सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
५४ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
दुर्जननिन्दा
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ १ ॥
न विना परवादेन रमते दुर्जनो जनः । काकः सर्वरसान्मुक्त्वा विनामेध्यं न तृप्यति ॥ २ ॥
विशिखैर्व्यालयोरन्त्यवर्णाभ्यां यो विनिर्मितः । परस्य हरति प्राणान्नॆतच्चित्रं कुलोचितम् ॥ ३ ॥
विषमा मलिनात्मानो द्विजिह्वा जिह्मगा इव । जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥ ४ ॥
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ५ ॥
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ ६ ॥
अपूर्वः कोऽपि कोशाग्निः सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहादूर्ध्वतेऽन्यस्य वारितः ॥ ७ ॥
अर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः । कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥ ८ ॥
क्वचित्सर्पोऽपि मित्रत्वमियान्नैव खलः क्वचित् । न शेषशायिनोऽप्यस्य वशे दुर्योधनो हरेः ॥ ९ ॥
उपकारोऽपि नीचानामपकारो हि जायते । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ १० ॥
अलक्ताश्च खलाश्चैव मूर्धभिः सुजनैर्धृताः । उपर्युपरि सस्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥ ११ ॥
खलानां धनुषां चापि सङ्घर्शैर्जनुषामपि । गुणलाभो भवेदाशु परहृद्भेदकारकः ॥ १२ ॥
बहुँर्निष्कपटद्रोही बहुँर्धान्योपघातकः । रन्ध्रान्वेषी च सर्वत्र दूषको मूषको यथा ॥ १३ ॥
नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी । परप्रतारणायैव दारुणा केन निर्मिता ॥ १४ ॥
यस्मिन्वंशे समुत्पन्नस्तमेव निजचेष्टितैः । दूषयत्यचिरेणैव घुंर्णकीट इवाधमः ॥ १५ ॥
स्वभावकठिनस्यास्य कृत्रिमां बिभ्रतो नतिम् । गुणोऽपि परहिंसायै चापस्य च खलस्य च ॥ १६ ॥
अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात् । पतिता अपि नेक्ष्यन्ते गुणास्तोयकणा इव ॥ १७ ॥
वर्जनीयो मतिमता दुर्जनः सख्यवैरयोः । श्वा भवत्युपकाराय लिहन्नपि दशन्नपि ॥ १८ ॥
वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते । कथं खलु समो न स्यात्पुच्छेन पिशुनः शुनः ॥ १९ ॥
स्नेहेन भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः । दर्पणश्चान्तिकं तिष्ठन्करोत्येकमपि द्विधा ॥ २० ॥
आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य च । सोढुं तयोर्मुखाक्षेपमलमेकैव सा क्षमा ॥ २१ ॥
यथा यथैव स्नेहेन भूयिष्ठमुपचर्यते । धत्ते तथा तथा तापं महावैश्वानरः खलः ॥ २२ ॥
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो नु सदृशी वृत्तिस्तूलाकोटेः खलस्य च ॥ २३ ॥
दुर्जनः कृतशिक्षोऽपि सज्जनो नैव जायते । अपि गङ्गाजलस्नानान्नाधःकेशः कुशायते ॥ २४ ॥
दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥ २५ ॥
खलः सक्रियमाणोऽपि ददाति कलहं सताम् । दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ॥ २६ ॥
दुर्जनस्य विशिष्टस्य परोपद्रवकारणम् । व्याघ्रस्य चोपवासेन पारणं पशुमारणम् ॥ २७ ॥
सत्यज्य शूर्पवद्देषान्गुणानगृह्णाति पण्डितः । दोषग्राही गुणत्यागी पेलोलीव हि दुर्जनः ॥ २८ ॥
खलो न साधुता याति सद्भिः सबोधितोऽपि सन् । सरित्पूरप्रपूर्णोऽपि क्षारो न मधुरोदधिः ॥ २९ ॥
सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ३० ॥
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेतदसाधूनामभ्रं परिप्लवं यथा ॥ ३१ ॥
अशक्ताः शक्तिमात्मीयां श्लाघयन्ते च दुर्जनाः । ते भवन्त्युपहासाय महतामेव सन्निधौ ॥ ३२ ॥
सर्पः क्रूरः खलः क्रूरः सर्पात्क्रूरतरः खलः । मन्त्रेण शाम्यते सर्पो न खलः शाम्यते कदा ॥ ३३ ॥
दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरम् । मुखप्रक्षालनात्पूर्वं गुदप्रक्षालनं यथा ॥ ३४ ॥
दुर्जनः सुजनो न स्यादुपाय्यानां शतैरपि । अपानं मृत्सहस्रेण धौतं चास्यं कथं भवेत् ॥ ३५ ॥
खलास्तु कुशलाः सम्भोहिंतप्रत्यहकर्मणि । निपुणाः फणिनः प्राणानपहर्तुं निरोगसाम् ॥ ३६ ॥
अहो बत महष्कष्टं विपरीतमदं जगत् । येनोप॑त्रपते साधुरसाधुस्तेन तुष्यति ॥ ३७ ॥
तक्षकस्य विषं दन्ते मक्षिकाया विषं शिरः । वृश्चिकस्य विषं पुच्छं सर्वाङ्गे दुर्जनो विषम् ॥ ३८ ॥
दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः । स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव ना-
पादटिप्पण्यः (Footnotes)
| वामभागः | दक्षिणभागः |
|---|---|
| १ विष्ठाद्यशुचि | १ तैलेन, पक्षे,-ममतया |
| २ बाण | २ भस्म, पक्षे,-वैभवम् |
| ३ सर्प | ३ लाङ्गलम् |
| ४ अन्त्यवर्णौ 'खल' इति | ४ पृथ्वी, पक्षे,-शान्ति |
| ५ कुटिला | ५ बाहुल्येन |
| ६ मलिनान्त करणा | ६ पूज्यते |
| ७ सर्पा | ७ अभ्रि, पक्षे,-वैश्वानर इति च्छेद |
| ८ प्रतीकार | ८ तुलायष्टे |
| ९ उपानहा पादस्थचर्मणा मुखभङ्गो | ९ राजहंसत्वम् |
| १० निवारणात्, पक्षे,-जलात् | १० चालनी |
| ११ कुलम्, पक्षे,-वेणु | ११ चञ्चलम् |
| १२ विनयादि, पक्षे,-मौर्वी | १२ हितेऽन्तरायाचरणे |
| १३ बहु निष्कपट द्रोही, पक्षे,-बहु निष्क पट द्रोही इति पदच्छेद | १३ निरपराधानाम् |
| १४ बहुधा अन्योपघातक, पक्षे,-बहु धान्य उपघातक इति पदच्छेद | १४ लज्जां प्राप्नोति |
| १५ दूषणान्वेषी, पक्षे,-छिद्रान्वेषी | १५ सरलताम् |
| १६ प्रतितीरम्, पक्षे,-विरुद्धम् | |
| १७ परेषां प्रकर्षेण तारणाय, पक्षे,-परेषां वञ्चनाय | |
| १८ भयंकरा, पक्षे,-काष्ठेन | |
| १९ वेणौ, पक्षे,-कुले | |
| २० स्वकर्मभि | |
| २१ काष्ठवेधक कृमि | |
| २२ क्रियया निर्वृत्ताम्, पक्षे,-कपटयुक्ताम् | |
| २३ नम्रत्वम् | |
| २४ मौर्वी, पक्षे,-विनयादि | |
| २५ धनुष |
दुर्जननिन्दा | ५५
मितम् ॥ ३९ ॥ वर्धन वाथ संमान खलाना प्रीतये कुतः । फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ ४० ॥ दुर्जनै- रुच्यमानानि वचांसि मधुराण्यपि । अकालकुसुमानीव भयं संजयन्ति हि ॥ ४१ ॥ शत दद्यान्न विवदेदिति विज्ञस्य संमतम् । विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम् ॥४२॥ अहो खलभुजंगस्य विपरीतो वधक्रमः । अन्यस्य दशति श्रोत्रमन्य. प्राणैर्विमुज्यते ॥ ४३ ॥ न यत्नकोटिशतकैरपि दुष्ट. सुधीर्भवेत् । किं मर्दितोऽपि कस्तूर्या लशुनो याति सौरभम् ॥ ४४ ॥ पाषाणो भिद्यते टङ्कैर्वज्रं वज्रेण भिद्यते । सर्पोऽपि भिद्यते मन्त्रैर्दुष्टात्मा नैव भिद्यते ॥ ४५ ॥ दुर्ज- नो दोषमादत्ते दुर्गन्धमिव सूकरः । सज्जनश्च गुणग्राही हंस. क्षीरमिवाम्भस. ॥ ४६ ॥ अपूर्वा रसनाव्यालाः खलाननबिलेशयाः । कर्णमूले स्पृशन्त्यन्य हरन्त्यन्य- स्य जीवितम् ॥ ४७ ॥ दुर्जनेन सम सख्य प्रीति चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ४८ ॥ दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥ ४९ ॥ मनस्यन्यद्वचस्यन्यत्कार्ये चान्यद्दुरात्मनाम् । मनस्येकं वच- स्येकं कर्मण्येकं महात्मनाम् ॥ ५० ॥ ^१जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्र- ख दुर्जनाः ॥ ५१ ॥ बिभ्राणा गरल कण्ठे भुजगपरि- वेष्टिता । शाम्भीव तनुः कस्य न वन्द्या दौर्जनी सभा ॥ ५२ ॥ अक्षमालाप्रवृत्तित्ज्ञा कुशासनपरिग्रहा । ब्राह्मीव दौर्जनी संसद्वन्दनीया ^९समेखला ॥ ५३ ॥ खलः करोति दुर्वृत्तं नून फलति साधुषु । दशाननोऽहरत्सीता बन्धन च महोदधे. ॥ ५४ ॥ कुर्वते स्वमुखेनैव बहुधान्यस्य ख- ण्डनम् । नमः पतनशीलाय मुसलाय खलाय च ॥ ५५ ॥ अपवादाद्भीतस्य समस्य गुणदोषयोः । असद्वृत्तेरहो वृत्तं दुर्विभाव्यं विघेखिव ॥ ५६ ॥ न देवाय न धर्माय न बन्धुभ्यो न चार्थिने । दुर्जनस्यार्जित वित्त भुज्यते राज- तस्करैः ॥ ५७ ॥ मुखं पद्मदलाकारं वाचा चन्दनशीतला । तोहृदयं क्रोधसंयुक्तं त्रिविधं धूर्तलक्षणम् ॥ ५८ ॥ निष्णा- ऽपि च वेदान्ते साधुत्व नैति दुर्जनः । चिर जलनिधौ मग्नो मैनाक इव मार्दवम् ॥ ५९ ॥ खल सज्जनकार्पास- धैक्षणैकहुताशन । परदु खाभिधमनमारुतः केन वर्ण्य- ताम् ॥ ६० ॥ यश.सौरभ्यलशुनः शान्तिशैत्यहुताशन । कारुण्यकुसुमाकाश खल. सज्जनदु.खद ॥ ६१ ॥ अन्तर्म- लिनदेहेन बहिराह्लादकारिणा । मँहाकालफलेनेव के खलेन न वञ्चिताः ॥ ६२ ॥ अहो प्रकृतिसादृश्य श्लैष्मैणो दुर्जनस्य च । मधुरैः कोपमायाति कटुकैनैव शाम्यति ॥ ६३ ॥ ईषल्लब्धप्रवेशोऽपि स्नेहविच्छेदकारक । कृतक्षोभो नरीन- र्ति खलो मन्थानदण्डवत् ॥ ६४ ॥ विवृण्वती पुरस्तैक्ष्ण्य पृष्ठत. कुर्वती गुणम् । कर्णान्निध्यति लोकस्य सूचीवत्सू- चकस्य वाक् ॥ ६५ ॥ सर्वथा व्यवहर्तव्य कुतो व्यवच- नीयता । यथा स्त्रीणा तथा वाचा साधुत्वे दुर्जनो जनः ॥ ६६ ॥ कापूरुष. कुकुरश्च भोजनैकपरायण. । लालित. पार्श्वमायाति वारितो नच गच्छति ॥ ६७ ॥ मालिन्यम- वलम्बेत यदा दर्पणवत्खल. । तदैव तन्मुखे देय रजो नान्या प्रतिक्रिया ॥ ६८ ॥ नीच. समुत्थितोऽवश्यमनवाप्य पराश्र- यम् । छिद्र न रतिमाप्नोति दृष्टान्तोऽत्र ^८कंटीभवः ॥ ६९ ॥ दुर्जन. परिहर्तव्य प्रत्यक्शो द्विपदः पशुः । विध्यते वा कुश- ल्येन अदृष्टः कण्टको यथा ॥ ७० ॥ यथा वृष्टि समुद्रेषु भु- क्तस्योपरि भोजनम् । एवं प्रीति. खलैः सार्धमुत्यन्तेऽर्थेऽव- सीदति ॥ ७१ ॥ क्वचित्कार्यवशान्नीचोऽप्यलं भवति नो म- हान् । कांस्यस्यैव हिं राज्ञोऽपि दर्पणः कनकस्य न ॥ ७२ ॥ दुर्जनो दूषयत्येव सता गुणगणं क्षणात् । मलिनीकुरुते धू- मः सर्वथा विमलाम्बरम् ॥७३॥ यथा दोषो विधातस्य ज- नस्य न तथा गुण. । प्रायः कलङ्क एवेन्दो. प्रस्फुटो न प्रस- न्नता ॥ ७४ ॥ सप्तौ कर्कशं चित्त खलस्यापदि कोमलम् । शीतल कठिन प्रायस्ततं मृदु भवत्य॑यः ॥ ७५ ॥ प्रायः प्रकु- प्यतितरा प्रीत्यैव प्रखलो जनः । नयन स्नेहसपर्कात्कालुष्यं समुपैत्यलम् ॥ ७६ ॥ प्राप्य वित्तं जडास्तूष्णे निर्वृति यान्ति नान्यथा । तोयमासाद्य गर्जन्ति न रिक्ताः स्तेनयित्नवः ॥७७॥ सदा खण्डनयोग्याय तुषपूर्णायशाय च । नमोऽस्तु बहुबीजा- य खलायोलूखलाय च ॥७८॥ जिह्वादूषितसत्यान्नः पिण्डार्थी कलहोत्कटः । तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः॥७९॥
१ जिह्वारूपा सर्पा २ उदकम्, पक्षे,-प्राणा ३ अधोमुखा, पक्षे,-विनीता ४ ऊर्ध्वमुखा पक्षे,-उद्धता ५ एकरज्जुसबद्धघटमाळारूप 'राहाट' इति प्रसिद्धम् ६ सर्पा, पक्षे,- जारा ७ दुर्जनसवन्धिनी ८ अक्षमा य आलापास्तेषा वृत्तिज्ञा, पक्षे,- अक्षमाला जपमाला तस्या अपवृत्तिभ्रमण जानातीति सा ९ कुत्सित यच्छासन शिक्षा तस्य परिग्रहोऽवलम्बो यस्या सा, पक्षे,-कुशासन दर्भासन तत्परिग्रह स्वीकारो यस्या सा १० समे साधौ खला, पक्षे,-मेखलया सहिता ११ बहुधा अ-न्यस्य परस्य खण्डनम्, पक्षे,-पुष्कळधान्यस्य खण्डन वितुषीकरणम्
१ दहनम् २ कीर्तिरेव सौगन्ध्व तन्नाशकत्वाल्लशुन इव लशुनो हि कस्तूर्यादि सौगन्ध्व नाशयतीति प्रसिद्धि. ३ शान्तिरेव शैत्य तन्नाशकत्वादग्निरेव ४ कारुण्यमेव कुसुम तस्याकाश आकाशस्य यथा पुष्प कदापि नोपलभ्यते तद्वत्खले कारुण्य सर्वथाऽसम्भाव्य इत्यर्थ ५ धत्तूरफलेन ६ स्वभावसाम्यम् ७ कफस्य ८ साधुदन्द्यै, पक्षे,-सुवचनै ९ पुन पुनर्नृत्यति १० पुरुषव्यञ्जनम् ११ लोहम् १२ मेघ १३ मध्येच्छु
५६ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
अहो बत खल. पुण्यैर्मूर्खोऽप्यश्रुतपण्डितः । स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥ ८० ॥ खलः सुजनपैशुन्ये सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमाल्लोके सर्वमावृत्य तिष्ठति ॥८१॥ स साधुवादे मूर्खस्य मात्सर्यगलरोगिणः । जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते ॥ ८२ ॥ मायामय. प्रकृत्यैव रागद्वेषमदाकुलः । महतामपि मोहाय संसार इव दुर्जनः ॥ ८३ ॥ खचित्रमपि मायावी रचयत्येव लीलया । लघुश्च महता मध्ये तस्मात्खल इति स्मृतः ॥ ८४ ॥ खलेन धनमत्तेन नीचेन प्रभविष्णुना । पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि ॥ ८५ ॥ ये श्रम हर्तुमीहन्ते महता चिरसम्भृतम् । वन्द्यास्तेऽसरलात्मानो दुर्जनाः सज्जना इव ॥ ८६ ॥ अहो कुटिलबुद्धीना दुर्ग्राह्यमसता मनः । अन्यद्वचसि कण्ठेऽन्यदन्यदोषपुटे स्थितम् ॥ ८७ ॥ खलेषु सत्सु निर्याता वयमर्जयितु गुणान् । इय सा तस्करग्रामे रत्नक्रयविडम्बना ॥८८॥ वर्धते स्पर्धयेवोभौ संपदा शतशाखया । अङ्कुरोऽवैस्करोद्भूतः पुरुषश्चाकुलोद्भवः ॥ ८९ ॥ यत्स्मृत्वैव परा यान्ति सन्तः संतापसंततिम् । तदसन्तो हसन्तोऽपि हेलयैव हि कुर्वते ॥ ९० ॥ गुणदोषवावशाखज्ञ. कथ विभजते जनः । किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु ॥ ९१ ॥ प्राय प्रकाशिता याति मलिन. साधुबाधया । नाग्रसिष्यच्चेदर्क कोऽज्ञास्यत्सिंहिकासुतम् ॥ ९२ ॥ प्रागः परोपतापाय दुर्जन. सतततोद्यतः । अवश्यकरणीयत्वान्न कारणमपेक्षते ॥ ९३ ॥ यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । विश्रम्यं त द्रुम हन्ति तथा नीचः स्वमाश्रयम् ॥ ९४ ॥ चारुता परदारार्थ धन लोकोपतापये । प्रभुत्व साधुनाशाय खले खलतरा गुणाः ॥ ९५ ॥ परोपकारविज्ञानमात्रलाभोपजीविनाम् । दर्शनानामिव धूर्ताना जालाय गुणसग्रहः ॥ ९६ ॥ करोति पूज्यमानोऽपि लोकव्यसनदीक्षितः । दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ॥ ९७ ॥ सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव । नास्तिकोऽपि ह्युद्विजते जनः किं पुनरास्तिकः ॥ ९८ ॥ येषा प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः । कार्य परोपतापित्व ते मृत्योरपि मृत्यव ॥ ९९ ॥ न तथैच्छन्त्यकल्याणा. परेषा वेदितु गुणान् । यथैषा ज्ञातुमिच्छन्ति नैर्गुण्य पापचेतसः ॥ १०० ॥ अतो हास्यतर लोके किचिदन्यन्न विद्यते । यत्र दुर्जन इत्याह दुर्जनः सज्जन जनम् ॥ १०१ ॥ अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः । नैष लाभो भुजङ्गेन वेष्टितो यन्न दृश्यते ॥ १०२ ॥ लुब्धः स्तब्धोऽर्तैजुर्मूर्खः प्रभुरेकान्तदारुणः । बहूनेष खलः साधून्मारयित्वा मरिष्यति ॥ १०३ ॥ का खलेन सह स्पर्धा सज्जनस्याभिमानिन. । भाषण भीषण साधुदूषण यस्य भूषणम् ॥ १०४ ॥ सुखेनैकेन विध्यन्ति पादमेकस्य कण्टका । दूरान्मुखसहस्रेण सर्वप्राणहरा खलाः ॥ १०५ ॥ निर्माय खलजिह्वाग्र सर्वप्राणहर नृणाम् । चकार कि वृथा शक्रविषवह्नीन्प्रजापतिः ॥ १०६ ॥ यथा परोपकारेषु नित्य जागर्ति सज्जनः । तथा परोपकारेषु जागर्ति सतत खल. ॥ १०७ ॥ बिभेति पिशुनान्नीच. प्रकाशनपटीयस. । न पुनर्मूढहृदयो निन्दनीयात्स्वकर्मण. ॥ १०८ ॥ वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः । दुर्जनस्यौषध नास्ति किचिदन्यदनुत्तरात् ॥ १०९ ॥ जीवन्नपि न तत्कर्तु शक्नोति सुजनस्तथा । दुर्जनो यन्मृत. कुर्यात्परेभ्योऽहितमुत्तरम् ॥ ११० ॥ यद्यद्दिष्टतम तत्तद्देय गुणवते किल । अत एव खलो दोषान्साधुभ्यः संप्रयच्छति ॥ १११ ॥ वरमत्यन्तविफलः सुखसेव्यो हि सज्जनः । न तु प्राणहरस्तीक्ष्ण. शरवत्सफलः खलः ॥ ११२ ॥ स्वभावेनैव निशितः कृतपक्षग्रहोऽपि सन् । शरवद्गुणनिर्मुक्तः खल. कस्य न भेदकः ॥ ११३ ॥ दुर्जन. सुजनीकर्तु यत्नेनापि न शक्यते । सस्कारेणापि लशुन क सुगन्धीकरिष्यति ॥ ११४ ॥ नैवात्मनो विनाश गणयति पिशुनः परव्यसनहृष्ट. । प्राप्य सहस्रविनाश समरे नृत्यति मुदा कबन्ध इव ॥ ११५ ॥ रविरपि न दहति तादृग्ग्रावक्संदहति वालुकानिकरै. । अन्यस्माल्लब्धपदो नीच प्रायेण दुःसहो भवति ॥ ११६ ॥ त्यक्त्वापि निजप्राणान्परहितविघ्नं खलः करोत्येव । कवले पतिता सद्यो वैमयति खलु मक्षिकाऽन्नभोक्तारम् ॥ ११७ ॥ कृतमपि महोपकार पय इव पीत्वा निरौतद्वम् । प्रत्युत हन्तु यतेते काकोदरसोदरः खलो जगति ॥ ११८ ॥ नलिकागतमपि कुटिलं न भवति सरलं शुनः पुच्छम् । तद्वत्खलजनहृदय बोधितमपि नैव याति माधुर्यम् ॥ ११९ ॥ एते स्निग्धतमा इति मा मा क्षुद्रेषु यात विश्वासम् । सिद्धांर्थानामेषा स्नेहोऽप्यश्रूणि पातयति ॥ १२० ॥ गुणिना गुणेषु मत्सपि पिशुनजनो दोषमात्रमादत्ते । पुष्पे फले विरागी क्रैमेलकः कण्टकौघमिव ॥ १२१ ॥ सुजनानामपि हृदय पिशुनपरिध्वङ्गलिसमिह भवति । पवनः परागवाही रंथ्यासु वह्नर्जन्मेलो भवति ॥ १२२ ॥ परिपूर्णेऽपि तटाके काकः कुम्भोदक पिबति । अनुकूलेऽपि कैलंत्रे नीच. परदारलम्पटो भवति ॥ १२३ ॥ दुर्जनदूषितमनसा पुसा सुजनेऽपि नास्ति विश्वा-
१ समाजितपाशुंसचयस्थानम्, 'उफीरडा' इति लोके
२ राहुम्
३ परोपतापाय
४ मत्स्यजीविधीवराणाम्
५ कुटिल
१ अशिरस्क कलेवरम्
२ पांसुपुञ्ज
३ वान्ति कारयति.
