंभुना । अद्याप्युज्झति नैव दैवविहित क्षैण्य क्षपार्बल्लभः$^८$ केनान्येन विलङ्घ्यते विधिगतिः पाषाणरेखासखी ॥ ११७ ॥ अम्भोधिः स्थलता स्थलं जलधिता धूलीलव. शैलता मेरुमृत्कणता तृणं कुलिशता$^९$ वज्रं तृणप्रायताम् । वह्निः शीतलता हिमं दहनतामायाति यस्येच्छया लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ ११८ ॥ जन्म ब्रह्मकुलेऽग्रजो धनपतेर्यः कुम्भकर्णाग्रजः सूनुर्वासवजित्स्वयं दशशिरा दोर्दण्डका विंशतिः । अस्त्रं कौमगर्म$^१०$ विमानमजयं मध्येसमुद्रं पुरी सर्वं निष्फलमेतदेव नियतं दैव पर दुर्जयम् ॥ ११९ ॥ यत्राखण्डेळदन्तिदन्तमुसलान्याखण्डितान्याहवे धारा यत्र पिनाकपाणिपरशोराकुण्ठितामागताः । तेन्मे$^१३$ तावदुरो नृसिंहकरजैर्व्यादीर्यते साप्रतं दैवे दुर्बलता गते तृणमपि प्रायेण वज्रायते ॥ १२० ॥ दोःसद्देहँ$^१४$वंशवदत्रिभुवनश्रीगर्वसर्वकषः कैलासोद्धरणप्रचण्डचरितो वीरः कुबेरानुजः । यत्रायं स्वयमस्ति सेयममरावत्यापि वन्ध्या पुरी नीता मर्कटकेन कामपि दशा
पादटिप्पण्यः :
| १ यस्मिन्विवाहे इति शेष | १ पर्वते |
| २ वसन्ते | २ दृढता |
| ३ कुलाये. | ३ उद्ग्या ये टङ्कास्तैर्दलनम् |
| ४ कोकिला | ४ द्रविण द्रव्य तदेत्वात्मज पुत्रस्तम् |
| ५ मृगबन्धनी. | ५ विवाहिता |
| ६ यादववंशीयानाम् | ६ निष्फला |
| ७ मञ्जूषासकुचितशरीरस्य | ७ युद्धे. |
| ८ पार्वती | ८ चन्द्र |
| ९ गजानन | ९ वञ्जताम् |
| १० कुबेरः | १० इच्छानुकूलगति. |
| ११ विवाह | ११ इन्द्रस्यैरावत- |
| १२ शिव. | |
| १३ हिरण्यकशिपोरिकिरियम्. | |
| १४ समूहः |
दैवाख्यानम्, जरावर्णनम् ९५
धिग्दैवमावश्यकम् ॥ १२१ ॥ येनाकारि मृणालपत्रमशनं क्रीडा करिण्या सह स्वच्छन्दं, भ्रमणं च कन्दरगणे पीतं पयो नैर्झरम् । सोऽयं वन्यकरी नरेषु पतितः पुष्णाति देहं तृणैर्दैवेन ललाटपत्रलिखितं तन्मोज्झितुं कः क्षमः ॥ १२२ ॥ दैवेन प्रभुणा स्वय जगति यद्यस्य प्रमाणीकृतं तत्तत्सोपनमेन्मनागपि महान्नैवाश्रयः कारणम् । सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यह सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ १२३ ॥ कान्तं वक्ति कपोतिकाकुलतया नाथान्तकालोऽधुना व्याधोऽधो धृतचापसज्जितशरः श्येनः परिभ्रामति । इत्थं सत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहतस्तूर्णं तौ तु यमालयं प्रति गतौ दैवी विचित्रा गतिः ॥ १२४ ॥ रेवोवारिणि वारेणेन विपुले राजीवराजीरजःपुञ्जापिञ्जरतोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे । धौतं येन मृगारिरक्तमसकृद्दन्तान्तरालस्थित कोष्णं सोऽपि पयः पपौ हतविधेः को गोचरे नागतः ॥ १२५ ॥ केषांचिन्निजवेश्मनि स्थितवतामालस्यनिद्रावता दृश्यन्ते फलिता लता इव फलैराचूलमूलं श्रियः । अद्रिं लङ्घयता गिरि प्रयतता पृथ्वीतले धावतामुद्योगव्यवसायसाहसधिया तन्नास्ति यैस्तप्यते ॥ १२६ ॥ स्थाल्या वैदूर्यमय्या पचति तिलकणांश्चान्दनैरिन्धनौघैः सौवर्णैर्लाङ्गलाग्रैर्निखनति वसुधामर्कमूलस्य हेतोः । छित्त्वा कर्पूरखण्डांस्तृतिमिह कुरुते कोद्रवाणा समन्तात्प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः ॥ १२७ ॥ पञ्चैते पाण्डुपुत्राः क्षितिपतितनया धर्मभीमार्जुनद्याः शूराः सत्यप्रतिज्ञा दृढतरवपुषः केशवेनापि गूढाः । ते वीराः पाणिपात्रे कृपणजनगृहे भिक्षुचयौं प्रवृत्ताः को वा कार्ये समर्थो भवति विधिवशाद्भाविनी कर्मरेखा ॥ १२८ ॥ यत्र श्यामाकबीजान्यपि चटकवधूचञ्चकोटिच्युतानि प्रोञ्छियन्ते स्ववेश्मन्यशनविरहिते निर्धनश्रोत्रियाणाम् । दैवे दातर्यकस्मात्तदुलशिशुकराकृष्टहारावलीतो भ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं चूर्णिता मौक्तिकोघाः ॥ १२९ ॥ यन्माता विष्णुनाभिः पतिरपि च सुतो यस्य साक्षात्प्रजाना लक्ष्मीर्यत्सश्रयाभूत्तदपि करतले भारती सवभार । भानुर्यस्यास्ति मित्रं तदपि सरसिजं क्षीणमिन्दोर्मयूखैस्तातुं नैवोत्सहन्ते गतसुकृतफलं प्राप्तकालं सहायाः ॥ १३० ॥ कुत्रापोध्या क रामो दशरथवचनाद्दण्डकारण्यमागात्क्कासौ मारीचनामा कनकमयमृगः कुत्र सीतांपहारः । सुग्रीवे राममैत्री क जनकतनयान्वेषणे प्रेषितोऽहं योऽर्थोऽसभावनीयस्तमपि घटयते क्रूरकर्मा विधाता ॥ १३१ ॥
जरावर्णनम्
अलंकरोति हि जरा राजामात्यभिषग्यतीन् । विडम्बयति पण्यस्त्रीमल्लग्रायनसेवकान् ॥ १ ॥ क्षणात्प्रबोधमायाति लङ्घ्यते तमसा पुनः । निर्वाणतः प्रदीपस्य शिखेव जरतो मतिः ॥ २ ॥ शशिनीव हिमार्तानां धर्मार्ताना रवाविव । मनो न रमते स्त्रीणा जराजीर्णेन्द्रिये पतौ ॥ ३ ॥ मलिनैरलकैरेतैः शुक्लत्व प्रकटीकृतम् । तद्रोषादिव निर्याता वदनाद्दैन्दनावतिः ॥ ४ ॥ वृद्धत्वानलदग्धस्य सारयौवनवस्तुनः । दृश्यते देहगेहेषु भस्मेव पलितच्छलात् ॥ ५ ॥ वीक्ष्यते पलितश्रेणिर्नैव वृद्धस्य मूर्धनि । त्रैषैव नीतं जन्मेति कि तु भस्म विनिर्य्यधात् ॥ ६ ॥ इहल्यामपि सामग्र्या सुकृतं न कृत त्वया । इतीव कुपितो दन्तानेन्तकः पातयत्यलम् ॥ ७ ॥ यममिव करधृतदण्डं हरिमिव सँगदं शशाङ्कमिव वक्रम् । शिवमिव च विरुपाक्षं जरा करोत्यकृतपुण्यमपि ॥ ८ ॥ वदन दर्शेनविहीनं वाचो न परिस्फुटा गता शक्तिः । अव्यक्तेन्द्रियशक्तिः पुनरपि बाल्यं कृत जरया ॥ ९ ॥ पृष्टं रटति पलितैर्दृतो मस्तकमासाद्य सर्वलोकस्य । परिभवति जरा मरणं कुरु धर्मे विरम पापेभ्यः ॥ १० ॥ शतमंन्युं दण्डधरं कुबेरमपि शूलिनं तथा गदिनम् । कुरुते जरा न सा किं कुर्याच्चीरूपनामकं मनुजम् ॥ ११ ॥ कृष्णवर्त्मनि गुणान्नानयन्ती जीवनेऽपि जरयन्त्यनुरागम् । आगता बत जरेव हिमानी सेव्यता सुरैरतरगवती्रयम् ॥ १२ ॥ कृतान्तस्य दूती जरा कर्णमूले समागत्य वक्ति लोकाः शृणुध्वम् । परस्त्रीपरद्रव्यवाञ्छा त्यजध्वं भजध्वं रमानाथपादारविन्दम् ॥ १३ ॥ वर्षे सितं समभिवीक्ष्य शिरोरुहाणा स्थानं जरा परिभवस्य यदेव पुंसाम् । आरोपितास्थिशकलं परिहृत्य
पादटिप्पण्यः
१ नर्मदोदके २ भोजनार्थमिति शेष ३ रत्नविशेषः ४ आर्तिक्क्यम् ५ 'बाजरी' इति प्रसिद्धधान्यानाम् ६ ब्रह्मा.
