भारतकोश
संग्रह पर लौटें

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ
४८सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

त्सुजना परोपकारैककरणदुर्ललिता । संतापितपिशुनेषु स्व-
गुणेष्वपि हन्त खिद्यन्ते ॥ ११३ ॥ गर्ददि न वर्षति गर्जति
वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न
वदति सुजनः करोत्येव ॥ ११४ ॥ यदमी दशन्ति दशना
रसना तत्स्वादमनुभवति । प्रकृतिरियं विमलानां क्लिश्यन्ति
यदन्यकार्येषु ॥ ११५ ॥ तदपकृतं विधिनाधिषु यल्लग्नं
स्वल्पसपदो विहिता । तुच्छे पयसि घनानां सीदति बत
जीवलोकोऽयम् ॥ ११६ ॥ अमृतं किरति हिमांशुर्विषमेव
फणी समुद्विरति । गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाश-
यति ॥ ११७ ॥ गुणिनामपि निजरूपप्रतिपत्तिः परतः एव
संभवति । स्वमहिमदर्शनमक्षणोर्मुकुरतले जायते यस्मात्
॥ ११८ ॥ उत्कर्षवाञ्छिजैर्गुणो यथा यथा याति कर्णमन्वस्य ।
धनुग्वि सुवंशजन्मा तथा तथा सज्जनी नमति ॥ ११९ ॥
दुर्जनवदनविनिर्गतवचनभुजंगेन सज्जनो दष्टः । तद्विषनाश-
निमित्तं साधुः संतोषमौषधं पिबति ॥ १२० ॥ कमठकुला-
चलदिग्गजफणिपतिविभृतापि चलति वसुधेयम् । प्रतिपन्न-
ममलममना न चलति पुंसा युगान्तेऽपि ॥ १२१ ॥ अन्तः
कटुरपि लघुरपि सङ्घत्तं यः पुमाञ् सत्यजति । स भवति
मद्यो वन्द्यः सर्पप इव सर्वलोकस्य ॥ १२२ ॥ अद्यापि
दुर्निवारं स्तुतिकन्या भजति कौमारम् । सभ्यो न रोचते
सा सन्तोऽप्यस्यै न रोचन्ते ॥ १२३ ॥ मूकः परापवादे
परदारनिरीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे स जयति
लोकत्रये पुरुषः ॥ १२४ ॥ पेशलमपि खलवचनं दहतिंतरा
मानसं सुतत्त्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसव-
त्प्रमोदयति ॥ १२५ ॥ भक्तिर्भवे न विभवे व्यसनं शास्त्रे
न युवतिकामान्ने । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते
महताम् ॥ १२६ ॥ उपरि करवालधाराकाराः क्रूरा भुजग-
मसदृक्षा । अन्तः साक्षान्द्राक्षाद्रीक्षागुरवो जयन्ति केऽपि
जनाः ॥ १२७ ॥ स्वस्थानादपि विचलति मज्जति जलधौ च
नीचमपि भजते । निजपक्षसंरक्षणमनाः सुजनो मैनाकशैल इव
॥ १२८ ॥ दुर्जनसहवासादपि शीलोत्कर्षं न सज्जनस्त्यजति ।
प्रतिपर्व तपनवासी निःसृतमात्रः शशी शीतः ॥ १२९ ॥
विप्रियमप्याकर्ण्य ब्रूते प्रियमेव सर्वदा सुजनः । क्षारं पिबति
पयोधेर्वर्षत्यम्भो धरो मधुरमम्भः ॥ १३० ॥ खलसख्यं
द्राङ्मधुरं नयोऽन्तराले निदाघदिनमन्ते । एकादिमध्यपरि-
णतिरमणीयां साधुजनमैत्री ॥ १३१ ॥ न विमोचयितुं शक्यः
क्षमा महान्मोचितो यदे कथंचित् । मन्दरगिरिरिव हि तलं
नियर्तते न तु स समवाप्य ॥ १३२ ॥ स्वाधीनैक समृद्धिजैर्नो-
पजीव्यत्वमुच्च्छ्रयश्छाया । मत्सृसो मरुभूरिव जीवनमात्रं समा-
शास्यम् ॥ १३३॥ सर्वस्य सर्वदापि स्पर्शनयोगेन तापमपनेतुम् ।
सुजनस्य व्यजनस्य च शक्तिमसगृह्तः पश्य ॥ १३४ ॥ कि
मधुना कि विधुना किं सुधया कि च वसुधयाखिलया । यदि
हृदयहारिचरित्त पुरुषः पुनरेति नयनयोरैयनम् ॥ १३५ ॥
ते वन्द्यास्ते कृतिनः श्लाघ्या तेषा हि जन्मनोत्पत्ति । यैरु-
ज्झितात्मकार्यैः सुहृदामर्था हि साध्यन्ते ॥ १३६ ॥ स्व-
ल्पापि साधुसङ्गोम्या महता न पृथ्व्यपि खलश्रीः । सारसमेव
पप्रम्तृषमपहगति न वारिवेर्जातु ॥ १३७ ॥ दोषो गुणाय
गुणिना महदपि दोषाय दोषिणा सुकृतम् । तृणमिव दुग्धाय
गवा दुग्धमिव विषाय सर्पाणाम् ॥ १३८ ॥ विषमगता
अपि न बुधा परिभवमिश्रां श्रियं हि वाञ्छन्ति । न पिबन्ति
भौममम्भः सरसममिति चातका एते ॥ १३९ ॥ योग्यतयैव
विनाशः प्रायोऽनार्येषु यान्ति गुणवन्तः । स्फुटवचना एव
शुकाः पञ्जरबन्धं निषेवन्ते ॥ १४० ॥ निर्गुणमप्यनुरक्तं
प्रायो न समाश्रितं जहाति सन्तः । सह वृद्धिक्षयभाजो वहति
शशाङ्कः कलङ्कमपि ॥ १४१ ॥ अन्त्यावस्थोऽपि बुधः स्वगुण
न जहाति जातिशुद्धतया । न श्वेतभावमुज्झति शङ्खः शिखि-
मुक्तमुक्तोऽपि ॥ १४२ ॥ साप्तपदीनं सख्यं भवेत्प्रकृत्या
विशुद्धचित्तानाम् । किमुतान्योन्यगुणकथाविसम्भनिबद्धभा-
गानाम् ॥ १४३ ॥ स्पृहणीयाः कस्य न ते सुमेतेः सरला-
शया महात्मानः । त्रयमपि येषा सदृशं हृदयं वचनं तथा-
चारः ॥ १४४ ॥ गुणिनः समीपवर्ती पूज्यो लोकस्य गुणवि-
हीनोऽपि । विमलेक्षणप्रमज्जादञ्जनमामोति काणाक्षि ॥ १४५ ॥
सहसिद्धमिदं महता धनेष्वनास्था गुणेषु कृपणत्वम् । पर-
दुःखे कातरता महच्च धैर्यं खलु खेषु ॥ १४६ ॥ उपकृति-
साहसिकतया क्षतिमपि गणयन्ति नो गुणिनः । जनयन्ति हि
प्रकाशं दीपशिखाः स्वाङ्गदाहेन ॥ १४७ ॥ उपकर्तुमप्रकाश
क्षन्तु न्यूनेष्वयाचितं दातुम् । अभिसधातु च गुणैः शतेषु
केचिद्विजानन्ति ॥ १४८ ॥ मा भूत्सज्जनयोगो यदि योगो
मा पुनः स्नेहः । स्नेहो यदि विरहो मा यदि विरहो जीविताशा
का ॥ १४९ ॥ अम्बरमनूरुलङ्घ्यं वसुंधरा सापि वामनैक-
पदा । अब्धिरपि पोर्तलङ्घ्यः सता मनः केन तुल्यं स्यात्
॥ १५० ॥ किमपेक्ष्य फल पयोधरान्च्छैनतः प्रार्थयते मृगा-
धिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसंमुन्नति


पादटिप्पण्यः :

१ शब्दरहितः. २ वर्षति ३ रज्जु, पक्षे,-विनयादि ४ कर्ण-
प्रदेशे, पक्षे,-श्रुतिगोचरताम् ५ वेणु, पक्षे,-कुलम्. ६ स्तुतिरेव
कन्या ७ कुमारिकात्वम् ८ कोमलम् ९ खड्गम् १० सदाऽविकृता

१ अमृतेन २ स्थानम् ३ खलेषु ४ अग्नि ५ लघुभिः, पक्ष्यादि-
कैरित्यर्थे ६ नौका ७ शब्दान्कुर्वतः . ८ स्वभाव ९ उत्कर्षम्.

सज्जनप्रशंसा | ४९


यया ॥ १५१ ॥ वचनैरसता महीयसो न खलु व्येति गुरुत्वमुद्धतैः । किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ १५२ ॥ प्रकटान्यपि नैपुण महत्तरैर्वाच्यानि चिराय गोपितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ १५३ ॥ किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः । वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥ १५४ ॥ विसृजन्त्यन्तैर्विविधिनः परे विषमाशीविषवन्नराः क्रुधम् । दधतोऽन्तरसाररूपतां धनिसाराः पटहा इवेतरे ॥ १५५ ॥ जितरोषतया महाधियः सपदि क्रोधजितो लघुर्जनः । विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥ १५६ ॥ इयमुन्नतसत्त्वशालिनां महतां कापि कठोरचित्तता । उपकृत्य भवन्ति दूरतः परत प्रत्युपकारशङ्कया ॥ १५७ ॥ सावलेपमुपलििप्सते परैरभ्युपैति विकृति रजस्यपि । अर्थितस्तु न महान्समीहते जीवितुं किमु धनं धनायितुम् ॥ १५८ ॥ आदिमध्यनिधनेषु मोहदं सज्जने भवति नेतरे जने । छेदतापनविघर्षताडनैर्हेन्येभावमुपयाति कौञ्चनम् ॥ १५९ ॥ चातकस्त्रिचतुरानप्य कणाम् याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ १६० ॥ दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः । क्षारमवमपनीय गृह्यते वारिधेः सलिलमेव वारिदाः ॥ १६१ ॥ सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकम् । अन्यदेहविलसत्परितापात्सज्जनो द्रवति नो नवनीतम् ॥ १६२ ॥ उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः । अहिते सहसापराध्लब्धे सघृणं यस्य मनः सतां स धुर्यः ॥ १६३ ॥ तुङ्गात्मना तुङ्गतराः समर्था मनोरथान्पूरयितुं न नीचाः । धाराधरा एव धराधराणां निदाघदाहं शमितुं न नद्यः ॥ १६४ ॥ प्रकाममभ्यस्यतु नाम विद्यां सौजन्यमभ्यासवशादलभ्यम् । कर्णौ सपत्न्यः प्रविशालयेयुर्विशालयेदक्षियुगं न कोऽपि ॥ १६५ ॥ सन्तोऽपि सन्तः क्व किरन्तु तेजः क्व न ज्वलन्तु क्व ननु प्रथन्ताम् । विधाय रुद्धा ननु वेधसैव ब्रह्माण्डकोषे घटदीपकल्पाः ॥ १६६ ॥ प्रसादमाधुर्यगुणोपपन्ना यद्वानौचित्यपरावरूक्षाणाम् । अर्थाः कवीनामिव सज्जनानां सर्वस्य सर्वावसरोपयोगाः ॥ १६७ ॥ वनेऽपि सिंहा मृगमांसभक्षिणो बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नीचकर्मणि समाचरन्ति ॥ १६८ ॥ अहो महत्त्वं महतामपूर्वं विपत्तिकालेऽपि परोपकारः । यथैतन्मध्ये पतितोऽपि राहोः कलानिधिः पुण्यचय ददाति ॥ १६९ ॥ पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति शस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥ १७० ॥ रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः ॥ १७१ ॥ श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः । यसार्थिनो वा शरणागता वा नाशाभिमङ्गाद्विमुखाः प्रयान्ति ॥ १७२ ॥ सन्तस्तृणोत्सारणर्मुत्तमाङ्गात्सुवर्णकोट्यर्पणमामनन्ति । प्राणव्यये वापि कृतोपकाराः खलाः परे वैरमिहोद्वहन्ति ॥ १७३ ॥ कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ १७४ ॥ क्षारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति । सन्तस्तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुद्विरन्ति ॥ १७५ ॥ अयं स्वभावः स्वत एव यत्परश्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेषः स्वयमर्ककर्कशप्रभाभितप्तामवति क्षितिं किल ॥ १७६ ॥ कर्णेजपानां वचनप्रपञ्चान्महात्मनः कापि न दूषयन्ति । भुजङ्गमानां गरलप्रसङ्गान्नापेयतां यान्ति महासरांसि ॥ १७७ ॥ अपानिधिं वारिभिरर्चयन्ति दीपेन सूर्यं प्रतिबोधयन्ति । ताभ्यां तयोः किं परिपूर्णता स्याद्भक्त्या हि तुष्यन्ति महानुभावाः ॥ १७८ ॥ दानाय लक्ष्मीः सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय । परोपकाराय वचांसि यस्य वन्द्यस्त्रिलोकीतिलकः स एकः ॥ १७९ ॥ न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः । द्वेष्यैव केषामपि चन्द्रखण्डविपाण्डुरा पुण्ड्रकशर्करापि ॥ १८० ॥ दीपाः स्थितं वस्तु विभावयन्ति कुलप्रदीपास्तु भवन्ति केचित् । चिरव्यतीतानपि पूर्वजान् ये प्रकाशयन्ति स्वगुणप्रकर्षात् ॥ १८१ ॥ व्रते विवादं विमतिं विवेके सत्येऽतिशङ्कां विनये विकारम् । गुणेऽवमानं कुशले निषेधं धर्मे विरोधं न करोति साधुः ॥ १८२ ॥ वन्द्यः स पुंसां त्रिदशाभिनन्द्यः कारुण्यपुण्योपचयक्रियाभिः । संसारसारत्वमुपैति यस्य परोपकाराभरणं शरीरम् ॥ १८३ ॥ किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम् । स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम् ॥ १८४ ॥ चिराय सत्संगमशुद्धमानसो न यात्यसत्संगतमात्मवान्नरः । मनोहरेन्दीवरखण्डगोचरो न जातु भृङ्गः कुणपे निलीयते ॥ १८५ ॥ इदं हि माहात्म्य-


पादटिप्पणी (Footnotes):

वाम भाग:
१ निष्ठुरै २ भौमै ३ छन्नस्य ४ कौशलम् ५ परदूषणानि
६ वक्ता ७ अनात्मश्लाघिनः ८ क्रूरसर्पवत् ९ अभ्यन्तरे १० विकृतिम्
११ सुवर्णम् १२ शमयितुम् १३ सकटव्याप्ता १४ अलौकिकम्
७ सु. र भा.

दक्षिण भाग:
१ मुखमध्ये २ वृद्धिम् ३ धान्यम् ४ मेघा ५ ऐश्वर्याणि
६ शिरस ७ त्रिलोक्या तिलको भूषणभूतः ८ इक्षुकरै.. ९ मृतदेहे-

५० सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्


विशेषसूचकं वदन्ति चिह्नं महता मनीषिणः । मनो य-
देषा सुखदुःखसंभवे प्रयाति नो हर्षविषादवश्यताम् ॥ १८६ ॥
सुभाषितैः प्रीतिरनुन्नतिः श्रिया परार्थनिष्पत्तिपटीयसी क्रिया ।
गुणेष्वतृप्तिर्गुणवत्सु चादरो निगूढमेतच्चरितं महात्मनाम्
॥ १८७ ॥ विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता
युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं
हि महात्मनाम् ॥ १८८ ॥ अविरतं परकार्यकृता सता
मधुरिमातिशयेन वचोमृतम् । अपि च मानसम्भुनिधिर्यशो
विमलशारदपार्वणचन्द्रिका ॥ १८९ ॥ यदि दहत्यनलोऽत्र
किमुद्भुतं यदि च गौरयमद्रिषु किं ततः । लवणमम्बु सदैव
महोदधेः प्रकृतिरेव सतामविषादिता ॥ १९० ॥ आपद्गतः
खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागुरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटी-
करोति ॥ १९१ ॥ यः प्रीणयेत्सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च
समक्रियं यदेतत्त्रयं जगति पुण्यकृतो लभन्ते ॥ १९२ ॥
प्रेमैव मास्तु यदि चेत्पंथिकेन सार्थं तेनापि चेद्भवता न
संमं कदाचित् । तेनापि चेद्भवतु मास्तु कदापि
भङ्गो भङ्गोऽपि चेद्भवतु वश्यमवश्यमायुः ॥ १९३ ॥
चन्द्रः क्षयी प्रकृतिवक्रतनुर्जडात्मा दोषांकरः स्फुरति
मित्रविपत्तिकाले । मूर्ध्ना तथापि विधृतः परमेश्वरेण नैवा-
श्रितेषु महता गुणदोषशङ्का ॥ १९४ ॥ दोषाकरोऽपि
कुटिलोऽपि कलङ्कितोऽपि मित्रौर्वैसानसमये विहितोदयोऽपि ।
चन्द्रस्तथापि हरैर्वल्लभतामुपैति नैवाश्रितेषु महता गुणदोष-
शङ्का ॥ १९५ ॥ लज्जागुणौघजननीं जननीमिव स्वाम-
त्यन्तशुद्धहृदयामनुवर्तमानम् । तेजस्विनः सुखमसूनपि
संत्यजन्ति सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १९६ ॥
सत्पुरुष खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त
एव । आराधितः कथय केन करेरुदारैरिन्दुर्विकासयति
कैरविणीकुलानि ॥ १९७ ॥ दाता न दापयति दापयिता
न दत्ते यो दानदापनपरो मधुरं न वक्ति । दानं च दाप-
नमथो मधुरा च वाणी त्रीण्यप्यमूनि खलु सत्पुरुषे वस-
न्ति ॥ १९८ ॥ केनाञ्जितानि नयनानि मृगाञ्जनाना को
वा करोति रुचिराङ्गरुहान् मयूरान् । कश्चोत्पलेषु दलसंनिचयं
करोति को वा करोति विनयं कुलजेषु पुंसु ॥ १९९ ॥
अद्यापि नोञ्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं
खलु पृष्ठभागे । अम्भोनिधिर्वहति दुर्वहवाडवाग्निमङ्गीकृतं
सुकृतिन परिपालयन्ति ॥ २०० ॥ विश्वाभिरामगुणगौरव-
गुम्फिताना रोषोऽपि निर्मलधिया रमणीय एव । लोकप्रियैः
परिमलैः परिपूरितस्य कॉश्मीरजस्य कटुतापि नितान्त-
रम्या ॥ २०१ ॥ किं जन्मना च महता पितृपौरुषेण शक्त्या
हि याति निजया पुरुषः प्रतिष्ठाम् । कुम्भा न कूपमपि
शोषयितु समर्थाः कुम्भोद्भवेन मुनिनाम्बुधिरेव पीतः ॥ २०२॥
आरभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता
विरमन्ति मध्याः । विघ्नैः पुनःपुनरपि प्रतिहन्यमानाः प्रार-
ब्धमुत्तमजना न परित्यजन्ति ॥ २०३ ॥ सौजन्यधन्य-
जऩुषः पुरुषाः परेषा दोषानपास्य गुणमेव गवेषयन्ति ।
त्यक्त्वा भुजगमविषाणि पटीरगर्भात्सौरभ्यमेव पवनाः परि-
शीलयन्ति ॥ २०४ ॥ आक्रोक्षितोऽपि सुजनो न वदत्य-
वाच्यं निष्पीडितो मधुरमुद्वमतीक्षुदण्डः । नीचो जनो
गुणशतैरपि सेव्यमानो हास्येन तद्वदति यत्कलहेऽप्यवा-
च्यम् ॥ २०५ ॥ यद्वञ्चनाहितमतिर्बहुचाटुगर्भं कार्योन्मुखः
खलजनः कृतक ब्रवीति । तत्साधवो न न विदन्ति विदन्ति
किं तु कर्तु वृथा प्रणयमस्य न पारयन्ति ॥ २०६ ॥ सद्गं-
शजस्य परितारपुनर्द्वः सुवृत्तशुद्धात्मनः सकललोकविभूषणस्य ।
छिद्र प्रजायतमि साधुजनस्य देवान्मुक्तामणेरिव गुणाय भव-
त्यवश्यम् ॥ २०७ ॥ न्यायः खलैः परिहृतश्चलितश्च धर्मः कालः
कलिः कलुष एव परं प्रवृत्तः । प्रायेण दुर्जनजन प्रभविष्णु-
रेव निष्क्रकिक. परिभवास्पदमेव साधुः ॥ २०८ ॥ सत्यं गुणा
गुणवता विधिवैपरीत्याद्यद्युपार्जिता अपि कलौ विफला
भवन्ति । साफल्यमस्ति सुतरामिदमेव तेषा यत्तापयन्ति
हृदयानि पुनः खलानाम् ॥ २०९ ॥ पापं समाचरति वीतघृणो
जघन्यः प्राप्यापदं सघृण एव तु मध्यबुद्धिः । प्राणान्त्येऽपि
न तु साधुजन. सुवृत्त वेला समुद्र इव लङ्घयितुं समर्थः
॥ २१० ॥ शुद्धः स एव कुलजश्च स एव धीरः श्लाघ्यो
विपत्स्वपि न मुञ्चति यः स्वभावम् । तप्तं यथा दिनकरस्य
मरीचिजालैर्देहं त्यजेदपि हिमं न तु शीतलत्वम् ॥ २११ ॥
याञ्चापदं मरणदुःखमिवाऽनुभाव्य दत्तेन किं खलु भवत्यति-
भूयसापि । कल्पद्रुमान्परिहसन्त इवेह सन्तः सकल्पितैर-
तिददत्यकँदर्थितं यत् ॥ २१२ ॥ ते साधवो भुवनमण्डल-
मौलिभूता ये साधुता निरुपकारिषु दर्शयन्ति । आत्मप्रयो-