४ नि शङ्कम्
५ वैपरीत्ये
६ सर्पबन्धु
७ श्वेतसर्षपाणाम्, पक्षे,-सिद्धोऽर्थ कार्य येषा ते
८ तैलम्; पक्षे,-स्नेहभाव
९ बाष्पाणि
१० उष्ट्र
११ वीथीषु
१२ रजोयुक्त
१३ भार्यायाम्.
Here is the transcription of the page into clean Markdown in Unicode Devanagari:
दुर्जननिन्दा । ५७
सः। बाल. पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति ॥ १२४ ॥ विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः। यदय नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥ १२५ ॥ अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः। तिमिरे हिं कौशिकाना रूप प्रतिपद्यते दृष्टिः ॥ १२६ ॥ लब्धोच्छ्रायो नीचः प्रथमतर स्वामिनं पराभवति । भूमिरजो रथ्यादानुत्थापकमेव सवृणुते ॥ १२७ ॥ उपकृतमनेन सुहृदयमित्यसतामस्ति न कचिदपेक्षा । होतुः स्वहस्तमाश्रितमुद्धुतोऽग्निर्दहत्येव ॥ १२८ ॥ परवादे दशवदन. पररन्ध्रनिरीक्षणे सहस्राक्षः । सद्वृत्तवित्तहरणे बाहुसहस्रार्जुनः पिशुन.॥ १२९ ॥ परिशुद्धामपि वृत्ति समाश्रितो दुर्जनः परान्भ्यथते । पर्बनाशिनोऽपि भुजगाः परोपतापं न मुञ्चन्ति ॥ १३० ॥ प्रेरयति परमनार्यः शक्तिविहीनोऽपि जगदभिद्रोहे । तेजयति शस्त्रधारा स्वयमसमर्था शिला छेत्तुम् ॥ १३१ ॥ शिरसि निहितोऽपि नित्य यत्नादपि सेवितो बहुस्नेहैः । तरुणीकच इव नीचः कौटिल्य नैव विजहाति ॥ १३२ ॥ व्योम्नि स वास कुरुते चित्रं निर्माति सुन्दर पवने । रचयति रेखाः सलिले चरति खले यस्तु सत्कारम् ॥ १३३ ॥ अतिपेलवमतिपरिमितवर्ण लघुतरमुदाहरति शठः । परमार्थतः स हृदय वहति पुनः कालकूटघटितमिव ॥ १३४ ॥ मृद्घटवत्सुखभेद्यो दुःसंधानश्च दुर्जनो भवति । सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशुसंधेयः ॥ १३५ ॥ मृगमीनसज्जनाना तृणजलसंतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ १३६ ॥ रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि । अथवात्वं पापात्मन् कृत्या कथयापि ते हतया ॥ १३७ ॥ विध्वस्तपरगुणाना भवति खलानामतीव मलिनत्वम् । अन्तरितशशिरुचामपि सैलिलमुचा मैलिनिमाभ्यधिकः ॥ १३८ ॥ परगुह्यगुप्तिनिपुणं गुणैर्मयमखिलैः समीहितं नितराम् । र्ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥ १३९ ॥ दूरेस्थापितहृदयो गूढरहस्यो निकामसंशङ्कः । आश्लेषो बालाना भवती खलाना च समेदः ॥ १४०॥ धर्मारम्भेऽप्यसता परहिंसैव प्रयोजिका भवति । काकानांम-भिषेकेऽकारणता वृष्टिरनुभवति ॥ १४१ ॥ यद्वीक्ष्यते खलाना माहात्म्यं क्वापि दैवयोगेन । काकानामिव शौक्ल्यं तदपि हि न चिरादनर्थाय ॥ १४२ ॥ यत्खलु खलमुखहुतवहविनिहितमपि शुद्धिमेत्र परमेति । तदनलशौचमिवाशुकमिह लोके दुर्लभं प्रेम ॥ १४३ ॥ वशावलम्बनं यद्यो विस्तारो गौणस्य या च नति. । तज्जालस्य खलस्य च निर्जाङ्सुसप्रणाशाय ॥ १४४ ॥ सुंगृहीतमलिनपक्षा लघ्वः परभेदिनस्तीक्ष्णा. । पुरुषा अपि विशिखा अपि गुणैर्युताः कस्य न भयाय ॥ १४५ ॥ स्वैर्कपोलेन प्रकटीकृतं प्रमत्तत्वकारणं किमपि । द्विरदस्य दुर्जनस्य च मद चकोरैव दानमपि ॥ १४६ ॥ सतापमोहकम्पा-न्संपादयितु निहन्तुमपि जन्तून् । सखि दुर्जनस्य भूतिः प्रसरति दूर ज्वरस्येव ॥ १४७ ॥ अर्थग्रहणे न तथा व्यथयति कटुकूजितैर्यथा पिशुन. । रुधिरादानादधिकं दुनोति कर्णे कुणैन्मेशकः ॥ १४८ ॥ क्षुद्रोद्भवस्य कटुता प्रकटयतो विदधतश्च र्मर्दमुच्चैः । मधुनोऽद्यमपुरुषस च गरिमा लघिमा च मेदाय ॥ १४९ ॥ त्यजति च गुणान्मुदूर तेंदैमपि दोष निरीक्ष्य गृह्णाति । मुक्ताव्वलंकृतकेशान् यूकामिव वानरः पिशुनः ॥ १५० ॥ दोर्षालोकननिपुणाः परुषगिरो दुर्जनाश्च घूकाश्च । दर्शनमपि भयजनन येषामनिमित्तपिशुनानाम् ॥ १५१ ॥ पिशुनत्वमेव विद्या परदूषणमेव भूषण येषाम् । परदुःखमेव सौख्यं शिव शिव ते केन वेधसा सृष्टाः ॥ १५२ ॥ हस्त इव भूतिमलिनो लङ्घयति यथा यथा खल. सुजनम् । दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥ १५३ ॥ अन्यस्य लगति कर्णे जीवितमन्यस्य हरति बाण इव । हृदयं दुनोति पिशुनः कण्टक इव पादलग्नोऽपि ॥ १५४ ॥ खरसेन बद्धता करमादाने कण्टकोत्करैस्तुदताम् । पिशुनाना पनसौना कोशैर्भागोऽप्यविश्वास्यः ॥ १५५ ॥ वशे घुंण इव
१ काक जाने कृते वृष्टिर्न भवतीति वृद्धव्यवहार २ कुलस्य, पक्षे,-वेणो ३ अन्यत्वम्, पक्षे,-आश्रितत्वम् ४ आधिक्यम्, पक्षे,-दैर्घ्यम् ५ पाण्डित्यशोर्यादे पक्षे,-रजो ६ विश्वस्तनाशा येत्यर्थ ७ सम्यग्गृहीतो दुष्टाना पक्षोऽङ्गीकारो यैः, पक्षे,-झटिति निष्कासनार्नां श्यामपक्षवन्त इत्यर्थ ८ नीचा, पक्षे,-अल्पपरिमाणवन्त ९ परान्भेदयन्ति ते अन्येषा परस्परभेदजननेन कलहप्रर्वतका इत्यर्थ पक्षे,-इतरच्छेदकारक १० क्रूरकमोण, पक्षे,-यथाश्रुतम् ११ साधुत्वादिगुणहीना ; पक्षे,-ज्यायाश्च्युता १२ स्वस्य गण्डस्थलेन प्रकटीकृतम् दानस्य तत उत्पत्तेरिति भावः; पक्षे,-स्वमुखे नाभिक्षितम् एव मया दान कृतमिति. १३ गुणगुणेति शब्दं कुर्वन् १४ मधुमक्षिका, पक्षे,-नीच १५ रूक्षताम्, पक्षे,-कटुभाषिताम् १६ उन्मादम्, पक्षे,-गर्वम् १७ सूक्ष्मम्, १८ दूषणानि, पक्षे,-रात्रि १९ मनोगतप्रयत्ना, पक्षे,-अन्त सार २० काष्ठकृमि..
१ फूत्कार कृत्वा २ नकुलद्वेषी, पक्षे,-न कुल द्वेषी ३ अलन्त-मलदूषिते ४ पूर्णा ५ तमसि ६ घूकानाम् ७ व्यथां करोति ८ वायुभक्षका ९ बहुप्रकारै स्नेह्रै सुगन्धतैलादिभि, पक्षे,-बह्व्या प्रीत्या १० दुखेन सधातु शक्य. ११ न्याय १२ निष्कारणशत्रव १३ नाशिता १४ मेघानाम् १५ मालिन्यम् १६ गुह्यगोपने निपुणम् १७ तन्तुप्रचुरम्, पक्षे,-दयादाक्षिण्यादिप्रचुरम् १८ मूल्यवद्वस्त्रमिव १९ दूरे स्थापित हृदय येन, पक्षे,-दूरे स्थापितमन्त करण येन २० अन्त करणविषयीभूतम्, पक्षे,-मन्त्रादि २१ भीति, पक्षे,-विश्वासाभाव
८ सु र भा
| ५८ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
न विशति दोषो रसभाविते सतां मनसि । रसमपि तु न प्रतीच्छति बहुदोष. संनिपातीव ॥ १५६ ॥ परपरितापनकुतुकी गणयति नात्मीयमपि तापम् । परहितेहेतोः पिशुनः सदंशं इव स्वपीडनं सहते ॥ १५७ ॥ सगुणापि हन्त विगुणा भवति खलात्साद्विचित्रवर्णापि । आखुमुखादिव शाटी पदपरिपाटी कवेः कापि ॥ १५८ ॥ कतिपयदिनपरमायुषि मदकारिणि यौवने दुरात्मानः । विदधति तथापराधं जन्मैव यथा वृथा भवति ॥ १५९ ॥ दुश्चरितैरेव निजैर्भवति दुरात्मा विशङ्कितो नित्यम् । दर्शनपथमापन्नं पन्नगकुलमाकुलीभवति ॥ १६० ॥ स्वयमपि भूरिच्छिद्रश्चापलमपि सर्वतोमुखं तन्वन् । तिर्तउस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥ १६१ ॥ पिशुनः खलु सुजनानां खलमेव पुरो निधाय जेतव्यः । कृत्वा ज्वरमात्मीयं जिगाय बाणं रणे विष्णुः ॥ १६२ ॥ वक्राः कपटस्निग्धा मलिनाः कर्णान्तिके प्रसज्जन्तः । क भेदयंति न सखे खलाश्च गणिकाकटाक्षाश्च ॥ १६३ ॥ कस्तूरिकामृगाणामण्डद्वन्द्वगुणमखिलमादाय । यदि पुनरहं विधिः स्यां खलजिह्वाया निवे-शयिष्यामि ॥ १६४ ॥ आचरति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान् । तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम् ॥ १६५ ॥ नष्टमपात्रे दानं नष्टं हितमफल-बुद्ध्यवज्ञाने । नष्टो गुणोऽगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे ॥ १६६ ॥ रोगोऽण्डजोऽङ्कुरोऽग्निर्विषमश्चतरो गुणाः कुमयः । प्रकृतिकृतघ्नश्च नरः स्वाश्रयविनाशाय नैधन्ते ॥ १६७ ॥ आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमनसा ने । खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ॥ १६८ ॥ परमर्मदिव्यदर्शिषु जात्यैवोचितनिगूढवैरेषु । क. खलु खलेषु शङ्का श्लथयिष्यति दृग्मनिरतेषु ॥ १६९ ॥ अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् । बालादन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्विम्बम् ॥ १७० ॥ लब्धोदयोऽपि हि खल. प्रथमं स्वजनं तनोति परितापम् । उद्धृच्छन्दवदहनो जन्मभुवं दारु निर्दहति ॥ १७१ ॥ अल्प-श्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः । सर्वत्र कु-नट एव हि नाटकमधिकं विडम्बयति ॥ १७२ ॥ प्रखला एव गुणवतामाक्रम्य धुरं पुरः प्रकर्षन्ति । तृणकाष्ठमेव जल-धेरुपरि प्लवते न रत्नानि ॥ १७३ ॥ महता यदेव मूर्धसु तदेव नीचास्तृणाय मन्यन्ते । लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरुते ॥ १७४ ॥ सह वसतामप्यसता जलरु- | हजलवद्भवत्यसंश्लेष. । दूरेऽपि सतां वसता प्रीतिः कुमुदे-न्दुवद्भवति ॥ १७५ ॥ साधयति यत्प्रयोजनमज्ञस्तत्तस्य काकतालीयम् । दैवात्कथमप्यक्षरमुत्किरति घुणोऽपि काष्ठेषु ॥ १७६ ॥ प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते । पुष्यत्यधिकमशोको गणिकाचरणप्रहारेण ॥ १७७ ॥ परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये । यत्साम-र्थ्यमुपहर्तौ विषस्य तन्नोपकाराय ॥ १७८ ॥ अतिसत्कृता अपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम् । शिरसा महे-श्वरेणापि ननु धृतो वक्र एव शशी ॥ १७९ ॥ वायुरिव खलजनोऽयं प्रायः पररूपमेति सर्कात् । सन्तस्तु रविकरा इव सदसद्योगेऽप्यसंश्लिष्टा. ॥ १८० ॥ दूरेऽपि परस्यागांसि पटुर्जर्नो नात्मनः समीपेऽपि । स्वं व्रणमक्षि न पश्यति श-शिनि कलङ्कं निरूपयति ॥ १८१ ॥ साधुश्वेवातितरामरुतुदाः स्वा विवृण्वते वृत्तिम् । व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिह्ममाददते ॥ १८२ ॥ अविकारिणमपि सज्जनमनिश-मनार्य. प्रवाहतेऽत्यर्थम् । कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति ॥ १८३ ॥ स्वगुणानिव परदोषा-न्वक्तुं न सतोऽपि शक्नुवन्ति बुधा. । स्वगुणानिव परदोषान-सतोऽपि खलास्तु कथयन्ति ॥ १८४ ॥ कृत्वापि येन लज्जा-मुपैति साधुः परोदितेनापि । तद्वृत्त्यैव खलजन. स्वय-मुद्भिरतीति धिग्लघुताम् ॥ १८५ ॥ प्रकृतिकखलत्वादसतां दोष इव गुणोऽपि बाधते लोकान् । विषकुसुमानां गन्ध. सुरभिरपि मनांसि मोहयति ॥ १८६ ॥ मृगमदकर्पूरागुरु-चन्दनगन्धाधिवासितो लशुनः । न त्यजति गन्धमशुभं प्रकृ-तिमिव सहोत्थितां नीच. ॥ १८७ ॥ उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः । अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थम् ॥ १८८ ॥ न परं फलति हि किंचि-त्खल एवानर्थमावहति यावत् । मारयति सपदि विषतरु-राश्रयमाणं श्रमापनुदे ॥ १८९ ॥ स्वार्थनिरपेक्ष एव हि परोपघातोऽसतां व्यसनमेव । अशनायोदन्या वा विरमति फणिनो न सदशत. ॥ १९० ॥ एकीभावं गतयोर्जल्प-यसोर्मित्रचेतसोश्चैव । व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥ १९१ ॥ शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम् । धीरैर्न पुनरकारणकुपितखलालीकदुर्वच-नम् ॥ १९२ ॥ प्रारम्भतोऽतिविपुलं भृशकुशमन्ते विभेदक-न्मलिनम् । महिषविषाणमिवावज्ञु पुरुषं भयदं खलप्रेम ॥ १९३ ॥ हेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते । उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः ॥ १९४ ॥ अगुण-कणो गुणराशिरिद्वयमपि दैवेन खलमुखे पतितम् । प्रसरति तैल-मिवैक. सलिले घृतवज्जडत्वमेत्यन्यः ॥ १९५ ॥ तस्मिन्गता-
पादटिप्पण्यः (Footnotes):
१ यन्त्रविशेष , 'चिमटा' 'साडसी' इति लोके
२ परिधानवस्त्रविशेष
३ बहुवाच्य , पक्षे, -बहुरन्ध्र
४ मौखर्यम् , पक्षे, -चापल्यम्
५ सकलजनसमक्षम्, पक्षे,-सर्वदिग्विषयम्
६ चालनी
७ निर्णये, पक्षे,-स्वीकारे
८ 'खेचर' इति लोके, मातरं विनिहत्यैवास्य जन्म भवति
९ दावानल
(दक्षिणस्तम्भटिप्पणी) १ पिपासा.