१ हनुमत उक्तिरियम् २ केशै ३ दन्तपङ्क्ति ४ वार्धक्य तदेवानलस्तेन दग्धस्य ५ पलितमिषेण ६ पक्ति ७ व्यर्थमेवं. ८ निक्षिप्तवान् ९ पुण्यम् १० यम ११ गदया आयुधविशेषेण सहितम्, पक्षे,-गदेन रोगेण सहितम् १२ विकृताक्षम् १३ दन्तरहितम् १४ शुक्लकेशत्वमेव दूत १५ इन्द्रम्; पक्षे,-कोपनम् १६ यमम्; पक्षे,-यष्टिवरम् १७ धनाधिपम्; पक्षे,-कुत्सितं शरीरम् १८ शिवम्, पक्षे,-शुलयुक्तम् १९ विष्णुम्; पक्षे,-गदयुक्तम् २० अग्नी, पक्षे,-कृष्णस्य वर्त्म मार्गस्तस्मिन् २१ उदके पक्षे,-प्राणे २२ दूरीकुर्वाणा २३ हिमंसंहति २४ सुरतै रङ्गवती; पक्षे,-सुराणां तरंगवती भागीरथी २५ केशानाम् २६ आरोपितमस्थ शकल खण्ड यस्मिन् २७ अस्पृश्यत्वादिति भावः
| ९६ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |

यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥ १४ ॥ श्रुतिः शिथिलता गता स्मृतिरपि प्रनष्टाधुना गतिर्विपथमार्गता विगलिता द्विजाना ततिः । गवामपि च संहृतिः समुचितक्रियाश्च्युता कृता न जरया तया कलियुगस्य साधर्म्यता ॥ १५ ॥ गात्र संकुचित गतिर्विगलिता भ्रष्टा च दन्तावलिर्दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते । वाक्य नाद्रियते च बान्धवजनैर्भार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ १६ ॥ स्थूलप्रावरणोऽतिवृत्तकथकः कासाश्रुलालाविलो भग्नोर्वरूपिट्ठजानुजघनो मुग्धोऽतिथीन्वारयन् । शृण्वन्पृष्ट्वध्रुवचचांसि धनुषा सत्रासयन्वायसानाशापाशनिबद्धजीवविभवो वृद्धो गृहे ग्लायति ॥ १७ ॥ पादौ संस्तम्भयन्ती मुखमपि नमयन्त्यङ्गमाकुञ्चयन्ती हस्तावुत्कम्पयन्ती प्रणयिजनवचो न श्रुतीः श्रावयन्ती । रत्योद्वेङ्गजयन्ती वलिततनुमती नूतनोढा जरा वा तुल्या पूर्वी तु पुसेंक्षसति बत परा भीतिहेतुर्नरस्य ॥ १८ ॥
क्षुधावर्णनम्
नास्ति क्षुधासमं दु खं नास्ति रोगः क्षुधासमः । नास्त्याहारसमं सौख्य नास्ति क्रोधसमो रिपुः ॥ १ ॥ शय्या वस्त्रं चन्दनं चारु हास्यं वीणा वाणी सुन्दरी या च नारी । न भ्राजन्ते क्षुत्पिपासातुराणा सर्वार्म्भास्तण्डुलप्रस्थमूलाः ॥ २ ॥
भिक्षुकः
प्रतिदिनमयत्नसुलभे भिक्षुकजननि साधुसङ्गकल्पलते । नृपनमननरकतारिणि भगवति भिक्षे नमस्तुभ्यम् ॥ १ ॥ अगस्तितुल्याश्च घृताब्धिशोषणे दम्भोतितुल्या वटिकाद्रिभेदने । शाकावलीकाननवह्निरूपास्त एव मष्टा इतरे भटोश्च ॥ २ ॥ अग्रेयो मुक्तिमता प्रयोगसमये मन्त्रेषु पृष्ठ गत पाकागारगतस्तु पाचकमनस्तोषाय वाचस्पतिः । उच्चैर्या निरतो रतोऽर्भकगणे पिण्डेषु दत्तादरो नाना श्राद्धगणैकचालितमना मह्नोत्तमो राजते ॥ ३ ॥ उच्चैरध्ययनं पुरातनकथा स्त्रीभिः सहाभाषणं तासामर्भकलालने पैतिनुतिस्तत्याकमिथ्यास्तुतिः । आदेशस्य करावलम्बनविधिः पाण्डित्यलेखक्रिया होरागौरुडमन्त्रतन्त्रकविधिर्भिक्षोर्गुणा द्वादश ॥ ४ ॥ प्रातः क्षालितलोचनाः करतले चञ्चत्पवित्राङ्कुरास्तत्तत्स्थाननिवेशितोर्ध्वतिलकाश्रैर्लन्तबद्धक्षाक्ताः । को जातश्च मृतोऽथवा मृततिथिः कस्यालये वर्तते चेत्थं हर्षशनैर्युताः प्रतिदिन धावन्त्यहो भिक्षुकाः ॥ ५ ॥