पादटिप्पण्यः (Footnotes):

१ उदयकाले
२ वक्तृत्वशक्ति
३ शास्त्रे
४ स्वभावसिद्धम्
५ पान्थेन सार्धं मास्तु
६ सह
७ विघात
८ प्रकृत्या स्वभावेन वक्रा तनुर्यस्य
९ जडस्वभाव , पक्षे,-डलयो सावर्ण्योज्जलात्मा जलरूप
१० दोषा रात्रिं करोतीति दोषाकरश्चन्द्र , पक्षे,-दोषाणामाकर खनिरिति यावत्.
११ मित्र सूर्यस्तस्य विपत्तिकालोऽस्तकालस्तस्मिन्, पक्षे,-मित्र सुहृत्तद्विपत्तिकाल
१२ सदाशिवेन, पक्षे,-केनचित्स्वामिना
१३ सूर्यास्तसमये, पक्षे,-मित्रव्यसनकाले
१४ शिवप्रियताम्

१ मनोहरलोम्न
२ न त्यजति
३ सुन्दर
४ कुङ्कुमस्य
५ अगस्त्येन
६ दोषशून्यम्

सज्जनप्रशंसा


जववशीकृतखिन्नदेहः पूर्वोपकारिषु खलोऽपि हि सानुकम्पः ॥ २१३ ॥ नान्तर्विचिन्तयति किंचिदपि प्रतीपमाकोपितोऽपि सुजनः पिशुनेन पापम् । अर्कद्विषोऽपि हि सुखे पतिताग्रभागास्तारापतेरमृतमेव करा. किरन्ति ॥२१४॥ हेतो कुतोऽप्यसदृशाः सुजना गरीयः कार्य निसर्गगुरव. स्फुटमारभन्ते । उत्थाय किं कलशतोऽपि न सिन्धुनाथमुद्वीचिमालमपिबद्भगवानगस्त्यः ॥ २१५ ॥ पात्रं पवित्रयति नैव गुणान्क्षिणोति स्नेहं न संहरति नापि मलं प्रसूते । दोषावसानरुचिरश्वलता न धत्ते सत्सङ्गमः सुकृतसद्मनि कोऽपि दीपः ॥ २१६ ॥ उदधिरवधिरुर्व्यास्तं हनूमांस्तेतार निरवधि गगन चेत्काण्डैकोशे विलीनम् । इति परिमितिमन्तो भान्ति सर्वेऽपि भावाः स तु निरवधिरेकः सज्ज नाना विवेकः ॥ २१७ ॥ नहि भवति वियोगः स्नेहविच्छेदहेतुर्जगति गुणनिधीना सज्जनाना कदाचित् । घनतिमिरनिवद्धो दूरसस्थोऽपि चन्द्रः किमु कुमुदवनाना प्रेमभङ्ग करोति ॥ २१८ ॥ धवलयति समग्र चन्द्रमा जीवलोक किमिति निजकलङ्क नात्मसस्थ प्रमाष्टिं । भवति विदितमेतत्प्रायशः सज्जनाना परहितनिरतानामादरो नात्मक कार्ये ॥ २१९ ॥ प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नालिकेरा नराणाम् । ददति जलमनल्पास्वादमाजीवितान्तं नहि कृतमुपकार साधवो विस्मरन्ति ॥ २२० ॥ मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभि प्रीणयन्तः । परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्त. ॥ २२१ ॥ उदयति यदि भानु पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीतता याति वह्निः । विकसति यदि पद्म पर्वताग्रे शिलाया न भवति पुनरुक्त भाषित सज्जनानाम् ॥ २२२ ॥ व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः सुकृतविलसिताना स्थानमूर्जस्वलानाम् । अकलितमहिमानः केतनं मङ्गलाना कथमपि भुवनेऽस्मिंस्तादृशाः सम्भवन्ति ॥ २२३ ॥ वपुरविहितसिद्धा एव लक्ष्मीविलासा. प्रतिजनकमनीय कान्तिमुत्केतयन्ति । अमलिनमिव रत्नं रश्मयस्ते मनोज्ञा विकसितमिव पद्म बिन्दवो माकरन्दा. ॥ २२४ ॥ अपि विभवविहीनः प्रच्युतो वा स्वदेशान्नहि खलजनसेवा प्रार्थयत्युन्नतात्मा । तनु तृणमुपभुङ्क्ते न क्षुधार्तोऽपि सिंह. पिबति रुधिरमुष्णं प्रायशः कुञ्जराणाम् ॥ २२५ ॥ वहति भुवनश्रेणी शेष. फणाफलकस्थिता कमठपतिना मध्येपृष्ठ सदा स च धार्यते । तमपि कुरुते क्रोडाधीन पयोनिधिरादरादहह महता निःसीमानश्चरित्रभूतयः ॥ २२६ ॥ अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणा शिशुरपि रुषा सिहीसूनू. समाह्वयते गजान् । तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वन प्रकृतिमहता जात्यं तेजो न मूर्तिमपेक्षते ॥ २२७ ॥ सुखलवदशा हर्षक्लैब्ये खल. खलु खेलते स्खलति भजते लेशक्लेशै विषादविषूचिकाम् । भवति न सता दर्पोद्दामान दैन्यमयी मतिर्दुर्भभवता गम्भीराणा सुखेष्वसुखेषु च ॥ २२८ ॥ घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् । दग्धं दग्धं पुनरपि पुन. काञ्चनं कान्तवर्णं न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम् ॥ २२९ ॥ केनादित्यो कमलकुमुदोन्मीलने पुष्पवन्तौ विश्वं तोयैः स्रपयितुमसौ केन वा वारिवाह. । विश्वानन्दोपचयचतुरो दुर्जनाना दुरापः श्लाघ्यो लोके जयति महतामुज्ज्वलोऽयं निसर्ग ॥ २३० ॥ कस्यादेशात्क्षपयति तम. सप्तसप्तिः प्रजाना छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः । अभ्यर्थ्यन्ते जललवमुच. केन वा वृष्टिहेतोर्जात्यैवैते परहितविधौ साधवो बद्धकक्षाः ॥ २३१ ॥ यैर्वाकूलो भवति पुरत. कथ्यमानैर्जनाना कामप्यन्तर्विदधति रुज येऽप्यनुद्रीयमाणा. । तेऽभिप्रायः किमपि हृदये कण्ठलग्नाः स्फुरन्तो यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ॥ २३२ ॥ उदन्वच्छन्ना भूः स च निधिरपा योजनशत सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रासुकुलिता. सता प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ २३३ ॥ यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणीकपोले व्यासङ्ग कुचकलशमस्याः कलयति । ततः श्रोणीबिम्ब व्यवसितविलास तदुचित स्वभावस्वच्छाना विपदपि सुखं नान्तरयति ॥ २३४ ॥ यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपामुपधिस्तत्राय जयति जनिकर्तु. प्रकृतिता । अयं कः सबन्धो यदनुहरते तस्य कुमुद विशुद्धाः शुद्धाना ध्रुवमनभिसन्धिप्रणयिनः ॥ २३५ ॥ गुणायन्ते दोषा सुजनवदने दुर्जनमुखे गुणा दोषायन्ते तदिदमपि नो विस्मयपदम् । महामेघः क्षारं पिबति कुरुते वारि मधुरं फणी क्षीरं पीत्वा वमति गरल दुःसहतरम् ॥ २३६ ॥ प्रियैप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचय. । पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामैनुपधि विशुद्धं विजयते ॥ २३७॥ असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो न सङ्गाद्दौर्जन्य न हि सुजनता


पादटिप्पण्यः (वामभागः)पादटिप्पण्यः (दक्षिणभागः)
१ मर्यादा१ सूर्य
२ तीर्णवान्२ आश्चर्यविषयम्
३ ब्रह्माण्डकोशे३ सर्प,
४ गाढान्धकार४ आनन्दामिका-
५ नाशयतीत्यर्थ५ कापट्यरहितम्
६ अमृततुल्यम्
७ अमृतम्
८ पङ्किभि
५२सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

कस्यचिदपि । प्ररूढे ^१संसर्गे मणिभुजगयोर्जन्मजनिते
मर्णिनेर्होदोषान्स्पृशति न तु सर्पो मणिगुणान् ॥ २३८ ॥
न साधु कुत्रापि व्रजति खलु दोषं न गुणता खलानां संस-
^२सर्गैरपि कृतनिवासोऽपि निपुण । यथा पङ्किथ्वैलैरपिहित-
तनुश्चन्दनतरुर्न वैकृत्यं याति क्षपयति च तापं सुमनसाम्
॥ २३९ ॥ करे श्लाघ्यस्त्याग शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यैमतुलम् । हृदि स्वस्था
वृत्ति. श्रुतमधिगतैकव्रतफल विनाप्यैश्वर्येण प्रकृतिमहता
^५मण्डनमिदम् ॥ २४० ॥ अचिन्त्या. पन्थान किमपि मह-
^६तामन्धकारिपोर्यद्दक्षणोऽभूत्तेजस्र्दकृत कँथामप्यमदनाम् ।
मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरृहह प्रतेने तेनेद मदनमय-
मेव त्रिभुवनम् ॥ २४१ ॥ इहानके सन्तः सततमुपकारि-
ण्युपकृतिं कृतज्ञा. कुर्वन्तो जगति निवसन्तोऽपि सुधियः ।
कियन्तस्ते सन्त सुकृतपरिपाकप्रणयिनो विना स्वार्थै येषा
भवति परकृत्यव्यमनिता ॥ २४२ ॥ अभेदेनोपास्ते कुमुद-
मुदरे वा स्थितवतो विपक्षदम्मोजादुपगतवतो वा मधुलिह ।
अपर्याप्तः कोऽपि स्वपरपरिचर्यापरिचयप्रबन्ध साधूनाम-
यमनभिसधानमधुर. ॥ २४३ ॥ तृषार्तै मारंगै. प्रति
जलधर भूरि विरूत घनैर्मुक्ता धारा सपदि पयसस्तान्प्रति
मुहुः । खगाना के मेघा. क इह विहगा वा जलमुचाम-
याच्यो नार्तानामनुपकरणीयो न महताम् ॥ २४४ ॥ शिला
बाला जाता चरणरजमा यत्कुलशिरो. स एवाय सूर्य
सपदि निजपादर्गरिशिलाम् । स्पृशन्भूयो भूयो न खलु
कुरुते कामपि वधू कुले कश्चिद्धन्यः प्रभवति नर. श्लाघ्य-
महिमा ॥ २४५ ॥ परार्थव्यासङ्गादुपजहदपि स्वार्थपरताम-
भेदैकत्व यो वहति गुरु भूतेषु सततम् । स्वभावादक्षान्तः
स्फुरति ललितोदात्तमहिमा समर्थो यो नित्य स जयतितर.
कोऽपि पुरुषः ॥ २४६ ॥ तमासि ध्वसन्ते परिणमति
भूयानुपशय. सकृत्सवादेऽपि प्रथत इह चामुत्र च शुभम् ।
अथ प्रत्यासङ्गः कमपि महिमान वितरति प्रसन्नाना वाचः
फलमपरिमेय प्रस्रुवते ॥ २४७ ॥ प्रिया न्याय्या वृर्त्तिर्म-
लिनँमैैमँहैऽप्यसुकरं त्वसन्तो नभ्यर्थ्या सुहृदपि न
याच्यः कृर्शैधनः । विपद्युञ्चै. स्थेयं पैदर्मेनुविधेय च महता
सता केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ २४८ ॥


प्रदानं प्रैच्छन्नं र्गृहमुपगते सभ्रमविधिः प्रियं कृत्वा मौनं
सदसि कथन नाप्युपकृतेः । अँनुत्सेको लक्ष्म्या निर्रभिभव-
सारा. परकथा. सता केनोद्दिष्ट विषममसिधाराव्रतमिदम्
॥ २४९ ॥ विजेतव्या लङ्का चरणतरणीयो जलनिधिर्वि-
पक्ष पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः
सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महता
नोपकरणे ॥ २५० ॥ रथस्यैक चक्रं भुजगयमिता. सप्त
तुरगा निरालम्बो मार्गश्चरणरहितः सारथिरपि । रविर्गच्छ-
त्यन्त प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्त्वे वसति
महता नोपकरणे ॥ २५१ ॥ धनुः पौष्पं मौर्वी मधुकरमयी
चञ्चलदृशा दृशा कोणो बाण सुहृदपि जैडोत्मा हिमकर. ।
तथायैकोऽनङ्गरित्रभुवमपि व्याकुलयति क्रियासिद्धिः सत्त्वे
वसति महता नोपकरणे ॥ २५२ ॥ विपक्षः श्रीकण्ठो
जडतनुरमाल्य शशधरो वसन्तः मामन्त कुसुमधनुषः
सैन्यमवला. । तथापि त्रैलोक्य जयति मदनो देहेर्रहितः
क्रियासिद्धि सत्त्वे वसति महता नोपकरणे ॥ २५३ ॥ घटो
जैन्मस्थानं मृगैपरिजनेो भूर्जवसनो वने वासः कन्दाशनमपि
च दु.स्थ वपुरिदम् । तथाप्येकोऽगस्त्यः सकलमपिबद्वारि-
धिजल क्रियासिद्धि. सत्त्वे वसति महता नोपकरणे ॥ २५४ ॥
जयन्ति जितमत्सरा. परहितार्थमभ्युद्यता. पराभ्युदयसुस्थि-
ता. परविपत्तिखेदाँकॅला । महापुरुपसतकथाश्रवणजातकौतू-
हल्य समस्तदुरितार्तिवप्रकटसेतव साधव ॥ २५५ ॥
ये जाते व्यॅमने निरौंकुलधिय. सम्पत्सु नाभ्युन्नता. त्रासे
नैव पराङ्मुखा. प्रणयिनि प्राणोपयोगैरपि । ^२२ह्रीैमन्त. स्वगुण-
प्रकाशनविधावन्यस्तुतौ पण्डितास्ते भूमण्डलण्डनैक-
तिलका. सन्त. कियन्तो जना ॥ २५६ ॥ क्षुैद्राः सन्ति
सहस्रशः स्वभरणव्यापारमात्रोद्यता. स्वार्थो यस्य पदार्थ एव
स पुमानेकः सतामग्रैणीः । दुष्पूरोदरपूरणाय पिबति ^२*स्रोत.-
पति र्वाँडवो जीमूतँस्तु निर्दोधतापिजगत्सतापविच्छि-
त्तये ॥ २५७ ॥ मज्जन्तोऽपि विपैत्पयोधिशहने निःशङ्क-
धैर्यावृता. कुर्वन्त्येव परोपकारमनिश सन्तो यथाशक्ति वै ।
राहोरूग्रकैरावलव्रकुहरग्रासाभिभूतोऽप्यल चन्द्रः कि न


पादटिप्पण्यः

१ सबन्धे २ सर्पस्य ३ दानम् ४ निस्तुलम् ५ भूषणम्.
६ शंकरस्य ७ अकरोत् ८ वार्तावशिष्टो मदनो यसिंस्तत्तथाविधम्.
९ न्यायानुसारिणी १० वर्तनम् ११ पातकम् १२ प्राणव्यये
१३ न याचितव्या १४ क्षीणधन १५ अनुसर्तव्यम्
१६ उपदिष्टम्. अतिकठिनम् १८ ख धाराताण्डवरूपम्.

१ गुप्तम् २ अतिथौ ३ अनुद्घाटनम् ४ उपकारस्य ५ गर्वाभावः.
६ निन्दा ७ रावण ८ कार्यसिद्धि ९ सामथ्य् म् १० अनूरु
११ पुष्पमयम् १२ ज्या १३ अमररूपा १४ बुद्धिरहित
पक्षे,-डल्यो सावर्ण् यात् जलात्मा जलरूप १५ अनङ्ग
१६ उत्पत्तिस्थानम् १७ मृगा एव परिजन १८ समुद्रम्.
१९ व्यग्रचित्ता २० संकटे २१ अव्याकुलचित्ता २२ लज्जावन्त .
२३ नीचा २४ अग्रेसर २५ समुद्रम् २६ वाडवाग्नि २७ मेघ.
२८ ग्रीष्म २९ विपदेव विपदां वा पयोधि समुद्र ३० भयकरम्.