दुर्जननिन्दा ५९
र्द्रभावे वीतरसे शुण्ठिशकल इव पुरुषे। अपि भूतिभाजि मलिने नागरशब्दो विडम्बाय ॥ १९६ ॥
परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः। परदोषकथामिरेत्यकः स्वजनं तोषयितुं किलेच्छति ॥ १९७ ॥
सहजान्धदृशः खलु दुर् नये परदोषेक्षणदिव्यचक्षुषः । स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्बसाधवः ॥ १९८ ॥
सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः । सहसैव समुद्धिरन्त्यमी क्षमयन्त्येव हि तन्मनीषिणः ॥ १९९ ॥
उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः । असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ २०० ॥
परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः । परवृद्धिभिर्हितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ॥ २०१ ॥
अनिराकॄततापसंपदं फलेहीनां सुमनोभिरुज्झिताम् । खलतां खलतामिवोसतीं प्रतिपद्येत कथं बुधो जनः ॥ २०२ ॥
अपि वेत्ति षडक्षराणि चेदुपदेष्टुं शितिकण्ठमिच्छति । वसनाशनमात्रमस्ति चेद्धैर्नादादप्यतिरिच्यते खलः ॥ २०३ ॥
अहमेव गुरुः सुदारुणानामिवि हालाहल मा स्म तात दृप्यः । ननु सन्ति मवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥ २०४ ॥
वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा । अनया कथमप्यथावलीढा नहि जीवन्ति जना मनागमन्त्राः ॥ २०५ ॥
अमरैरमृतं न पीतमब्धेर्न च हालाहलमुल्बणं हरेण । विधिना निहितं खलस्य वाचि द्वयमेतद्धरिरेकमन्तरन्यत् ॥ २०६ ॥
वहति विषधरानेयटीरजन्मा शिरसि मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलङ्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ २०७ ॥
मधुरिमरुचिरं वचः खलानामतृतमहो प्रथमं पृथु व्यनक्ति । अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ॥ २०८ ॥
प्रकटमपि न संवृणोति दोषं गुणलवलम्पट एष साधुवर्गः । अतिपरुषरुषं विनापि दोषैः पिशुनशुनां भषतां प्रयाति कालः ॥ २०९ ॥
अन्तर्वाणिमन्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तासु धत्ते । सर्वानन्दिन्द्यङ्के कामिनीनामिवर्मे मार्गल्येष वै बम्भरालिः ॥ २१० ॥
बोधितोऽपि बहुसूक्तिविस्तरैः किं खलो जगति सज्जनो भवेत् । स्नापितोऽपि बहुशो नदीजलैर्गर्दभः किमु हयो भवेत्कचित् ॥ २११ ॥
विद्यया विमलयाप्यलंकृतो दुर्जनः सदसि मास्तु कश्चन । साक्षरा हि विपरीतां गताः केवलं जगति तेऽपि राक्षसाः ॥ २१२ ॥
दोषपोषमभियाति परं यो बाधमेति बहुसज्जनयोगात् । संमतौ विमतिमात्रसहायी दुर्जनो भ्रम इवातिचकास्ति ॥ २१३ ॥
उत्तुंगतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति ब्रुवन् । शैलशेखरगतः पृषद्कणश्चारुमारुतधुतः पतेत्यधः ॥ २१४ ॥
भस्मकुम्भशकलेन वै मलं बालकस्य जननी व्यपोहति । तद्द्रोहोद्यवनेन दुर्जनो मातुतः शतगुणाधिको भवेत् ॥ २१५ ॥
एवमेव नहि जीव्यते खलात्तत्र का नृपतिवल्लभे कथा । पूर्वमेव हि सुदुःसहोऽनलः किं पुनः प्रबलवायुनेरितः ॥ २१६ ॥
अकरुणत्वमकारणविग्रहः परधने परयोषिति च स्पृहा । सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ २१७ ॥
इतरदेव बहिर्मुखमुच्यते हृदि तु यत्स्फुरतीतरदेव तत् । चरितमेतदधीरवितारकं धुरि पयःप्रतिबिम्बमिवासताम् ॥ २१८ ॥
क्व पिशुनस्य गतिः प्रतिहन्यते दशति दृष्टमपि श्रुतमप्यसौ । अतिसुदुष्करमव्यतिरिक्तदुच्छ्रुतिमरप्यथ दृष्टिविषैरिदम् ॥ २१९ ॥
नमः खलेभ्यः क इवाथवा न तानलं नमस्येदिह यो जिजीविषुः । विनैव ये दोषमृषिप्रकाण्डवन्नयन्ति शापेन रसात्लं नरान् ॥ २२० ॥
अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते । विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥ २२१ ॥
तथारिभिर्न व्यथते शिलीमुखैर्हतो दिगन्ते हृदये न दूरतः । यथा खलानां कुधियां दुरुक्तिभिर्दिवानिशं तप्यति मर्मताडितः ॥ २२२ ॥
गुणापवादेन तदन्यरोपणाद्द्बृशाधिरूढस्य समञ्जसं जनम् । द्विधेव कृत्वा हृदयं निगूहGenericतः स्फुरन्नसाधोर्विवृणोति वागसिः ॥ २२३ ॥
न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः । भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति ॥ २२४ ॥
न लज्जते सज्जनवर्जनीयया भुजंगवक्रक्रिययापि दुर्जनः ।
पादटिप्पण्यः (Footnotes)
[वामभागः] १ तुच्छः. २ स्वाभाविकी अन्धा अपश्यन्ती दृग्येषां ते. ३ स्वदोषे. ४ आत्मप्रशंसायां प्रगल्भवाच इत्यर्थः. ५ मौनव्रतिनः. ६ परस्तुतिवचनेषु. ७ शोभना संवृतिः परितापगोपनं यस्य सः. ८ उत्पादितसंतापः. ९ स्फुटे निर्भिन्नः प्रकाशितो दुराशयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः. १० अनिराकॄता न निवारिता तापसंपत्तापातिशयो यया ताम्; पक्षे संतापजननैकस्वभावात्परत्रासतच्छायाविरहात्. ११ इहामुत्र चोपकारशून्याम्; पक्षे,-सर्वार्थरहिताम्. १२ बुधैरूज्झिताम्; पक्षे,-पुष्पैर्वर्जिताम्. १३ खस्य लताम्. गगनलतिकामित्यर्थः १४ दुष्टाम्; पक्षे,-निरुपाख्याम्. १५ शिवम्. १६ कुबेरात्. १७ श्रेष्ठः. १८ अतितीव्राणाम्. १९ गर्वोद्धतो मा भव. २० जिह्वाच्छलेन. २१ सर्पान्. २२ चन्दनम्. २३ शास्त्रवित्, सज्जनो वा.
[दक्षिणभागः] १ दोषैकदृक्त्वम्. २ सूक्तय एव मुक्ताफलानि तासु. ३ सर्वेषामाह्लादके. ४ व्रणम्. ५ शोधयति. ६ मक्षिका. ७ सभायाम्. ८ उत्कर्षम्; पक्षे,-उच्चस्थानम्. ९ अल्पबुद्धिः; पक्षे,-अल्पपरिमाणः. १० अम्बुकणसमुदायः. ११ मन्देन. १२ कम्पितः. १३ उत्कर्षाद्दीयते; पक्षे,-अधोदेशे पतति. १४ भिन्नशरावखण्डेन. १५ निरर्थकविरोधः. १६ इच्छा. १७ असहनशीलता. १८ स्वभावसिद्धम्.
६० सुभाषीतरत्नभाण्डागारम् [२ प्रकरणम्
धियं कुमायासमयभिचारिणी विदग्धतामेव हि मन्यते खलः ॥ २२५ ॥ समर्पिताः कस्य न तेन दोषा हठाद्गुणा वा न हृताः खलेन । तथापि दोषैर्न वियुज्यतेऽसौ स्पृष्टो- ऽपि नैकैन गुणेन चित्रम् ॥ २२६ ॥ आराध्यमानो बहुभिः प्रकारैर्नाराध्यते नाम किमत्र चित्रम् । अय त्वपूर्वः प्रतिभा- विशेषो यत्सेव्यमानो रिपुतामुपैति ॥ २२७ ॥ विद्वांसु- पालम्भमत्राप्य दोषान्निवर्ततेऽसौ परितप्यते च । ज्ञातस्तु दोषो मम सर्वथेति पापो जन पापतर करोति ॥ २२८ ॥ विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय । खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय ॥ २२९ ॥ १ सँद्वशजात २ गुणैकोटियुक्तं धनुः कथ पार्थिववामहस्ते । ३ शरः परप्राणविहारदक्षः सपक्षपातोऽप्य- धमो गरीयान् ॥ २३० ॥ दृष्टो वा सुकृतशतोपलालितो वा श्लिष्टो वा व्यसनशताभिरक्षितो वा । दौःशील्याजनयति नैव जात्वसाधुर्विश्वम्भ भुजग इवाङ्गमध्यसुप्तः ॥ २३१ ॥ एकः खलोऽपि यदि नाम भवेत्सभाया मोघीकरोति विदुषा निखिलप्रयासम् । एकापि पूर्णसुदर मधूरैः पदार्थैरालोढ्य रेचयति हन्त न मक्षिका किम् ॥ २३२ ॥ हालाहल खलु पिपासति कौतुकेन कालानल परिचुचुम्बिषति प्रका- मम् । व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वश- यितु कुरुते ४ मँनीषाम् ॥ २३३ ॥ ते दृष्टमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मसदृशामलकाः खलाश्च । नीचाः सदैव सविलाससलीकलग्ना ये कालतां कुटिलता- मपि न त्यजन्ति ॥ २३४ ॥ प्राक्पादयोः पतति खादति पृष्ठमासं कर्णे कल किमपि ५ रौति शनैर्विचित्रम् । छिद्रं निरूष्य सहसा प्रविशत्यशङ्कः सर्व खलस्य चरित मशकः करोति ॥ २३५ ॥ हित्वा मद सममसजनसज्जनौ तौ वन्दे नितान्तकुटिलप्रगुणस्वभावौ । एक मिया निरभिसंहित- वैरिभाव प्रीत्या पर परमनिवृतिपात्रभूतम् ॥ २३६ ॥ पादाहतोऽपि दृढदण्डसमाहतोऽपि य दष्ट्या स्पृशति तं किल हन्ति सर्पः । हर्षाद्विवैष पिशुनोऽत्र मनुष्यधर्मा कर्णे पर स्पृशति हन्ति पर समूलम् ॥ २३७ ॥ ७ उद्ध्रासिताखिल- खलस्य विशुद्धवृत्तस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः । दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य ८ गोचरगतैः सुखमप्यते कैः ॥ २३८ ॥ सवर्धितोऽपि भुजगः पयसा न वश्यस्तपालकानपि निहन्ति बलेन सिंहः । दुष्टः परैरुप- कृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधैर्विधेयः ॥२३९॥
१ कस्तूरिका तृणभुजामटवीमृगाणां निक्षिप्य नाभिषु चकार च तान्वधार्हान् । मूढो विधिः सकलदुर्जनलोलजिह्वामूले स निक्षिपति चेत्सकलोपकारः ॥ २४० ॥ रूक्ष विरौति परिकुप्यति निर्निमित्तं स्पर्शेन दूषयति वारयति प्रवेशम् । लज्जाकर दशति नैव च तृप्यतीति २ कौलेयकस्य च खलस्य च को विशेषः ॥ २४१ ॥ युक्त यया किल निरन्तर- लब्धवृत्तेरसस्वाभिमानतमसः प्रसर निरोद्धुम् । विद्वत्तया जगति तामवलम्ब्य केचित्तन्वन्त्यहङ्कृतिमहो शतशाखमा- न्ध्यम् ॥ २४२ ॥ प्रायः स्वभावमनिलो महता समीपे तिष्ठ- न्खलः प्रकुरुतेऽर्थजनोपघातम् । शीलादितैः सकललोक- सुखावहोऽपि धूमे स्थिते नहि सुखेन निषेव्यतेऽग्निः ॥ २४३ ॥ धूम्रः पयोधरपदं कथमप्यवाप्य वर्षाम्बुभिः शमयति ज्वलनस्य तेजः । दैवादवाप्य कलुषप्रकृति- र्महत्त्व प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ २४४ ॥ नाश्रयेमेतदधुना हतदैवयोगादुच्चैःस्थितिर्र्यदधमो न महानुभावः । रथ्याकलङ्कशतसकरसकुलोऽपि पृष्ठे भवत्यवकरो न पुनर्निधानम् ॥ २४५ ॥ बिस- मल मशनाय स्वादु पानाय तोयं शयनमवनिपुष्ठे वल्कले वाससी च । नवधनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयमनु- मन्तु नोत्सहे दुर्जनानाम् ॥ २४६ ॥ मलयभुवि विरूढ- श्चन्दनेनाभिवृद्धो न भजति किल वेणुः सौरमं चन्दनस्य । तदिह नहि विचित्रं सर्वदोषाकराणा नहि भवति खलाना साधुतागन्धलेशः ॥ २४७ ॥ हसति लसति हृर्षार्त्तीन्नद्रुःखे परेषा स्खलति गलति मोहादात्मनः क्लेशलेशे । नदति वदति निन्द्य मानिना किं च नीच परुषवचनमल्पं श्रावितो हन्तुमेति ॥ २४८ ॥ दिगन्ते खेलन्ती सरसहृदयानन्द- जननी मया नीता दुष्टप्रचुरनगरी कापि कविता । अकस्मा- दुन्मीलत्खलवदनवल्मीकरसनाभुजगीदष्टाङ्गी ३ शिव शिव समाप्ति गतवती ॥ २४९ ॥ अभूद्द्मभोराशेः सह वसति- रासीत्कमलया गुणानामाधारो नयनफलमिन्दुः ४ प्रथयति । कथ सिहीसूनुस्तमपि तुर्दति प्रौढदशनैर्गुणानामास्वादं पिशु- नरसना कि रसयति ॥ २५० ॥ वृथा दुग्धोऽनड्रान् स्तन- भरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतैरिति लाव- ण्यसहिता । कृता वैडूर्याशा ५ विकटकिरणे काचशकले मया मूढेन त्वा कृपणमगुणज्ञ प्रणमता ॥ २५१ ॥ स्वपक्षच्छेदं वा समुचितफलभ्रशमथवा स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा । शरः प्राप्नोत्येतान्हृदयपथसंस्थोऽपि धनुष ऋजो- र्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभम् ॥ २५२ ॥ गुणा- ना सा शक्तिर्विपदमनुबध्नन्ति यदमी प्रसन्नास्तद्भेधा मम
पादटिप्पण्यः (Footnotes):
| वामभागः | दक्षिणभागः |
|---|---|
| १ वेणु, पक्षे,-कुलम् | १ वनम् |
| २ मौर्वी, पक्षे,-विद्याविनयादि | २ श्वानस्य |
| ३ अग्रम्, पक्षे,-संख्याविशेष | ३ राहु |
| ४ मतिम् | ४ ग्रसति, पीडयतीत्यर्थः. |
| ५ शब्द करोति | ५ प्रसूतकिरणे |
| ६ पक्षे,-प्राप्य | |
| ७ आविष्कृतसकलदुष्टस्य | |
| ८ अमर्यादस्य |
| दुर्जननिन्दा | ६१ |
|---|---|
