सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
DevanagariSanskritpublished516 पृष्ठ
पृष्ठ 106, कुल 516 में से
संदर्भ में पढ़ेंपृष्ठ 106
दैवाख्यानम् ९१
| यस्य फलान्वेषि करोति विफलाः क्रियाः ॥ ६ ॥ दैवे विमुखता याते न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या भ्राता वाऽथ सहोदरः ॥ ७ ॥ पिबन्ति मधु पद्मेषु भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसम् ॥ ८ ॥ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेवाप्स्यद्यद्विधेर्मनसि स्थितम् ॥ ९ ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे हरिलक्ष्मीं हरो विषम् ॥ १० ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । पाषाणस्य कुतो विद्या येन देवत्वमागतः ॥ ११ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १२ ॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वं काल नातिवर्तन्ते तथा कर्म पुरा कृतम् ॥ १३ ॥ विपत्तौ किं विषादेन संपत्तौ हर्षेणेन किम् । भवितव्यं भवत्येव कर्मणामीदृशी गतिः ॥ १४ ॥ हरिणापि हरेणापि ब्रह्मणा त्रिदशैरपि । ललाटलिखिता रेखा न शक्या परिमार्जितुम् ॥ १५ ॥ सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि । नानुसरन्ति स्वजन यस्य दैवमदक्षिणम् ॥ १६ ॥ अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १७ ॥ अयाचितः सुख दत्ते याचितश्च न यच्छति । सर्वस्व चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥ १८ ॥ मनोरथान्करोत्युच्चैर्जनो दैवहतस्तपि । सिद्धयस्सिद्ध्योः सम कुर्याद्दैवं हि फलसाधनम् ॥ १९ ॥ पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी । शङ्खो रोदिति भिक्षार्थी फलं भाग्यानुसारतः ॥ २० ॥ तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः । सहायास्तादृशाश्चैव यादृशी भवितव्यता ॥ २१ ॥ भवितव्यं भवत्येव नारिकेलफलाम्बुवत् । गन्तव्य गतमित्यादुर्हगजभुक्तकपित्थवत् ॥ २२ ॥ महतामाश्रयः पुंसा फल भाग्यानुसारतः । ईशस्य कण्ठलग्नोऽपि वासुकिर्वायुभक्षकः ॥ २३ ॥ कर्मणा बाध्यते बुद्धिर्न बुद्ध्या कर्म बाध्यते । सुबुद्धिरपि यद्रामो हैमं हरिणमन्वगात् ॥ २४ ॥ गुणोऽपि दोषता याति वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन् दोषोऽपि च गुणायते ॥ २५ ॥ अवश्यंभाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥ २६ ॥ पुरुषः पौरुषं तावद्यावद्दैव तु सन्मुखम् । विपरीतेगते दैवे पुरुषो न च पौरुषम् ॥ २७ ॥ न देशसेवया याति कर्मबन्धः परिक्षयम् । जघास घास- | मेवासौ बलीवर्दः कपर्दिनः ॥ २८ ॥ अवश्यभाविभावाना प्रतीकारो भवेद्यदि । तदा दुःखैर्न लिप्येरन्नलरामयुधिष्ठिराः ॥ २९ ॥ भवितव्यं यथा येन नासो भवति चान्यथा । नीयते तेन मार्गेण स्वय वा तत्र गच्छति ॥ ३० ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मणा । प्रागेव हि मनुष्याणा बुद्धिः कर्मानुसारिणी ॥ ३१ ॥ लिखिता चित्रगुप्तेन ललाटेऽक्षरमालिका । ता देवोऽपि न शक्नोति व्युल्लङ्घ्य लिखितु पुनः ॥ ३२ ॥ येन यत्रैव भोक्तव्य सुखं वा दुःखमेव वा । स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते ॥ ३३ ॥ सा सा संपद्यते बुद्धिः सा मतिः सा च भावना । सहायास्तादृशा एव यादृशी भवितव्यता ॥ ३४ ॥ अनुरागवती संध्या दिवसस्तत्तैःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ३५ ॥ अघटितघटितं घटयति सुघटितघटितानि दुर्घटीकुरुते । विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥ ३६ ॥ विकटाटव्यामटन शैलारोहणमपानिधेस्तरणम् । निगडं गुहाप्रवेश विधिविपाकः कथं न संधार्यः ॥ ३७ ॥ किं त्वं न वेत्सि जगति प्रख्यातं लाभकारणे मूलम् । विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ ३८ ॥ द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ ३९ ॥ अनुकूले सति धैातरि भवत्यनिष्टादपीष्टमविलम्बम् । पीत्वा विषमपि शंभुर्मृत्युंजयतामवाप तत्कालम् ॥ ४० ॥ अनुचितमेवाचरित पशुपतिना यद्विधेः शिरश्छिन्नम् । छिन्नो न चास्य हस्तो येनाय दुर्लिपिं लिखति ॥ ४१ ॥ नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥ ४२ ॥ सर्वाङ्गमर्पयन्ती लीलासुरसं क्रमेण शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥ ४३ ॥ आरोहतु गिरिशिखर तरतु समुद्र प्रयातु पातालम् । विधिलिखिताक्षरभालं फलति कपालं न भूपालः ॥ ४४ ॥ सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशत. ईश्वरो जनार्दनः सोऽपि चित्रमिदम् ॥ ४५ ॥ यन्मनोरथशतैरगोचर न स्पृशन्ति च गिरः कवेरपि । स्वमवृत्तिरपि यत्र दुर्लभा लीलयैव विदधाति तद्विधिः ॥ ४६ ॥ अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहत विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥ ४७ ॥ दाता बलिः |
| १ पराक्रम . २ प्राप्नोति ३ अप्रेर्यमाणानि ४ खेदेन ५ दैवे ६ वामम् प्रतिकूलमिति यावत् ७ सुवर्णमयम् ८ प्रतिकूलत्वमापन्ने दैवे | १ शिवस्य २ रक्तिमा, पक्षे,-रति ३ अग्रवर्ती, पक्षे,-आज्ञाकरः. ४ दैवे ५ शिवेन ६ दुर्लेखम् ७ पुरुषवदाचरन्ती स्त्री कामशास्त्रे प्रसिद्धा, तद्वत् ८ मत्स्यावतार |