सज्जनप्रशंसा | ५३

जन करोति सुखिनं आसावशेषैः करैः^१ ॥ २५८ ॥ वाञ्छा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता विद्याया व्यसनं स्वंयोषिति^२ रतिर्लोकापवादाद्भयम् । भक्ति शूलिनि^३ शक्तिरात्मदमने संसर्गमुक्ति खलेष्वेते येषु वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ २५९ ॥ दृश्यन्ते भुवि भूरि निम्बतरव. कुत्रापि ते चन्दना. पाषाणै. परिपूरता वसुमती वंज्रो^५ मणिर्दुर्लभः । श्रूयन्ते करटारवाश्च^६ सतत चैत्रे कुँहूकूजित^७ तन्मन्ये खलसंकुल जगदिद द्विंत्राः क्षितौ सज्जना. ॥ २६० ॥ घर्मातं न तथा सुशीतलजलै. स्नान न मुक्तावलिर्न श्रीखण्डविलेपन सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्ये सज्जनभाषित प्रभवति प्रायो यथा चेतस. सद्युक्त्या च पुरस्कृत सुकृतिनामाकृथिमंप्रोपमम्^४ ॥ २६१ ॥ धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता मित्रेऽवञ्चकता गुरौ विनयिता चित्तेऽतिगम्भीरता । आचारे शुचिता गुणे रसिकता शास्त्रेऽतिविज्ञानिता रूपे सुन्दरता हरौ भजनिता सत्स्वेव संदृश्यते ॥ २६२ ॥ सौजन्यामृतसिन्धवः^९ परहितप्रारब्धवीरव्रता वाचाला. परवर्णने निजगुणालापे च मौनव्रता. । औपक्तव्यविलुप्तधैर्यनिचयाः^१० सपत्खेन्नुत्सेकिनो^११ मा भूवन्खलवक्रनिर्गतविषज्वालातताः सज्जनाः ॥ २६३ ॥ ये दीनेषु दयालव. स्पृशति यानल्पोऽपि न श्रीमदो व्यग्रा ये च परोपकारकरणे हृष्यन्ति^१२ ये याचिताः । स्वस्थाः सन्ति च यौववोन्मदमहाव्याधिप्रकोपेऽपि ये तैः स्तम्भैरिव सुस्थितैः कलिभरक्रान्ता धरै^१३ धार्यते ॥ २६४ ॥ क्षारो वारिनिधि कलङ्ककलुषश्चन्द्रो रविस्तापकृत्पर्जन्यश्चैपलाश्रयो^१४ऽभ्रपटलाद्दृश्यः सुवर्णाचलः । शून्य व्योम रँसो^१५ द्विजिह्वविधृता स्वर्धामधेनु. पशुः काष्ठ कल्पतरुर्बृहत्सुरमणिस्तत्केन साम्य सताम् ॥ २६५ ॥ कस्मादिन्दुरसौ धिनोति जगती पीयूषगर्भैः करै. कस्माद्वा जलधारयैव धरणि धाराधर. सिञ्चति । आम आममय च नन्दयति वा कस्मात्त्रिलोकी रविः साधूना हि परोपकारकरणे नोपाध्यपेक्ष मनः ॥ २६६ ॥ अद्वैत सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः । कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थित भद्रं तस्य सुमानुषस्य कथमप्येक हि तत्प्रार्थ्यते ॥ २६७ ॥ गर्व नोद्वहते न निन्दति परान्नो भाषते निष्ठुर प्रोक्त केनचिदप्रियं च सहते क्रोवं च नालम्बते । श्रुत्वा काव्यमलक्षण परकृतं सत्तिष्ठते मूकवद्दोषाञ्छादयते स्वय न कुरुते ह्येतत्सता लक्षणम् ॥ २६८ ॥ कि कूर्मस्य भरव्यथा न वपुषि क्ष्मा न क्षिपत्येष यत्कि वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चल. । कि चाङ्गीकृतमुत्सृजन्ति मनसा श्लाघ्यो जनो लज्जते निर्वाह. प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम् ॥ २६९ ॥ सेतूपक्रमकौतुकाहृतगिरिप्रक्षेपवेगोच्छलन्निःशेषाम्बुपरिस्फुटोदरदरीगम्भीरिमा सागरः । चक्रे गोष्पदवद्विलङ्घितवतोऽप्यन्तर्भय मारुतेः पूर्णत्वादतिरिच्यते हि महतस्तुच्छस्य दुर्लङ्घ्यता ॥ २७० ॥ शूरा सन्ति सहस्रश. प्रतिपद विद्याविदोऽनेकण सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः । ये कर्मण्यनिरीक्ष्य वान्यमनुज दुःखार्दितं यन्मनस्ताद्रूप्य प्रतिपद्यते जगति ते सत्पुरुषाः पञ्चषाः ॥ २७१ ॥ ख्याति यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुत. कि कुर्याद्वहुशिक्षितोऽपि पुरुषः पाषाणभूते जने । प्रेमारूढविलासिनीमदवशाव्यावृत्तकण्ठस्खन. सीत्कारो हि मनोहोऽपि बधिरे कि नाम कुर्याद्गुणम् ॥ २७२ ॥ तृष्णा छिन्धि भज क्षमा जहि मदं पापे रति मा कृथाः सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनान् । मान्यान्मानय विद्विषोऽप्यनुनय ह्याच्छादय स्वान्गुणान्कीर्तिं पालय दुःखिते कुरु दयामेतत्सता लक्षणम् ॥ २७३ ॥ क्षाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता पत्रे सवृत्तता श्रुते सुमतिता वित्तोदये त्यागिता । साधौ सादरता खले विमुखता पापे पर भीरुता दुःखे क्लेशसहिष्णुता च महता कल्याणमाकाङ्क्षति ॥ २७४ ॥ गेह दुर्गतबन्धुभिर्गुरुगृह छात्रैहकारिभिर्हष्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमन् । सिहाद्यैश्च वन खलैनृपसभा चौरैर्दिगन्तानपि संकीर्णान्यवलोक्य सत्यसरल साधुः क विश्राम्यति ॥ २७५ ॥ दीनाना कल्पवृक्षः सुगुणफलनतः सज्जनाना कुटुम्बी ह्यादर्श. शिक्षिताना सुचरितनिकषः शीलवेलासमुद्रः । सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्त्वो ह्येकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छ्वसन्तीव चान्ये ॥ २७६ ॥ नम्रत्वेनोन्नमन्त. परगुणकथनैनैः स्वान्गुणान्ख्यापयन्त.^१ स्वार्थान्सम्पादयन्तो विततबहुतरारम्भयत्नाः परार्थे । क्षान्त्यैवाक्षेप रूक्षाक्षरमुखरमुखान्दुर्मुखान्दुःखयन्तः सन्तः साश्चर्यचर्या जगति बहुनताः कस्य नाभ्यर्थनीया. ॥ २७७ ॥ वक्रे वेल्गाप्रकर्षः^२ समरभुवि^३ तव प्राणरक्षापि दैवात्स्वेच्छाचारो न चास्ते नहि भवति तथा भारवाहो नितान्तम् । इत्युक्तोऽश्व. खरेण प्रहसितवदनो मूक एवावतस्थे तस्माज्जात्या महान्तोऽधमजनविषये मौनमेवाश्रयन्ते ॥ २७८ ॥


पादटिप्पणी:

१ किरणै २ स्वस्त्रियाम् ३ शकरे ४ मनोज्ञे ५ हीरकमणि ६ काकशब्दा ७ कोकिलशब्दा ८ मुक्तासर ९ सुजनतामृतसमुद्रा १० विपत्तिकालेषु ११ गर्वरहिता १२ हर्षयुक्ता भवन्ति १३ पृथिवी १४ विद्युत् १५ पृथ्वी

१ प्रकटयन्त २ मुखबन्धन(लगाम)सौष्ठवम् ३ सङ्ग्रामाङ्गणे

५४ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्


दुर्जननिन्दा

खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ १ ॥

न विना परवादेन रमते दुर्जनो जनः । काकः सर्वरसान्मुक्त्वा विनामेध्यं न तृप्यति ॥ २ ॥

विशिखैर्व्यालयोरन्त्यवर्णाभ्यां यो विनिर्मितः । परस्य हरति प्राणान्नॆतच्चित्रं कुलोचितम् ॥ ३ ॥

विषमा मलिनात्मानो द्विजिह्वा जिह्मगा इव । जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥ ४ ॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ५ ॥

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ ६ ॥

अपूर्वः कोऽपि कोशाग्निः सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहादूर्ध्वतेऽन्यस्य वारितः ॥ ७ ॥

अर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः । कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥ ८ ॥

क्वचित्सर्पोऽपि मित्रत्वमियान्नैव खलः क्वचित् । न शेषशायिनोऽप्यस्य वशे दुर्योधनो हरेः ॥ ९ ॥

उपकारोऽपि नीचानामपकारो हि जायते । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ १० ॥

अलक्ताश्च खलाश्चैव मूर्धभिः सुजनैर्धृताः । उपर्युपरि सस्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥ ११ ॥

खलानां धनुषां चापि सङ्घर्शैर्जनुषामपि । गुणलाभो भवेदाशु परहृद्भेदकारकः ॥ १२ ॥

बहुँर्निष्कपटद्रोही बहुँर्धान्योपघातकः । रन्ध्रान्वेषी च सर्वत्र दूषको मूषको यथा ॥ १३ ॥

नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी । परप्रतारणायैव दारुणा केन निर्मिता ॥ १४ ॥

यस्मिन्वंशे समुत्पन्नस्तमेव निजचेष्टितैः । दूषयत्यचिरेणैव घुंर्णकीट इवाधमः ॥ १५ ॥

स्वभावकठिनस्यास्य कृत्रिमां बिभ्रतो नतिम् । गुणोऽपि परहिंसायै चापस्य च खलस्य च ॥ १६ ॥

अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात् । पतिता अपि नेक्ष्यन्ते गुणास्तोयकणा इव ॥ १७ ॥

वर्जनीयो मतिमता दुर्जनः सख्यवैरयोः । श्वा भवत्युपकाराय लिहन्नपि दशन्नपि ॥ १८ ॥

वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते । कथं खलु समो न स्यात्पुच्छेन पिशुनः शुनः ॥ १९ ॥

स्नेहेन भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः । दर्पणश्चान्तिकं तिष्ठन्करोत्येकमपि द्विधा ॥ २० ॥

आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य च । सोढुं तयोर्मुखाक्षेपमलमेकैव सा क्षमा ॥ २१ ॥

यथा यथैव स्नेहेन भूयिष्ठमुपचर्यते । धत्ते तथा तथा तापं महावैश्वानरः खलः ॥ २२ ॥

स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो नु सदृशी वृत्तिस्तूलाकोटेः खलस्य च ॥ २३ ॥

दुर्जनः कृतशिक्षोऽपि सज्जनो नैव जायते । अपि गङ्गाजलस्नानान्नाधःकेशः कुशायते ॥ २४ ॥

दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ २५ ॥

खलः सक्रियमाणोऽपि ददाति कलहं सताम् । दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ॥ २६ ॥

दुर्जनस्य विशिष्टस्य परोपद्रवकारणम् । व्याघ्रस्य चोपवासेन पारणं पशुमारणम् ॥ २७ ॥

सत्यज्य शूर्पवद्देषान्गुणानगृह्णाति पण्डितः । दोषग्राही गुणत्यागी पेलोलीव हि दुर्जनः ॥ २८ ॥

खलो न साधुता याति सद्भिः सबोधितोऽपि सन् । सरित्पूरप्रपूर्णोऽपि क्षारो न मधुरोदधिः ॥ २९ ॥

सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ३० ॥

अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेतदसाधूनामभ्रं परिप्लवं यथा ॥ ३१ ॥

अशक्ताः शक्तिमात्मीयां श्लाघयन्ते च दुर्जनाः । ते भवन्त्युपहासाय महतामेव सन्निधौ ॥ ३२ ॥

सर्पः क्रूरः खलः क्रूरः सर्पात्क्रूरतरः खलः । मन्त्रेण शाम्यते सर्पो न खलः शाम्यते कदा ॥ ३३ ॥

दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरम् । मुखप्रक्षालनात्पूर्वं गुदप्रक्षालनं यथा ॥ ३४ ॥

दुर्जनः सुजनो न स्यादुपाय्यानां शतैरपि । अपानं मृत्सहस्रेण धौतं चास्यं कथं भवेत् ॥ ३५ ॥

खलास्तु कुशलाः सम्भोहिंतप्रत्यहकर्मणि । निपुणाः फणिनः प्राणानपहर्तुं निरोगसाम् ॥ ३६ ॥

अहो बत महष्कष्टं विपरीतमदं जगत् । येनोप॑त्रपते साधुरसाधुस्तेन तुष्यति ॥ ३७ ॥

तक्षकस्य विषं दन्ते मक्षिकाया विषं शिरः । वृश्चिकस्य विषं पुच्छं सर्वाङ्गे दुर्जनो विषम् ॥ ३८ ॥

दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः । स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव ना-


पादटिप्पण्यः (Footnotes)

वामभागःदक्षिणभागः
१ विष्ठाद्यशुचि१ तैलेन, पक्षे,-ममतया
२ बाण२ भस्म, पक्षे,-वैभवम्
३ सर्प३ लाङ्गलम्
४ अन्त्यवर्णौ 'खल' इति४ पृथ्वी, पक्षे,-शान्ति
५ कुटिला५ बाहुल्येन
६ मलिनान्त करणा६ पूज्यते
७ सर्पा७ अभ्रि, पक्षे,-वैश्वानर इति च्छेद
८ प्रतीकार८ तुलायष्टे
९ उपानहा पादस्थचर्मणा मुखभङ्गो९ राजहंसत्वम्
१० निवारणात्, पक्षे,-जलात्१० चालनी
११ कुलम्, पक्षे,-वेणु११ चञ्चलम्
१२ विनयादि, पक्षे,-मौर्वी१२ हितेऽन्तरायाचरणे
१३ बहु निष्कपट द्रोही, पक्षे,-बहु निष्क पट द्रोही इति पदच्छेद१३ निरपराधानाम्
१४ बहुधा अन्योपघातक, पक्षे,-बहु धान्य उपघातक इति पदच्छेद१४ लज्जां प्राप्नोति
१५ दूषणान्वेषी, पक्षे,-छिद्रान्वेषी१५ सरलताम्
१६ प्रतितीरम्, पक्षे,-विरुद्धम्
१७ परेषां प्रकर्षेण तारणाय, पक्षे,-परेषां वञ्चनाय
१८ भयंकरा, पक्षे,-काष्ठेन
१९ वेणौ, पक्षे,-कुले
२० स्वकर्मभि
२१ काष्ठवेधक कृमि
२२ क्रियया निर्वृत्ताम्, पक्षे,-कपटयुक्ताम्
२३ नम्रत्वम्
२४ मौर्वी, पक्षे,-विनयादि
२५ धनुष

दुर्जननिन्दा | ५५

मितम् ॥ ३९ ॥ वर्धन वाथ संमान खलाना प्रीतये कुतः । फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ ४० ॥ दुर्जनै- रुच्यमानानि वचांसि मधुराण्यपि । अकालकुसुमानीव भयं संजयन्ति हि ॥ ४१ ॥ शत दद्यान्न विवदेदिति विज्ञस्य संमतम् । विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥४२॥ अहो खलभुजंगस्य विपरीतो वधक्रमः । अन्यस्य दशति श्रोत्रमन्य. प्राणैर्विमुज्यते ॥ ४३ ॥ न यत्नकोटिशतकैरपि दुष्ट. सुधीर्भवेत् । किं मर्दितोऽपि कस्तूर्या लशुनो याति सौरभम् ॥ ४४ ॥ पाषाणो भिद्यते टङ्कैर्वज्रं वज्रेण भिद्यते । सर्पोऽपि भिद्यते मन्त्रैर्दुष्टात्मा नैव भिद्यते ॥ ४५ ॥ दुर्ज- नो दोषमादत्ते दुर्गन्धमिव सूकरः । सज्जनश्च गुणग्राही हंस. क्षीरमिवाम्भस. ॥ ४६ ॥ अपूर्वा रसनाव्यालाः खलाननबिलेशयाः । कर्णमूले स्पृशन्त्यन्य हरन्त्यन्य- स्य जीवितम् ॥ ४७ ॥ दुर्जनेन सम सख्य प्रीति चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ४८ ॥ दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥ ४९ ॥ मनस्यन्यद्वचस्यन्यत्कार्ये चान्यद्दुरात्मनाम् । मनस्येकं वच- स्येकं कर्मण्येकं महात्मनाम् ॥ ५० ॥ ^१जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्र- ख दुर्जनाः ॥ ५१ ॥ बिभ्राणा गरल कण्ठे भुजगपरि- वेष्टिता । शाम्भीव तनुः कस्य न वन्द्या दौर्जनी सभा ॥ ५२ ॥ अक्षमालाप्रवृत्तित्ज्ञा कुशासनपरिग्रहा । ब्राह्मीव दौर्जनी संसद्वन्दनीया ^९समेखला ॥ ५३ ॥ खलः करोति दुर्वृत्तं नून फलति साधुषु । दशाननोऽहरत्सीता बन्धन च महोदधे. ॥ ५४ ॥ कुर्वते स्वमुखेनैव बहुधान्यस्य ख- ण्डनम् । नमः पतनशीलाय मुसलाय खलाय च ॥ ५५ ॥ अपवादाद्भीतस्य समस्य गुणदोषयोः । असद्वृत्तेरहो वृत्तं दुर्विभाव्यं विघेखिव ॥ ५६ ॥ न देवाय न धर्माय न बन्धुभ्यो न चार्थिने । दुर्जनस्यार्जित वित्त भुज्यते राज- तस्करैः ॥ ५७ ॥ मुखं पद्मदलाकारं वाचा चन्दनशीतला । तोहृदयं क्रोधसंयुक्तं त्रिविधं धूर्तलक्षणम् ॥ ५८ ॥ निष्णा- ऽपि च वेदान्ते साधुत्व नैति दुर्जनः । चिर जलनिधौ मग्नो मैनाक इव मार्दवम् ॥ ५९ ॥ खल सज्जनकार्पास- धैक्षणैकहुताशन । परदु खाभिधमनमारुतः केन वर्ण्य- ताम् ॥ ६० ॥ यश.सौरभ्यलशुनः शान्तिशैत्यहुताशन । कारुण्यकुसुमाकाश खल. सज्जनदु.खद ॥ ६१ ॥ अन्तर्म- लिनदेहेन बहिराह्लादकारिणा । मँहाकालफलेनेव के खलेन न वञ्चिताः ॥ ६२ ॥ अहो प्रकृतिसादृश्य श्लैष्मैणो दुर्जनस्य च । मधुरैः कोपमायाति कटुकैनैव शाम्यति ॥ ६३ ॥ ईषल्लब्धप्रवेशोऽपि स्नेहविच्छेदकारक । कृतक्षोभो नरीन- र्ति खलो मन्थानदण्डवत् ॥ ६४ ॥ विवृण्वती पुरस्तैक्ष्ण्य पृष्ठत. कुर्वती गुणम् । कर्णान्निध्यति लोकस्य सूचीवत्सू- चकस्य वाक् ॥ ६५ ॥ सर्वथा व्यवहर्तव्य कुतो व्यवच- नीयता । यथा स्त्रीणा तथा वाचा साधुत्वे दुर्जनो जनः ॥ ६६ ॥ कापूरुष. कुकुरश्च भोजनैकपरायण. । लालित. पार्श्वमायाति वारितो नच गच्छति ॥ ६७ ॥ मालिन्यम- वलम्बेत यदा दर्पणवत्खल. । तदैव तन्मुखे देय रजो नान्या प्रतिक्रिया ॥ ६८ ॥ नीच. समुत्थितोऽवश्यमनवाप्य पराश्र- यम् । छिद्र न रतिमाप्नोति दृष्टान्तोऽत्र ^८कंटीभवः ॥ ६९ ॥ दुर्जन. परिहर्तव्य प्रत्यक्शो द्विपदः पशुः । विध्यते वा कुश- ल्येन अदृष्टः कण्टको यथा ॥ ७० ॥ यथा वृष्टि समुद्रेषु भु- क्तस्योपरि भोजनम् । एवं प्रीति. खलैः सार्धमुत्यन्तेऽर्थेऽव- सीदति ॥ ७१ ॥ क्वचित्कार्यवशान्नीचोऽप्यलं भवति नो म- हान् । कांस्यस्यैव हिं राज्ञोऽपि दर्पणः कनकस्य न ॥ ७२ ॥ दुर्जनो दूषयत्येव सता गुणगणं क्षणात् । मलिनीकुरुते धू- मः सर्वथा विमलाम्बरम् ॥७३॥ यथा दोषो विधातस्य ज- नस्य न तथा गुण. । प्रायः कलङ्क एवेन्दो. प्रस्फुटो न प्रस- न्नता ॥ ७४ ॥ सप्तौ कर्कशं चित्त खलस्यापदि कोमलम् । शीतल कठिन प्रायस्ततं मृदु भवत्य॑यः ॥ ७५ ॥ प्रायः प्रकु- प्यतितरा प्रीत्यैव प्रखलो जनः । नयन स्नेहसपर्कात्कालुष्यं समुपैत्यलम् ॥ ७६ ॥ प्राप्य वित्तं जडास्तूष्णे निर्वृति यान्ति नान्यथा । तोयमासाद्य गर्जन्ति न रिक्ताः स्तेनयित्नवः ॥७७॥ सदा खण्डनयोग्याय तुषपूर्णायशाय च । नमोऽस्तु बहुबीजा- य खलायोलूखलाय च ॥७८॥ जिह्वादूषितसत्यान्नः पिण्डार्थी कलहोत्कटः । तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः॥७९॥


