सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 98, कुल 516 में से
संदर्भ में पढ़ेंसंहतिप्रशंसा, क्षमाप्रशंसा, विनयप्रशंसा, सत्यप्रशंसा, असत्यनिन्दा, आत्मश्लाघानिन्दा, स्वभाववर्णनम् ८३
॥ १२ ॥ उद्योगिनः करालम्बं करोति कमलाल्या ।
अनुद्योगिकरालम्बं करोति कमलाग्रजा ॥ १३ ॥ काकता-
लीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः । न स्वयं दैवमादत्ते
पुरुषार्थमपेक्षते ॥ १४ ॥ आलस्यं हि मनुष्याणां शरी-
रस्थो महान्रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसी-
दति ॥ १५ ॥ संपदा सुस्थितंमन्यो भवति स्वल्पयापि
यः । कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ १६ ॥
न लभन्ते विनोद्योगं जन्तवः संपदां पदम् । सुराः क्षीरोद-
विक्षोभमनुभूयाममृतं पपुः ॥ १७ ॥ नात्युच्चशिखरो मेरुर्ना-
तिनीचं रसातलम् । व्यवसायद्वितीयानां नाप्यपारो महो-
दधिः ॥ १८ ॥ पूर्वजन्मजनितं पुराविदः कर्म दैवमिति
संप्रचक्षते । उद्यमेन तदुपार्जितं चिराद्दैवमुद्यमवशं न
तत्कथम् ॥ १९ ॥ उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवं
हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमा-
त्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ २० ॥
संहतिप्रशंसा
संहतिः श्रेयसी राजन्विगुणेष्वपि बन्धुषु । तुषैरपि परि-
भ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ १ ॥ अल्पानामपि वस्तूनां
संहतिः कार्यसाधिका । तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः
॥ २ ॥ बहूनामल्पसाराणां समवायो दुरत्ययः । तृणैर्वि-
धीयते रज्जुर्बध्यन्ते तेन दन्तिनः ॥ ३ ॥
क्षमाप्रशंसा
क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति । अतृणे
पतितो वह्निः स्वयमेवोपशाम्यति ॥ १ ॥ नरस्याभरणं रूपं
रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा
॥ २ ॥ क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा । क्षमा
वशीकृतिर्लोके क्षमया किं न सिध्यति ॥ ३ ॥
विनयप्रशंसा
तिष्ठतो तपसि पुण्यमथैजन्संपदोऽनुगुणैन्समुखैषिणाम् ।
योगिना परिणमन्विमुक्तये केन नास्तु विनयः सता
प्रियः ॥ १ ॥
पादटिप्पणी (वामभाग):
१ लक्ष्मी २ अलक्ष्मी ३ काकागमने सति तालपतनमिव काकतालीय तद्वत् अवितर्कितम् अकस्मादिति यावत् ४ खिन्नो न भवति ५ पुरुषश्रेष्ठम् ६ कुत्सितपुरुषा ७ समात् ८ धान्यत्वक् ९ अङ्कुरजननक्षमा न भवन्तीति भाव १० रज्जुत्वम् ११ शान्ति १२ तपोनिष्ठानाम् १३ संपादयन् १४ अनुकूलयन् १५ सपद्ममान. १६ अपवर्ग्याय
सत्यप्रशंसा
सूनृतं सर्वशास्त्रार्थनिश्चितान्ज्ञानशोभितम् । भूषणं सर्व-
वचसां लज्जेव कुल्योषिताम् ॥ १ ॥ अश्वमेधसहस्रं च
सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशि-
ष्यते ॥ २ ॥ गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः ।
अलुब्धैर्दानशूरैश्च सप्तभिर्धार्यते मही ॥ ३ ॥
असत्यनिन्दा
नासत्यवादिनः सख्यं न पुण्यं न यशो भुवि । दृश्यते
नापि कल्याणं कालकूटमिवाक्षत ॥ १ ॥ असत्यमप्रत्यय-
मूलकारणं कुवासनासद्मसमृद्धिधारणम् । विपन्निदानं पर-
वञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ २ ॥ यशो
यस्मात्क्षीणीभवति दववह्नेरिव वनं निदानं दुःखानां यदव-
निरुहाणामिव जलम् । न यत्र स्वाच्छायातप इव तपःसं-
यमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ ३ ॥
जिह्वैकैव सतामुभे फणिवतां सृष्टेश्चतस्रश्च तास्ताः सैसैव
विभोर्वसोर्नियमिताः षट्कार्तिकेयस्य च । पौलस्त्यस्य दशा-
भवन्फणिपतेर्जिह्वासहस्रद्वयं जिह्वालक्षशतैककोटिनियमो नो
दुर्जनानां मुखे ॥ ४ ॥
आत्मश्लाघानिन्दा
परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत् ।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ॥ १ ॥ न
सुखं न च सौभाग्यं स्वयं स्वगुणवर्णने । यथैव च पुरं-
ध्रीणां स्वहस्तकुचमर्दने ॥ २ ॥ स्वयं तथा न कर्तव्यं स्वगु-
णाख्यापनं पुनः । स्वगुणाख्यापनं युक्त्या परद्वारा प्रयोजयेत्
॥ ३ ॥ न सौख्यसौभाग्यकरा गुणा नृणां स्वयं गृहीताः
सुदृशा कुचा इव । परैर्गृहीता द्वितयं वितन्वते न तेन
गृह्णन्ति निजं गुणं बुधाः ॥ ४ ॥ निजगुणगरिमा सुखा-
करः स्वात्मयमब्रुवर्णयता सता न तावत् । निजकरकम-
लेन कामिनीनां कुचकलशाकलनेन को विनोदः ॥ ५ ॥
स्वभाववर्णनम्
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य
हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते ॥ १ ॥ किं कुलेनो-
पादटिप्पणी (दक्षिणभाग):
१ विषम् २ भक्षयतः ३ अविश्वास ४ विपत्तेः कारणम् ५ कुशलैः ६ दावाग्नेः ७ आदिकारणम् ८ वृक्षाणाम् ९ वक्ति १० सर्पाणाम् ११ ब्रह्मणः १२ अग्नेः १३ रावणस्य १४ शेषस्य १५ अतिक्रम्य