| यदि न तैर्योगमकरोत् । विषण्णं दौर्गत्यादिति गुणिनमालोक्य<br>विगुणः करोति स्वे गेहे ध्रुवमतिसमृद्धोत्सवमसौ ॥ २५३ ॥<br>अवेक्ष्य स्वात्मानं विगुणमपरानिच्छति तथा फलेयेतन्नो<br>चेद्विलपति न सन्तीह गुणिनः । निमार्ष्टुं शङ्कु वा परिभवितु-<br>मुद्यच्छति ततोऽप्यहो नीचे रम्या सगुणविजिगीषा<br>विधिकृता ॥ २५४ ॥ न विषममृतं कर्तुं शक्यं प्रयत्नशतै-<br>रपि त्यजति कटुतां न स्वा निम्बः स्थितोऽपि पयोद्दे ।<br>गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश्चिरमपि बला-<br>ध्माते लोहे कुतः कनकाकृतिः ॥ २५५ ॥ यदि परगुणा<br>न क्षम्यन्ते यतस्व तदर्जने न हि परयशो निन्दाव्याजैरल<br>परिमार्जितुम् । विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो<br>दिनकरकरान्पाणिच्छत्रैर्नुदञ्छ्रममेष्यसि ॥ २५६ ॥ शमयति<br>यशः क्लेशं सूते दिशत्यशिवा गति जनयति जनोद्वेगायासं<br>नयत्युपहास्यताम् । भ्रमयति मतिं मानं हन्ति क्षिणोति च<br>जीवितं क्षिपति सकलं कल्याणानां कुल खलसङ्गमः ॥ २५७ ॥<br>जिह्वो<sup>१</sup> लोकः कथयति पुरा हन्त हित्वा गुणौघानम्भः<br>क्षारं गुणगणनिधेस्तस्य रत्नाकरस्य । विश्वे छिद्रानुसरण-<br>समारूढसर्वेन्द्रियाणा दोषे दृष्टिः पिशुनमनसा नानुरागो<br>गुणेषु ॥ २५८ ॥ सन्तः सच्चरितोदयव्यसनिनः प्रौदुर्भव-<br>द्यन्त्रणाः<sup>२</sup> सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा ।<br>अन्यैरुन्नतमतिः<sup>३</sup> कृतेन न सता नैवासता व्याकुलो युक्ता-<br>युक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः<sup>४</sup> ॥ २५९ ॥<br>या लोभात्सविधे खलस्य सुरसा वाणी बुधैर्नीयते नो<br>जानाति स तामचेतनतया सैव स्वयं लीयते । भर्तुः स्नेह-<br>चयात्प्रविश्य दहने भस्मीभवत्यङ्गना गाढालिङ्गनतत्परेण<br>मनसा प्रेतो न वेत्ति प्रियाम् ॥ २६० ॥ नागच्छन्नुपहूयते<br>न वचनोत्थानासनैः पूज्यते नो पृच्छन्ननुभाष्यते न च<br>दृशा सान्द्रादरं वीक्ष्यते । ईर्ष्यावेशकषायिते हृदि घृणा-<br>लेशोऽपि न स्पृश्यते किं त्वेकः प्रवदन्समक्षसमपि प्राज्ञः<br>शठैर्हस्यते ॥ २६१ ॥ दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारि-<br>तार्थासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः ।<br>अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः को नामाय-<br>मपूर्वनाटकविधिर्यैः शिक्षितो दुर्जनैः ॥ २६२ ॥ जाड्यं<br>हीमति<sup>७</sup> गण्यते व्रतौ<sup>८</sup> दम्भः शुचौ कैतवं<sup>९</sup> शूरे निर्घृणता<sup>१०</sup><br>मुनौ<sup>११</sup> विमतिता दैन्यं<sup>१२</sup> प्रियालापिनि । तेजस्विन्यवलिप्तता<sup>१३</sup><br>मुखरता<sup>१४</sup> वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्स | गुणिना यो दुर्जनैर्नाङ्कितः ॥ २६३ ॥ पोतो<sup>१</sup> दुस्तरवारि-<br>राशितरणे दीपोऽन्धकारागमे निर्विते व्यजनं मदान्धक-<br>रिणां दर्पोपशान्त्यै सृणिः<sup>२</sup> । इत्थं तद्भुवि नास्ति यस्य विधिना<br>नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि<br>भग्नोद्यमः<sup>३</sup> ॥२६४॥ धातस्तात तदेव दूषणमिदं यन्नाम कस्तू-<br>रिका कान्तरान्तरचारिणा<sup>४</sup> तृणभुजा यन्माभिभूले कृता । यद्येवं<br>पिशुनस्य<sup>५</sup> हन्त रसनामूलेऽकरिष्यस्तदा<sup>६</sup> प्रायासेन<sup>७</sup> विनाम-<br>विष्यदतुल कीर्तिंश्च निर्दोषता ॥ २६५ ॥ एके सत्पुरुषाः<br>परार्थघटकाः स्वार्थे परित्यज्य ये सामान्यास्तु परार्थमुद्यम-<br>भृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं<br>स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न<br>जानीमहे ॥ २६६ ॥ नारीणा वचनेन कर्म कुरुते दीनं<br>वचो भाषते नालस्यं विजहाति तिग्मकिरणे प्रौढे समुत्तिष्ठति ।<br>किंचित्कापि न साहस वितनुते देहे चिरं दूयते नो वा<br>विन्दति पौरुष कुपुरुषः कोऽप्येष निर्णीयताम् ॥ २६७ ॥<br>वक्रत्व ननु कुन्तलादिव मुखे तैक्ष्ण्यं कटाक्षादिव क्रूरत्वं<br>कुचमण्डलादिव सुनैर्धुर्यं स्वचित्तादिव । मालिन्यं नयना-<br>ञ्जनादिव किलाधैर्य स्वभावादिव खैरिन्यैव सुशिक्षितोऽसि<br>खल किं जातोऽस्यतोऽरुतुदः ॥ २६८ ॥ वाताहारतया<br>जगद्विषधरैराश्वास्य निःशेषितं ते ग्रस्ताः पुनरभ्रतोयकणि-<br>कातीव्रव्रतैर्बर्हिभिः । तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं<br>लुब्धकैर्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते<br>॥ २६९ ॥ कस्त्वं भद्र खलेश्वरोऽहमिह<sup>८</sup> किं घोरे वने<br>स्थीयते शार्दूलादिभिरेव<sup>९</sup> हिंस्रपशुभिः<sup>१०</sup> खोद्योऽहमित्याशया<sup>११</sup> ।<br>कस्मात्कष्टमिदं त्वया व्यवसितं मग्देहामासाशिनः प्रत्युत्पन्न-<br>नृमासमक्षणधियस्ते घ्नन्तु सर्वान्नरान् ॥ २७० ॥ भिक्षो<br>मासनिषेवण प्रकुरुषे किं तेन मद्य विना मद्य चापि तव<br>प्रिय प्रियमहो वाराङ्गनाभिः सह । वेश्या द्रव्यरुचिः<br>कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो<br>नष्टस्य कान्या गतिः ॥ २७१ ॥ वेश्याधेश्मेसु सीधुगन्ध-<br>ललनावक्त्रासवामोदितैर्नीत्वा निर्भरमन्मथोत्सवसुखैरुलिद्र-<br>चन्द्राः क्षपाः । सर्वज्ञा इति दीक्षिता इति चिरात्प्राप्ताभिहोत्रा<br>इति ब्रह्मज्ञा इति तापसा इति दिवा धूर्तैर्जगद्वञ्च्यते<br>॥ २७२ ॥ वृत्ति स्वा बहु मन्यते हृदि शुचं धत्तेऽनु-<br>कम्पोक्तिभिर्व्यक्तं निन्दति योग्यता मितमतिः कुर्वन्स्तुतीरा-<br>त्मनः । गद्योपायनिषेवण कथयति स्वाङ्गं वदन्त्यापदं श्रुत्वा<br>दुःखमरंतुदा वितनुते पीडा जनः प्राकृतः ॥ २७३ ॥<br>पाकश्चेन्न शुभस्य मेऽद्य तदसौ प्रागेव नादात्किमु स्वार्थ-<br>श्रेष्ठं मयास कि न भजते दीनान्सबन्धूनयम् । मत्तो |
| १ कुटिल २ स्वच्छान्चरणनिरोधो येषा ते ३ अनिपुण<br>मति ४ नीच ५ अन्तिके ६ कपटपट्ट ७ लज्जावति<br>८ व्रतेषु रुचि प्रीतिर्यस्य तस्मिन् ९ शाठ्यम् १० निर्दयता<br>११ मननशीले १२ दीनत्वम् १३ सगर्वता १४ वाचालत्वम् | १ नौका २ अङ्कुश ३ भग्नप्रयत्नः ४ दुर्गममार्गसञ्चारि-<br>णाम् ५ सूचकस्य ६ जिह्वामूले ७ प्रकृष्टेन यत्नेन ८ खल-<br>राज ९ व्याघ्रादिभिः १० घातकपशुभिः ११ भक्षणीय • |
६२ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम्
[वामभागः]
रन्ध्रदृशोऽस भीर्यदि न तल्लुब्धः किमेष त्यजेदित्यन्तः
पुरुषोऽधमः कलयति प्रायः कृतोपक्रियः ॥ २७४ ॥
साश्चर्यं युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं याच्यो-
त्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः । ऐश्वर्यं
स्वकरात्तसमुद्भवं लब्धान्धिपारं यशः सर्वं दुर्जनसंगमेन
सहसा स्पष्टं विनष्टं कलेः ॥ २७५ ॥ वर्णस्य गुरुलाघवं
न गणयत्याशङ्कते न क्वचिद्रूपं नैव परीक्षते न पुरुषं
वृत्तेषु वार्ता कुतः । कष्टं नायशसो बिभेति महतो नैवाप-
शब्दान्तरान्न्मृत्यूर्भूखकविः खलः कुनृपतिश्चौरस्य तुल्यक्रियाः
॥ २७६ ॥ वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवा-
न्क्रूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् । गुह्यानि
प्रकटीकरोति घटयन् यत्नेन वैराण्ययन्ने शीघ्रंमाचष्टेऽमुज्झ-
ति गुणान् गृह्णाति दोषान्खलः ॥ २७७ ॥ कर्णे तत्कथयन्ति
दुन्दुभिरवै राष्ट्रे यदुद्घोषितं तन्नम्राङ्गतया वदन्ति करुणं
यत्त्रात्रपावान्भवेत् । श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न
मर्मान्तकृद्ये केचिन्मनु शाठ्यमौग्ध्यनिधयस्ते भूभृतां
रञ्जकाः ॥ २७८ ॥ ^१भेण्डस्ताण्डवमण्डपे चटुकथावीथीषु
कन्थाकविर्गोष्ठश्वा स्वगृहाङ्गणे शिखरिभृगर्ते खटोखुः स्फु-
टम् । पिण्डीशूरंतया विटश्च पटुतां भूभृद्गृहे गाहते गच्छन्ति
^२ह्रदकृष्टकच्छपतुलां चित्रं ततोऽन्यत्रे ते ॥ २७९ ॥ भिक्षो
कन्था श्लथा ते नहि शफरिवधे जालमर्हासि मत्स्यास्ते वै
मद्योपदर्शाः पिबसि मधु समं वेश्यया यासि वेश्याम् ।
दत्त्वार्द्धिं मूर्खारीणां तव किमु रिपवो भित्तिभेत्तासि येषां
चोरोऽसि द्यूतहेतोस्त्वयि सकलमिदं नास्ति नष्टे विचारः
॥ २८० ॥ दैवादप्युत्तमानामपहरति यदा दुर्जनो वा
कथंचिन्मानं नाम्नोति तेषामनुजनितगुणानेव कुत्राधिकत्वम् ।
^४खैर्भानुर्भानवीयान्हरति यदि पुनः शीतरश्मेर्मरीचींश्चन्द्राण्ड-
स्नेहं खण्डे तदपि नरपते किं अहेशत्वमेति ॥ २८१ ॥ हे
पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियद्धो विशालं कि मद्गा-
धोऽपि बाढं तदतिशठ महापाप मा ब्रूहि मिथ्या । इत्थं कूपो-
दरस्थः शपति तटगतं दर्दुरो राजहंसं नीचः प्रायः शठार्थो
भवति हि विषमो नापराधेन दृष्टः ॥ २८२ ॥ आखुः
कैलासशैलं तुलयति ^५करटस्तार्क्ष्यमासामिलाषी ^६बन्धुर्लाङ्गूलमूलं
चलयति चपलस्तक्षकाहिं जिघासुः । भेकः पारं यियासुर्मु-
जगमपि महागह्वरस्याम्बुराशेः प्रायेणासन्नपातः खरति
समुचितं कर्म न क्षुद्रकर्मा ॥२८३॥ अपूर्वः कोऽपि कोपाग्निः
सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य
वारितः ॥ २८४ ॥ विसृज्य शूर्पवद्दोषान् गुणान्गृह्णन्ति
साधवः । दोषग्राही गुणत्यागी चालनीव हि दुर्जनः ॥२८५॥
[दक्षिणभागः]
लक्ष्मीस्वभावः
या स्वसद्मनि पद्मेऽपि ^१संध्यावधि विजृम्भते । ईन्दिरा
मन्दिरेऽन्येषामपि कथं तिष्ठति सा चिरम् ॥ १ ॥ गुणिनं जनमा-
लोक्य निजबन्धनशङ्कया । राजँल्लक्ष्मीः ^५कुरङ्गीव दूरं दूरं
पलायते ॥ २ ॥ शूरं त्यजामि वैधव्यादुदारं लज्जया पुनः ।
सापत्न्यत्पाण्डित्यमपि तस्मात्कृपणमाश्रये ॥ ३ ॥ गोभिः
क्रीडितवान्कृष्ण इति गोसमबुद्धिभिः । क्रीडन्त्यापि सा
लक्ष्मीरहो देवी पतिव्रता ॥ ४ ॥ अत्यार्यमतिदातारमति-
शूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति
॥ ५ ॥ अनागतविधातारमप्रमत्तमकोपनम् । स्थिरारम्भ-
मदीनं च नरं श्रीरुपतिष्ठते ॥ ६ ॥ मन्ये सत्यमहं लक्ष्मीः
समुद्राद्बूलिरुत्थिता । पश्यन्तोऽपि न पश्यन्ति सन्तो विह्वल-
लोचनाः ॥ ७ ॥ समायाति यदा लक्ष्मीनारिकेलफलाम्बुवत् ।
विनिर्याति यदा लक्ष्मीर्गजभुक्तकपित्थवत् ॥ ८ ॥ लक्ष्मी-
र्यादोनिधेर्यादो^६ नादो^८ वादोचितं वचः । बिभ्यती ^९धीवरेभ्यो
या ^१०जैडेध्वेव निर्मञ्जति^११ ॥ ९ ॥ कुटिला लक्ष्मीर्यत्र
प्रभवति न सरस्वती वसति तत्र । प्रायः श्वश्रूस्नुषयोर्न
दृश्यते सौहृदं लोके ॥ १० ॥ ^१२अध्यवसायिनमलसं ^१३दैवपरं
साहसाच्च परिहीनम् । प्रमदा पतिमिव वृद्धं नेच्छति लक्ष्मी-
रुपस्थातुम् ॥ ११ ॥ गुणवद्भिः सह सङ्गममुखैः पदमाप्तुमु-
त्सुका लक्ष्मीः । ^१४वीरकरवालवसतिर्भुवमसिधाराव्रतं^१५ चरति
॥ १२ ॥ श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरि-
तानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि
॥ १३ ॥ वाक्वक्षुःश्रोत्रलयं लक्ष्मीः कुरुते नरस्य को दोषः ।
गरलसहोदरजाता तच्चित्रं यन्न मारयति ॥ १४ ॥ अनु-
भवत ददत वित्तं मान्यान्मानयत सज्जनान्भजत । अति-
परुषपवनविलुलितदीपशिखाचञ्चला लक्ष्मीः ॥ १५ ॥ रत्ना-
करतनुजनुष्वि द्विजराजे राजनि श्रियो मित्रे । अमृतकरे च
कलावति पद्मिनि वामा कुतो भवसि ॥ १६ ॥ पूरयति पूर्ण-
मेषा तरङ्गिणीसंहतिः समुद्रमिव । लक्ष्मीरघनस्यान पुनर्लोचन-
मार्गेऽपि नायाति ॥ १७ ॥ सुव्यवसायिनि शूरे क्लेशसहि-
ष्णावनानुकूलारम्भे । मयि पृष्ठतो विलंभे यास्यसि कमले
कियद्दूरम् ॥ १८ ॥ अपि दोर्भ्यां परिबद्धा बद्धापि गुणैरने-
कधा निपुणैः । निर्गच्छति क्षणादिव जलधिजलोत्पत्तिपि-
च्छिला लक्ष्मीः ॥ १९ ॥ हरिभामिनि सिन्धुसम्भवे कमले
पादटिप्पण्यः (Footnotes)