१ जिह्वारूपा सर्पा २ उदकम्, पक्षे,-प्राणा ३ अधोमुखा, पक्षे,-विनीता ४ ऊर्ध्वमुखा पक्षे,-उद्धता ५ एकरज्जुसबद्धघटमाळारूप 'राहाट' इति प्रसिद्धम् ६ सर्पा, पक्षे,- जारा ७ दुर्जनसवन्धिनी ८ अक्षमा य आलापास्तेषा वृत्तिज्ञा, पक्षे,- अक्षमाला जपमाला तस्या अपवृत्तिभ्रमण जानातीति सा ९ कुत्सित यच्छासन शिक्षा तस्य परिग्रहोऽवलम्बो यस्या सा, पक्षे,-कुशासन दर्भासन तत्परिग्रह स्वीकारो यस्या सा १० समे साधौ खला, पक्षे,-मेखलया सहिता ११ बहुधा अ-न्यस्य परस्य खण्डनम्, पक्षे,-पुष्कळधान्यस्य खण्डन वितुषीकरणम्

१ दहनम् २ कीर्तिरेव सौगन्ध्व तन्नाशकत्वाल्लशुन इव लशुनो हि कस्तूर्यादि सौगन्ध्व नाशयतीति प्रसिद्धि. ३ शान्तिरेव शैत्य तन्नाशकत्वादग्निरेव ४ कारुण्यमेव कुसुम तस्याकाश आकाशस्य यथा पुष्प कदापि नोपलभ्यते तद्वत्खले कारुण्य सर्वथाऽसम्भाव्य इत्यर्थ ५ धत्तूरफलेन ६ स्वभावसाम्यम् ७ कफस्य ८ साधुदन्द्यै, पक्षे,-सुवचनै ९ पुन पुनर्नृत्यति १० पुरुषव्यञ्जनम् ११ लोहम् १२ मेघ १३ मध्येच्छु

५६ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्


अहो बत खल. पुण्यैर्मूर्खोऽप्यश्रुतपण्डितः । स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥ ८० ॥ खलः सुजनपैशुन्ये सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमाल्लोके सर्वमावृत्य तिष्ठति ॥८१॥ स साधुवादे मूर्खस्य मात्सर्यगलरोगिणः । जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते ॥ ८२ ॥ मायामय. प्रकृत्यैव रागद्वेषमदाकुलः । महतामपि मोहाय संसार इव दुर्जनः ॥ ८३ ॥ खचित्रमपि मायावी रचयत्येव लीलया । लघुश्च महता मध्ये तस्मात्खल इति स्मृतः ॥ ८४ ॥ खलेन धनमत्तेन नीचेन प्रभविष्णुना । पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि ॥ ८५ ॥ ये श्रम हर्तुमीहन्ते महता चिरसम्भृतम् । वन्द्यास्तेऽसरलात्मानो दुर्जनाः सज्जना इव ॥ ८६ ॥ अहो कुटिलबुद्धीना दुर्ग्राह्यमसता मनः । अन्यद्वचसि कण्ठेऽन्यदन्यदोषपुटे स्थितम् ॥ ८७ ॥ खलेषु सत्सु निर्याता वयमर्जयितु गुणान् । इय सा तस्करग्रामे रत्नक्रयविडम्बना ॥८८॥ वर्धते स्पर्धयेवोभौ संपदा शतशाखया । अङ्कुरोऽवैस्करोद्भूतः पुरुषश्चाकुलोद्भवः ॥ ८९ ॥ यत्स्मृत्वैव परा यान्ति सन्तः संतापसंततिम् । तदसन्तो हसन्तोऽपि हेलयैव हि कुर्वते ॥ ९० ॥ गुणदोषवावशाखज्ञ. कथ विभजते जनः । किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु ॥ ९१ ॥ प्राय प्रकाशिता याति मलिन. साधुबाधया । नाग्रसिष्यच्चेदर्क कोऽज्ञास्यत्सिंहिकासुतम् ॥ ९२ ॥ प्रागः परोपतापाय दुर्जन. सतततोद्यतः । अवश्यकरणीयत्वान्न कारणमपेक्षते ॥ ९३ ॥ यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । विश्रम्यं त द्रुम हन्ति तथा नीचः स्वमाश्रयम् ॥ ९४ ॥ चारुता परदारार्थ धन लोकोपतापये । प्रभुत्व साधुनाशाय खले खलतरा गुणाः ॥ ९५ ॥ परोपकारविज्ञानमात्रलाभोपजीविनाम् । दर्शनानामिव धूर्ताना जालाय गुणसग्रहः ॥ ९६ ॥ करोति पूज्यमानोऽपि लोकव्यसनदीक्षितः । दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ॥ ९७ ॥ सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव । नास्तिकोऽपि ह्युद्विजते जनः किं पुनरास्तिकः ॥ ९८ ॥ येषा प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः । कार्य परोपतापित्व ते मृत्योरपि मृत्यव ॥ ९९ ॥ न तथैच्छन्त्यकल्याणा. परेषा वेदितु गुणान् । यथैषा ज्ञातुमिच्छन्ति नैर्गुण्य पापचेतसः ॥ १०० ॥ अतो हास्यतर लोके किचिदन्यन्न विद्यते । यत्र दुर्जन इत्याह दुर्जनः सज्जन जनम् ॥ १०१ ॥ अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः । नैष लाभो भुजङ्गेन वेष्टितो यन्न दृश्यते ॥ १०२ ॥ लुब्धः स्तब्धोऽर्तैजुर्मूर्खः प्रभुरेकान्तदारुणः । बहूनेष खलः साधून्मारयित्वा मरिष्यति ॥ १०३ ॥ का खलेन सह स्पर्धा सज्जनस्याभिमानिन. । भाषण भीषण साधुदूषण यस्य भूषणम् ॥ १०४ ॥ सुखेनैकेन विध्यन्ति पादमेकस्य कण्टका । दूरान्मुखसहस्रेण सर्वप्राणहरा खलाः ॥ १०५ ॥ निर्माय खलजिह्वाग्र सर्वप्राणहर नृणाम् । चकार कि वृथा शक्रविषवह्नीन्प्रजापतिः ॥ १०६ ॥ यथा परोपकारेषु नित्य जागर्ति सज्जनः । तथा परोपकारेषु जागर्ति सतत खल. ॥ १०७ ॥ बिभेति पिशुनान्नीच. प्रकाशनपटीयस. । न पुनर्मूढहृदयो निन्दनीयात्स्वकर्मण. ॥ १०८ ॥ वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः । दुर्जनस्यौषध नास्ति किचिदन्यदनुत्तरात् ॥ १०९ ॥ जीवन्नपि न तत्कर्तु शक्नोति सुजनस्तथा । दुर्जनो यन्मृत. कुर्यात्परेभ्योऽहितमुत्तरम् ॥ ११० ॥ यद्यद्दिष्टतम तत्तद्देय गुणवते किल । अत एव खलो दोषान्साधुभ्यः संप्रयच्छति ॥ १११ ॥ वरमत्यन्तविफलः सुखसेव्यो हि सज्जनः । न तु प्राणहरस्तीक्ष्ण. शरवत्सफलः खलः ॥ ११२ ॥ स्वभावेनैव निशितः कृतपक्षग्रहोऽपि सन् । शरवद्गुणनिर्मुक्तः खल. कस्य न भेदकः ॥ ११३ ॥ दुर्जन. सुजनीकर्तु यत्नेनापि न शक्यते । सस्कारेणापि लशुन क सुगन्धीकरिष्यति ॥ ११४ ॥ नैवात्मनो विनाश गणयति पिशुनः परव्यसनहृष्ट. । प्राप्य सहस्रविनाश समरे नृत्यति मुदा कबन्ध इव ॥ ११५ ॥ रविरपि न दहति तादृग्ग्रावक्संदहति वालुकानिकरै. । अन्यस्माल्लब्धपदो नीच प्रायेण दुःसहो भवति ॥ ११६ ॥ त्यक्त्वापि निजप्राणान्परहितविघ्नं खलः करोत्येव । कवले पतिता सद्यो वैमयति खलु मक्षिकाऽन्नभोक्तारम् ॥ ११७ ॥ कृतमपि महोपकार पय इव पीत्वा निरौतद्वम् । प्रत्युत हन्तु यतेते काकोदरसोदरः खलो जगति ॥ ११८ ॥ नलिकागतमपि कुटिलं न भवति सरलं शुनः पुच्छम् । तद्वत्खलजनहृदय बोधितमपि नैव याति माधुर्यम् ॥ ११९ ॥ एते स्निग्धतमा इति मा मा क्षुद्रेषु यात विश्वासम् । सिद्धांर्थानामेषा स्नेहोऽप्यश्रूणि पातयति ॥ १२० ॥ गुणिना गुणेषु मत्सपि पिशुनजनो दोषमात्रमादत्ते । पुष्पे फले विरागी क्रैमेलकः कण्टकौघमिव ॥ १२१ ॥ सुजनानामपि हृदय पिशुनपरिध्वङ्गलिसमिह भवति । पवनः परागवाही रंथ्यासु वह्नर्जन्मेलो भवति ॥ १२२ ॥ परिपूर्णेऽपि तटाके काकः कुम्भोदक पिबति । अनुकूलेऽपि कैलंत्रे नीच. परदारलम्पटो भवति ॥ १२३ ॥ दुर्जनदूषितमनसा पुसा सुजनेऽपि नास्ति विश्वा-


१ समाजितपाशुंसचयस्थानम्, 'उफीरडा' इति लोके
२ राहुम्
३ परोपतापाय
४ मत्स्यजीविधीवराणाम्
५ कुटिल
१ अशिरस्क कलेवरम्
२ पांसुपुञ्ज
३ वान्ति कारयति.
४ नि शङ्कम्
५ वैपरीत्ये
६ सर्पबन्धु
७ श्वेतसर्षपाणाम्, पक्षे,-सिद्धोऽर्थ कार्य येषा ते
८ तैलम्; पक्षे,-स्नेहभाव
९ बाष्पाणि
१० उष्ट्र
११ वीथीषु
१२ रजोयुक्त
१३ भार्यायाम्.

Here is the transcription of the page into clean Markdown in Unicode Devanagari:


दुर्जननिन्दा । ५७


सः। बाल. पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति ॥ १२४ ॥ विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः। यदय नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥ १२५ ॥ अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः। तिमिरे हिं कौशिकाना रूप प्रतिपद्यते दृष्टिः ॥ १२६ ॥ लब्धोच्छ्रायो नीचः प्रथमतर स्वामिनं पराभवति । भूमिरजो रथ्यादानुत्थापकमेव सवृणुते ॥ १२७ ॥ उपकृतमनेन सुहृदयमित्यसतामस्ति न कचिदपेक्षा । होतुः स्वहस्तमाश्रितमुद्धुतोऽग्निर्दहत्येव ॥ १२८ ॥ परवादे दशवदन. पररन्ध्रनिरीक्षणे सहस्राक्षः । सद्वृत्तवित्तहरणे बाहुसहस्रार्जुनः पिशुन.॥ १२९ ॥ परिशुद्धामपि वृत्ति समाश्रितो दुर्जनः परान्भ्यथते । पर्बनाशिनोऽपि भुजगाः परोपतापं न मुञ्चन्ति ॥ १३० ॥ प्रेरयति परमनार्यः शक्तिविहीनोऽपि जगदभिद्रोहे । तेजयति शस्त्रधारा स्वयमसमर्था शिला छेत्तुम् ॥ १३१ ॥ शिरसि निहितोऽपि नित्य यत्नादपि सेवितो बहुस्नेहैः । तरुणीकच इव नीचः कौटिल्य नैव विजहाति ॥ १३२ ॥ व्योम्नि स वास कुरुते चित्रं निर्माति सुन्दर पवने । रचयति रेखाः सलिले चरति खले यस्तु सत्कारम् ॥ १३३ ॥ अतिपेलवमतिपरिमितवर्ण लघुतरमुदाहरति शठः । परमार्थतः स हृदय वहति पुनः कालकूटघटितमिव ॥ १३४ ॥ मृद्घटवत्सुखभेद्यो दुःसंधानश्च दुर्जनो भवति । सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशुसंधेयः ॥ १३५ ॥ मृगमीनसज्जनाना तृणजलसंतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ १३६ ॥ रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि । अथवात्वं पापात्मन् कृत्या कथयापि ते हतया ॥ १३७ ॥ विध्वस्तपरगुणाना भवति खलानामतीव मलिनत्वम् । अन्तरितशशिरुचामपि सैलिलमुचा मैलिनिमाभ्यधिकः ॥ १३८ ॥ परगुह्यगुप्तिनिपुणं गुणैर्मयमखिलैः समीहितं नितराम् । र्ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥ १३९ ॥ दूरेस्थापितहृदयो गूढरहस्यो निकामसंशङ्कः । आश्लेषो बालाना भवती खलाना च समेदः ॥ १४०॥ धर्मारम्भेऽप्यसता परहिंसैव प्रयोजिका भवति । काकानांम-भिषेकेऽकारणता वृष्टिरनुभवति ॥ १४१ ॥ यद्वीक्ष्यते खलाना माहात्म्यं क्वापि दैवयोगेन । काकानामिव शौक्ल्यं तदपि हि न चिरादनर्थाय ॥ १४२ ॥ यत्खलु खलमुखहुतवहविनिहितमपि शुद्धिमेत्र परमेति । तदनलशौचमिवाशुकमिह लोके दुर्लभं प्रेम ॥ १४३ ॥ वशावलम्बनं यद्यो विस्तारो गौणस्य या च नति. । तज्जालस्य खलस्य च निर्जाङ्सुसप्रणाशाय ॥ १४४ ॥ सुंगृहीतमलिनपक्षा लघ्वः परभेदिनस्तीक्ष्णा. । पुरुषा अपि विशिखा अपि गुणैर्युताः कस्य न भयाय ॥ १४५ ॥ स्वैर्कपोलेन प्रकटीकृतं प्रमत्तत्वकारणं किमपि । द्विरदस्य दुर्जनस्य च मद चकोरैव दानमपि ॥ १४६ ॥ सतापमोहकम्पा-न्संपादयितु निहन्तुमपि जन्तून् । सखि दुर्जनस्य भूतिः प्रसरति दूर ज्वरस्येव ॥ १४७ ॥ अर्थग्रहणे न तथा व्यथयति कटुकूजितैर्यथा पिशुन. । रुधिरादानादधिकं दुनोति कर्णे कुणैन्मेशकः ॥ १४८ ॥ क्षुद्रोद्भवस्य कटुता प्रकटयतो विदधतश्च र्मर्दमुच्चैः । मधुनोऽद्यमपुरुषस च गरिमा लघिमा च मेदाय ॥ १४९ ॥ त्यजति च गुणान्मुदूर तेंदैमपि दोष निरीक्ष्य गृह्णाति । मुक्ताव्वलंकृतकेशान् यूकामिव वानरः पिशुनः ॥ १५० ॥ दोर्षालोकननिपुणाः परुषगिरो दुर्जनाश्च घूकाश्च । दर्शनमपि भयजनन येषामनिमित्तपिशुनानाम् ॥ १५१ ॥ पिशुनत्वमेव विद्या परदूषणमेव भूषण येषाम् । परदुःखमेव सौख्यं शिव शिव ते केन वेधसा सृष्टाः ॥ १५२ ॥ हस्त इव भूतिमलिनो लङ्घयति यथा यथा खल. सुजनम् । दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥ १५३ ॥ अन्यस्य लगति कर्णे जीवितमन्यस्य हरति बाण इव । हृदयं दुनोति पिशुनः कण्टक इव पादलग्नोऽपि ॥ १५४ ॥ खरसेन बद्धता करमादाने कण्टकोत्करैस्तुदताम् । पिशुनाना पनसौना कोशैर्भागोऽप्यविश्वास्यः ॥ १५५ ॥ वशे घुंण इव


१ काक जाने कृते वृष्टिर्न भवतीति वृद्धव्यवहार २ कुलस्य, पक्षे,-वेणो ३ अन्यत्वम्, पक्षे,-आश्रितत्वम् ४ आधिक्यम्, पक्षे,-दैर्घ्यम् ५ पाण्डित्यशोर्यादे पक्षे,-रजो ६ विश्वस्तनाशा येत्यर्थ ७ सम्यग्गृहीतो दुष्टाना पक्षोऽङ्गीकारो यैः, पक्षे,-झटिति निष्कासनार्नां श्यामपक्षवन्त इत्यर्थ ८ नीचा, पक्षे,-अल्पपरिमाणवन्त ९ परान्भेदयन्ति ते अन्येषा परस्परभेदजननेन कलहप्रर्वतका इत्यर्थ पक्षे,-इतरच्छेदकारक १० क्रूरकमोण, पक्षे,-यथाश्रुतम् ११ साधुत्वादिगुणहीना ; पक्षे,-ज्यायाश्च्युता १२ स्वस्य गण्डस्थलेन प्रकटीकृतम् दानस्य तत उत्पत्तेरिति भावः; पक्षे,-स्वमुखे नाभिक्षितम् एव मया दान कृतमिति. १३ गुणगुणेति शब्दं कुर्वन् १४ मधुमक्षिका, पक्षे,-नीच १५ रूक्षताम्, पक्षे,-कटुभाषिताम् १६ उन्मादम्, पक्षे,-गर्वम् १७ सूक्ष्मम्, १८ दूषणानि, पक्षे,-रात्रि १९ मनोगतप्रयत्ना, पक्षे,-अन्त सार २० काष्ठकृमि..