परगृहवासः
शिरसा धार्यमाणोऽपि सोमः सोमेन शंभुना । तथापि कृशता धत्ते कष्टः खलु पराश्रयः ॥ १ ॥ विना कार्येण ये मूढा गच्छन्ति परन्दिरम् । अवश्यं लघुता यान्ति कृष्णपक्षे यथा शशी ॥ २ ॥ कष्टं खलु मूर्खत्वं कष्ट खलु यौवनेषु दारिद्र्यम् । कष्टादपि कष्टतर परगृहवासः परान्नं च ॥ ३ ॥ उडुगणपरिवारो नायकोऽप्योषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विगतैरंशिर्मर्मण्डलं प्राप्य मौनोः पैरसदननिविष्टः को लघुत्वं न याति ॥ ४ ॥
उदरपूरणदूषणम्
अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः । वानरीमिव वाग्देवीं नर्तयन्ति गृहे गृहे ॥ १ ॥ किमकारि न कार्पण्य कस्यालङ्घि न देहली । अस्य पापोदरस्यार्थे किमनाटि न नाटकम् ॥ २ ॥ एकः स एव जीवति हृदयविहीनोऽपि सहृदयो राहुः । यः सकलैलैघिमकारणमुदर न बिभर्ति दुःपूरम् ॥ ३ ॥ कंधरा संपहाय कं धरा प्राप्य सयर्ति जहासं कस्यचित् । मां किल नमयतः स्वपूर्तये दुर्भरात्किमुदराद्वियोगतः ॥ ४ ॥ अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिस्तिरस्कृतस्य । उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ॥ ५ ॥ इयमुदरदरी दुरन्तपूरा यदि न भवेद्भूविमीनभङ्गभूमिः । क्षणमपि न सहे भवादृशाना कुटिलकटाक्षनिरीक्षणं नृपणाम् ॥ ६ ॥ अप-
१ कर्णेन्द्रियम्, पक्षे,-वेद २ शरणम्, पक्षे,-मन्वादि वाक्यम् ३ आचरणम्, पक्षे,-गमनम् ४ दन्तानाम्, पक्षे,-ब्राह्मणानाम् ५ इन्द्रियाणा म्, पक्षे,-धेनूनाम् ६ समानधर्मत्वम् ७ शत्रुरुदाचरति ८ अतिक्रान्तानि वृत्तान्ते कथयतीति ९ धाष्ट्र्ययुक्तखोवचनानि १० खेद प्राप्नोति ११ पादयो स्तम्भन कुर्वती १२ उद्वेग कुर्वती १३ वलय चर्मवलय सजाता यस्या सा वलिता, सा चासौ तनूश्च तद्वती, पक्षे,-वलित वलन तद्युक्ताया तद्वती १४ नवीनविवाहिता स्त्री १५ नूतनोढा १६ पुरुषात् १७ उद्वेग प्राप्नोति १८ जरा १९ भयकारणम् २० सुन्दरम् २१ वज्रसदृशः २२ अरण्यम् २३ योद्धार २४ अग्रगण्य २५ भोक्तॄणाम्. २६ वृहस्पतिवत् कुशल २७ दक्षिणायाम्, अय तु वैदिकैरेवावगम्यो दक्षिणासबद्ध साकेतिक शब्द
१ पठनम् २ शिशु ३ स्तुति ४ भाविशुभाशुभफलकथनप्रागल्भ्यमिति भावः ५ जन्मपत्रादिफलकथनम् ६ वस्त्रान्ते ७ उमासहितेन ८ नक्षत्रसमूह परिवारो यस्य ९ वनस्पतीनाम् १० निस्तेजा ११ सूर्यस्य १२ परगृहम् १३ हीनदशाम् १४ लघुत्वकारणम् १५ धारयति १६ दुखेन पूरयितु शक्यम् १७ मस्तकम् १८ युद्धे १९ श्रौतसिद्धान्ते २० अवमानकारणम्