सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 105, कुल 516 में से
संदर्भ में पढ़ें९० | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम्
वर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनस्तनयानवहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ १३ ॥ आनन्दसुतिरा- त्मनो नयनयोरन्तं सुधाम्ब्यञ्जनं प्रस्तारः प्रणयस्य मन्मथतरोः पुष्पं प्रसादो रतेः । आलाने हृदयद्विपस्य विषयारण्येषु संचा- रिणो दंपत्योरिह लभ्यते सुकृततः संसारसारः सुतः ॥१४॥
कन्यापितृनिन्दा
जातेति कन्या महती हि चिन्ता कस्मै प्रदेयेति महा- न्वितर्कः । दत्ता सुख यास्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम् ॥ १ ॥
सत्पुत्रप्रशंसा
एकोऽपि गुणवान्पुत्रो निर्गुणैः किं शतैरपि । एकश्चन्द्रो जगच्चक्षुर्नक्षत्रैः किं प्रयोजनम् ॥ १ ॥ एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासित तद्वनं सर्व सुपुत्रेण कुलं यथा ॥ २ ॥ प्रज्ञया वा विसारिण्या यो बलेन धनेन वा । धुरं वहति गोत्रस्य जननी तेन पुत्रिणी ॥ ३ ॥ एकेनापि सुपुत्रेण विद्यायुक्तेन भासते । कुलं पुरुषसिंहेन चन्द्रेणेव हि शर्वरी ॥ ४ ॥ को धन्यो बहुभिः पुत्रैः कुशूलापूरणा- ढकैः । वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ ५ ॥ पुण्यतीर्थे कृतं येन तपः काप्यतिदुष्करम् । तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः ॥ ६ ॥ वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ ७ ॥ एकेनापि सुपुत्रेण सिङ्गी स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति रासभी ॥ ८ ॥ एकेनापि सुपुत्रेण जायमानेन सत्कुलम् । शशिना चैव गगन सर्वदैवोज्ज्वलीकृतम् ॥ ९ ॥ किं जातैर्बहुभिः पुत्रैः शोक- संतापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् ॥ १० ॥ कुम्भः परिमितमम्भः पिबत्यसौ कुम्भसंभवोऽ- म्भोधिम् । अतिरिच्यते सुजन्मा कश्चिज्जनक निजेन चरि- तेन ॥ ११ ॥ विद्याविहीना बहवोऽपि पुत्राः कल्पायुषः सन्तु पितुः किमेतैः । क्षयिष्णुना वापि कलावता वा तस्य प्रमोदः शशिनेव सिन्धोः ॥ १२ ॥ पात्रं न तापयति नैव मलं प्रसूते स्नेहं न संहरति नैव गुणान्क्षिणोति । द्रव्यावसानसमये चलता न धत्ते सत्पुत्र एष कुलसद्मनि कोऽपि दीपः ॥ १३ ॥
कुपुत्रनिन्दा
किं तेन जातु जातेन मातुर्यौवनहारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥ १ ॥ किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥ २ ॥ एकेन शुष्कवृक्षेण दह्य- मानेन वह्निना । दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥३॥ कोटरान्तःस्थितो वह्निस्तरुरेकमं दहेत्खलु । कुपुत्रस्तु कुले जातः स्वकुलं नाशयेत्तहो ॥ ४ ॥ अजातमृतमूर्खाणां वर- माद्यौ न चान्तिमः । सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥ ५ ॥ अजातमृतमूर्खेभ्यो मृताऽजातौ सुतौ वरम् । यतस्तावल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ६ ॥ यस्य पुत्रो न वै विद्वान्न शूरो न च धार्मिकः । अप्रकाशं कुलं तस्य नष्टचन्द्रेव शर्वरी ॥ ७ ॥ अविनीतः सुतो जातः कथं न दहनात्मकः । विनीतैस्तु सुतो जातः कथं न पुरुषो- त्तमः ॥ ८ ॥ दाने तपसि शौर्ये च यस्य न प्रथितं यशः । विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ ९ ॥ निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम् । मा स्म सीमन्तिनी काचि- ज्जनयेत्पुत्रमीदृशम् ॥ १० ॥ वरं गर्भस्रावो वरमृतुषु च नैवाभिगमनं वरं जातप्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर्न चाविद्वान् रूप- द्रविणगुणयुक्तोऽपि तनयः ॥ ११ ॥ पित्रोर्नैव वचः शृणोति दिवसत्यागे ब्रजत्यालयं यान्तीर्भियुवतीभिरध्वनि मुहुः कौतू- हलं विन्दति । बन्धूनामुपदेशवाचि वदति क्रोधैकतानं वचः साधून्निन्दति दुर्जनं च मनुते मित्रं कुपुत्रो जनः ॥ १२ ॥
दैवाख्यानम्
दैवमुल्लङ्घ्य यत्कार्यं क्रियते फलवन्न तत् । सरोम्भश्चा- तकेनात्तं गलरन्ध्रेण गच्छति ॥ १ ॥ भाग्यवंतं प्रसूयेथा मा शूरं मा च पण्डितम् । शूराश्च कृतविद्याश्च वने सीदन्ति पाण्डवाः ॥ २ ॥ न केवलं मनुष्येषु दैवं देवेष्वपि प्रभु । सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥ ३ ॥ सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चक्षुः पात्रं कज्जलभक्सनः ॥ ४ ॥ भगवन्तौ जगन्नेत्रे सूर्याचन्द्र- मसावपि । पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते ॥ ५ ॥ किं करोति नरः प्राज्ञः शूरो वाप्यथ पण्डितः । दैवं
पादटिप्पण्यः (Footnotes)
वामभागस्थटिप्पण्यः: १ लालनार्थमङ्कारूढशिशून् २ गजबन्धनस्तम्भ ३ प्रसरणशील्या ४ कार्यभारम् ५ पुरुषश्रेष्ठेन. ६ रात्रि ७ गर्दभी ८ अगस्त्य ९ अधिको भवति. १० आचरणेन ११ क्षयशीलेन १२ कलापूर्णेन १३ दीपपात्र, पक्षे, -मातापितरौ १४ कज्जलं, पक्षे,-मषीम् १५ अनुरागं, पक्षे,-तैलम् १६ कुलमेव सद्म गृह तस्मिन्
दक्षिणभागस्थटिप्पण्यः: १ कदाचित् २ यौवनलोपहेतुना. ३ दोहनशीला. ४ प्रकाशरहितम् ५ विनयसहितः; पक्षे,-अविना मेषेण नीतः अग्रेर्मेषो वाहनम् ६ अग्निरूपः ७ विनययुक्त, पक्षे,-विना पक्षिणा गरुडेन नीतः ८ पुरुषश्रेष्ठ ; पक्षे,-विष्णु. ९ मलविसर्जनम् १० दैवम्