१ फूत्कार कृत्वा २ नकुलद्वेषी, पक्षे,-न कुल द्वेषी ३ अलन्त-मलदूषिते ४ पूर्णा ५ तमसि ६ घूकानाम् ७ व्यथां करोति ८ वायुभक्षका ९ बहुप्रकारै स्नेह्रै सुगन्धतैलादिभि, पक्षे,-बह्व्या प्रीत्या १० दुखेन सधातु शक्य. ११ न्याय १२ निष्कारणशत्रव १३ नाशिता १४ मेघानाम् १५ मालिन्यम् १६ गुह्यगोपने निपुणम् १७ तन्तुप्रचुरम्, पक्षे,-दयादाक्षिण्यादिप्रचुरम् १८ मूल्यवद्वस्त्रमिव १९ दूरे स्थापित हृदय येन, पक्षे,-दूरे स्थापितमन्त करण येन २० अन्त करणविषयीभूतम्, पक्षे,-मन्त्रादि २१ भीति, पक्षे,-विश्वासाभाव

८ सु र भा


५८सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

न विशति दोषो रसभाविते सतां मनसि । रसमपि तु न प्रतीच्छति बहुदोष. संनिपातीव ॥ १५६ ॥ परपरितापनकुतुकी गणयति नात्मीयमपि तापम् । परहितेहेतोः पिशुनः सदंशं इव स्वपीडनं सहते ॥ १५७ ॥ सगुणापि हन्त विगुणा भवति खलात्साद्विचित्रवर्णापि । आखुमुखादिव शाटी पदपरिपाटी कवेः कापि ॥ १५८ ॥ कतिपयदिनपरमायुषि मदकारिणि यौवने दुरात्मानः । विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ १५९ ॥ दुश्चरितैरेव निजैर्भवति दुरात्मा विशङ्कितो नित्यम् । दर्शनपथमापन्नं पन्नगकुलमाकुलीभवति ॥ १६० ॥ स्वयमपि भूरिच्छिद्रश्चापलमपि सर्वतोमुखं तन्वन् । तिर्तउस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥ १६१ ॥ पिशुनः खलु सुजनानां खलमेव पुरो निधाय जेतव्यः । कृत्वा ज्वरमात्मीयं जिगाय बाणं रणे विष्णुः ॥ १६२ ॥ वक्राः कपटस्निग्धा मलिनाः कर्णान्तिके प्रसज्जन्तः । क भेदयंति न सखे खलाश्च गणिकाकटाक्षाश्च ॥ १६३ ॥ कस्तूरिकामृगाणामण्डद्वन्द्वगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वाया निवे-शयिष्यामि ॥ १६४ ॥ आचरति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान् । तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम् ॥ १६५ ॥ नष्टमपात्रे दानं नष्टं हितमफल-बुद्ध्यवज्ञाने । नष्टो गुणोऽगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे ॥ १६६ ॥ रोगोऽण्डजोऽङ्कुरोऽग्निर्विषमश्चतरो गुणाः कुमयः । प्रकृतिकृतघ्नश्च नरः स्वाश्रयविनाशाय नैधन्ते ॥ १६७ ॥ आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमनसा ने । खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ॥ १६८ ॥ परमर्मदिव्यदर्शिषु जात्यैवोचितनिगूढवैरेषु । क. खलु खलेषु शङ्का श्लथयिष्यति दृग्मनिरतेषु ॥ १६९ ॥ अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् । बालादन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्विम्बम् ॥ १७० ॥ लब्धोदयोऽपि हि खल. प्रथमं स्वजनं तनोति परितापम् । उद्धृच्छन्दवदहनो जन्मभुवं दारु निर्दहति ॥ १७१ ॥ अल्प-श्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः । सर्वत्र कु-नट एव हि नाटकमधिकं विडम्बयति ॥ १७२ ॥ प्रखला एव गुणवतामाक्रम्य धुरं पुरः प्रकर्षन्ति । तृणकाष्ठमेव जल-धेरुपरि प्लवते न रत्नानि ॥ १७३ ॥ महता यदेव मूर्धसु तदेव नीचास्तृणाय मन्यन्ते । लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरुते ॥ १७४ ॥ सह वसतामप्यसता जलरु- | हजलवद्भवत्यसंश्लेष. । दूरेऽपि सतां वसता प्रीतिः कुमुदे-न्दुवद्भवति ॥ १७५ ॥ साधयति यत्प्रयोजनमज्ञस्तत्तस्य काकतालीयम् । दैवात्कथमप्यक्षरमुत्किरति घुणोऽपि काष्ठेषु ॥ १७६ ॥ प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते । पुष्यत्यधिकमशोको गणिकाचरणप्रहारेण ॥ १७७ ॥ परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये । यत्साम-र्थ्यमुपहर्तौ विषस्य तन्नोपकाराय ॥ १७८ ॥ अतिसत्कृता अपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम् । शिरसा महे-श्वरेणापि ननु धृतो वक्र एव शशी ॥ १७९ ॥ वायुरिव खलजनोऽयं प्रायः पररूपमेति सर्कात् । सन्तस्तु रविकरा इव सदसद्योगेऽप्यसंश्लिष्टा. ॥ १८० ॥ दूरेऽपि परस्यागांसि पटुर्जर्नो नात्मनः समीपेऽपि । स्वं व्रणमक्षि न पश्यति श-शिनि कलङ्कं निरूपयति ॥ १८१ ॥ साधुश्वेवातितरामरुतुदाः स्वा विवृण्वते वृत्तिम् । व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिह्ममाददते ॥ १८२ ॥ अविकारिणमपि सज्जनमनिश-मनार्य. प्रवाहतेऽत्यर्थम् । कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति ॥ १८३ ॥ स्वगुणानिव परदोषा-न्वक्तुं न सतोऽपि शक्नुवन्ति बुधा. । स्वगुणानिव परदोषान-सतोऽपि खलास्तु कथयन्ति ॥ १८४ ॥ कृत्वापि येन लज्जा-मुपैति साधुः परोदितेनापि । तद्वृत्त्यैव खलजन. स्वय-मुद्भिरतीति धिग्लघुताम् ॥ १८५ ॥ प्रकृतिकखलत्वादसतां दोष इव गुणोऽपि बाधते लोकान् । विषकुसुमानां गन्ध. सुरभिरपि मनांसि मोहयति ॥ १८६ ॥ मृगमदकर्पूरागुरु-चन्दनगन्धाधिवासितो लशुनः । न त्यजति गन्धमशुभं प्रकृ-तिमिव सहोत्थितां नीच. ॥ १८७ ॥ उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः । अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थम् ॥ १८८ ॥ न परं फलति हि किंचि-त्खल एवानर्थमावहति यावत् । मारयति सपदि विषतरु-राश्रयमाणं श्रमापनुदे ॥ १८९ ॥ स्वार्थनिरपेक्ष एव हि परोपघातोऽसतां व्यसनमेव । अशनायोदन्या वा विरमति फणिनो न सदशत. ॥ १९० ॥ एकीभावं गतयोर्जल्प-यसोर्मित्रचेतसोश्चैव । व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥ १९१ ॥ शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम् । धीरैर्न पुनरकारणकुपितखलालीकदुर्वच-नम् ॥ १९२ ॥ प्रारम्भतोऽतिविपुलं भृशकुशमन्ते विभेदक-न्मलिनम् । महिषविषाणमिवावज्ञु पुरुषं भयदं खलप्रेम ॥ १९३ ॥ हेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते । उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः ॥ १९४ ॥ अगुण-कणो गुणराशिरिद्वयमपि दैवेन खलमुखे पतितम् । प्रसरति तैल-मिवैक. सलिले घृतवज्जडत्वमेत्यन्यः ॥ १९५ ॥ तस्मिन्गता-


पादटिप्पण्यः (Footnotes):

१ यन्त्रविशेष , 'चिमटा' 'साडसी' इति लोके
२ परिधानवस्त्रविशेष
३ बहुवाच्य , पक्षे, -बहुरन्ध्र
४ मौखर्यम् , पक्षे, -चापल्यम्
५ सकलजनसमक्षम्, पक्षे,-सर्वदिग्विषयम्
६ चालनी
७ निर्णये, पक्षे,-स्वीकारे
८ 'खेचर' इति लोके, मातरं विनिहत्यैवास्य जन्म भवति
९ दावानल
(दक्षिणस्तम्भटिप्पणी) १ पिपासा.

दुर्जननिन्दा ५९

र्द्रभावे वीतरसे शुण्ठिशकल इव पुरुषे। अपि भूतिभाजि मलिने नागरशब्दो विडम्बाय ॥ १९६ ॥

परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः। परदोषकथामिरेत्यकः स्वजनं तोषयितुं किलेच्छति ॥ १९७ ॥

सहजान्धदृशः खलु दुर् नये परदोषेक्षणदिव्यचक्षुषः । स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्बसाधवः ॥ १९८ ॥

सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः । सहसैव समुद्धिरन्त्यमी क्षमयन्त्येव हि तन्मनीषिणः ॥ १९९ ॥

उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः । असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ २०० ॥

परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः । परवृद्धिभिर्हितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ॥ २०१ ॥

अनिराकॄततापसंपदं फलेहीनां सुमनोभिरुज्झिताम् । खलतां खलतामिवोसतीं प्रतिपद्येत कथं बुधो जनः ॥ २०२ ॥

अपि वेत्ति षडक्षराणि चेदुपदेष्टुं शितिकण्ठमिच्छति । वसनाशनमात्रमस्ति चेद्धैर्नादादप्यतिरिच्यते खलः ॥ २०३ ॥

अहमेव गुरुः सुदारुणानामिवि हालाहल मा स्म तात दृप्यः । ननु सन्ति मवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥ २०४ ॥

वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा । अनया कथमप्यथावलीढा नहि जीवन्ति जना मनागमन्त्राः ॥ २०५ ॥

अमरैरमृतं न पीतमब्धेर्न च हालाहलमुल्बणं हरेण । विधिना निहितं खलस्य वाचि द्वयमेतद्धरिरेकमन्तरन्यत् ॥ २०६ ॥

वहति विषधरानेयटीरजन्मा शिरसि मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलङ्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ २०७ ॥

मधुरिमरुचिरं वचः खलानामतृतमहो प्रथमं पृथु व्यनक्ति । अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ॥ २०८ ॥

प्रकटमपि न संवृणोति दोषं गुणलवलम्पट एष साधुवर्गः । अतिपरुषरुषं विनापि दोषैः पिशुनशुनां भषतां प्रयाति कालः ॥ २०९ ॥

अन्तर्वाणिमन्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तासु धत्ते । सर्वानन्दिन्द्यङ्के कामिनीनामिवर्मे मार्गल्येष वै बम्भरालिः ॥ २१० ॥

बोधितोऽपि बहुसूक्तिविस्तरैः किं खलो जगति सज्जनो भवेत् । स्नापितोऽपि बहुशो नदीजलैर्गर्दभः किमु हयो भवेत्कचित् ॥ २११ ॥

विद्यया विमलयाप्यलंकृतो दुर्जनः सदसि मास्तु कश्चन । साक्षरा हि विपरीतां गताः केवलं जगति तेऽपि राक्षसाः ॥ २१२ ॥

दोषपोषमभियाति परं यो बाधमेति बहुसज्जनयोगात् । संमतौ विमतिमात्रसहायी दुर्जनो भ्रम इवातिचकास्ति ॥ २१३ ॥

उत्तुंगतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति ब्रुवन् । शैलशेखरगतः पृषद्कणश्चारुमारुतधुतः पतेत्यधः ॥ २१४ ॥

भस्मकुम्भशकलेन वै मलं बालकस्य जननी व्यपोहति । तद्द्रोहोद्यवनेन दुर्जनो मातुतः शतगुणाधिको भवेत् ॥ २१५ ॥

एवमेव नहि जीव्यते खलात्तत्र का नृपतिवल्लभे कथा । पूर्वमेव हि सुदुःसहोऽनलः किं पुनः प्रबलवायुनेरितः ॥ २१६ ॥

अकरुणत्वमकारणविग्रहः परधने परयोषिति च स्पृहा । सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ २१७ ॥

इतरदेव बहिर्मुखमुच्यते हृदि तु यत्स्फुरतीतरदेव तत् । चरितमेतदधीरवितारकं धुरि पयःप्रतिबिम्बमिवासताम् ॥ २१८ ॥

क्व पिशुनस्य गतिः प्रतिहन्यते दशति दृष्टमपि श्रुतमप्यसौ । अतिसुदुष्करमव्यतिरिक्तदुच्छ्रुतिमरप्यथ दृष्टिविषैरिदम् ॥ २१९ ॥

नमः खलेभ्यः क इवाथवा न तानलं नमस्येदिह यो जिजीविषुः । विनैव ये दोषमृषिप्रकाण्डवन्नयन्ति शापेन रसात्लं नरान् ॥ २२० ॥

अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते । विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥ २२१ ॥

तथारिभिर्न व्यथते शिलीमुखैर्हतो दिगन्ते हृदये न दूरतः । यथा खलानां कुधियां दुरुक्तिभिर्दिवानिशं तप्यति मर्मताडितः ॥ २२२ ॥

गुणापवादेन तदन्यरोपणाद्द्बृशाधिरूढस्य समञ्जसं जनम् । द्विधेव कृत्वा हृदयं निगूहGenericतः स्फुरन्नसाधोर्विवृणोति वागसिः ॥ २२३ ॥

न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः । भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ॥ २२४ ॥

न लज्जते सज्जनवर्जनीयया भुजंगवक्रक्रिययापि दुर्जनः ।


पादटिप्पण्यः (Footnotes)

[वामभागः] १ तुच्छः. २ स्वाभाविकी अन्धा अपश्यन्ती दृग्येषां ते. ३ स्वदोषे. ४ आत्मप्रशंसायां प्रगल्भवाच इत्यर्थः. ५ मौनव्रतिनः. ६ परस्तुतिवचनेषु. ७ शोभना संवृतिः परितापगोपनं यस्य सः. ८ उत्पादितसंतापः. ९ स्फुटे निर्भिन्नः प्रकाशितो दुराशयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः. १० अनिराकॄता न निवारिता तापसंपत्तापातिशयो यया ताम्; पक्षे संतापजननैकस्वभावात्परत्रासतच्छायाविरहात्. ११ इहामुत्र चोपकारशून्याम्; पक्षे,-सर्वार्थरहिताम्. १२ बुधैरूज्झिताम्; पक्षे,-पुष्पैर्वर्जिताम्. १३ खस्य लताम्. गगनलतिकामित्यर्थः १४ दुष्टाम्; पक्षे,-निरुपाख्याम्. १५ शिवम्. १६ कुबेरात्. १७ श्रेष्ठः. १८ अतितीव्राणाम्. १९ गर्वोद्धतो मा भव. २० जिह्वाच्छलेन. २१ सर्पान्. २२ चन्दनम्. २३ शास्त्रवित्, सज्जनो वा.

[दक्षिणभागः] १ दोषैकदृक्त्वम्. २ सूक्तय एव मुक्ताफलानि तासु. ३ सर्वेषामाह्लादके. ४ व्रणम्. ५ शोधयति. ६ मक्षिका. ७ सभायाम्. ८ उत्कर्षम्; पक्षे,-उच्चस्थानम्. ९ अल्पबुद्धिः; पक्षे,-अल्पपरिमाणः. १० अम्बुकणसमुदायः. ११ मन्देन. १२ कम्पितः. १३ उत्कर्षाद्दीयते; पक्षे,-अधोदेशे पतति. १४ भिन्नशरावखण्डेन. १५ निरर्थकविरोधः. १६ इच्छा. १७ असहनशीलता. १८ स्वभावसिद्धम्.

६० सुभाषीतरत्नभाण्डागारम् [२ प्रकरणम्


धियं कुमायासमयभिचारिणी विदग्धतामेव हि मन्यते खलः ॥ २२५ ॥ समर्पिताः कस्य न तेन दोषा हठाद्गुणा वा न हृताः खलेन । तथापि दोषैर्न वियुज्यतेऽसौ स्पृष्टो- ऽपि नैकैन गुणेन चित्रम् ॥ २२६ ॥ आराध्यमानो बहुभिः प्रकारैर्नाराध्यते नाम किमत्र चित्रम् । अय त्वपूर्वः प्रतिभा- विशेषो यत्सेव्यमानो रिपुतामुपैति ॥ २२७ ॥ विद्वांसु- पालम्भमत्राप्य दोषान्निवर्ततेऽसौ परितप्यते च । ज्ञातस्तु दोषो मम सर्वथेति पापो जन पापतर करोति ॥ २२८ ॥ विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय । खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय ॥ २२९ ॥ १ सँद्वशजात २ गुणैकोटियुक्तं धनुः कथ पार्थिववामहस्ते । ३ शरः परप्राणविहारदक्षः सपक्षपातोऽप्य- धमो गरीयान् ॥ २३० ॥ दृष्टो वा सुकृतशतोपलालितो वा श्लिष्टो वा व्यसनशताभिरक्षितो वा । दौःशील्याजनयति नैव जात्वसाधुर्विश्वम्भ भुजग इवाङ्गमध्यसुप्तः ॥ २३१ ॥ एकः खलोऽपि यदि नाम भवेत्सभाया मोघीकरोति विदुषा निखिलप्रयासम् । एकापि पूर्णसुदर मधूरैः पदार्थैरालोढ्य रेचयति हन्त न मक्षिका किम् ॥ २३२ ॥ हालाहल खलु पिपासति कौतुकेन कालानल परिचुचुम्बिषति प्रका- मम् । व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वश- यितु कुरुते ४ मँनीषाम् ॥ २३३ ॥ ते दृष्टमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मसदृशामलकाः खलाश्च । नीचाः सदैव सविलाससलीकलग्ना ये कालतां कुटिलता- मपि न त्यजन्ति ॥ २३४ ॥ प्राक्पादयोः पतति खादति पृष्ठमासं कर्णे कल किमपि ५ रौति शनैर्विचित्रम् । छिद्रं निरूष्य सहसा प्रविशत्यशङ्कः सर्व खलस्य चरित मशकः करोति ॥ २३५ ॥ हित्वा मद सममसजनसज्जनौ तौ वन्दे नितान्तकुटिलप्रगुणस्वभावौ । एक मिया निरभिसंहित- वैरिभाव प्रीत्या पर परमनिवृतिपात्रभूतम् ॥ २३६ ॥ पादाहतोऽपि दृढदण्डसमाहतोऽपि य दष्ट्या स्पृशति तं किल हन्ति सर्पः । हर्षाद्विवैष पिशुनोऽत्र मनुष्यधर्मा कर्णे पर स्पृशति हन्ति पर समूलम् ॥ २३७ ॥ ७ उद्ध्रासिताखिल- खलस्य विशुद्धवृत्तस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः । दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य ८ गोचरगतैः सुखमप्यते कैः ॥ २३८ ॥ सवर्धितोऽपि भुजगः पयसा न वश्यस्तपालकानपि निहन्ति बलेन सिंहः । दुष्टः परैरुप- कृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधैर्विधेयः ॥२३९॥


१ कस्तूरिका तृणभुजामटवीमृगाणां निक्षिप्य नाभिषु चकार च तान्वधार्हान् । मूढो विधिः सकलदुर्जनलोलजिह्वामूले स निक्षिपति चेत्सकलोपकारः ॥ २४० ॥ रूक्ष विरौति परिकुप्यति निर्निमित्तं स्पर्शेन दूषयति वारयति प्रवेशम् । लज्जाकर दशति नैव च तृप्यतीति २ कौलेयकस्य च खलस्य च को विशेषः ॥ २४१ ॥ युक्त यया किल निरन्तर- लब्धवृत्तेरसस्वाभिमानतमसः प्रसर निरोद्धुम् । विद्वत्तया जगति तामवलम्ब्य केचित्तन्वन्त्यहङ्कृतिमहो शतशाखमा- न्ध्यम् ॥ २४२ ॥ प्रायः स्वभावमनिलो महता समीपे तिष्ठ- न्खलः प्रकुरुतेऽर्थजनोपघातम् । शीलादितैः सकललोक- सुखावहोऽपि धूमे स्थिते नहि सुखेन निषेव्यतेऽग्निः ॥ २४३ ॥ धूम्रः पयोधरपदं कथमप्यवाप्य वर्षाम्बुभिः शमयति ज्वलनस्य तेजः । दैवादवाप्य कलुषप्रकृति- र्महत्त्व प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ २४४ ॥ नाश्रयेमेतदधुना हतदैवयोगादुच्चैःस्थितिर्र्यदधमो न महानुभावः । रथ्याकलङ्कशतसकरसकुलोऽपि पृष्ठे भवत्यवकरो न पुनर्निधानम् ॥ २४५ ॥ बिस- मल मशनाय स्वादु पानाय तोयं शयनमवनिपुष्ठे वल्कले वाससी च । नवधनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयमनु- मन्तु नोत्सहे दुर्जनानाम् ॥ २४६ ॥ मलयभुवि विरूढ- श्चन्दनेनाभिवृद्धो न भजति किल वेणुः सौरमं चन्दनस्य । तदिह नहि विचित्रं सर्वदोषाकराणा नहि भवति खलाना साधुतागन्धलेशः ॥ २४७ ॥ हसति लसति हृर्षार्त्तीन्नद्रुःखे परेषा स्खलति गलति मोहादात्मनः क्लेशलेशे । नदति वदति निन्द्य मानिना किं च नीच परुषवचनमल्पं श्रावितो हन्तुमेति ॥ २४८ ॥ दिगन्ते खेलन्ती सरसहृदयानन्द- जननी मया नीता दुष्टप्रचुरनगरी कापि कविता । अकस्मा- दुन्मीलत्खलवदनवल्मीकरसनाभुजगीदष्टाङ्गी ३ शिव शिव समाप्ति गतवती ॥ २४९ ॥ अभूद्द्मभोराशेः सह वसति- रासीत्कमलया गुणानामाधारो नयनफलमिन्दुः ४ प्रथयति । कथ सिहीसूनुस्तमपि तुर्दति प्रौढदशनैर्गुणानामास्वादं पिशु- नरसना कि रसयति ॥ २५० ॥ वृथा दुग्धोऽनड्रान् स्तन- भरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतैरिति लाव- ण्यसहिता । कृता वैडूर्याशा ५ विकटकिरणे काचशकले मया मूढेन त्वा कृपणमगुणज्ञ प्रणमता ॥ २५१ ॥ स्वपक्षच्छेदं वा समुचितफलभ्रशमथवा स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा । शरः प्राप्नोत्येतान्हृदयपथसंस्थोऽपि धनुष ऋजो- र्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभम् ॥ २५२ ॥ गुणा- ना सा शक्तिर्विपदमनुबध्नन्ति यदमी प्रसन्नास्तद्भेधा मम