[वामभागटिप्पण्यः] १ अश्लीलवाक्यभाषी अन्धमूकं च २ जलाशयाद्बहिराकृष्टकच्छपतुल्यां दशाम् ४ राहुः ५ काकः ६ नकुलः
[दक्षिणभागटिप्पण्यः] १ संध्याकालपर्यन्तम् २ विराजते ३ लक्ष्मी ४ स्थिरा ५ मृगीव ६ समुद्रस्य ७ जलजन्तु ८ अदो वचो वादोचितं न ९ कैवर्तेभ्यः, पक्षे-बुद्धिश्रेष्ठेभ्यः १० मूर्खेषु, पक्षे,-डल्योः सावर्ण्यात् उदकेषु. ११ अन्तर्गच्छति, पक्षे,-सुस्थिरं तिष्ठति १२ अनुद्योगिनम् १३ नियतिपरम् १४ तरुणाली १५ खड्गः
| लक्ष्मीस्वभावः | ६३ |
|---|
किं कथयामि ते गुणान् । अनुरज्यसि हा जडे जने गुण- गौरवे पुरुषे विरज्यसि ॥ २० ॥ वीक्षितानि तव वारिधि- कन्ये यत्र पालितजगन्ति लगन्ति । चित्रमत्र च परञ्च च देहो देहिशब्दमपहाय चकास्ति ॥ २१ ॥ यद्वदन्ति चप- लेत्यपवादं नैव दूषणमिदं कमलायाः । दूषणं जलनिधेर्हि भवेत्तद्यत्पुराणपुरुषाय ददौ ताम् ॥ २२ ॥ चाञ्चल्यमुच्चै- श्श्रवस्तुरगात्कौटिल्यमिन्दोर्विषतो विमोहः । इति श्रिया- शिक्षि सहोदरेभ्यो न वेद्मि कस्माद्गुणद्विरोधः ॥ २३ ॥ श्वश्रू विना वृत्तिरिह स्वतन्त्रा प्रायः स्नुषाणामपवादहेतुः । यद्वाणि लोके रमया विहीना सतीमपि त्वामसतीं वदन्ति ॥ २४ ॥ उत्साहसपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसने- ष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः ॥ २५ ॥ हालाहलो नैव विषं विषं रँमा जनार्द- पर व्यैत्ययमत्र मन्यते । निपीय जागर्ति सुखेन तं शिवः स्पृशन्निमा मुह्यति निद्रया हरिः ॥ २६ ॥ तापापहे सुहृदये रुचिरे प्रबुद्धे मित्रानुरागनिरते धृतसद्गुणौघे । स्वाङ्गप्रधानप- रिपूरितषट्पदोघे युक्तं तवेह कमले कमले स्थितियत् ॥२७॥ रत्नाकरस्तव पिता कमले निवासो भ्राता सुधामयतनूः पतिरौदिदेवः । केनापरेण कमले बत शिक्षितानि साङ्ग- शृङ्गकुटिलानि विचेष्टितानि ॥ २८ ॥ लक्ष्मि क्षमस्व वच- नीयमिदं दुरुक्तमन्धीभवन्ति पुरुषास्त्वदुपासनेन । नो चेत्कथं कमलपत्रविशालनेत्रो नारायणः स्वपिति पन्नगभो- गतल्पे ॥ २९ ॥ अँसौभाग्यं धत्ते परमसुखभोगस्पदंमय विचित्रं तद्गेहं भवति पृथुकार्तस्वैरमयम् । निविष्टं पत्यङ्के कलयति स कौन्तारतरण प्रसादं कोप वा जननि भवती यत्र तनुते ॥ ३० ॥ समुद्रस्यापत्यं प्रथितमहिमामुद्रित- भुवः स्वसा प्रौलेयांशोर्न्नयनशिरोधामवसतेः । मुरैरा- तेर्योत्सत्त्वैरसिरुहकिञ्जल्कानिलया तथापि श्री स्त्रीत्वात्प्रकृ- तिचपलाऽऽलिङ्गति खलान् ॥ ३१ ॥ तीक्ष्णादुद्विजते मृदौ परिभवत्रासान्न सत्तिष्ठते मूर्खान्द्वेष्टि न गच्छति प्रणयिता- मत्यन्तविद्वत्स्वपि । शूरेभ्योऽप्यधिकं बिभेत्युपहसत्येकान्त- भीरूनपि श्रीर्लब्धप्रसरेव वेश्यैववनिता दुःखोपचर्या भृशम् ॥ ३२ ॥ कस्यैचित्कपटाय कैटभरिपुः पीठदीर्घालया देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे । यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते नीचान्नीचतरो- पसर्पणमपामेतत्किमाचार्यकम् ॥ ३३ ॥ पद्मे मूढजने ददासि विभवं विद्वत्सु किं मत्सरो नाहं मत्सरिणी न चापि चपला नैवास्ति मूर्खे रति । मूर्खेभ्यो द्रविणं ददामि नितरां तत्कारणं श्रूयता विद्वान्सर्वगुणेषु पूजिततनुर्मूर्खस्य नान्या गतिः ॥ ३४ ॥ तिर्यक्त्वं भजतु प्रतारयतु वा धर्मक्रियाकोविदं हन्तु स्वा जननीं पिबत्वपि सुरा शुद्धा वधूमुज्झतु । वेदान्निन्दतु वा हिनस्तु जनतां किं वाऽनया चिन्तया लक्ष्मीर्यस्य गृहे स एव भजति प्रायो जगद्व- न्द्यताम् ॥ ३५ ॥ आलस्यं स्थिरतामुपैति भजते चापल्य- मुद्योगिता मूकत्वं मितभाषिता वितनुते मौढ्यं भवेदार्जवम् । पात्रापात्रविचारणाविरहिता यच्छत्युदारामता मातर्लक्ष्मि तव प्रसादवशतो दोषा अमी स्युर्गुणाः ॥ ३६ ॥ हे लक्ष्मि क्षणिके स्वभावचपले मूढे च पापेऽधमे न त्वं चोत्तमपात्रमिच्छसि खले प्रायेण दुश्चारिणी । ये देवार्चन- सत्यशौचनिरता ये चापि वर्मे रतास्तेभ्यो लज्जसि निर्दये गतमतिनाचो जनो वल्लभः ॥ ३७ ॥ नाहं दुश्च- रिणी न चापि चपला मूर्खो न मे रोचते नो शूरो न च पण्डितो न च शठो हीनाक्षरो नैव च । पूर्वैस्सिन्कृतपुण्य- योगविभवो भुङ्क्ते स मे सत्फलं लोकाना किमबद्धता सखि पुनर्द्वेष्टा परा संपदम् ॥ ३८ ॥ हन्तुर्बन्धुजनान्धनाधर्मेंन- धान्गन्तु परस्त्रीशत रन्तुर्जन्तुविहिँसकैः सह जनैः सतु- ष्यतो वञ्चनैः । वक्तुर्वतीक्षणमयुक्तमेव वचन पैक्तुर्मित चौदन नित्यं नृत्यसि मन्दिरेषु कमले कॅल्यं तवैतन्मतम् ॥ ३९ ॥ यत्राभ्यागतदानमानचरणप्रक्षालन भोजन सत्सेवा पितृदेवतार्चनविधिः सत्यं गवा पालनम् । धान्या- नामपि सग्रहो न कलहश्चित्तानुरूपा प्रिया हृष्टा प्राह हरि वसामि कमला तस्मिन्गृहे निश्चला ॥ ४० ॥ येषामन्यै- कलत्रदर्शनकलाव्युत्पत्तिशून्ये दृशौ मूढ ह्रुच्च परार्थचिन्तन- विधौ मिथ्यात्वभिज्ञ मुखम् । अप्राज्ञातपशून्बुभुक्षितशिशून्- श्रोदकैस्ताम्यतस्तेषा लक्ष्मि गृहान्दशापि भयभीतेवेह नो वीक्षसे ॥ ४१ ॥ नो जानाति कुलीनमुत्तमगुण सत्त्वान्वितं धार्मिकं नाचारप्रवर्ण न कार्यकुशल न प्रज्ञयालंकृतम् । नीचं क्रूरमपेतसत्त्वमदय यस्मादिय सेवते तद्वंशाद्युगुण पेयोधिसुतया लक्ष्म्या प्रमाणीकृतम् ॥ ४२ ॥ पीतोऽग-
पादटिप्पण्यः (Footnotes)
वामभागस्थ-पादटिप्पण्यः : १ लक्ष्म्या २ नारायणाय, पक्षे,-वृद्धाय ३ विषभेद ४ लक्ष्मी ५ विपरीतभावम् ६ चन्द्र ७ नारायण ८ हरिणशृङ्गवद्रकाणि ९ सर्पशरीरशय्यायाम् १० हे जननि, भवति यत्र यस्मिन्पुरुषे प्रसाद तनुते करोत्यसौ पुरुषो भाग्यमैश्वर्यं धत्ते यत्र कोप तनुते सोऽसौभाग्य सौभाग्याऽभाव धत्ते अय प्रसादविषय परंमसुखभोगा नामास्पदम् अय कोपविषय परमत्यन्तमसुखभोगास्पदम् भवतीति शेष ११ तस्य पूर्वोक्तस्य पुरुषस्य गेह विविधचित्रयुक्त तथा पृथु महत्कार्तेस्वरं स्वर्णे तन्मय भवति, पक्षे,-चित्ररहित तथा पृथुकाना बालानामन्नाभावप्रयुक्तैनातस्वरैण प्रचुरम् १२ सुवर्णमयम् १३ सपूर्वोक्त पुरुष कान्ताया रत रमण तदेव रण युद्धम्, पक्षे,- कान्तार दुर्गमारण्य तत्तरण कलयति १४ चन्द्रस्य १५ विष्णो
दक्षिणभागस्थ-पादटिप्पण्यः : १ वैश्या २ प्रिय ३ निष्पापाम् ४ प्राणिविघातकै ५ अयोग्यम् ६ मितपचम् ; कृपणमिति भाव ७ क्षिप्रकारकम् ८ परस्त्री ९ पयो नीचैरेव गच्छति, समुद्रे क्रूरजलचरा प्रसिद्धा, अत एव सिद्धमस्य साधकत्वम् ।
| ६४ | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
स्त्येन तातश्चरणतलहतो वल्लभोऽन्येन रोषाद्बाल्याद्विप्रवर्यैः स्ववदनविवरे धारिता वैरिणी मे । गेह मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्ना सदाह द्विजकुलसदन नाथ नित्य त्यजामि ॥ ४३ ॥
धनप्रशंसा
अहो कनकमाहात्म्य वक्तु केनापि शक्यते । नामसाम्यादहो चित्र धत्तूरोऽपि मदप्रदः ॥ १ ॥ न वित्त दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो । मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ २ ॥ धनमर्जय काकुत्स्थ धनमूलमिद जगत् । अन्तर नैव पश्यामि निर्धनस्य मृतस्य च ॥ ३ ॥ ब्रह्मघ्नोऽपि नरः पूज्यो यस्यास्ति विपुल धनम् । शशिना तुल्ययशोऽपि निर्धनः परिभूयते ॥ ४ ॥ कुत आगत्य घटते विघट्य क्व नु याति च । न लक्ष्यते गतिश्चित्रा धनस्य च घनस्य च ॥ ५ ॥ स्त्रीरूप मोहक पुसो यून एव भवेत्क्षणम् । कनक क्लीबालवृद्धषण्ढानामपि सर्वदा ॥ ६ ॥ न नरस्य नरो दासो दासश्चार्थस्य भूपते । गौरव लाघव वापि धनाधननिबन्धनम् ॥ ७ ॥ विभवो हि यथा लोके न शरीराणि देहिनाम् । चाण्डालोऽपि नरः पूज्यो यस्यास्ति विपुल धनम् ॥ ८ ॥ यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ९ ॥ त्यजन्ति मित्राणि धनैर्विहीन पुत्रारच दाराश्च सुहृज्जनाश्च । तमर्थवन्त पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः ॥ १० ॥ बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न च्छन्दसा केनचिदुद्धृत कुल हिरण्यमेवार्जय निष्फला गुणाः ॥ ११ ॥ धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापद मानवा निस्तरन्ति । धनेभ्यः परो बान्धवो नास्ति लोके धनान्यर्जयध्व धनान्यर्जयध्वम् ॥ १२ ॥ दुन्दुभिस्तु सुतरामचेतनस्तन्मुखादपि धैनं धन धनम् । इत्थमेव निनदः प्रवर्तते कि पुनर्यदि जनः सचेतनः ॥ १३ ॥ त्यक्त्वा युवा स्वयुवति सुविलासयोग्या दूर विदेशवसतौ निवसन्धनार्थी । राज्यंगमे खरति ता न समेति तस्मात्कान्ताप्रासादपि वरः कनकाश्रमोऽयम् ॥ १४ ॥ जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु शील शैलतटात्पतत्वभिजनः सदह्यता वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवल येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ १५ ॥ माता निन्दति नाभिनन्दति पिता भ्राता न संभाषते भृत्यः कुप्यति नानुगच्छति सुतः कान्ता च नालिङ्गते । अर्थप्रार्थनशङ्कया न कुरुते संभाषण वै सुहृत्तस्माद्द्रव्यमुपार्जयस्व सुमते द्रव्येण सर्वे वशाः ॥ १६ ॥
धननिन्दा
अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते । जनितारमपि त्यक्त्वा निःस्व गच्छति दूरत ॥ १ ॥ लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् । शेषे धराभरक्लान्ते शेते नारायणः सुखम् ॥ २ ॥ वरं हालाहल पीतं सद्यः प्राणहर विषम् । न तु दृष्ट धनान्धस्य भ्रूभङ्गकुटिलं मुखम् ॥ ३ ॥ भैक्ते द्वेषो जडे प्रीतिररुचिर्गुरुल्लङ्घने । मुखे च कटुता नित्य धनिना ज्वरिणामिव ॥ ४ ॥ आलिङ्गिताः पर्य्यान्ति प्रस्खलन्ति संमे पथि । अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥ ५ ॥ आजन्मानुगतेऽप्यस्मिन्नाले विमुखमम्बुजम् । प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियम् ॥ ६ ॥ धन तावदसुलभ लब्धं कृच्छ्रेण रक्ष्यते । लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥ ७ ॥ जनयन्त्यर्जने दुःख तापयन्ति विपत्तिषु । मोहयन्ति च संपत्तौ कथमर्थाः सुखावहाः ॥ ८ ॥ यथामिष जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ ९ ॥ राजतः सलिलादग्नेश्चोरतः स्वजनादपि । भयमर्थवता नित्य मृत्योः प्राणभृतामिव ॥ १० ॥ धनाशया खलीकारः कस्य नाम न जायते । दूरादामिषलोभेन बध्यते खेचरः खगः ॥ ११ ॥ बधिरयति कर्णविवर वाच मूकयति नयनमन्धयति । विकृतयति गात्रयष्टिं रूपद्रोगोऽयमद्भुतो राजन् ॥ १२ ॥ लक्ष्म्या परिपूर्णोऽह न भय मेऽस्तीति मोहनिद्रैषा । परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः ॥ १३ ॥ अर्जुनीयति यदर्जने जनो वर्जनीयजनैर्त्तर्जनादिभिः । मँङ्क्षु नश्यति चिराय सचिता वञ्चिता जगति के न सपदा ॥ १४ ॥ अर्थार्थी जीवलोकोऽय ज्वलन्तमुपसर्पति क्षीणक्षीरा निराजीव्या वत्सस्त्यजति मातरम् ॥ १५ ॥ अर्थार्थी यानि कष्टानि मूढोऽय कुरुते जनः । शतांशेनापि मोक्षार्थी तानि चेन्मोक्षमाप्नुयात् ॥ १६ ॥ अर्थानामर्जने दुःखमर्जिताना च रक्षणे । आये दुःखं व्यये
पादटिप्पण्यः
१ समुद्र २ भृगुणा. ३ सरस्वती. ४ कमलम् ५ 'धत्तरकनवाह्वय' इति कोश ६ परिभव प्राप्नोति ७ शङ्खश्च ८ प्रेक्षणीय • ९ 'धन धन धनम्' इत्यनुकरणशब्द, पक्षे,-वित्तम्
१ मनाक्प्रियम् २ भ्रुकुटिमोटनेन वक्रम् ३ भक्ता सेवकास्तेषा द्वेष, पक्षे,-भक्तमन्न तद्वेष ४ जडेषु मूर्खेषु प्रीति, (पक्षे डलयो सावर्ण्यात्) जले रुचि. ५ गुरूणा पित्र। दीनामुल्लङ्घने, पक्षे,-गुरु यल्लङ्घनमुपवासस्तस्मिन्. ६ कटुभाषिण्वम्, पक्षे,-कटुत्वम्. ७ अविषमे ८ आकाशे चरन्नपि ९ विलक्षण १० राहोः ११ महताबाहुवदाचरति १२ भयत्रासादिभि १३ झटिति.
