सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 77, कुल 516 में से
संदर्भ में पढ़ें६२ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्
[वामभागः]
रन्ध्रदृशोऽस भीर्यदि न तल्लुब्धः किमेष त्यजेदित्यन्तः
पुरुषोऽधमः कलयति प्रायः कृतोपक्रियः ॥ २७४ ॥
साश्चर्यं युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं याच्यो-
त्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः । ऐश्वर्यं
स्वकरात्तसमुद्भवं लब्धान्धिपारं यशः सर्वं दुर्जनसंगमेन
सहसा स्पष्टं विनष्टं कलेः ॥ २७५ ॥ वर्णस्य गुरुलाघवं
न गणयत्याशङ्कते न क्वचिद्रूपं नैव परीक्षते न पुरुषं
वृत्तेषु वार्ता कुतः । कष्टं नायशसो बिभेति महतो नैवाप-
शब्दान्तरान्न्मृत्यूर्भूखकविः खलः कुनृपतिश्चौरस्य तुल्यक्रियाः
॥ २७६ ॥ वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवा-
न्क्रूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् । गुह्यानि
प्रकटीकरोति घटयन् यत्नेन वैराण्ययन्ने शीघ्रंमाचष्टेऽमुज्झ-
ति गुणान् गृह्णाति दोषान्खलः ॥ २७७ ॥ कर्णे तत्कथयन्ति
दुन्दुभिरवै राष्ट्रे यदुद्घोषितं तन्नम्राङ्गतया वदन्ति करुणं
यत्त्रात्रपावान्भवेत् । श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न
मर्मान्तकृद्ये केचिन्मनु शाठ्यमौग्ध्यनिधयस्ते भूभृतां
रञ्जकाः ॥ २७८ ॥ ^१भेण्डस्ताण्डवमण्डपे चटुकथावीथीषु
कन्थाकविर्गोष्ठश्वा स्वगृहाङ्गणे शिखरिभृगर्ते खटोखुः स्फु-
टम् । पिण्डीशूरंतया विटश्च पटुतां भूभृद्गृहे गाहते गच्छन्ति
^२ह्रदकृष्टकच्छपतुलां चित्रं ततोऽन्यत्रे ते ॥ २७९ ॥ भिक्षो
कन्था श्लथा ते नहि शफरिवधे जालमर्हासि मत्स्यास्ते वै
मद्योपदर्शाः पिबसि मधु समं वेश्यया यासि वेश्याम् ।
दत्त्वार्द्धिं मूर्खारीणां तव किमु रिपवो भित्तिभेत्तासि येषां
चोरोऽसि द्यूतहेतोस्त्वयि सकलमिदं नास्ति नष्टे विचारः
॥ २८० ॥ दैवादप्युत्तमानामपहरति यदा दुर्जनो वा
कथंचिन्मानं नाम्नोति तेषामनुजनितगुणानेव कुत्राधिकत्वम् ।
^४खैर्भानुर्भानवीयान्हरति यदि पुनः शीतरश्मेर्मरीचींश्चन्द्राण्ड-
स्नेहं खण्डे तदपि नरपते किं अहेशत्वमेति ॥ २८१ ॥ हे
पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियद्धो विशालं कि मद्गा-
धोऽपि बाढं तदतिशठ महापाप मा ब्रूहि मिथ्या । इत्थं कूपो-
दरस्थः शपति तटगतं दर्दुरो राजहंसं नीचः प्रायः शठार्थो
भवति हि विषमो नापराधेन दृष्टः ॥ २८२ ॥ आखुः
कैलासशैलं तुलयति ^५करटस्तार्क्ष्यमासामिलाषी ^६बन्धुर्लाङ्गूलमूलं
चलयति चपलस्तक्षकाहिं जिघासुः । भेकः पारं यियासुर्मु-
जगमपि महागह्वरस्याम्बुराशेः प्रायेणासन्नपातः खरति
समुचितं कर्म न क्षुद्रकर्मा ॥२८३॥ अपूर्वः कोऽपि कोपाग्निः
सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य
वारितः ॥ २८४ ॥ विसृज्य शूर्पवद्दोषान् गुणान्गृह्णन्ति