पादटिप्पण्यः (Footnotes):

वामभागःदक्षिणभागः
१ वेणु, पक्षे,-कुलम्१ वनम्
२ मौर्वी, पक्षे,-विद्याविनयादि२ श्वानस्य
३ अग्रम्, पक्षे,-संख्याविशेष३ राहु
४ मतिम्४ ग्रसति, पीडयतीत्यर्थः.
५ शब्द करोति५ प्रसूतकिरणे
६ पक्षे,-प्राप्य
७ आविष्कृतसकलदुष्टस्य
८ अमर्यादस्य
दुर्जननिन्दा६१
यदि न तैर्योगमकरोत् । विषण्णं दौर्गत्यादिति गुणिनमालोक्य<br>विगुणः करोति स्वे गेहे ध्रुवमतिसमृद्धोत्सवमसौ ॥ २५३ ॥<br>अवेक्ष्य स्वात्मानं विगुणमपरानिच्छति तथा फलेयेतन्नो<br>चेद्विलपति न सन्तीह गुणिनः । निमार्ष्टुं शङ्कु वा परिभवितु-<br>मुद्यच्छति ततोऽप्यहो नीचे रम्या सगुणविजिगीषा<br>विधिकृता ॥ २५४ ॥ न विषममृतं कर्तुं शक्यं प्रयत्नशतै-<br>रपि त्यजति कटुतां न स्वा निम्बः स्थितोऽपि पयोद्दे ।<br>गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश्चिरमपि बला-<br>ध्माते लोहे कुतः कनकाकृतिः ॥ २५५ ॥ यदि परगुणा<br>न क्षम्यन्ते यतस्व तदर्जने न हि परयशो निन्दाव्याजैरल<br>परिमार्जितुम् । विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो<br>दिनकरकरान्पाणिच्छत्रैर्नुदञ्छ्रममेष्यसि ॥ २५६ ॥ शमयति<br>यशः क्लेशं सूते दिशत्यशिवा गति जनयति जनोद्वेगायासं<br>नयत्युपहास्यताम् । भ्रमयति मतिं मानं हन्ति क्षिणोति च<br>जीवितं क्षिपति सकलं कल्याणानां कुल खलसङ्गमः ॥ २५७ ॥<br>जिह्वो<sup></sup> लोकः कथयति पुरा हन्त हित्वा गुणौघानम्भः<br>क्षारं गुणगणनिधेस्तस्य रत्नाकरस्य । विश्वे छिद्रानुसरण-<br>समारूढसर्वेन्द्रियाणा दोषे दृष्टिः पिशुनमनसा नानुरागो<br>गुणेषु ॥ २५८ ॥ सन्तः सच्चरितोदयव्यसनिनः प्रौदुर्भव-<br>द्यन्त्रणाः<sup></sup> सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा ।<br>अन्यैरुन्नतमतिः<sup></sup> कृतेन न सता नैवासता व्याकुलो युक्ता-<br>युक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः<sup></sup> ॥ २५९ ॥<br>या लोभात्सविधे खलस्य सुरसा वाणी बुधैर्नीयते नो<br>जानाति स तामचेतनतया सैव स्वयं लीयते । भर्तुः स्नेह-<br>चयात्प्रविश्य दहने भस्मीभवत्यङ्गना गाढालिङ्गनतत्परेण<br>मनसा प्रेतो न वेत्ति प्रियाम् ॥ २६० ॥ नागच्छन्नुपहूयते<br>न वचनोत्थानासनैः पूज्यते नो पृच्छन्ननुभाष्यते न च<br>दृशा सान्द्रादरं वीक्ष्यते । ईर्ष्यावेशकषायिते हृदि घृणा-<br>लेशोऽपि न स्पृश्यते किं त्वेकः प्रवदन्समक्षसमपि प्राज्ञः<br>शठैर्हस्यते ॥ २६१ ॥ दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारि-<br>तार्थासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः ।<br>अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः को नामाय-<br>मपूर्वनाटकविधिर्यैः शिक्षितो दुर्जनैः ॥ २६२ ॥ जाड्यं<br>हीमति<sup></sup> गण्यते व्रतौ<sup></sup> दम्भः शुचौ कैतवं<sup></sup> शूरे निर्घृणता<sup>१०</sup><br>मुनौ<sup>११</sup> विमतिता दैन्यं<sup>१२</sup> प्रियालापिनि । तेजस्विन्यवलिप्तता<sup>१३</sup><br>मुखरता<sup>१४</sup> वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्सगुणिना यो दुर्जनैर्नाङ्कितः ॥ २६३ ॥ पोतो<sup></sup> दुस्तरवारि-<br>राशितरणे दीपोऽन्धकारागमे निर्विते व्यजनं मदान्धक-<br>रिणां दर्पोपशान्त्यै सृणिः<sup></sup> । इत्थं तद्भुवि नास्ति यस्य विधिना<br>नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि<br>भग्नोद्यमः<sup></sup> ॥२६४॥ धातस्तात तदेव दूषणमिदं यन्नाम कस्तू-<br>रिका कान्तरान्तरचारिणा<sup></sup> तृणभुजा यन्माभिभूले कृता । यद्येवं<br>पिशुनस्य<sup></sup> हन्त रसनामूलेऽकरिष्यस्तदा<sup></sup> प्रायासेन<sup></sup> विनाम-<br>विष्यदतुल कीर्तिंश्च निर्दोषता ॥ २६५ ॥ एके सत्पुरुषाः<br>परार्थघटकाः स्वार्थे परित्यज्य ये सामान्यास्तु परार्थमुद्यम-<br>भृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं<br>स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न<br>जानीमहे ॥ २६६ ॥ नारीणा वचनेन कर्म कुरुते दीनं<br>वचो भाषते नालस्यं विजहाति तिग्मकिरणे प्रौढे समुत्तिष्ठति ।<br>किंचित्कापि न साहस वितनुते देहे चिरं दूयते नो वा<br>विन्दति पौरुष कुपुरुषः कोऽप्येष निर्णीयताम् ॥ २६७ ॥<br>वक्रत्व ननु कुन्तलादिव मुखे तैक्ष्ण्यं कटाक्षादिव क्रूरत्वं<br>कुचमण्डलादिव सुनैर्धुर्यं स्वचित्तादिव । मालिन्यं नयना-<br>ञ्जनादिव किलाधैर्य स्वभावादिव खैरिन्यैव सुशिक्षितोऽसि<br>खल किं जातोऽस्यतोऽरुतुदः ॥ २६८ ॥ वाताहारतया<br>जगद्विषधरैराश्वास्य निःशेषितं ते ग्रस्ताः पुनरभ्रतोयकणि-<br>कातीव्रव्रतैर्बर्हिभिः । तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं<br>लुब्धकैर्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते<br>॥ २६९ ॥ कस्त्वं भद्र खलेश्वरोऽहमिह<sup></sup> किं घोरे वने<br>स्थीयते शार्दूलादिभिरेव<sup></sup> हिंस्रपशुभिः<sup>१०</sup> खोद्योऽहमित्याशया<sup>११</sup><br>कस्मात्कष्टमिदं त्वया व्यवसितं मग्देहामासाशिनः प्रत्युत्पन्न-<br>नृमासमक्षणधियस्ते घ्नन्तु सर्वान्नरान् ॥ २७० ॥ भिक्षो<br>मासनिषेवण प्रकुरुषे किं तेन मद्य विना मद्य चापि तव<br>प्रिय प्रियमहो वाराङ्गनाभिः सह । वेश्या द्रव्यरुचिः<br>कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो<br>नष्टस्य कान्या गतिः ॥ २७१ ॥ वेश्याधेश्मेसु सीधुगन्ध-<br>ललनावक्त्रासवामोदितैर्नीत्वा निर्भरमन्मथोत्सवसुखैरुलिद्र-<br>चन्द्राः क्षपाः । सर्वज्ञा इति दीक्षिता इति चिरात्प्राप्ताभिहोत्रा<br>इति ब्रह्मज्ञा इति तापसा इति दिवा धूर्तैर्जगद्वञ्च्यते<br>॥ २७२ ॥ वृत्ति स्वा बहु मन्यते हृदि शुचं धत्तेऽनु-<br>कम्पोक्तिभिर्व्यक्तं निन्दति योग्यता मितमतिः कुर्वन्स्तुतीरा-<br>त्मनः । गद्योपायनिषेवण कथयति स्वाङ्गं वदन्त्यापदं श्रुत्वा<br>दुःखमरंतुदा वितनुते पीडा जनः प्राकृतः ॥ २७३ ॥<br>पाकश्चेन्न शुभस्य मेऽद्य तदसौ प्रागेव नादात्किमु स्वार्थ-<br>श्रेष्ठं मयास कि न भजते दीनान्सबन्धूनयम् । मत्तो

१ कुटिल २ स्वच्छान्चरणनिरोधो येषा ते ३ अनिपुण<br>मति ४ नीच ५ अन्तिके ६ कपटपट्ट ७ लज्जावति<br>८ व्रतेषु रुचि प्रीतिर्यस्य तस्मिन् ९ शाठ्यम् १० निर्दयता<br>११ मननशीले १२ दीनत्वम् १३ सगर्वता १४ वाचालत्वम्१ नौका २ अङ्कुश ३ भग्नप्रयत्नः ४ दुर्गममार्गसञ्चारि-<br>णाम् ५ सूचकस्य ६ जिह्वामूले ७ प्रकृष्टेन यत्नेन ८ खल-<br>राज ९ व्याघ्रादिभिः १० घातकपशुभिः ११ भक्षणीय •

६२ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्


[वामभागः]

रन्ध्रदृशोऽस भीर्यदि न तल्लुब्धः किमेष त्यजेदित्यन्तः
पुरुषोऽधमः कलयति प्रायः कृतोपक्रियः ॥ २७४ ॥
साश्चर्यं युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं याच्यो-
त्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः । ऐश्वर्यं
स्वकरात्तसमुद्भवं लब्धान्धिपारं यशः सर्वं दुर्जनसंगमेन
सहसा स्पष्टं विनष्टं कलेः ॥ २७५ ॥ वर्णस्य गुरुलाघवं
न गणयत्याशङ्कते न क्वचिद्रूपं नैव परीक्षते न पुरुषं
वृत्तेषु वार्ता कुतः । कष्टं नायशसो बिभेति महतो नैवाप-
शब्दान्तरान्न्मृत्यूर्भूखकविः खलः कुनृपतिश्चौरस्य तुल्यक्रियाः
॥ २७६ ॥ वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवा-
न्क्रूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् । गुह्यानि
प्रकटीकरोति घटयन् यत्नेन वैराण्ययन्ने शीघ्रंमाचष्टेऽमुज्झ-
ति गुणान् गृह्णाति दोषान्खलः ॥ २७७ ॥ कर्णे तत्कथयन्ति
दुन्दुभिरवै राष्ट्रे यदुद्घोषितं तन्नम्राङ्गतया वदन्ति करुणं
यत्त्रात्रपावान्भवेत् । श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न
मर्मान्तकृद्ये केचिन्मनु शाठ्यमौग्ध्यनिधयस्ते भूभृतां
रञ्जकाः ॥ २७८ ॥ ^१भेण्डस्ताण्डवमण्डपे चटुकथावीथीषु
कन्थाकविर्गोष्ठश्वा स्वगृहाङ्गणे शिखरिभृगर्ते खटोखुः स्फु-
टम् । पिण्डीशूरंतया विटश्च पटुतां भूभृद्गृहे गाहते गच्छन्ति
^२ह्रदकृष्टकच्छपतुलां चित्रं ततोऽन्यत्रे ते ॥ २७९ ॥ भिक्षो
कन्था श्लथा ते नहि शफरिवधे जालमर्हासि मत्स्यास्ते वै
मद्योपदर्शाः पिबसि मधु समं वेश्यया यासि वेश्याम् ।
दत्त्वार्द्धिं मूर्खारीणां तव किमु रिपवो भित्तिभेत्तासि येषां
चोरोऽसि द्यूतहेतोस्त्वयि सकलमिदं नास्ति नष्टे विचारः
॥ २८० ॥ दैवादप्युत्तमानामपहरति यदा दुर्जनो वा
कथंचिन्मानं नाम्नोति तेषामनुजनितगुणानेव कुत्राधिकत्वम् ।
^४खैर्भानुर्भानवीयान्हरति यदि पुनः शीतरश्मेर्मरीचींश्चन्द्राण्ड-
स्नेहं खण्डे तदपि नरपते किं अहेशत्वमेति ॥ २८१ ॥ हे
पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियद्धो विशालं कि मद्गा-
धोऽपि बाढं तदतिशठ महापाप मा ब्रूहि मिथ्या । इत्थं कूपो-
दरस्थः शपति तटगतं दर्दुरो राजहंसं नीचः प्रायः शठार्थो
भवति हि विषमो नापराधेन दृष्टः ॥ २८२ ॥ आखुः
कैलासशैलं तुलयति ^५करटस्तार्क्ष्यमासामिलाषी ^६बन्धुर्लाङ्गूलमूलं
चलयति चपलस्तक्षकाहिं जिघासुः । भेकः पारं यियासुर्मु-
जगमपि महागह्वरस्याम्बुराशेः प्रायेणासन्नपातः खरति
समुचितं कर्म न क्षुद्रकर्मा ॥२८३॥ अपूर्वः कोऽपि कोपाग्निः
सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य
वारितः ॥ २८४ ॥ विसृज्य शूर्पवद्दोषान् गुणान्गृह्णन्ति
साधवः । दोषग्राही गुणत्यागी चालनीव हि दुर्जनः ॥२८५॥


[दक्षिणभागः]

लक्ष्मीस्वभावः

या स्वसद्मनि पद्मेऽपि ^१संध्यावधि विजृम्भते । ईन्दिरा
मन्दिरेऽन्येषामपि कथं तिष्ठति सा चिरम् ॥ १ ॥ गुणिनं जनमा-
लोक्य निजबन्धनशङ्कया । राजँल्लक्ष्मीः ^५कुरङ्गीव दूरं दूरं
पलायते ॥ २ ॥ शूरं त्यजामि वैधव्यादुदारं लज्जया पुनः ।
सापत्न्यत्पाण्डित्यमपि तस्मात्कृपणमाश्रये ॥ ३ ॥ गोभिः
क्रीडितवान्कृष्ण इति गोसमबुद्धिभिः । क्रीडन्त्यापि सा
लक्ष्मीरहो देवी पतिव्रता ॥ ४ ॥ अत्यार्यमतिदातारमति-
शूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति
॥ ५ ॥ अनागतविधातारमप्रमत्तमकोपनम् । स्थिरारम्भ-
मदीनं च नरं श्रीरुपतिष्ठते ॥ ६ ॥ मन्ये सत्यमहं लक्ष्मीः
समुद्राद्बूलिरुत्थिता । पश्यन्तोऽपि न पश्यन्ति सन्तो विह्वल-
लोचनाः ॥ ७ ॥ समायाति यदा लक्ष्मीनारिकेलफलाम्बुवत् ।
विनिर्याति यदा लक्ष्मीर्गजभुक्तकपित्थवत् ॥ ८ ॥ लक्ष्मी-
र्यादोनिधेर्यादो^६ नादो^८ वादोचितं वचः । बिभ्यती ^९धीवरेभ्यो
या ^१०जैडेध्वेव निर्मञ्जति^११ ॥ ९ ॥ कुटिला लक्ष्मीर्यत्र
प्रभवति न सरस्वती वसति तत्र । प्रायः श्वश्रूस्नुषयोर्न
दृश्यते सौहृदं लोके ॥ १० ॥ ^१२अध्यवसायिनमलसं ^१३दैवपरं
साहसाच्च परिहीनम् । प्रमदा पतिमिव वृद्धं नेच्छति लक्ष्मी-
रुपस्थातुम् ॥ ११ ॥ गुणवद्भिः सह सङ्गममुखैः पदमाप्तुमु-
त्सुका लक्ष्मीः । ^१४वीरकरवालवसतिर्भुवमसिधाराव्रतं^१५ चरति
॥ १२ ॥ श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरि-
तानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि
॥ १३ ॥ वाक्वक्षुःश्रोत्रलयं लक्ष्मीः कुरुते नरस्य को दोषः ।
गरलसहोदरजाता तच्चित्रं यन्न मारयति ॥ १४ ॥ अनु-
भवत ददत वित्तं मान्यान्मानयत सज्जनान्भजत । अति-
परुषपवनविलुलितदीपशिखाचञ्चला लक्ष्मीः ॥ १५ ॥ रत्ना-
करतनुजनुष्वि द्विजराजे राजनि श्रियो मित्रे । अमृतकरे च
कलावति पद्मिनि वामा कुतो भवसि ॥ १६ ॥ पूरयति पूर्ण-
मेषा तरङ्गिणीसंहतिः समुद्रमिव । लक्ष्मीरघनस्यान पुनर्लोचन-
मार्गेऽपि नायाति ॥ १७ ॥ सुव्यवसायिनि शूरे क्लेशसहि-
ष्णावनानुकूलारम्भे । मयि पृष्ठतो विलंभे यास्यसि कमले
कियद्दूरम् ॥ १८ ॥ अपि दोर्भ्यां परिबद्धा बद्धापि गुणैरने-
कधा निपुणैः । निर्गच्छति क्षणादिव जलधिजलोत्पत्तिपि-
च्छिला लक्ष्मीः ॥ १९ ॥ हरिभामिनि सिन्धुसम्भवे कमले


पादटिप्पण्यः (Footnotes)

[वामभागटिप्पण्यः] १ अश्लीलवाक्यभाषी अन्धमूकं च २ जलाशयाद्बहिराकृष्टकच्छपतुल्यां दशाम् ४ राहुः ५ काकः ६ नकुलः

[दक्षिणभागटिप्पण्यः] १ संध्याकालपर्यन्तम् २ विराजते ३ लक्ष्मी ४ स्थिरा ५ मृगीव ६ समुद्रस्य ७ जलजन्तु ८ अदो वचो वादोचितं न ९ कैवर्तेभ्यः, पक्षे-बुद्धिश्रेष्ठेभ्यः १० मूर्खेषु, पक्षे,-डल्योः सावर्ण्यात् उदकेषु. ११ अन्तर्गच्छति, पक्षे,-सुस्थिरं तिष्ठति १२ अनुद्योगिनम् १३ नियतिपरम् १४ तरुणाली १५ खड्गः