धननिन्दा-धनिप्रशंसा-दरिद्रनिन्दा
६५
दुःखं धिगर्थाः कष्टसंश्रयाः ॥१७॥ वरमसिधारा तरुतलवासो
वरमिह भिक्षा वरमुपवासः । वरमपि घोरे नरके पतनं न
च धनगर्वितबान्धवशरणम् ॥ १८ ॥ तानीन्द्रियाण्य-
विकलानि¹ मनस्तदेव सा बुद्धिरप्रतिहता² वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः स एव ह्यन्यः क्षणेन भवतीति
विचित्रमेतत् ॥ १९ ॥ आपद्गतं⁴ हससि किं द्रविणान्ध
मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् । एतान्प्र-
श्यसि घटाञ्जल यन्त्रचक्रे रिक्ता भवन्ति भरिता भरिताश्च
रिक्ताः ॥ २० ॥ धनमपि परदत्तं दुःखमौचित्यभाजा³
भवति हृदि तदेवानन्दकारीतरेषाम् । मलयजरसबिन्दुबी-
धते नेत्रमन्तर्जनयति च स एवाह्लादमन्यत्र गात्रे ॥ २१ ॥
लभेद्यैद्युतं⁵ धनं तदधनं धनं यद्यपि लभेत निर्युतं⁶ धनं
निधनमेव तज्जायते । तथा धनपरार्धकं⁷ तदपि माव-
हीनात्मकं यदक्षरपदद्वयान्तरगतं⁸ धनं तद्धनम् ॥ २२ ॥
दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति⁹ भूमिभुजो दूरेण
च्छलमाकलय्य¹⁰ हुतभुग्भस्मीकरोति¹¹ क्षणात् । अम्भः
प्लावयते क्षितौ विनिहितं यक्षा हरन्ति ध्रुवं दुर्द्वत्तास्तनया¹²
नयन्ति निधनं¹³ धिग्विग्ध्वनं तद्बहु ॥ २३ ॥
धनिप्रशंसा
धनवान्बलवाँल्लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं
हि राज्ञामप्युपजायते ॥ १ ॥ वयोवृद्धास्तपोवृद्धा ज्ञान-
वृद्धाश्च ये परे । ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः
॥ २ ॥ न सा विद्या न तच्छीलं न तद्दानं न सा कला ।
अर्थार्थिभिर्न तच्छौर्यं धनिनां यन्न कीर्त्यते ॥ ३ ॥ पतन्ति
खङ्गधारासु विशन्ति मँकरालयम्¹⁴ । किं न कुर्वन्ति सुभगे
कष्टमर्थार्थिनो जनाः ॥ ४ ॥ एहि गच्छ पतौत्तिष्ठ वद
मौनं समाचर । एवमाश्राग्रहग्रस्तैः क्रीडन्ति धनिनो-
ऽर्थिभिः ॥ ५ ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य
बान्धवाः । यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः
॥ ६ ॥ को नाम नानुवृत्त्या सुमहदपि धनवतः कुरुते ।
वित्तेशभवनभित्तेः समीपमुपसेवते शंभुः ॥ ७ ॥ हेतुप्रमाण-
युक्तं वाक्यं न श्रूयेत दरिद्रस्य । अप्यैतिपरुषमसमत्स्य¹
पूज्यं वाक्यं समृद्धस्य ॥ ८ ॥ वैभवभाजा दूषण-
मपि भूषणपक्ष एव निक्षिप्तम् । गुणमात्मनामधर्मं द्वेषं
च गृणन्ति कौणादाः ॥ ९ ॥ वाणी दरिद्रस्य शुभा³
हितापि ह्यर्थेन शब्देन च सप्रयुक्ता । न शोभते वित्तवतः
समीपे भेरीनिर्नादोपहतैव वीणा ॥ १० ॥ यादृशि तादृशि
वित्तसनाथे पक्ष पिशाचशतानि वसन्ति । यानि पुनर्निव-
सन्ति महीशे तानि न केनचिदाकलितानि ॥ ११ ॥
न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा ।
कैपालिना⁵ मौलिधृतापि⁶ जाह्नवी प्रयाति रत्नाकरमेव सत्वरम्
॥ १२ ॥ गङ्गा च धारयति मूर्ध्नि सदा कपाली सा तस्य
चुम्बति मुखं न कदाचिदेव । रत्नाकरं प्रति चुचुम्ब
सहस्रवक्त्रैर्गङ्गा यतो युवतय सधनानुकूलाः ॥ १३ ॥
धिग्वस्त्रेतां विद्यां धिगपि कवितां धिक् सुजनता वयो रूपं
धिग्धिग्धिगपि च यशो निर्धनवतः । असौ जीयादेकः
सकलगुणहीनोऽपि धनवान्बहिर्यस्य द्वारे तृणलवनिभाः
सन्ति गुणिनः ॥ १४ ॥ परिक्षीण. कश्चित्स्पृहयति यवानां
प्रसृतये स पश्चात्संपूर्ण. कलयति धरित्रीं तृणसमाम् ।
अतश्चानैकान्त्याद्बहुलघुतयार्थेषु धनिनामवस्था वस्तूनि
प्रथयति च सङ्कोचयति च ॥ १५ ॥
दरिद्रनिन्दा
उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः । बाल-
वैधव्यदग्धानां कुलस्त्रीणां कुचा इव ॥ १ ॥ हे दारिद्र्य
नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । पश्याम्यहं जगत्सर्वं न
मा पश्यति कश्चन ॥ २ ॥ इह लोकेऽपि धनिनां परोऽपि
स्वजनायते । स्वजनोऽपि दरिद्राणां तत्क्षणाद्दुर्जनायते
॥ ३ ॥ परीक्ष्य सत्कुलं विद्यां शीलं शौर्यं सुरूपताम् ।
विधिर्ददाति निपुणः कन्यामिव दरिद्रताम् ॥ ४ ॥ येनैर्वा-⁸
म्बरखण्डेन संवीतो निशि चन्द्रमाः । तेनैव च दिवा
भानूरहो दौर्गत्यमेतयोः ॥ ५ ॥ चाण्डालश्च दरिद्रश्च
द्वावेतौ सदृशाविह । चाण्डालस्य न गृह्णन्ति दरिद्रो न
प्रयच्छति ॥ ६ ॥ अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ ७ ॥
द्वाविमावम्भसि क्षेप्यौ गाढं बद्धा गले शिलाम् । धनिनं
चाप्रदातारं दरिद्रं चातपस्विनम् ॥ ८ ॥ अत्यन्तविमुखे⁹
दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनादन्यत्कुतः
[पादटिप्पण्यः]
वामभागः:
१ वैकल्यरहितानि
२ अखण्डिता
३ द्रव्यरूपोन्नतया
४ विपद्ग्रस्तम्
५ दशसहस्रम्, पक्षे,-अकारेण युतं धनम्, अधन-मित्यर्थं
६ लक्षसंख्याकम्, पक्षे,-निंशब्देन युतं धनम्, निधन-मित्यर्थः
७ धनस्य परार्धे संख्याविशेषः; पक्षे,-धनशब्दसवनिध-परमर्थे 'न' इति तच्च भावहीनात्मकम् अभाववोधकमित्यर्थं
८ अक्षरं परमात्मा तच्चरणद्वयान्तरे गतं प्राप्तं यद्धनं मोक्षरूपं धनं तदेव धनम्, पक्षे,-अक्षरयोः पकारदकारात्मकयोर्मध्यवर्ति धन इत्येतदक्षरद्वयरूपम्, धनमित्यर्थं
९ हरन्ति
१० कपटम्.
११ अग्नि
१२ दुष्टाचरणा
१३ नाशम्
१४ समुद्रम्
९ सु. र. भा.
दक्षिणभागः:
१ अतिकठोरम्
२ वैशेषिकशास्त्रप्रवर्तका
३ कल्याणी.
४ दुन्दुभिध्वनिसुप्तेव,
५ शंकरेण
६ मस्तक
७ वधूपक्षे,-'कुलमादौ परीक्षेत' इति विधि, अन्यत्र,-प्रायो हि पण्डिता अकिञ्चना इति दृष्टचरम्
८ आकाशम्, पक्षे,-वस्त्रम्
९ पराङ्मुखे
| ६६ | सुभाषितरत्नभाण्डागारम् | [२ प्रकरणम् |
|---|
सुखम् ॥ ९ ॥ दूये कान्ताकरं वीक्ष्य मणिकङ्कणवर्जितम् । अतः परं परं दूये मणिकं कणवर्जितम् ॥ १० ॥ रात्रौ जानुर्दिवा भानुः कृशानुः संध्ययोर्द्वयोः । पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥ ११ ॥ किं करोमि क्व गच्छामि कमुपैमि दुरात्मना । दुर्भरेणोदरेणाहं प्राणैरपि विडम्बितः ॥ १२ ॥ दुःखं दुःखमिति ब्रूयान्मानवो नरकं प्रति । दारिद्र्यादधिकं दुःखं न भूतं न भविष्यति ॥ १३ ॥ किं चान्यैः सुकुलाचारैः सेव्यतामेति पूरुषः । धनहीनः स्वपत्नीभिस्त्यज्यते किं पुनः परैः ॥ १४ ॥ किं वाच्यं सूर्येशशिनोर्दारिद्र्यं महता पुरः । दिनरात्रिविभागेन परिधत्तो यदम्बरम् ॥ १५ ॥ मौर्य्यं सर्व्वापदा निष्ठा का हि नापद- जानतः । तस्मिन्नप्यविषण्णो यः क सोऽन्यत्र विपत्स्यति ॥ १६ ॥ यदि नाम कुले जन्म तत्किमर्थं दरिद्रता । दरिद्रत्वेऽपि मूर्खत्वमहो दुःखपरम्परा ॥ १७ ॥ क' स्वभाव- गभीराणां जानीयाद्बहिरापदम् । बालपत्येन भृत्येन यदि सा न प्रकाश्यते ॥ १८ ॥ सन्तोऽपि न विराजन्ते हीनार्थस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥ १९ ॥ वरं हि नरके वासो न तु दुश्चरिते गृहे । नरकात्क्षीयते पापं कुगृहात्परिवर्धते ॥ २० ॥ नातः पापीयसीं कश्चिदवस्थां शम्बरोऽब्रवीत् । यस्या नैवाद्य न प्रातर्भोजनं तात विद्यते ॥ २१ ॥ न तथा बाध्यते राज- ञ्छूकृत्या निर्धनो जनः । यथा भद्राणि संप्राप्य तैर्र्विहीनः सुखोचितः ॥ २२ ॥ कुब्जस्य कीटखातस्य दावनिष्कुषित- त्वचः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ २३ ॥ धर्मार्थकामहीनस्य परकीयान्नभोजिनः । काकस्येव दरिद्रस्य दीर्घमायुर्विडम्बना ॥ २४ ॥ शीतमध्व्या कदन्नं च वयो- तीताश्च योषितः । मनसः प्रातिकूल्यं च जरायाः पञ्च हेतवः ॥ २५ ॥ सुहृदा हि धनं भुक्त्वा कृत्वा प्रणयमी- प्सितम् । प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ २६ ॥ लज्जावतः कुलिनस्य याचितुं धनमिच्छतः । कण्ठे पाराव- तस्येव वाक्करोति गतागतम् ॥ २७ ॥ कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू । म्रियमाणस्य चिह्नानि यानि तान्येव याचतः ॥ २८ ॥ धन्यास्ते ये न पश्यन्ति देश- भङ्गं कुलक्षयम् । परचित्तगतान्दारान्पुत्रं च व्यसनातुरम् ॥ २९ ॥ शेषभार्य्यं तु काव्येन काव्यं गीतेन हन्यते । गीतं तु स्त्रीविलासेन स्त्रीविलासो बुभुक्षया ॥ ३० ॥ जी- वन्त्यर्थक्षये नीचा याञ्चोपद्रववञ्चनैः । कुलाभिमानमूकानां साधूनां नास्ति जीवनम् ॥ ३१ ॥ शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥ ३२ ॥ पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम् । सर्पश्रोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ३३ ॥ अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया । अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥ ३४ ॥ पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रतिसममावयोः संदनम् ॥ ३५ ॥ दारिद्र्यान्मरणाद्वा मरणं संरोचते न दारिद्र्यम् । अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् ॥ ३६ ॥ तावत्सन्ति सहाया यावज्जन्तुर्न कृच्छ्रमाप्नोति । अभिपतति शिरसि मृत्यौ कं कः शक्तः परित्रातुम् ॥ ३७ ॥ विकसामि रवावुदिते संकोचमुपैमि चास्तमुपयाते । दारिद्र्यसरसि मग्नः पङ्कज- लीलामनुभवामि ॥ ३८ ॥ घृतलवणतैलतण्डुलशाकेन्धन- चिन्तयानुदिनम् । विपुलगतेरपि पुंसो नश्यति धीर्मन्दविभ- वत्वात् ॥ ३९ ॥ वीणा वंशश्चन्दनं चन्द्रभासः शय्या यानं यौवनस्थास्तरुण्ह्यः । नैतद्रम्यं क्षुत्पिपासार्दितानां सर्व्वारम्भा- स्तण्डुलप्रस्थमूलाः ॥ ४० ॥ दारिद्र्य भोस्त्वं परमं विवेकि गुणाधिके पुंसि सदानुरक्तम् । विद्याविहीने गुण- वर्जिते च मुहूर्तमात्रं न रतिं करोषि ॥ ४१ ॥ दारिद्र्य शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा । विपन्ने देहे मयि मन्दभाग्ये मेमेति चिन्ता क्व गमिष्यसि त्वम् ॥ ४२ ॥ एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे । न तेन दृष्टं कविना समस्तं दारिद्र्यमेकं गुणकोटिहारि ॥ ४३ ॥ धनैर्विमुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत् । यस्य प्रतीकारनिरर्थकत्वा- त्कोपप्रसादा विफलीभवन्ति ॥ ४४ ॥ अहो नु कष्टं सततं प्रवासस्ततोऽतिकष्टः परगेहवासः । कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च ॥ ४५ ॥ वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बुभोजनम् । तृणानि
१ खेदं प्राप्नोमि २ मणियुक्तं यत्कङ्कणं तेन वर्जितम् ३ अत्य- न्तम् ४ मृण्मयपात्रम् ५ धान्यकणरहितम् ६ अग्नि ७ आकाशम्, पक्षे,-वस्त्रम्
१ दरिद्रस्य दोष इत्यर्थे २ पृथूनि कार्तस्वरस्य सुवर्णस्य पात्राणि यस्मिंस्तत्, पक्षे,-पृथुकानां बालानामात्तैः स्वरा रुदितशब्दास्तेषां पात्रं भाजनम् ३ भूषिता अलंकृता निःशेषाः परिजना यस्मिन्, पक्षे,- भुवि उषिता निःशेषाः परिजना यस्मिन् ४ विलसन्त्यः शोभमानाः करेणवो हस्तिन्यस्ताभिर्गहनं निबिडम्, पक्षे,-चवयोः सावर्ण्ण्यात् बिले सीदन्तीति बिलसदः, बिलसद एव बिलसत्का बिलवर्तिनो ये रेणवो धूलयस्तैर्गहनं व्याप्तम् ५ गृहम् ६ विचारशीलम् ७ प्रीतिम्. ८ स्थित्वा ९ विनष्टशरीरे १० हतभाग्ये ११ गुणसमुदाये १२ कालिदासः 'एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणे- ष्विवाङ्कः' इति कुमारसंभवस्य पद्ये १३ कोटिगुणनाशकमिति भावः १४ परगृहवासः
दरिद्रनिन्दा
शय्या वसनं च वल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ ४६ ॥
यदा तु भाग्यक्षयपीडिता दशां नरः कृतान्तोपहितां प्रपद्यते । तदास मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥ ४७ ॥
दानं न दत्तं न तपश्च तप्तं नाराधितौ शंकरवासुदेवौ । अग्नौ रणे वा न हुतश्च कायः शरीर किं प्रार्थयसे सुखानि ॥ ४८ ॥
फलाशिनो मूलतृणाम्बुभक्षा विवाससो निस्तरशायिनश्च । गृहे विमूढा मुनिवच्चरन्ति तुल्यं तपः किन्तु फलेन हीनम् ॥ ४९ ॥
अर्था न सन्ति न च मुञ्चति मा दुराशा दानान्न संकुचति दुर्ललितं मनो मे । याञ्चा च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं हि विलम्बनेन ॥ ५० ॥
मग्ना वय परिभवासिभिरुग्रधारैर्दारिद्र्यचण्डदहनेन नितान्तदग्धाः । बन्धूपकारविषमिश्वमपीह मुक्तं जीवाम एव रविजस्य किमस्ति निद्रा ॥ ५१ ॥
धनं यदि गतं गतं चरणयुग्मरेणूत्तमं धरा यदि गता गता कथय मे किमेतावता । इदं पुनर्ररेन्तुदं धनिगणैरिदानीन्तनैर्दरिद्रगणनाविधौ यदहमङ्कपाते धृतः ॥ ५२ ॥
गते सुहृदि शत्रुता सततनिर्विवेके प्रभौ गृहे कुगृहिणीवचःक्रकचदारिते वा हृदि । महाजनविवर्जिते सदसि मानिना श्रेयसे वरं मरणमेव वा शरणमन्यदेशान्तरम् ॥ ५३ ॥
अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति स्वं दारिद्र्यं वदति वसनं दर्शयत्येव जीर्णम् । छायाभूतश्चलति न पुरः पार्श्वयोर्नैव पश्चान्निःस्वं खेदं दिशति धनिना व्याधिवदुश्चिकित्सः ॥ ५४ ॥
निवासश्चिन्तायाः परपरिभवो वैरमपरं जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम् । वनं गन्तुं बुद्धिर्भवति च कलत्रात्यरिमवो हृदिस्थः शोकाग्निर्न च दहति संतापयति च ॥ ५५ ॥
अये लाजानुच्चैः पथि वचनमाकर्ण्य गृहिणी शिशोः कर्णौ यत्नात्सुपिहितवती दीनवदना । मयि क्षीणोपाये यदकृत दृशावश्रुशबले तदन्तःशल्यं मे त्वमिव पुनरुद्धर्तुमुचितः ॥ ५६ ॥
विधातुर्द्वे कन्ये सुगतिरपरा दुर्गतिरभूत्तयोराद्या धाता गुणकुलविहीनाय स ददौ । ततः पश्चात्तापादिव सुगुणसजातमधुना कुलीनं विद्वांसं वरमिह वरेण्यं मृगयते ॥ ५७ ॥
न भिक्षा दुर्भिक्षे मिलति दुरवस्थाः कथममी लभन्ते कर्माणि द्विजपरिवृढान्कारयतु कः । अदत्त्वैव ग्रासं ग्रहपतिरसावस्तमयते क्व यामः किं कुर्मो गृहिणि गहनो जीवनविधिः ॥ ५८ ॥
निरस्थञ्चालीकं क्षुदुपहतसीदत्परिजनं विना दीपाञ्चकं सुखगहनसरुद्धतिमिरम् । अनाक्रान्तद्वारं प्रणयिभिरपूर्णोत्सवमहो गृहं कारापुल्यं भवति खलु दुःखाय गृहिणः ॥ ५९ ॥
सखे खेदं मा गाः कलय किल तास्ता निजकलाः स्वकीर्त्या वर्धस्व क्व नु खलु तवैतद्व्यवसितम् । न तन्मोघत्यत्र स्फुरितमिति चेच्चेतदुचितं विचित्रोत्साहानां किमिदमियदेव त्रिभुवनम् ॥ ६० ॥
दधति न जनास्तन्नैराश्याद्दहष्टविभूतयो यदुचितसुखभ्रंशाद्दुःखं निजच्युतसंपदः । भवति हि तथा जात्यन्धानां कुतो हृदि वेदना नयनविषयं स्मृत्वा स्मृत्वा यथोद्धतचक्षुषाम् ॥ ६१ ॥
मारोदीश्चिरमेहि वत्सरुचिरान्दृष्ट्वाद्य बालानिमानायातास्तव वत्स दास्यति पिता ग्रैवेयं वाससी । श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निष्किंचनो निःश्वासाश्रुजलप्लुतप्लुतमुखः पान्थः पुनः प्रस्थितः ॥ ६२ ॥
वासःखण्डमिदं प्रयच्छ यदि वा स्वाङ्गे गृहाणार्यकं रिक्तं भूतलमत्र नाथ भवतः पृष्ठे पैंलालोकयः । दम्पत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः ॥ ६३ ॥
वृद्धोऽन्धः पतिरेष मन्मथगतः स्थूणावशेषं गृहं कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो । यत्त्रासचित्ततैलविन्दुघटिका भेषेति पर्याकुला दृष्ट्वा गर्भमरालसा निजैंवधू श्वश्रूश्चिरं रोदिति ॥ ६४ ॥
नो सेवा विहिता गुरोरपि मनाङ्गो वा कृतं पूजनं देवानां विधिवन्न वा शिव शिव क्षिप्रादयः सेविताः । किं तु त्वच्चरणौ सरस्वति रसादाजन्मन्, सेवितौ तन्मान्मा विजहाति सा भगवती शङ्के संपत्नी तव ॥ ६५ ॥
क्षुत्क्षामाः शिशवः शवा इव भृशं मन्दाशया बान्धवा लिप्ता जर्जरर्कंकरी जैतुलवैर्नो मां तथा बाधते । गेहिन्या त्रुटितांशुकं घटयितुं कृत्वा सेंकांकु सितं कुप्यन्ती प्रतिवेशिलोकगृहिणी सूचीं यथा याचिता ॥ ६६ ॥
दग्धं खाण्डवमर्जुनेन बलिना दिव्यैर्द्रुमैः सेवितं दग्धा वायुसुतेन रावणपुरी लङ्का पुनः स्वर्णभूः । दग्धः पञ्चशरः पिनाकपतिना तेनाप्ययुक्तं कृतं दारिद्यं जनतापकारकमिदं केनापि दग्धं नहि ॥ ६७ ॥
उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं मम श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम् । इत्युक्तं धनवर्जितस्य वचनं श्रुत्वा श्मशाने शवो दारिद्र्यान्मरणं वरं वरमिति ज्ञात्वैव तूष्णीं स्थितः ॥ ६८ ॥
भद्रे वाणि कुरुष्व तावदमलां वर्णानुपूर्वी मुखे चेतः स्वास्थ्यमुपैहि याहि करुणे
टिप्पणियाँ (Footnotes):
वाम भाग:
१ आस्तरणहीनभूपृष्ठशायिन
२ लघुत्वकारिणी
३ कालदैव्येनेति यावत्
४ मर्मस्पृक्
५ छादितवती
दक्षिण भाग:
१ रोदनं मा कुरु
२ कण्ठभूषणम्
३ वस्त्रे
४ भित्ते
५ दरिद्र
६ धान्यतृणसंस्तर
७ जीर्णवस्त्रखण्डम्.
