सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 69, कुल 516 में से
संदर्भ में पढ़ें५४ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
दुर्जननिन्दा
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ १ ॥
न विना परवादेन रमते दुर्जनो जनः । काकः सर्वरसान्मुक्त्वा विनामेध्यं न तृप्यति ॥ २ ॥
विशिखैर्व्यालयोरन्त्यवर्णाभ्यां यो विनिर्मितः । परस्य हरति प्राणान्नॆतच्चित्रं कुलोचितम् ॥ ३ ॥
विषमा मलिनात्मानो द्विजिह्वा जिह्मगा इव । जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥ ४ ॥
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ५ ॥
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ ६ ॥
अपूर्वः कोऽपि कोशाग्निः सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहादूर्ध्वतेऽन्यस्य वारितः ॥ ७ ॥
अर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः । कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥ ८ ॥
क्वचित्सर्पोऽपि मित्रत्वमियान्नैव खलः क्वचित् । न शेषशायिनोऽप्यस्य वशे दुर्योधनो हरेः ॥ ९ ॥
उपकारोऽपि नीचानामपकारो हि जायते । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ १० ॥
अलक्ताश्च खलाश्चैव मूर्धभिः सुजनैर्धृताः । उपर्युपरि सस्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥ ११ ॥
खलानां धनुषां चापि सङ्घर्शैर्जनुषामपि । गुणलाभो भवेदाशु परहृद्भेदकारकः ॥ १२ ॥
बहुँर्निष्कपटद्रोही बहुँर्धान्योपघातकः । रन्ध्रान्वेषी च सर्वत्र दूषको मूषको यथा ॥ १३ ॥
नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी । परप्रतारणायैव दारुणा केन निर्मिता ॥ १४ ॥
यस्मिन्वंशे समुत्पन्नस्तमेव निजचेष्टितैः । दूषयत्यचिरेणैव घुंर्णकीट इवाधमः ॥ १५ ॥
स्वभावकठिनस्यास्य कृत्रिमां बिभ्रतो नतिम् । गुणोऽपि परहिंसायै चापस्य च खलस्य च ॥ १६ ॥
अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात् । पतिता अपि नेक्ष्यन्ते गुणास्तोयकणा इव ॥ १७ ॥
वर्जनीयो मतिमता दुर्जनः सख्यवैरयोः । श्वा भवत्युपकाराय लिहन्नपि दशन्नपि ॥ १८ ॥
वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते । कथं खलु समो न स्यात्पुच्छेन पिशुनः शुनः ॥ १९ ॥
स्नेहेन भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः । दर्पणश्चान्तिकं तिष्ठन्करोत्येकमपि द्विधा ॥ २० ॥
आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य च । सोढुं तयोर्मुखाक्षेपमलमेकैव सा क्षमा ॥ २१ ॥
यथा यथैव स्नेहेन भूयिष्ठमुपचर्यते । धत्ते तथा तथा तापं महावैश्वानरः खलः ॥ २२ ॥
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो नु सदृशी वृत्तिस्तूलाकोटेः खलस्य च ॥ २३ ॥
दुर्जनः कृतशिक्षोऽपि सज्जनो नैव जायते । अपि गङ्गाजलस्नानान्नाधःकेशः कुशायते ॥ २४ ॥
दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ २५ ॥
खलः सक्रियमाणोऽपि ददाति कलहं सताम् । दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ॥ २६ ॥
दुर्जनस्य विशिष्टस्य परोपद्रवकारणम् । व्याघ्रस्य चोपवासेन पारणं पशुमारणम् ॥ २७ ॥
सत्यज्य शूर्पवद्देषान्गुणानगृह्णाति पण्डितः । दोषग्राही गुणत्यागी पेलोलीव हि दुर्जनः ॥ २८ ॥
खलो न साधुता याति सद्भिः सबोधितोऽपि सन् । सरित्पूरप्रपूर्णोऽपि क्षारो न मधुरोदधिः ॥ २९ ॥
सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ३० ॥
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेतदसाधूनामभ्रं परिप्लवं यथा ॥ ३१ ॥
अशक्ताः शक्तिमात्मीयां श्लाघयन्ते च दुर्जनाः । ते भवन्त्युपहासाय महतामेव सन्निधौ ॥ ३२ ॥
सर्पः क्रूरः खलः क्रूरः सर्पात्क्रूरतरः खलः । मन्त्रेण शाम्यते सर्पो न खलः शाम्यते कदा ॥ ३३ ॥
दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरम् । मुखप्रक्षालनात्पूर्वं गुदप्रक्षालनं यथा ॥ ३४ ॥
दुर्जनः सुजनो न स्यादुपाय्यानां शतैरपि । अपानं मृत्सहस्रेण धौतं चास्यं कथं भवेत् ॥ ३५ ॥
खलास्तु कुशलाः सम्भोहिंतप्रत्यहकर्मणि । निपुणाः फणिनः प्राणानपहर्तुं निरोगसाम् ॥ ३६ ॥
अहो बत महष्कष्टं विपरीतमदं जगत् । येनोप॑त्रपते साधुरसाधुस्तेन तुष्यति ॥ ३७ ॥
तक्षकस्य विषं दन्ते मक्षिकाया विषं शिरः । वृश्चिकस्य विषं पुच्छं सर्वाङ्गे दुर्जनो विषम् ॥ ३८ ॥
दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः । स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव ना-
पादटिप्पण्यः (Footnotes)
| वामभागः | दक्षिणभागः |
|---|---|
| १ विष्ठाद्यशुचि | १ तैलेन, पक्षे,-ममतया |
| २ बाण | २ भस्म, पक्षे,-वैभवम् |
| ३ सर्प | ३ लाङ्गलम् |
| ४ अन्त्यवर्णौ 'खल' इति | ४ पृथ्वी, पक्षे,-शान्ति |
| ५ कुटिला | ५ बाहुल्येन |
| ६ मलिनान्त करणा | ६ पूज्यते |
| ७ सर्पा | ७ अभ्रि, पक्षे,-वैश्वानर इति च्छेद |
| ८ प्रतीकार | ८ तुलायष्टे |
| ९ उपानहा पादस्थचर्मणा मुखभङ्गो | ९ राजहंसत्वम् |
| १० निवारणात्, पक्षे,-जलात् | १० चालनी |
| ११ कुलम्, पक्षे,-वेणु | ११ चञ्चलम् |
| १२ विनयादि, पक्षे,-मौर्वी | १२ हितेऽन्तरायाचरणे |
| १३ बहु निष्कपट द्रोही, पक्षे,-बहु निष्क पट द्रोही इति पदच्छेद | १३ निरपराधानाम् |
| १४ बहुधा अन्योपघातक, पक्षे,-बहु धान्य उपघातक इति पदच्छेद | १४ लज्जां प्राप्नोति |
| १५ दूषणान्वेषी, पक्षे,-छिद्रान्वेषी | १५ सरलताम् |
| १६ प्रतितीरम्, पक्षे,-विरुद्धम् | |
| १७ परेषां प्रकर्षेण तारणाय, पक्षे,-परेषां वञ्चनाय | |
| १८ भयंकरा, पक्षे,-काष्ठेन | |
| १९ वेणौ, पक्षे,-कुले | |
| २० स्वकर्मभि | |
| २१ काष्ठवेधक कृमि | |
| २२ क्रियया निर्वृत्ताम्, पक्षे,-कपटयुक्ताम् | |
| २३ नम्रत्वम् | |
| २४ मौर्वी, पक्षे,-विनयादि | |
| २५ धनुष |