लक्ष्मीस्वभावः६३

किं कथयामि ते गुणान् । अनुरज्यसि हा जडे जने गुण- गौरवे पुरुषे विरज्यसि ॥ २० ॥ वीक्षितानि तव वारिधि- कन्ये यत्र पालितजगन्ति लगन्ति । चित्रमत्र च परञ्च च देहो देहिशब्दमपहाय चकास्ति ॥ २१ ॥ यद्वदन्ति चप- लेत्यपवादं नैव दूषणमिदं कमलायाः । दूषणं जलनिधेर्हि भवेत्तद्यत्पुराणपुरुषाय ददौ ताम् ॥ २२ ॥ चाञ्चल्यमुच्चै- श्श्रवस्तुरगात्कौटिल्यमिन्दोर्विषतो विमोहः । इति श्रिया- शिक्षि सहोदरेभ्यो न वेद्मि कस्माद्गुणद्विरोधः ॥ २३ ॥ श्वश्रू विना वृत्तिरिह स्वतन्त्रा प्रायः स्नुषाणामपवादहेतुः । यद्वाणि लोके रमया विहीना सतीमपि त्वामसतीं वदन्ति ॥ २४ ॥ उत्साहसपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसने- ष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः ॥ २५ ॥ हालाहलो नैव विषं विषं रँमा जनार्द- पर व्यैत्ययमत्र मन्यते । निपीय जागर्ति सुखेन तं शिवः स्पृशन्निमा मुह्यति निद्रया हरिः ॥ २६ ॥ तापापहे सुहृदये रुचिरे प्रबुद्धे मित्रानुरागनिरते धृतसद्गुणौघे । स्वाङ्गप्रधानप- रिपूरितषट्पदोघे युक्तं तवेह कमले कमले स्थितियत् ॥२७॥ रत्नाकरस्तव पिता कमले निवासो भ्राता सुधामयतनूः पतिरौदिदेवः । केनापरेण कमले बत शिक्षितानि साङ्ग- शृङ्गकुटिलानि विचेष्टितानि ॥ २८ ॥ लक्ष्मि क्षमस्व वच- नीयमिदं दुरुक्तमन्धीभवन्ति पुरुषास्त्वदुपासनेन । नो चेत्कथं कमलपत्रविशालनेत्रो नारायणः स्वपिति पन्नगभो- गतल्पे ॥ २९ ॥ अँसौभाग्यं धत्ते परमसुखभोगस्पदंमय विचित्रं तद्गेहं भवति पृथुकार्तस्वैरमयम् । निविष्टं पत्यङ्के कलयति स कौन्तारतरण प्रसादं कोप वा जननि भवती यत्र तनुते ॥ ३० ॥ समुद्रस्यापत्यं प्रथितमहिमामुद्रित- भुवः स्वसा प्रौलेयांशोर्न्नयनशिरोधामवसतेः । मुरैरा- तेर्योत्सत्त्वैरसिरुहकिञ्जल्कानिलया तथापि श्री स्त्रीत्वात्प्रकृ- तिचपलाऽऽलिङ्गति खलान् ॥ ३१ ॥ तीक्ष्णादुद्विजते मृदौ परिभवत्रासान्न सत्तिष्ठते मूर्खान्द्वेष्टि न गच्छति प्रणयिता- मत्यन्तविद्वत्स्वपि । शूरेभ्योऽप्यधिकं बिभेत्युपहसत्येकान्त- भीरूनपि श्रीर्लब्धप्रसरेव वेश्यैववनिता दुःखोपचर्या भृशम् ॥ ३२ ॥ कस्यैचित्कपटाय कैटभरिपुः पीठदीर्घालया देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे । यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते नीचान्नीचतरो- पसर्पणमपामेतत्किमाचार्यकम् ॥ ३३ ॥ पद्मे मूढजने ददासि विभवं विद्वत्सु किं मत्सरो नाहं मत्सरिणी न चापि चपला नैवास्ति मूर्खे रति । मूर्खेभ्यो द्रविणं ददामि नितरां तत्कारणं श्रूयता विद्वान्सर्वगुणेषु पूजिततनुर्मूर्खस्य नान्या गतिः ॥ ३४ ॥ तिर्यक्त्वं भजतु प्रतारयतु वा धर्मक्रियाकोविदं हन्तु स्वा जननीं पिबत्वपि सुरा शुद्धा वधूमुज्झतु । वेदान्निन्दतु वा हिनस्तु जनतां किं वाऽनया चिन्तया लक्ष्मीर्यस्य गृहे स एव भजति प्रायो जगद्व- न्द्यताम् ॥ ३५ ॥ आलस्यं स्थिरतामुपैति भजते चापल्य- मुद्योगिता मूकत्वं मितभाषिता वितनुते मौढ्यं भवेदार्जवम् । पात्रापात्रविचारणाविरहिता यच्छत्युदारामता मातर्लक्ष्मि तव प्रसादवशतो दोषा अमी स्युर्गुणाः ॥ ३६ ॥ हे लक्ष्मि क्षणिके स्वभावचपले मूढे च पापेऽधमे न त्वं चोत्तमपात्रमिच्छसि खले प्रायेण दुश्चारिणी । ये देवार्चन- सत्यशौचनिरता ये चापि वर्मे रतास्तेभ्यो लज्जसि निर्दये गतमतिनाचो जनो वल्लभः ॥ ३७ ॥ नाहं दुश्च- रिणी न चापि चपला मूर्खो न मे रोचते नो शूरो न च पण्डितो न च शठो हीनाक्षरो नैव च । पूर्वैस्सिन्कृतपुण्य- योगविभवो भुङ्क्ते स मे सत्फलं लोकाना किमबद्धता सखि पुनर्द्वेष्टा परा संपदम् ॥ ३८ ॥ हन्तुर्बन्धुजनान्धनाधर्मेंन- धान्गन्तु परस्त्रीशत रन्तुर्जन्तुविहिँसकैः सह जनैः सतु- ष्यतो वञ्चनैः । वक्तुर्वतीक्षणमयुक्तमेव वचन पैक्तुर्मित चौदन नित्यं नृत्यसि मन्दिरेषु कमले कॅल्यं तवैतन्मतम् ॥ ३९ ॥ यत्राभ्यागतदानमानचरणप्रक्षालन भोजन सत्सेवा पितृदेवतार्चनविधिः सत्यं गवा पालनम् । धान्या- नामपि सग्रहो न कलहश्चित्तानुरूपा प्रिया हृष्टा प्राह हरि वसामि कमला तस्मिन्गृहे निश्चला ॥ ४० ॥ येषामन्यै- कलत्रदर्शनकलाव्युत्पत्तिशून्ये दृशौ मूढ ह्रुच्च परार्थचिन्तन- विधौ मिथ्यात्वभिज्ञ मुखम् । अप्राज्ञातपशून्बुभुक्षितशिशून्- श्रोदकैस्ताम्यतस्तेषा लक्ष्मि गृहान्दशापि भयभीतेवेह नो वीक्षसे ॥ ४१ ॥ नो जानाति कुलीनमुत्तमगुण सत्त्वान्वितं धार्मिकं नाचारप्रवर्ण न कार्यकुशल न प्रज्ञयालंकृतम् । नीचं क्रूरमपेतसत्त्वमदय यस्मादिय सेवते तद्वंशाद्युगुण पेयोधिसुतया लक्ष्म्या प्रमाणीकृतम् ॥ ४२ ॥ पीतोऽग-


पादटिप्पण्यः (Footnotes)

वामभागस्थ-पादटिप्पण्यः : १ लक्ष्म्या २ नारायणाय, पक्षे,-वृद्धाय ३ विषभेद ४ लक्ष्मी ५ विपरीतभावम् ६ चन्द्र ७ नारायण ८ हरिणशृङ्गवद्रकाणि ९ सर्पशरीरशय्यायाम् १० हे जननि, भवति यत्र यस्मिन्पुरुषे प्रसाद तनुते करोत्यसौ पुरुषो भाग्यमैश्वर्यं धत्ते यत्र कोप तनुते सोऽसौभाग्य सौभाग्याऽभाव धत्ते अय प्रसादविषय परंमसुखभोगा नामास्पदम् अय कोपविषय परमत्यन्तमसुखभोगास्पदम् भवतीति शेष ११ तस्य पूर्वोक्तस्य पुरुषस्य गेह विविधचित्रयुक्त तथा पृथु महत्कार्तेस्वरं स्वर्णे तन्मय भवति, पक्षे,-चित्ररहित तथा पृथुकाना बालानामन्नाभावप्रयुक्तैनातस्वरैण प्रचुरम् १२ सुवर्णमयम् १३ सपूर्वोक्त पुरुष कान्ताया रत रमण तदेव रण युद्धम्, पक्षे,- कान्तार दुर्गमारण्य तत्तरण कलयति १४ चन्द्रस्य १५ विष्णो

दक्षिणभागस्थ-पादटिप्पण्यः : १ वैश्या २ प्रिय ३ निष्पापाम् ४ प्राणिविघातकै ५ अयोग्यम् ६ मितपचम् ; कृपणमिति भाव ७ क्षिप्रकारकम् ८ परस्त्री ९ पयो नीचैरेव गच्छति, समुद्रे क्रूरजलचरा प्रसिद्धा, अत एव सिद्धमस्य साधकत्वम् ।

६४सुभाषितरत्नभाण्डागारम्[ २ प्रकरणम्

स्त्येन तातश्चरणतलहतो वल्लभोऽन्येन रोषाद्बाल्याद्विप्रवर्यैः स्ववदनविवरे धारिता वैरिणी मे । गेह मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्ना सदाह द्विजकुलसदन नाथ नित्य त्यजामि ॥ ४३ ॥

धनप्रशंसा

अहो कनकमाहात्म्य वक्तु केनापि शक्यते । नामसाम्यादहो चित्र धत्तूरोऽपि मदप्रदः ॥ १ ॥ न वित्त दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो । मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ २ ॥ धनमर्जय काकुत्स्थ धनमूलमिद जगत् । अन्तर नैव पश्यामि निर्धनस्य मृतस्य च ॥ ३ ॥ ब्रह्मघ्नोऽपि नरः पूज्यो यस्यास्ति विपुल धनम् । शशिना तुल्ययशोऽपि निर्धनः परिभूयते ॥ ४ ॥ कुत आगत्य घटते विघट्य क्व नु याति च । न लक्ष्यते गतिश्चित्रा धनस्य च घनस्य च ॥ ५ ॥ स्त्रीरूप मोहक पुसो यून एव भवेत्क्षणम् । कनक क्लीबालवृद्धषण्ढानामपि सर्वदा ॥ ६ ॥ न नरस्य नरो दासो दासश्चार्थस्य भूपते । गौरव लाघव वापि धनाधननिबन्धनम् ॥ ७ ॥ विभवो हि यथा लोके न शरीराणि देहिनाम् । चाण्डालोऽपि नरः पूज्यो यस्यास्ति विपुल धनम् ॥ ८ ॥ यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ९ ॥ त्यजन्ति मित्राणि धनैर्विहीन पुत्रारच दाराश्च सुहृज्जनाश्च । तमर्थवन्त पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥ १० ॥ बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न च्छन्दसा केनचिदुद्धृत कुल हिरण्यमेवार्जय निष्फला गुणाः ॥ ११ ॥ धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापद मानवा निस्तरन्ति । धनेभ्यः परो बान्धवो नास्ति लोके धनान्यर्जयध्व धनान्यर्जयध्वम् ॥ १२ ॥ दुन्दुभिस्तु सुतरामचेतनस्तन्मुखादपि धैनं धन धनम् । इत्थमेव निनदः प्रवर्तते कि पुनर्यदि जनः सचेतनः ॥ १३ ॥ त्यक्त्वा युवा स्वयुवति सुविलासयोग्या दूर विदेशवसतौ निवसन्धनार्थी । राज्यंगमे खरति ता न समेति तस्मात्कान्ताप्रासादपि वरः कनकाश्रमोऽयम् ॥ १४ ॥ जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु शील शैलतटात्पतत्वभिजनः सदह्यता वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवल येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ १५ ॥ माता निन्दति नाभिनन्दति पिता भ्राता न संभाषते भृत्यः कुप्यति नानुगच्छति सुतः कान्ता च नालिङ्गते । अर्थप्रार्थनशङ्कया न कुरुते संभाषण वै सुहृत्तस्माद्द्रव्यमुपार्जयस्व सुमते द्रव्येण सर्वे वशाः ॥ १६ ॥


धननिन्दा

अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते । जनितारमपि त्यक्त्वा निःस्व गच्छति दूरत ॥ १ ॥ लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् । शेषे धराभरक्लान्ते शेते नारायणः सुखम् ॥ २ ॥ वरं हालाहल पीतं सद्यः प्राणहर विषम् । न तु दृष्ट धनान्धस्य भ्रूभङ्गकुटिलं मुखम् ॥ ३ ॥ भैक्ते द्वेषो जडे प्रीतिररुचिर्गुरुल्लङ्घने । मुखे च कटुता नित्य धनिना ज्वरिणामिव ॥ ४ ॥ आलिङ्गिताः पर्य्यान्ति प्रस्खलन्ति संमे पथि । अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥ ५ ॥ आजन्मानुगतेऽप्यस्मिन्नाले विमुखमम्बुजम् । प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियम् ॥ ६ ॥ धन तावदसुलभ लब्धं कृच्छ्रेण रक्ष्यते । लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥ ७ ॥ जनयन्त्यर्जने दुःख तापयन्ति विपत्तिषु । मोहयन्ति च संपत्तौ कथमर्थाः सुखावहाः ॥ ८ ॥ यथामिष जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ ९ ॥ राजतः सलिलादग्नेश्चोरतः स्वजनादपि । भयमर्थवता नित्य मृत्योः प्राणभृतामिव ॥ १० ॥ धनाशया खलीकारः कस्य नाम न जायते । दूरादामिषलोभेन बध्यते खेचरः खगः ॥ ११ ॥ बधिरयति कर्णविवर वाच मूकयति नयनमन्धयति । विकृतयति गात्रयष्टिं रूपद्रोगोऽयमद्भुतो राजन् ॥ १२ ॥ लक्ष्म्या परिपूर्णोऽह न भय मेऽस्तीति मोहनिद्रैषा । परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः ॥ १३ ॥ अर्जुनीयति यदर्जने जनो वर्जनीयजनैर्त्तर्जनादिभिः । मँङ्क्षु नश्यति चिराय सचिता वञ्चिता जगति के न सपदा ॥ १४ ॥ अर्थार्थी जीवलोकोऽय ज्वलन्तमुपसर्पति क्षीणक्षीरा निराजीव्या वत्सस्त्यजति मातरम् ॥ १५ ॥ अर्थार्थी यानि कष्टानि मूढोऽय कुरुते जनः । शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥ १६ ॥ अर्थानामर्जने दुःखमर्जिताना च रक्षणे । आये दुःखं व्यये


पादटिप्पण्यः

१ समुद्र २ भृगुणा. ३ सरस्वती. ४ कमलम् ५ 'धत्तरकनवाह्वय' इति कोश ६ परिभव प्राप्नोति ७ शङ्खश्च ८ प्रेक्षणीय • ९ 'धन धन धनम्' इत्यनुकरणशब्द, पक्षे,-वित्तम्

१ मनाक्प्रियम् २ भ्रुकुटिमोटनेन वक्रम् ३ भक्ता सेवकास्तेषा द्वेष, पक्षे,-भक्तमन्न तद्वेष ४ जडेषु मूर्खेषु प्रीति, (पक्षे डलयो सावर्ण्यात्) जले रुचि. ५ गुरूणा पित्र। दीनामुल्लङ्घने, पक्षे,-गुरु यल्लङ्घनमुपवासस्तस्मिन्. ६ कटुभाषिण्वम्, पक्षे,-कटुत्वम्. ७ अविषमे ८ आकाशे चरन्नपि ९ विलक्षण १० राहोः ११ महताबाहुवदाचरति १२ भयत्रासादिभि १३ झटिति.

धननिन्दा-धनिप्रशंसा-दरिद्रनिन्दा
६५


दुःखं धिगर्थाः कष्टसंश्रयाः ॥१७॥ वरमसिधारा तरुतलवासो
वरमिह भिक्षा वरमुपवासः । वरमपि घोरे नरके पतनं न
च धनगर्वितबान्धवशरणम् ॥ १८ ॥ तानीन्द्रियाण्य-
विकलानि¹ मनस्तदेव सा बुद्धिरप्रतिहता² वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव ह्यन्यः क्षणेन भवतीति
विचित्रमेतत् ॥ १९ ॥ आपद्गतं⁴ हससि किं द्रविणान्ध
मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् । एतान्प्र-
श्यसि घटाञ्जल यन्त्रचक्रे रिक्ता भवन्ति भरिता भरिताश्च
रिक्ताः ॥ २० ॥ धनमपि परदत्तं दुःखमौचित्यभाजा³
भवति हृदि तदेवानन्दकारीतरेषाम् । मलयजरसबिन्दुबी-
धते नेत्रमन्तर्जनयति च स एवाह्लादमन्यत्र गात्रे ॥ २१ ॥
लभेद्यैद्युतं⁵ धनं तदधनं धनं यद्यपि लभेत निर्युतं⁶ धनं
निधनमेव तज्जायते । तथा धनपरार्धकं⁷ तदपि माव-
हीनात्मकं यदक्षरपदद्वयान्तरगतं⁸ धनं तद्धनम् ॥ २२ ॥
दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति⁹ भूमिभुजो दूरेण
च्छलमाकलय्य¹⁰ हुतभुग्भस्मीकरोति¹¹ क्षणात् । अम्भः
प्लावयते क्षितौ विनिहितं यक्षा हरन्ति ध्रुवं दुर्द्वत्तास्तनया¹²
नयन्ति निधनं¹³ धिग्विग्ध्वनं तद्बहु ॥ २३ ॥


धनिप्रशंसा

धनवान्बलवाँल्लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं
हि राज्ञामप्युपजायते ॥ १ ॥ वयोवृद्धास्तपोवृद्धा ज्ञान-
वृद्धाश्च ये परे । ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः
॥ २ ॥ न सा विद्या न तच्छीलं न तद्दानं न सा कला ।
अर्थार्थिभिर्न तच्छौर्यं धनिनां यन्न कीर्त्यते ॥ ३ ॥ पतन्ति
खङ्गधारासु विशन्ति मँकरालयम्¹⁴ । किं न कुर्वन्ति सुभगे
कष्टमर्थार्थिनो जनाः ॥ ४ ॥ एहि गच्छ पतौत्तिष्ठ वद
मौनं समाचर । एवमाश्राग्रहग्रस्तैः क्रीडन्ति धनिनो-
ऽर्थिभिः ॥ ५ ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य
बान्धवाः । यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः
॥ ६ ॥ को नाम नानुवृत्त्या सुमहदपि धनवतः कुरुते ।
वित्तेशभवनभित्तेः समीपमुपसेवते शंभुः ॥ ७ ॥ हेतुप्रमाण-
युक्तं वाक्यं न श्रूयेत दरिद्रस्य । अप्यैतिपरुषमसमत्स्य¹
पूज्यं वाक्यं समृद्धस्य ॥ ८ ॥ वैभवभाजा दूषण-
मपि भूषणपक्ष एव निक्षिप्तम् । गुणमात्मनामधर्मं द्वेषं
च गृणन्ति कौणादाः ॥ ९ ॥ वाणी दरिद्रस्य शुभा³
हितापि ह्यर्थेन शब्देन च सप्रयुक्ता । न शोभते वित्तवतः
समीपे भेरीनिर्नादोपहतैव वीणा ॥ १० ॥ यादृशि तादृशि
वित्तसनाथे पक्ष पिशाचशतानि वसन्ति । यानि पुनर्निव-
सन्ति महीशे तानि न केनचिदाकलितानि ॥ ११ ॥
न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा ।
कैपालिना⁵ मौलिधृतापि⁶ जाह्नवी प्रयाति रत्नाकरमेव सत्वरम्
॥ १२ ॥ गङ्गा च धारयति मूर्ध्नि सदा कपाली सा तस्य
चुम्बति मुखं न कदाचिदेव । रत्नाकरं प्रति चुचुम्ब
सहस्रवक्त्रैर्गङ्गा यतो युवतय सधनानुकूलाः ॥ १३ ॥
धिग्वस्त्रेतां विद्यां धिगपि कवितां धिक् सुजनता वयो रूपं
धिग्धिग्धिगपि च यशो निर्धनवतः । असौ जीयादेकः
सकलगुणहीनोऽपि धनवान्बहिर्यस्य द्वारे तृणलवनिभाः
सन्ति गुणिनः ॥ १४ ॥ परिक्षीण. कश्चित्स्पृहयति यवानां
प्रसृतये स पश्चात्संपूर्ण. कलयति धरित्रीं तृणसमाम् ।
अतश्चानैकान्त्याद्बहुलघुतयार्थेषु धनिनामवस्था वस्तूनि
प्रथयति च सङ्कोचयति च ॥ १५ ॥