८ शय्या
९ गृहस्तम्भ.
१० समीप
११ व्याकुला
१२ क्षुषाम्
१३ लक्ष्मीहित्यर्थे
१४ चालनीसदृश सचिद्र कुम्भ
१५ लाक्षाखण्डे
१६ स्तवसदितम्
१७ मदन
१८ धारय
६८ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
प्रज्ञे स्थिरत्वं भज । लज्जे तिष्ठ पराङ्मुखी क्षणमहो तृष्णे पुरः स्थीयता पापौ यावदहं ब्रवीमि धनिनं देहीति दीन वचः ॥ ६९ ॥ यो गङ्गामतरत्तथैव यमुना यो नर्मदा शर्मदा$^१$ का वार्ता सरिदम्बुलङ्घनविधौ यश्चार्णवास्तीर्णवान् । सोऽस्माक चिरमास्थितोऽपि सहसा दारिद्र्यनामा सखा त्वद्दानाम्बुसरित्प्रवाहलहरीमग्नो न संभाव्यते ॥ ७० ॥ दारिद्र्याद्ध्रियमेति ह्रीपरिगतः$^३$ सत्त्वात्परिभ्रश्यते$^२$ निःसत्त्वः$^४$ परिभूयते परिभवान्निर्वेद$^५$मापद्यते । निर्विण्णः शुचमेति शोकनिहतो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामार्मास्पदम्$^६$ ॥ ७१ ॥ शीतेनोद्धुषितस्य माषशिमिवचिन्तार्णवे मज्जतः शान्ताग्नि स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे । निद्रा काव्यवमानितेव दयिता सत्यज्य दूर गता सत्यान्नप्रतिपादितेव वसुधा न क्षीयते शर्वरी ॥ ७२ ॥ दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः । सत्त्व ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते पाप कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते ॥ ७३ ॥ सङ्ग नैव हि कश्चिदस्य कुरुते संभाव्यते नादरात्संप्राप्तो गृहमत्सवेषु धनिना सावज्ञमालोक्यते । दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपर षष्ठं महापातकम् ॥ ७४ ॥ चौरैर्भ्यो न भय न दण्डपतन त्रासो न वा भूपतेर्निःसङ्गं शयन निशासु गमनं दुर्गेषु मार्गेषु च । दारिद्र्य सुखमेव केवलमहो दोषद्वय वर्तते जाया निन्दति चाङ्गभोगसमये मुञ्चन्ति वै याचकाः ॥ ७५ ॥ वासश्चर्म विभूषण शवशिरो भस्माङ्गलेपः सदा भैको गौः स च लाङ्गलाद्यकुशलः सम्पत्तिरेतादृशी । इत्यालोच्य विमुच्य शङ्करमगाद्भाकर जाह्नवी कष्ट निर्धनिकस्य जीवितमहो दारैरपि त्यज्यते ॥ ७६ ॥ मद्गेहे मूषकीव मूषकवधूर्भूषकैव मार्जारिका मार्जारीव शुनी शुनीव गृहिणी वाच्यः किमन्यो जनः । इत्यापन्नशिशून्प्रसूनविजहतो दृष्ट्वा तु झिल्लीरवैर्हता तन्तुवितानसंवृतमुखी चुल्ली चिर रोदिति ॥ ७७ ॥ पीठाः$^७$ कच्छपवत्तरन्ति सलिले संमार्जनी मीनवद्दर्वी सर्पविचेष्टितानि कुरुते संत्रासयन्ती शिशून् । शूर्णार्यावृतमस्तका च गृहिणी भित्तिः प्रपातोन्मुखी रात्रौ पूर्णतडागसन्निभमभूद्राजन्मदीय गृहम् ॥ ७८ ॥ शीलं शातयति श्रुत शमयति प्रज्ञा निहन्त्यादर दैन्य दीपयति क्षमा क्षपयति व्रीडामपि ह्यस्यति । तेजो जर्जरयत्यपास्यति मति विस्तारयत्यर्थिता पुंसः क्षीणधनस्य किं न कुरुते वैरं कुटुम्बग्रहः ॥ ७९ ॥ दारिद्र्येण समीरितापि बहुशः कण्ठ समालम्बते कण्ठात्कष्टशतैः कथं कथमपि प्राप्नोति जिह्वातलम् । जिह्वाकीलककीलितेव सुदृढ तस्मान्न निर्यात्यसौ वाणी प्राणपरिक्षयेऽपि महता देहीति नास्तीति च ॥ ८० ॥ दृष्ट दुर्जनचेष्टितं परिभवो लब्धः समानाज्जनात्पिण्डार्थे धनिना कृत श्लडितं भुक्त कपालेष्वपि । पन्थामध्वनि$^१$ सप्रयातमसकृत्सुप्त तृणप्रस्तरे यच्चान्यत्र कृतं कृतान्त कुरु हे तत्रापि सज्जा वयम् ॥ ८१ ॥ आसे चेत्स्वगृहे कुटुम्बभरणं कर्तुं न शक्तोऽस्म्यहं सेवे चेत्सुखसाधनं मुनिवनं मुष्णन्ति मा तस्कराः । क्षेत्रे चेत्स्वतनु त्यजामि नरकाद्भीरात्महत्यावशान्नो जाने करवाणि दैव$^२$ किमहं मर्तुं न वा जीवितुम् ॥ ८२ ॥ मा भूजन्म महाकुले तदपि चेन्मा भूद्विपत्सापि चेन्मा भूद्दारि कलत्रमस्ति यदि तन्मा भूद्दयार्द्रं मनः । तच्चेदस्ति तदस्तु मृत्युरथ चेत्तस्यापि नास्ति क्षणस्तजन्मान्तरनिर्विरोधसदशदेशान्तरेऽस्तु स्थितिः ॥ ८३ ॥ यैः कारुण्यपरिग्रहान्न गणित. स्वार्थ. परार्थे प्रति यैश्चात्यन्तदयापरैर्न विहिता वन्ध्यार्थिना प्रार्थना । ये चासन्नरदुःखदुःखितधियस्ते साधवोऽस्त गताशङ्कः संहर बाष्पवेगमधुना कस्साम्रतो रुद्यते ॥ ८४ ॥ सक्तूञ्छोषयति द्रुतान्त्रतिकरोत्याक्रन्दतो बालकान्प्रत्यासिञ्चति कर्परेण सलिलं शय्यातृण रक्षति । धृत्वा मूर्ध्नि पुराणशूर्पशकलं शून्ये गृहे व्याकुला किं तद्यन्न करोति दुर्गतवधूर्देवे भृशं वर्षति ॥ ८५ ॥ दारिद्र्यक्षितिपः स मे निजपतिस्तस प्रसादद्भवाच्या जीवनमम्बर दश दिशो वासश्च देवालये । असद्वैरिणि लब्धसगतिरिति त्वय्याश्रये कुप्यता मद्बुत्ति विनियोजितास्तवदयः का नाम वृत्तिर्मम ॥ ८६ ॥ आसीत्ताम्रमयं शरीरमधुना सौवर्णवर्ण गत मुक्ताहारलताश्रुबिन्दुनिर्वहैनैःश्वस मे कल्पिता । स्वल्प स्वल्पमनल्पकल्पमधुना दीर्घे वयः कल्पितं स्वामिन्दुःख भवत्प्रसादवशतः किं कि न लब्धं मया ॥ ८७ ॥
दानप्रशंसा
अनुकूले विधौ देयं यतः पूरयिता$^३$ हरिः । प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ॥ १ ॥
यद्ददाति यदश्नाति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि ॥ २ ॥
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने । तत्ते वित्तमह मन्ये शेषमन्यस्य रक्षसि ॥ ३ ॥
त्याग एको गुणः श्लाघ्यः किमन्यैर्गुणराशिभिः । त्यागा-
पादटिप्पण्यः (Left Footnotes):
१ सुखदात्रीम्
२ न दृश्यते.
३ लज्जा प्राप्नोति.
४ लज्जा युक्त
५ खेदम्
६ स्थानम्
७ आसनानि
पादटिप्पण्यः (Right Footnotes):
१ गर्ते
२ दैवे
३ पूरणकर्ता
| दानप्रशंसा-लोभनिन्दा | ६३ |
|---|
| जगत्सु पूज्यन्ते पशुपाषाणपादपाः ॥ ४ ॥ भवन्ति नरका- | विधिना वितीर्णः स प्रीतिदायो बहुमन्तुमर्हः ॥ २४ ॥ |
| पापात्पाप दारिद्र्यसम्भवम् । दारिद्र्यमप्रदानेन तस्माद्दानपरो | दानेन भूतानि वशीभवन्ति दानेन वैराण्युपि यान्ति नाशम् । |
| भवेत् ॥ ५ ॥ ग्रासादर्थमपि ग्रासमर्थिभ्यः किं न यच्छसि । | परोऽपि बन्धुत्वमुपैति दानैर्दान हि सर्वव्यसनानि हन्ति |
| इच्छानुरूपो विभवः कदा कस्य भविष्यति ॥ ६ ॥ | ॥ २५ ॥ तुरगशतसहस्रं गोगजाना च लक्ष कनककनरजत- |
| गौरवं प्राप्यते दानान्न तु वित्तस्य सञ्चयात् । स्थितिरुच्चैः | पात्रं मेदिनी सागरान्ताम् । विमलकुलवधूना कोटिकन्याश्च |
| पयोदाना पयोधीनामधः स्थितिः ॥ ७ ॥ दरिद्रान्भर कौन्तेय | दद्यान्नहि नहि सममेतैरन्नदान प्रधानम् ॥ २६ ॥ कामं |
| मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य | वाचः कतिचिदफलाः सन्तु लोके कवीना सन्त्येवान्या मधु- |
| किमौषधैः ॥ ८ ॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । | रिपुकथाः संस्तवात्कामदोग्ध्र्यः । वित्त काम भवतु विफल |
| देशे काले च पात्रे च तद्दान सात्त्विकं विदुः ॥ ९ ॥ | दत्तमश्रोत्रियेभ्यः पात्रे दत्तर्भवति हि धनैर्धन्यता भूरिदातुः |
| उपार्जिताना वित्ताना त्याग एव हि रक्षणम् । तडागोदर- | ॥ २७ ॥ देयं भो ह्यघने धनं सुकृतिभिर्नो सचितं सर्वदा |
| संस्थाना परीवाह इवाम्भसाम् ॥ १० ॥ दानोपभोगवन्ध्या | श्रीकर्णस्य बलेश्र विक्रमपतेरद्यापि कीर्तिः स्थिता । आश्चर्य मधु- |
| या सुहृद्भिर्या न भुज्यते । पुंसा यदि हि सा लक्ष्मीरलक्ष्मीः | दानभोरहित नष्ट चिरात्सचितं निर्वेदादिति पाणिपादयुगल |
| कतमा भवेत् ॥ ११ ॥ किं तया क्रियते लक्ष्म्या या वधूरिव | घर्षन्त्यहो मक्षिकाः ॥ २८ ॥ |
| केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ १२ ॥ | |
| आयासशतलब्धस्य प्राणैभ्योऽपि गरीयसः । गतिरेकैव वित्तस्य | लोभनिन्दा |
| दानमन्या विपत्तयः ॥ १३ ॥ दानेन श्लाघ्यता यान्ति | लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च । द्वेषक्रोधादि- |
| पशुपाषाणपादपाः । दानमेव गुणः श्लाघ्यः किमन्यैर्गुण- | जनको लोभः पापस्य कारणम् ॥ १ ॥ लोभात्क्रोधः प्रम- |
| कोटिभिः ॥ १४ ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति | वति लोभात्कामः प्रजायते । लोभान्मोहश्च नाशश्च लोभः |
| वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति | पापस्य कारणम् ॥ २ ॥ लोभात्क्रोधः प्रभवति क्रोधाद्द्रोहः |
| ॥ १५ ॥ यो न ददाति न भुङ्क्ते सति विभवे नैव तस्य | प्रवर्तते । द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः |
| तद्द्रव्यम् । तृणमयकृत्रिमपुरुषो रक्षति सस्यं परस्यार्थे | ॥ ३ ॥ मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम् । लोभाविष्टो |
| ॥ १६ ॥ दातव्य भोक्तव्य सति विभवे सञ्चयो न | नरो हन्ति स्वामिन वा सहोदरम् ॥ ४ ॥ लोभेन |
| कर्तव्यः । पश्येह मधुकरीणा सचितमर्थ हरन्त्यन्ये | बुद्धिश्चलति लोभो जनयते तृषाम् । तृषार्तो दुःखमाप्नोति |
| ॥ १७ ॥ मीयता कथमभीप्सितमेषा दीयता द्रुतमयाचित- | परत्रेह च मानवः ॥ ५ ॥ लोभाविष्टो नरो वित्त वीक्षते न |
| मेव । त धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसर सहते | स चापदम् । दुग्धं पश्यति मार्जारो न तथा लघुडाहतिम् |
| यः ॥ १८ ॥ प्रापितेन चटूघाकुविर्डम्ब लम्भितेन बहुया- | ॥ ६ ॥ प्रायेण धनिनामेव धनलोभो निरन्तरम् । पश्य |
| चनल्जाम् । अर्थिना यदघमर्ज्यते दाता तन्न लुम्पति विल- | कोटिद्वयोपेत लक्षीय प्रणत धनुः ॥ ७ ॥ लोभः सदा |
| म्ब्य ददानः ॥ १९ ॥ यत्प्रदेयमुपनीय वदान्यैर्दीयते | विचिन्त्यो लुब्धेभ्यः सर्वतो भय दृष्टम् । कार्याकार्यविचारो |
| सलिलमर्थिजनाय । याचनोक्तिविफलत्वविशङ्कात्रासमुर्च्छन- | लोभाविमूढस्य नास्त्येव ॥ ८ ॥ सत्यप्रसमतपोभिः सत्यधनैः |
| चिकित्सितमेतत् ॥ २० ॥ अर्थिने न तृणवद्धनमात्र किंतु | शास्त्रवेदिभिर्विजितः । लोभोऽर्बटं प्रविष्टः कुटिल हृदय |
| जीवनमपि प्रतिपाद्यम् । एवमाह कुशवज्जलदायी द्रव्यदान- | किराटीनाम् ॥ ९ ॥ स्नेहोपपन्न इति पूर्णदशाविशेषशाली |
| विधिरुक्तिविदग्धः ॥ २१ ॥ पङ्कसंगरविगर्हितमहं न | स्वमात्मनि वसुप्रकरं निधाय । लब्धोदये तमथ गृह्णति |
| श्रियः कमलममाश्रयणार्य । अर्थिपाणिकमलं विमल तद्वास- | पद्मबन्धौ दीपा भवन्ति कलुषा बलवान्हि लोभः ॥ १० ॥ |
| वेश्म विदधीत सुधीस्तत् ॥ २२ ॥ दानपात्रमधमर्णमिहै- | यहुर्गामैटवीमटन्ति विकटं क्रामन्ति देशान्तर गाहन्ते |
| कमाहि कोटिगुणितं दिवि दायि । साधुरेति सुकृतैर्यदि | गहन समुद्रमथनक्लेश कृषि कुर्वते । सेवन्ते कृपणं पतिं |
| कर्तु पारलौकिककुसीदमसीदत् ॥ २३ ॥ अर्थी विनैवार्थ- | गद्घटासघट्टदुःसचर सर्पन्ति र्प्रधनं धनान्धितधियस्तलोम- |
| नयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः । मान्येन मन्ये | विस्फूर्जितम् ॥ ११ ॥ |
| पादटिप्पणी (वाम भाग) | पादटिप्पणी (दक्षिण भाग) |
|---|---|
| १ अनेकोपभोग्या २ नाश इत्यर्थः ३ तृणकृतकपटपुरुषाकार सस्यरक्षणार्थमुच्चप्रदेशे शृगालादिभयहेतुस्तृणादिघटित पुरुष स्थाप्यत इति प्रसिद्धम् ४ ऐश्वर्ये ५ भ्रमरीणाम्. ६ हास्यत्वम् | १ तिष्ठतीति शेष २ धनुष प्रान्तभागद्वयम्, हृदयगुहायामित्यर्थ ३ लक्ष लक्ष्यम्, पक्षे,-लक्षसंख्या ४ गर्तम् ५ किराटो वणिग्जातिविशेषः ६ गहनाम् ७ अरण्यम् ८ युद्धम् ९ विलास· |
| ७० | सुभाषितरत्नभाण्डागारम् | [ २ प्रकरणम् |
|---|
उदारप्रशंसा
शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता दशसहस्रेषु दाता भवति वा न वा ॥ १ ॥
अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति । दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥ २ ॥
रक्षन्ति कृपणाः पाणौ द्रव्यं कैव्यमिवात्मनः । तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ॥ ३ ॥
याचितो यः प्रहृष्येत दत्त्वा च प्रीतिमान्भवेत् । तं दृष्ट्वाप्यथवा श्रुत्वा नरः स्वर्गमवाप्नुयात् ॥ ४ ॥
आकारमात्रविज्ञानसंपादितमनोरथाः । ते धन्या ये न शृण्वन्ति दीनाः प्रणयिना गिरः ॥ ५ ॥
कर्णल्लङ्घिगुणोत्कर्षास्त्यागिनो धन्यनास्तथा । निष्फलान्न विमुञ्चन्ति मार्गणान्सुमुखे स्थितान् ॥ ६ ॥
देहि देहीति जल्पन्ति त्यागिनोऽप्यर्थिनोऽपि च । आलोकयन्ति रभसादस्ति नास्तीति न क्वचित् ॥ ७ ॥
युध्यन्ते पक्षिपशवः पठन्ति शुकसारिकाः । दातुं शक्नोति यो वित्तं स शूरः म च पण्डितः ॥ ८ ॥
अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ९ ॥
लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः । धन्यो बलिः स येनास्य भिक्षापात्रीकृतः करः ॥ १० ॥
कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ ११ ॥
दाता नीचोऽपि सेव्यः स्यान्निष्फलो न महानपि । जलार्थी वारिधिं त्यक्त्वा पश्य कूपं निषेवते ॥ १२ ॥
पुंसामुन्नतचित्तानां सुखावहमिदं द्वयम् । सर्वसङ्गविवृत्तिर्वा विभूतिर्वा सुविस्तरा ॥ १३ ॥
जरामरणदौर्गत्यव्याधयस्तावदास्ताम् । जन्मैव किं न वीरस्य भूयो भूयश्चपाकरम् ॥ १४ ॥