साधवः । दोषग्राही गुणत्यागी चालनीव हि दुर्जनः ॥२८५॥
[दक्षिणभागः]
लक्ष्मीस्वभावः
या स्वसद्मनि पद्मेऽपि ^१संध्यावधि विजृम्भते । ईन्दिरा
मन्दिरेऽन्येषामपि कथं तिष्ठति सा चिरम् ॥ १ ॥ गुणिनं जनमा-
लोक्य निजबन्धनशङ्कया । राजँल्लक्ष्मीः ^५कुरङ्गीव दूरं दूरं
पलायते ॥ २ ॥ शूरं त्यजामि वैधव्यादुदारं लज्जया पुनः ।
सापत्न्यत्पाण्डित्यमपि तस्मात्कृपणमाश्रये ॥ ३ ॥ गोभिः
क्रीडितवान्कृष्ण इति गोसमबुद्धिभिः । क्रीडन्त्यापि सा
लक्ष्मीरहो देवी पतिव्रता ॥ ४ ॥ अत्यार्यमतिदातारमति-
शूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति
॥ ५ ॥ अनागतविधातारमप्रमत्तमकोपनम् । स्थिरारम्भ-
मदीनं च नरं श्रीरुपतिष्ठते ॥ ६ ॥ मन्ये सत्यमहं लक्ष्मीः
समुद्राद्बूलिरुत्थिता । पश्यन्तोऽपि न पश्यन्ति सन्तो विह्वल-
लोचनाः ॥ ७ ॥ समायाति यदा लक्ष्मीनारिकेलफलाम्बुवत् ।
विनिर्याति यदा लक्ष्मीर्गजभुक्तकपित्थवत् ॥ ८ ॥ लक्ष्मी-
र्यादोनिधेर्यादो^६ नादो^८ वादोचितं वचः । बिभ्यती ^९धीवरेभ्यो
या ^१०जैडेध्वेव निर्मञ्जति^११ ॥ ९ ॥ कुटिला लक्ष्मीर्यत्र
प्रभवति न सरस्वती वसति तत्र । प्रायः श्वश्रूस्नुषयोर्न
दृश्यते सौहृदं लोके ॥ १० ॥ ^१२अध्यवसायिनमलसं ^१३दैवपरं
साहसाच्च परिहीनम् । प्रमदा पतिमिव वृद्धं नेच्छति लक्ष्मी-
रुपस्थातुम् ॥ ११ ॥ गुणवद्भिः सह सङ्गममुखैः पदमाप्तुमु-
त्सुका लक्ष्मीः । ^१४वीरकरवालवसतिर्भुवमसिधाराव्रतं^१५ चरति
॥ १२ ॥ श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरि-
तानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि
॥ १३ ॥ वाक्वक्षुःश्रोत्रलयं लक्ष्मीः कुरुते नरस्य को दोषः ।
गरलसहोदरजाता तच्चित्रं यन्न मारयति ॥ १४ ॥ अनु-
भवत ददत वित्तं मान्यान्मानयत सज्जनान्भजत । अति-
परुषपवनविलुलितदीपशिखाचञ्चला लक्ष्मीः ॥ १५ ॥ रत्ना-
करतनुजनुष्वि द्विजराजे राजनि श्रियो मित्रे । अमृतकरे च
कलावति पद्मिनि वामा कुतो भवसि ॥ १६ ॥ पूरयति पूर्ण-
मेषा तरङ्गिणीसंहतिः समुद्रमिव । लक्ष्मीरघनस्यान पुनर्लोचन-
मार्गेऽपि नायाति ॥ १७ ॥ सुव्यवसायिनि शूरे क्लेशसहि-
ष्णावनानुकूलारम्भे । मयि पृष्ठतो विलंभे यास्यसि कमले
कियद्दूरम् ॥ १८ ॥ अपि दोर्भ्यां परिबद्धा बद्धापि गुणैरने-
कधा निपुणैः । निर्गच्छति क्षणादिव जलधिजलोत्पत्तिपि-
च्छिला लक्ष्मीः ॥ १९ ॥ हरिभामिनि सिन्धुसम्भवे कमले
पादटिप्पण्यः (Footnotes)
[वामभागटिप्पण्यः] १ अश्लीलवाक्यभाषी अन्धमूकं च २ जलाशयाद्बहिराकृष्टकच्छपतुल्यां दशाम् ४ राहुः ५ काकः ६ नकुलः
[दक्षिणभागटिप्पण्यः] १ संध्याकालपर्यन्तम् २ विराजते ३ लक्ष्मी ४ स्थिरा ५ मृगीव ६ समुद्रस्य ७ जलजन्तु ८ अदो वचो वादोचितं न ९ कैवर्तेभ्यः, पक्षे-बुद्धिश्रेष्ठेभ्यः १० मूर्खेषु, पक्षे,-डल्योः सावर्ण्यात् उदकेषु. ११ अन्तर्गच्छति, पक्षे,-सुस्थिरं तिष्ठति १२ अनुद्योगिनम् १३ नियतिपरम् १४ तरुणाली १५ खड्गः