दरिद्रनिन्दा

उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः । बाल-
वैधव्यदग्धानां कुलस्त्रीणां कुचा इव ॥ १ ॥ हे दारिद्र्य
नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । पश्याम्यहं जगत्सर्वं न
मा पश्यति कश्चन ॥ २ ॥ इह लोकेऽपि धनिनां परोऽपि
स्वजनायते । स्वजनोऽपि दरिद्राणां तत्क्षणाद्दुर्जनायते
॥ ३ ॥ परीक्ष्य सत्कुलं विद्यां शीलं शौर्यं सुरूपताम् ।
विधिर्ददाति निपुणः कन्यामिव दरिद्रताम् ॥ ४ ॥ येनैर्वा-⁸
म्बरखण्डेन संवीतो निशि चन्द्रमाः । तेनैव च दिवा
भानूरहो दौर्गत्यमेतयोः ॥ ५ ॥ चाण्डालश्च दरिद्रश्च
द्वावेतौ सदृशाविह । चाण्डालस्य न गृह्णन्ति दरिद्रो न
प्रयच्छति ॥ ६ ॥ अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ ७ ॥
द्वाविमावम्भसि क्षेप्यौ गाढं बद्धा गले शिलाम् । धनिनं
चाप्रदातारं दरिद्रं चातपस्विनम् ॥ ८ ॥ अत्यन्तविमुखे⁹
दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनादन्यत्कुतः


[पादटिप्पण्यः]

वामभागः:
१ वैकल्यरहितानि
२ अखण्डिता
३ द्रव्यरूपोन्नतया
४ विपद्ग्रस्तम्
५ दशसहस्रम्, पक्षे,-अकारेण युतं धनम्, अधन-मित्यर्थं
६ लक्षसंख्याकम्, पक्षे,-निंशब्देन युतं धनम्, निधन-मित्यर्थः
७ धनस्य परार्धे संख्याविशेषः; पक्षे,-धनशब्दसवनिध-परमर्थे 'न' इति तच्च भावहीनात्मकम् अभाववोधकमित्यर्थं
८ अक्षरं परमात्मा तच्चरणद्वयान्तरे गतं प्राप्तं यद्धनं मोक्षरूपं धनं तदेव धनम्, पक्षे,-अक्षरयोः पकारदकारात्मकयोर्मध्यवर्ति धन इत्येतदक्षरद्वयरूपम्, धनमित्यर्थं
९ हरन्ति
१० कपटम्.
११ अग्नि
१२ दुष्टाचरणा
१३ नाशम्
१४ समुद्रम्
९ सु. र. भा.

दक्षिणभागः:
१ अतिकठोरम्
२ वैशेषिकशास्त्रप्रवर्तका
३ कल्याणी.
४ दुन्दुभिध्वनिसुप्तेव,
५ शंकरेण
६ मस्तक
७ वधूपक्षे,-'कुलमादौ परीक्षेत' इति विधि, अन्यत्र,-प्रायो हि पण्डिता अकिञ्चना इति दृष्टचरम्
८ आकाशम्, पक्षे,-वस्त्रम्
९ पराङ्मुखे

६६सुभाषितरत्नभाण्डागारम्[२ प्रकरणम्

सुखम् ॥ ९ ॥ दूये कान्ताकरं वीक्ष्य मणिकङ्कणवर्जितम् । अतः परं परं दूये मणिकं कणवर्जितम् ॥ १० ॥ रात्रौ जानुर्दिवा भानुः कृशानुः संध्ययोर्द्वयोः । पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥ ११ ॥ किं करोमि क्व गच्छामि कमुपैमि दुरात्मना । दुर्भरेणोदरेणाहं प्राणैरपि विडम्बितः ॥ १२ ॥ दुःखं दुःखमिति ब्रूयान्मानवो नरकं प्रति । दारिद्र्यादधिकं दुःखं न भूतं न भविष्यति ॥ १३ ॥ किं चान्यैः सुकुलाचारैः सेव्यतामेति पूरुषः । धनहीनः स्वपत्नीभिस्त्यज्यते किं पुनः परैः ॥ १४ ॥ किं वाच्यं सूर्येशशिनोर्दारिद्र्यं महता पुरः । दिनरात्रिविभागेन परिधत्तो यदम्बरम् ॥ १५ ॥ मौर्य्यं सर्व्वापदा निष्ठा का हि नापद- जानतः । तस्मिन्नप्यविषण्णो यः क सोऽन्यत्र विपत्स्यति ॥ १६ ॥ यदि नाम कुले जन्म तत्किमर्थं दरिद्रता । दरिद्रत्वेऽपि मूर्खत्वमहो दुःखपरम्परा ॥ १७ ॥ क' स्वभाव- गभीराणां जानीयाद्बहिरापदम् । बालपत्येन भृत्येन यदि सा न प्रकाश्यते ॥ १८ ॥ सन्तोऽपि न विराजन्ते हीनार्थस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥ १९ ॥ वरं हि नरके वासो न तु दुश्चरिते गृहे । नरकात्क्षीयते पापं कुगृहात्परिवर्धते ॥ २० ॥ नातः पापीयसीं कश्चिदवस्थां शम्बरोऽब्रवीत् । यस्या नैवाद्य न प्रातर्भोजनं तात विद्यते ॥ २१ ॥ न तथा बाध्यते राज- ञ्छूकृत्या निर्धनो जनः । यथा भद्राणि संप्राप्य तैर्र्विहीनः सुखोचितः ॥ २२ ॥ कुब्जस्य कीटखातस्य दावनिष्कुषित- त्वचः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ २३ ॥ धर्मार्थकामहीनस्य परकीयान्नभोजिनः । काकस्येव दरिद्रस्य दीर्घमायुर्विडम्बना ॥ २४ ॥ शीतमध्व्या कदन्नं च वयो- तीताश्च योषितः । मनसः प्रातिकूल्यं च जरायाः पञ्च हेतवः ॥ २५ ॥ सुहृदा हि धनं भुक्त्वा कृत्वा प्रणयमी- प्सितम् । प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ २६ ॥ लज्जावतः कुलिनस्य याचितुं धनमिच्छतः । कण्ठे पाराव- तस्येव वाक्करोति गतागतम् ॥ २७ ॥ कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू । म्रियमाणस्य चिह्नानि यानि तान्येव याचतः ॥ २८ ॥ धन्यास्ते ये न पश्यन्ति देश- भङ्गं कुलक्षयम् । परचित्तगतान्दारान्पुत्रं च व्यसनातुरम् ॥ २९ ॥ शेषभार्य्यं तु काव्येन काव्यं गीतेन हन्यते । गीतं तु स्त्रीविलासेन स्त्रीविलासो बुभुक्षया ॥ ३० ॥ जी- वन्त्यर्थक्षये नीचा याञ्चोपद्रववञ्चनैः । कुलाभिमानमूकानां साधूनां नास्ति जीवनम् ॥ ३१ ॥ शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥ ३२ ॥ पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम् । सर्पश्रोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ३३ ॥ अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया । अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥ ३४ ॥ पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रतिसममावयोः संदनम् ॥ ३५ ॥ दारिद्र्यान्मरणाद्वा मरणं संरोचते न दारिद्र्यम् । अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् ॥ ३६ ॥ तावत्सन्ति सहाया यावज्जन्तुर्न कृच्छ्रमाप्नोति । अभिपतति शिरसि मृत्यौ कं कः शक्तः परित्रातुम् ॥ ३७ ॥ विकसामि रवावुदिते संकोचमुपैमि चास्तमुपयाते । दारिद्र्यसरसि मग्नः पङ्कज- लीलामनुभवामि ॥ ३८ ॥ घृतलवणतैलतण्डुलशाकेन्धन- चिन्तयानुदिनम् । विपुलगतेरपि पुंसो नश्यति धीर्मन्दविभ- वत्वात् ॥ ३९ ॥ वीणा वंशश्चन्दनं चन्द्रभासः शय्या यानं यौवनस्थास्तरुण्ह्यः । नैतद्रम्यं क्षुत्पिपासार्दितानां सर्व्वारम्भा- स्तण्डुलप्रस्थमूलाः ॥ ४० ॥ दारिद्र्य भोस्त्वं परमं विवेकि गुणाधिके पुंसि सदानुरक्तम् । विद्याविहीने गुण- वर्जिते च मुहूर्तमात्रं न रतिं करोषि ॥ ४१ ॥ दारिद्र्य शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा । विपन्ने देहे मयि मन्दभाग्ये मेमेति चिन्ता क्व गमिष्यसि त्वम् ॥ ४२ ॥ एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे । न तेन दृष्टं कविना समस्तं दारिद्र्यमेकं गुणकोटिहारि ॥ ४३ ॥ धनैर्विमुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत् । यस्य प्रतीकारनिरर्थकत्वा- त्कोपप्रसादा विफलीभवन्ति ॥ ४४ ॥ अहो नु कष्टं सततं प्रवासस्ततोऽतिकष्टः परगेहवासः । कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च ॥ ४५ ॥ वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बुभोजनम् । तृणानि


१ खेदं प्राप्नोमि २ मणियुक्तं यत्कङ्कणं तेन वर्जितम् ३ अत्य- न्तम् ४ मृण्मयपात्रम् ५ धान्यकणरहितम् ६ अग्नि ७ आकाशम्, पक्षे,-वस्त्रम्

१ दरिद्रस्य दोष इत्यर्थे २ पृथूनि कार्तस्वरस्य सुवर्णस्य पात्राणि यस्मिंस्तत्, पक्षे,-पृथुकानां बालानामात्तैः स्वरा रुदितशब्दास्तेषां पात्रं भाजनम् ३ भूषिता अलंकृता निःशेषाः परिजना यस्मिन्, पक्षे,- भुवि उषिता निःशेषाः परिजना यस्मिन् ४ विलसन्त्यः शोभमानाः करेणवो हस्तिन्यस्ताभिर्गहनं निबिडम्, पक्षे,-चवयोः सावर्ण्ण्यात् बिले सीदन्तीति बिलसदः, बिलसद एव बिलसत्का बिलवर्तिनो ये रेणवो धूलयस्तैर्गहनं व्याप्तम् ५ गृहम् ६ विचारशीलम् ७ प्रीतिम्. ८ स्थित्वा ९ विनष्टशरीरे १० हतभाग्ये ११ गुणसमुदाये १२ कालिदासः 'एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणे- ष्विवाङ्कः' इति कुमारसंभवस्य पद्ये १३ कोटिगुणनाशकमिति भावः १४ परगृहवासः

दरिद्रनिन्दा

शय्या वसनं च वल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ ४६ ॥

यदा तु भाग्यक्षयपीडिता दशां नरः कृतान्तोपहितां प्रपद्यते । तदास मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥ ४७ ॥

दानं न दत्तं न तपश्च तप्तं नाराधितौ शंकरवासुदेवौ । अग्नौ रणे वा न हुतश्च कायः शरीर किं प्रार्थयसे सुखानि ॥ ४८ ॥

फलाशिनो मूलतृणाम्बुभक्षा विवाससो निस्तरशायिनश्च । गृहे विमूढा मुनिवच्चरन्ति तुल्यं तपः किन्तु फलेन हीनम् ॥ ४९ ॥

अर्था न सन्ति न च मुञ्चति मा दुराशा दानान्न संकुचति दुर्ललितं मनो मे । याञ्चा च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं हि विलम्बनेन ॥ ५० ॥

मग्ना वय परिभवासिभिरुग्रधारैर्दारिद्र्यचण्डदहनेन नितान्तदग्धाः । बन्धूपकारविषमिश्वमपीह मुक्तं जीवाम एव रविजस्य किमस्ति निद्रा ॥ ५१ ॥

धनं यदि गतं गतं चरणयुग्मरेणूत्तमं धरा यदि गता गता कथय मे किमेतावता । इदं पुनर्ररेन्तुदं धनिगणैरिदानीन्तनैर्दरिद्रगणनाविधौ यदहमङ्कपाते धृतः ॥ ५२ ॥

गते सुहृदि शत्रुता सततनिर्विवेके प्रभौ गृहे कुगृहिणीवचःक्रकचदारिते वा हृदि । महाजनविवर्जिते सदसि मानिना श्रेयसे वरं मरणमेव वा शरणमन्यदेशान्तरम् ॥ ५३ ॥

अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति स्वं दारिद्र्यं वदति वसनं दर्शयत्येव जीर्णम् । छायाभूतश्चलति न पुरः पार्श्वयोर्नैव पश्चान्निःस्वं खेदं दिशति धनिना व्याधिवदुश्चिकित्सः ॥ ५४ ॥

निवासश्चिन्तायाः परपरिभवो वैरमपरं जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम् । वनं गन्तुं बुद्धिर्भवति च कलत्रात्यरिमवो हृदिस्थः शोकाग्निर्न च दहति संतापयति च ॥ ५५ ॥

अये लाजानुच्चैः पथि वचनमाकर्ण्य गृहिणी शिशोः कर्णौ यत्नात्सुपिहितवती दीनवदना । मयि क्षीणोपाये यदकृत दृशावश्रुशबले तदन्तःशल्यं मे त्वमिव पुनरुद्धर्तुमुचितः ॥ ५६ ॥

विधातुर्द्वे कन्ये सुगतिरपरा दुर्गतिरभूत्तयोराद्या धाता गुणकुलविहीनाय स ददौ । ततः पश्चात्तापादिव सुगुणसजातमधुना कुलीनं विद्वांसं वरमिह वरेण्यं मृगयते ॥ ५७ ॥

न भिक्षा दुर्भिक्षे मिलति दुरवस्थाः कथममी लभन्ते कर्माणि द्विजपरिवृढान्कारयतु कः । अदत्त्वैव ग्रासं ग्रहपतिरसावस्तमयते क्व यामः किं कुर्मो गृहिणि गहनो जीवनविधिः ॥ ५८ ॥

निरस्थञ्चालीकं क्षुदुपहतसीदत्परिजनं विना दीपाञ्चकं सुखगहनसरुद्धतिमिरम् । अनाक्रान्तद्वारं प्रणयिभिरपूर्णोत्सवमहो गृहं कारापुल्यं भवति खलु दुःखाय गृहिणः ॥ ५९ ॥

सखे खेदं मा गाः कलय किल तास्ता निजकलाः स्वकीर्त्या वर्धस्व क्व नु खलु तवैतद्व्यवसितम् । न तन्मोघत्यत्र स्फुरितमिति चेच्चेतदुचितं विचित्रोत्साहानां किमिदमियदेव त्रिभुवनम् ॥ ६० ॥

दधति न जनास्तन्नैराश्याद्दहष्टविभूतयो यदुचितसुखभ्रंशाद्दुःखं निजच्युतसंपदः । भवति हि तथा जात्यन्धानां कुतो हृदि वेदना नयनविषयं स्मृत्वा स्मृत्वा यथोद्धतचक्षुषाम् ॥ ६१ ॥

मारोदीश्चिरमेहि वत्सरुचिरान्दृष्ट्वाद्य बालानिमानायातास्तव वत्स दास्यति पिता ग्रैवेयं वाससी । श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निष्किंचनो निःश्वासाश्रुजलप्लुतप्लुतमुखः पान्थः पुनः प्रस्थितः ॥ ६२ ॥

वासःखण्डमिदं प्रयच्छ यदि वा स्वाङ्गे गृहाणार्यकं रिक्तं भूतलमत्र नाथ भवतः पृष्ठे पैंलालोकयः । दम्पत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः ॥ ६३ ॥

वृद्धोऽन्धः पतिरेष मन्मथगतः स्थूणावशेषं गृहं कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो । यत्त्रासचित्ततैलविन्दुघटिका भेषेति पर्याकुला दृष्ट्वा गर्भमरालसा निजैंवधू श्वश्रूश्चिरं रोदिति ॥ ६४ ॥

नो सेवा विहिता गुरोरपि मनाङ्गो वा कृतं पूजनं देवानां विधिवन्न वा शिव शिव क्षिप्रादयः सेविताः । किं तु त्वच्चरणौ सरस्वति रसादाजन्मन्, सेवितौ तन्मान्मा विजहाति सा भगवती शङ्के संपत्नी तव ॥ ६५ ॥

क्षुत्क्षामाः शिशवः शवा इव भृशं मन्दाशया बान्धवा लिप्ता जर्जरर्कंकरी जैतुलवैर्नो मां तथा बाधते । गेहिन्या त्रुटितांशुकं घटयितुं कृत्वा सेंकांकु सितं कुप्यन्ती प्रतिवेशिलोकगृहिणी सूचीं यथा याचिता ॥ ६६ ॥

दग्धं खाण्डवमर्जुनेन बलिना दिव्यैर्द्रुमैः सेवितं दग्धा वायुसुतेन रावणपुरी लङ्का पुनः स्वर्णभूः । दग्धः पञ्चशरः पिनाकपतिना तेनाप्ययुक्तं कृतं दारिद्यं जनतापकारकमिदं केनापि दग्धं नहि ॥ ६७ ॥

उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं मम श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम् । इत्युक्तं धनवर्जितस्य वचनं श्रुत्वा श्मशाने शवो दारिद्र्यान्मरणं वरं वरमिति ज्ञात्वैव तूष्णीं स्थितः ॥ ६८ ॥

भद्रे वाणि कुरुष्व तावदमलां वर्णानुपूर्वी मुखे चेतः स्वास्थ्यमुपैहि याहि करुणे


टिप्पणियाँ (Footnotes):

वाम भाग: १ आस्तरणहीनभूपृष्ठशायिन
२ लघुत्वकारिणी
३ कालदैव्येनेति यावत्
४ मर्मस्पृक्
५ छादितवती

दक्षिण भाग: १ रोदनं मा कुरु
२ कण्ठभूषणम्
३ वस्त्रे
४ भित्ते
५ दरिद्र
६ धान्यतृणसंस्तर
७ जीर्णवस्त्रखण्डम्.
८ शय्या
९ गृहस्तम्भ.
१० समीप
११ व्याकुला
१२ क्षुषाम्
१३ लक्ष्मीहित्यर्थे
१४ चालनीसदृश सचिद्र कुम्भ
१५ लाक्षाखण्डे
१६ स्तवसदितम्
१७ मदन
१८ धारय