भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 99, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 99
८४सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

पदिष्टेन शीलमेवात्र कारणम् । भवन्ति सुतरा स्फीताः सुक्षेत्रे कण्टकिद्रुमा ॥ २ ॥ य स्वभावो हि यस्यास्ते स नित्य दुरतिक्रम । श्वा यदि क्रियते राजा तत्कि नाश्नात्युपानहम् ॥ ३ ॥ परोपदेशकुकुशला दृश्यन्ते बहवो जना । स्वभावमतिवर्तन्त सहस्त्रेष्वपि दुर्लभाः ॥ ४ ॥ किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमय. किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ५ ॥ सति शीले गुणा भान्ति पुंसा शौर्यादयो यथा । यौवने सदलकारा शोभा बिभ्रति सुश्रुव ॥ ६ ॥ अद्रोह सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च शीलमेतद्विदुर्बुधा ॥ ७ ॥ वृत्त यत्नेन सरक्षेद्वित्तमायाति याति च । अक्षीणो वित्तत क्षीणो वृत्ततस्तु हतो हत ॥ ८ ॥ यथा हि मलिनेर्वस्त्रैर्यत्र तत्रोपविश्यते । एवं चलितवृत्तस्तु वृत्तशेष न रक्षति ॥ ९ ॥ न कुलं वृत्तहीनाना प्रमाणमिति मे मति. । अन्येष्वपि हि जाताना वृत्तमेव विशिष्यते ॥ १० ॥ अकुलीन कुलीनश्च मर्यादा यो न लङ्घयेत् । धर्मापेक्षी मृदुदीन्तो न कुलीनशतैर्वरः ॥ ११ ॥ शीलं रक्षतु मेधावी प्राप्नुमिच्छुः सुखत्रयम् । प्रशंसा वित्तलाभं च प्रेत्य स्वर्गे च मोदनम् ॥ १२ ॥ विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं धर्म. शीलं सर्वत्र वै धनम् ॥ १३ ॥ रक्तत्वं कमलाना सत्पुरुषाणा परोपकारित्वम् । असता च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम् ॥ १४ ॥ वचो हि सत्यं परमं विभूषणं यथाङ्गनायाः कृशता कटौ तथा । द्विजस्य विद्यैव पुनस्तथा क्षमा शीलं हि सर्वस्य नरस्य भूषणम् ॥ १५ ॥ न धर्मशास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मन. । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुर गवां पयः ॥ १६ ॥ निम्नॊन्नतं वक्ष्यति को जलाना विचित्रभावं मृगपक्षिणा च । माधुर्यमिक्षौ कटुता च निम्बे स्वभावत.. सर्वमिदं हि सिद्धम् ॥ १७ ॥ वरं विन्ध्याटव्यामनशनतृषार्तस्य मरणं वरं सर्पाकीर्णे तृणपिहितकूपे निपतनम् । वरं गर्तावर्त गहनजलमध्ये विलयनं न शीलाद्विभ्रंशो भवतु कुलजस्य श्रुतवतः ॥ १८ ॥ वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्मेरु स्वल्पशिलायते मृगपते. संघ कुरङ्गायते । व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ १९ ॥ ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपस क्षमा बलवता धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ २० ॥ काक. पद्मवने रति न कुरुते हंसो न कूपोदके मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने । कुस्त्री सज्जनसङ्गमे न रमते नीचं जनं सेवते या यस्य प्रकृति स्वभावजनिता केनापि न त्यज्यते ॥ २१ ॥ व्याघ्रः सेवति काननं सुगहनं सिंहो गुहा सेवते हंस सेवति पद्मिनी कुसुमिता गृध्र. श्मशानस्थलीम् । साधु. सेवति साधुमेव सततं नीचोऽपि नीचं जनं या यस्य प्रकृति. स्वभावजनिता केनापि न त्यज्यते ॥ २२ ॥ पाण्डित्यस्य विभूषणं मधुरता शौर्यस्य वाक्संयमो ज्ञानस्योपशम. श्रुतस्य विनयो वित्तस्य पात्रे व्यय. । अक्रोधस्तपसः क्षमा प्रभवतो धर्मस्य निर्व्याजता सर्वस्यास्य पुनस्तथैव जगतः शीलं परं भूषणम् ॥ २३ ॥


वाग्वर्णनम्

तास्तु वाचः सभायोग्या याश्चित्ताकर्षणक्षमा. । स्वेषा परेषा विदुषा द्विषामविदुषामपि ॥ १ ॥ गौनाब्धेस्तु पर पार नोपेर्याय सरस्वती । अतो निमज्जनभयात्तुंम्बी वहति वक्षसि ॥ २ ॥ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ३ ॥ वर्णै. कतिपयैरेव ग्रथितस्य स्वरैरिव । अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ ४ ॥ बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते । अनुज्झितार्थसंबन्ध. प्रबन्धो दुरुदाहर. ॥ ५ ॥ श्लक्ष्णीयसीपि दैर्येनामन्पगुर्णेर्कल्पिताम् । प्रसारयन्ति कुशलाश्चित्रां वाच पटीमित्र ॥ ६ ॥ सर्वालंकारयुक्तापि न श्लिष्टा वनिवेव सा । वाणी मनोजातसुखं प्रौढांना न तनोति हि ॥ ७ ॥ या कर्षति नियोगादन्तर्गतजीर्वनानि


टिप्पणी :

१ अतिक्रम्य वर्तते २ नीचोच्चम् ३ तीक्ष्णताम् ४ कृत्रिमसरिदिवाचरति ५ सर्प ६ माला ७ अमृतम् ८ विजृम्भते ९ सौजन्यम् १० वाङ्नियमनम् ११ शान्ति .

१ निष्कपटत्वम् २ सुस्वभाव ३ गानसमुद्रस्य ४ गायनसमुद्रपरपार न प्राप ५ इक्ष्वाकुफलम् जलतरणार्थं तुम्ब्या संग्रह लोका कुर्वन्तीति प्रसिद्धम् ६ प्रसन्नवदना, पक्षे,-उत्तानाथी ७ कान्त्या शोभया मनोहारिण्य, पक्षे,-भाषणगुणेन मनोहारिण्य ८ आलिङ्गनम्; पक्षे,-श्लेष ९ परिमितै १० निषादादिभि ११ स्वप्रतिभानुसारेण १२ यथेष्टम् १३ असंगतम् १४ दुर्वचः १५ अतिसुकुमाराक्षराम्; पक्षे,-श्लक्ष्णतराम् १६ अर्थगुर्वीम्, पक्षे,-सान्द्राम्, कदलीदल कल्पामित्यर्थ १७ श्लेषादिभि , पक्षे,-तन्तुभि १८ रचिताम्, पक्षे-निर्मिताम् १९ शब्दादिविचित्राम्, पक्षे,-विचित्ररूपाम्. २० शाटीमित्र २१ उपमादिभिः, पक्षे,-कङ्कणादिभिः २२ श्लेषरहिता, पक्षे,-आलिङ्गनमहिता २३ मन प्रति जात यत्सुख तत्; पक्षे,-कामहर्षम् २४ चतुराणाम्, पक्षे,-प्रकर्षेण विधिपूर्वक विवाहितानाम् २५ हृद्गतानि जीवनानि, पक्षे,-उदकानि.