अपि नाम स दृश्येत पुरुषातिशयो भुवि । गर्वोच्छूनमुखा येन धनिनो नावलोकिताः ॥ १५ ॥
पृथ्वी पृथ्वीगुणा मान्याः सन्ति भूपा विवेकिनः । पराभवपदं यान्ति कस्मादुन्नतबुद्धयः ॥ १६ ॥
परिपूर्णगुणोपभोगगरिमोद्धार एव सः । त्रिजगत्स्पृहणीयेऽस्मिन् रुचिर्द्रविणेऽपि यत् ॥ १७ ॥
त्यागो गुणो वित्तवता वित्तं त्यागवता गुणः । परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना ॥ १८ ॥
नृणां धुरि स एवैको यः कश्चित्त्यागपाणिना । निर्माष्टिं प्रार्थनापांसुधूसरं मुखमर्थिनाम् ॥ १९ ॥
बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलम् । सत्त्वं चानयसंपन्नं तत्पुंस्त्वं न पौरुषम् ॥ २० ॥
अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः । यदुपक्रियमाणोऽपि प्रीयते न विलीयते ॥ २१ ॥
सैवं परं न विनश्यति तैनुरपि या श्रीर्निवेशिता सत्सु । अवशिष्यते हिमांशोः सैव कला या स्थिता शंभौ ॥ २२ ॥
कियती पक्षसहस्री कियती लक्षापि कोटिरपि कियती । औदार्योन्नतमना रत्नवती वसुमती कियती ॥ २३ ॥
प्रत्युपकुर्वत्पूर्वं कृतोपकारमपि लज्जयति चेतः । यस्तु विहितोपकारादुपकारः सोऽधिको मृत्योः ॥ २४ ॥
जीवञ्जीवयति हि यो ज्ञातिजनं परिजनं च सुहृदश्च । तस्य सफलं गृहश्रीर्धिगनुपजीव्यां धनसमृद्धिम् ॥ २५ ॥
यच्छल्लमपि जलदो वल्लभतामेति सर्वलोकस्य । नित्यं प्रसारतिकरः सवितापि भवत्यचक्षुष्यः ॥ २६ ॥
नासौ यत्केनचिदपि मनोरथा अपि यतो निवर्तन्ते । तद्यदि न लभ्यतेऽन्यन्मनस्विन किमभिमानफलम् ॥ २७ ॥
घटन विघटनमथवा कार्याणां भवति विधिनियोगेन । उचितेऽनुचिते कर्मणि वृत्तिनिवृत्ती समादत्ते ॥ २८ ॥
कल्पस्थायि न जीवितमैश्वर्यं नाप्यते च यदभिमतम् । लोकस्ताप्यकार्यं कुरुते कार्यं किमुद्दिश्य ॥ २९ ॥
धनबाहुल्यमहेतुः कोऽपि निसर्गेण सुत्ककरः । प्रावृषि कस्यानुसुचः संपत्ति किमधिकाम्बुनिधेः ॥ ३० ॥
द्रविणार्जनजः परिश्रमः फलितोऽप्यस्य जनस्य नीरसः । द्रविणार्जनमात्मतुष्टये परमावर्जयितुं गुणार्जनम् ॥ ३१ ॥
नाक्षराणि पठता किमपाठि पाठितोऽपि किमु विस्मृत एव । इत्थमर्थिजनसंशयदोलाखेलना खलु चकार नकारः ॥ ३२ ॥
यः प्रशसति नरो नरमन्यं देवतासु वरदासु सतीषु । मुग्धधीर्धनलवस्पृहयालुस्तन्नृशंसमहमाद्यमवैमि ॥ ३३ ॥
यथा शरीरं किल जीवितेन विनाकृतं काष्ठमिवावभाति । तथैव तज्जीवितमप्यवैमि लोकोत्तरेण स्फुरितेन शून्यम् ॥ ३४ ॥
जातश्च नाम न विनङ्क्ष्यति चेत्युक्तमुत्पाद एव नियमेन विनाशहेतु । तुल्ये च नाम मरणव्यसनोपतापे मृत्युर्वरं परहितावहताशयस्य ॥ ३५ ॥
उत्पादिता स्वयमियं यदि तत्तन्नूजा तातेन वा यदि तदा भगिनी खलु श्रीः । यद्यन्यसगमवती च तदा परस्त्री तत्यागशङ्क-मनसः सुधियो भवन्ति ॥ ३६ ॥
त्वयि सति शिवदार्य्यसर्वस्वैर्मार्थितानामितरमनुमरन्तो दर्शयन्तोऽर्थिमुद्राम् । चौरमचरणपातैर्दुर्ग्रह दोग्धुकामा करभमनुसरामः कामधेनौ स्थितायाम् ॥ ३७ ॥
इयत्यप्येतस्मिन्मघवधिमहत्यध्वनि गुणास्त एवामी द्वित्रा जरठजरठा यान्ति गणनाम् । अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः स्वयस्तब्वो यावत्कलयति समग्रं तृणमिदम् ॥ ३८ ॥
क्वचित्परिचिन्त्यैव परितापमात्मन्यमी न बिभ्रति मनस्विनो
पाद-टिप्पणी (Footnotes)
[वामभागः]
१ मासम्
२ बाणान्, पक्षे,-याचकान्
३ स्वकीय
४ एतन्नामको राजा
५ नृपश्रेष्ठः
६ मुनीश्वर
७ समुद्रम्
८ स्फीतवदनाः
[दक्षिणभागः]
१ अल्पा
२ याचितानाम्
३ पाश्चात्यचरणपातै
४ ऊर्ध्वम्
उदारप्रशंसा-कृपणनिन्दा
७१
यदमुना न तावत्क्षितिः । अहर्निशमिहैव ये परमनोऽनुवृत्त्या पुनर्वहन्ति विजिगीषुता किमिव तेऽनुकम्पास्पदम् ॥ ३९ ॥ भुज्यन्ते स्वगृहस्थिता इव सुख यस्यार्थिभिः संपदः पद्मौ यस्य मतिस्तमःप्रहतये द्यावेव तौ प्राणितः । यस्त्वात्मभरिरुन्नतेऽपि विभवे हीनश्च विद्वत्तया तस्यालेख्यमणेरिवाकृतिभृतः सत्ताप्यसत्ता ननु ॥ ४० ॥ आधाराय धरावकाशविधयेऽप्याकाशमालोकने भास्वानात्ममहत्त्वसाधनविधावन्थे गुणाः केचन । इत्यस्मिन्नुपकारकारिणि सदा वर्गे पर दुस्त्यजे दैन्यव्रीडकलब्धमज्जतु कथं चेतो महाचेतसाम् ॥ ४१ ॥ नित्य या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते पश्यन्ति स्पृहयालवो न रिपवो या विक्रमासादिताम् । यस्याः साधुपरिक्षयेण सुहृदा नाशेन वा संभवो नो सपद्विपदेव सा गुणवता प्रीतिस्तया कीदृशी ॥ ४२ ॥ न्याय्य मार्गममुञ्झतः सुकृतिनो दैवाद्भवन्त्यापदो यास्ताः सन्तु बलेरिवादिपुरुषाद्योऽर्थी स्वय यच्छतः । शक्तस्येव जुगुप्सितैः सुबहुभिर्निन्दैश्च कर्मभिर्देवानामुपरि प्रभुत्वमपि मे मा भून्नृपाकारणम् ॥ ४३ ॥ रुद्रोऽद्रिं जलधि हरिर्दिविषदो दूर विहायःश्रिता भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः । लीनाः पद्मवने सरोजनिलया मन्येऽर्थिसार्थाद्विया दीनोद्धारपरायणाः कलियुगे सत्पुरुषाः केवलम् ॥ ४४ ॥
कृपणनिन्दा
भिक्षाद्वारा गृहे गृहे । दीयता दीयता नित्यमदातुः फलमीदृशम् ॥ ९ ॥ द्वारं द्वार रटन्तीह भिक्षुकाः पात्रपाणयः । दर्शयन्त्येव लोकानामदातुः फलमीदृशम् ॥ १० ॥ न दातुं नोपभोक्तु च शक्नोति कृपणः श्रियम् । किं तु स्पृशति हस्तेन नपुंसक इव स्त्रियम् ॥ ११ ॥ किंशुके कि शुकः कुर्यात्फलितेऽपि बुभुक्षितः । अदातरि समृद्धेऽपि कि कुर्मुरुपजीविनः ॥ १२ ॥ वरं विभवहीनेन प्राणैः संतर्पितोऽनलः । नोपचारपरिश्रष्टः कृपणः प्रार्थितो जनः ॥ १३ ॥ उदारचरितस्याग्नी याचितः कृपणोऽधिकः । एको धनं ततः प्राणानन्यः प्राणास्ततो धनम् ॥ १४ ॥ नोपभोक्तुमपि क्लीबो जानात्युपचिता श्रियम् । ग्राम्यो विरागयत्येव रमयन्नपि कामिनीम् ॥ १५ ॥ कृपण. स्ववधूसङ्ग न करोति भयादिह । भविता यदि मे पुत्रः स मे वित्तं हरेदिति ॥ १६ ॥ यद्गोधोऽधः क्षितौ वित्तं निचखान मितपचः । तदैवोनिरयं गन्तु चक्रे पन्थानमग्रतः ॥ १७ ॥ निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति । परार्थ भारवाहीव क्लेशस्यैव हि भाजनम् ॥ १८ ॥ असम्भोगेन सामान्यं कृपणस्य धनं परैः । अस्येदमिति संबन्धो हानौ दुःखेन गम्यते ॥ १९ ॥ सति द्राक्षाफले क्षीरे मृदामास्वादनं मुदे । अहो मातुरियं रीतिः कृपणे गर्भवर्तिनि ॥ २० ॥ अदातुर्मानस कापि न स्पृशन्ति कवेर्गिरः । दोषायैवातिवृद्धस्य विलासास्तरुणीकृताः ॥ २१ ॥ शरणं किं प्रपन्नानि विषवन्मारयन्ति किम् । न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥ २२ ॥ धनं यदिह मे दत्से विधे मा देहि कहिंचित् । औदार्य धनिनो देहि यन्मदीये हृदि स्थितम् ॥ २३ ॥ वीणेव श्रोत्रहीनस्य लोलक्षीव विर्चक्षुषः । व्यसोः कुसुममालेव श्रीः कदर्यस्य निष्फला ॥ २४ ॥ लुब्धो न विसृजत्यर्थं नरो दारिद्र्यशङ्कया । दातापि विसृजत्यर्थं तैयैव ननु शङ्कया ॥ २५ ॥ या विपत्तिर्धनापाये नृणा भोगिवदान्ययोः । प्रज्ञापकर्षत्यागेव प्राप्ता हि कृपणेन सा ॥ २६ ॥ गृहमध्यनिखातेन धनेन रमते यदि । स तु तेनानुसारेण रमते कि न मेरुणा ॥ २७ ॥ अतिसंचयकर्तृणा वित्तमन्यस्य कारणात् । अन्यैः सचीयते यत्नादन्यैश्च मधु पीयते ॥ २८ ॥ विडम्बनैव पुंसि श्रीः परप्रणयपांसुले । कान्तिं कामिहि कुर्वीत कुणौ कटककल्पना ॥ २९ ॥ कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियाम् । दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः ॥ ३० ॥ दैववशादुत्पन्ने सति विभवे यस्य नास्ति भोगेच्छा ।
कृपणेन समो दाता न भूतो न भविष्यति । अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ १ ॥ यदर्ज्यते परिक्लेशैरर्जितं यन्न भुज्यते । विभज्यते यदन्तेऽन्यैः कस्यचिन्मास्तु तद्धनम् ॥ २ ॥ यत्करोत्यरतिं क्लेशं तृष्णा मोहं प्रजागरम् । न तद्धनं कदर्याणा हृदये व्याधिरेव सः ॥ ३ ॥ मृत्युः शरीरगोप्ताऽर धनरक्ष वसुंधरा । दुश्चारिणी च हसति स्वपति पुत्रवत्सलम् ॥ ४ ॥ त्यागभोगविहीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ ५ ॥ दानोपभोगरहिता दिवसा यस्य यान्ति वै । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ ६ ॥ अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ ७ ॥ कृपणेन शवेनेव मृतेनापि न दीयते । मास वर्धयता तेन कौकस्योपकृतिः कृता ॥ ८ ॥ बोधयन्ति न याचन्ते
पाद-टिप्पण्यः (Footnotes)
[वामभागः] १ संपाद्यते २ अवसाने ३ अस्वस्थत्वम् ४ विचाराशक्ति ५ कृपणानाम् ६ पीडैव ७ कस्य का उपकृतिरुपकार कृता, अपि तु न कस्यापि कापीत्यर्थे, पक्षे, -काकस्य पक्षिण
[दक्षिणभागः] १ भिक्षुका इति शेष २ त्यजतीति शेष ३ आरोपयामास ४ नरकम् ५ चञ्चलाक्षी मृगनयनेति यावत् ६ अन्धस्य ७ प्राणरहितस्य, प्रेतस्येति यावत् ८ दारिद्र्यशङ्क्यैव
७२ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
न च परलोकसमीहा स भवति धनपालको मूर्खः ॥ ३१ ॥ उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम् । कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे ॥ ३२ ॥ यदि भवति धनेन धनी $^३$क्षितितलनिहितेन भोगरहितेन । तस्माद्वयमपि धनिनस्तिष्ठति नः काञ्चनो मेरुः ॥ ३३ ॥ $^५$नन्दनरेन्द्रद्रविणैर्दुष्कृतमिव किमपि विहितमतिघोरम् । वसुधातलोपमणको विरमति नाद्यापि यत्तेभ्यः ॥ ३४ ॥ $^६$दृढतरनिबद्धमुष्टेः कोश$^७$निष्षण्णस्य $^८$सहजमलिनस्य । कृपणस्य कृपाणस्य च केवल$^९$माकारतो भेदः ॥ ३५ ॥ कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः । जलसंपदोऽ$^१^०$म्बुराशेर्यान्ति वशं सर्वदैव $^१^१$वडवाग्नेः ॥ ३६ ॥ प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः । $^१^२$मुखपाकः किल भवति द्राक्षापाके $^१^३$बलिभुजा हि ॥ ३७ ॥ अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थीनाम् । योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ ३८ ॥ केऽपि स्वभावलुब्धास्तीव्रतरा यातना मपि सहन्ते । न तु संत्यजन्ति वित्तं मात्सर्यमिवाधमाः सततम् ॥ ३९ ॥ और्वा इवातिलुब्धा भवन्ति धनलवणवारिबिन्दुवृष्णाः । तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ ४० ॥ $^{१४}$अर्थिनि कवयति $^{१५}$कवयति पठति च पठति स्तवोधते स्तौति । पश्चाद्यामीत्युक्ते कृपणः $^{१६}$प्रणतोऽञ्जलिं कुरुते ॥ ४१ ॥ दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः । वयमपि किमिति न धनिनस्तिष्ठति नः काञ्चनो मेरुः ॥ ४२ ॥ धनिनोऽप्यदानभोगा गण्यन्ते धुरि महादरिद्राणाम् । हन्ति न यतः पिपासामतः समुद्रोऽपि मरुखि ॥ ४३ ॥ अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः । कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव ॥ ४४ ॥ ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः । केवलमर्जनरक्षणवियोगदुःखान्यनुभवन्ति ॥ ४५ ॥ याचमानजनमानसकृतेः पूरणाय बत जन्म न यस्य । तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥ ४६ ॥ मा धन्वानि कृपणः खलु जीवस्तृष्ण्यार्पयतु जातु परस्मै । तत्र नैव कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि ॥ ४७ ॥ लोक एष परलोकमुपेता हा विधाय निधने धनमेकः । इत्यमुं खलु तदस्य निनीषत्यर्थिबन्धुरुदय$^१$दयचित्तः ॥ ४८ ॥ सचित ऋतुषु नोपयुज्यते याचितं गुणवते न दीयते । तत्कदर्यपरिरक्षितं धनं चौरपार्थिवगृहेषु गच्छति ॥ ४९ ॥ वरममी तरवो वनगोचराः शकुनिसार्थविलुप्तफलश्रियः । न तु धनान्धगृहाः कृपणाः फणानिहितरत्नभुजंगमवृत्तयः ॥ ५० ॥ न निर्यातासन्ति कदर्यहस्ताद्धनानि पासोरिव तैललेशाः । दैवात्कदाचिद्विनियोक्तुरेव निर्गन्तुमिच्छन्त्यसुभिः सहैव ॥ ५१ ॥ सुसङ्गतैर्जीवितवत्सुरक्षितैर्निजेऽपि देहे कृतयन्त्रणस्य च । तवानुमार्गं व्रजतो भवान्तरे शठैर्धनैः पश्वनदी न पूरिता ॥ ५२ ॥ अहो धनानां महती विदग्धता सुखोपितानां कृपणस्य वेश्मनि । व्रजन्ति न त्यागदशां न भोग्यतां परां च काचित्प्रथयन्ति निर्वृतिम् ॥ ५३ ॥ फलं स्वेच्छालभ्यं प्रतिवनमखेदं $^३$क्षितिरुहाम् पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहन्ते संतापं तदपि धनिनां द्वारि कृपणाः ॥ ५४ ॥ यदेते साधूनामुपरि विमुखाः सन्ति धनिनो न चैषावज्ञैषामपि तु निजवित्तव्ययभयम् । अतः खेदो नास्मिन्परमनुकम्प्यैव भवति क्षमासत्रस्तेभ्यः क इह हरिणेभ्यः परिभवः ॥ ५५ ॥ न शान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैः क्षतच्छायाः कायश्चिरविरसरूक्षाशनतया । अनिद्रा मन्दानिर्भृतपसलिलचौरानलभयात्कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥ ५६ ॥ जहाति सहसाननं झटिति पृच्छति स्वागतं नमस्यति कृताञ्जलिः $^५$श्रुतिमनोंहरं भाषते । ददाति कुसुमं फलं शिथिलयत्यभीष्टां क्रियामहो न परिचीयते कृपणवञ्चनाचातुरी ॥ ५७ ॥ $^६$अयश्चणकचर्वणं फणिफणामणेः कर्षणं करेण गिरितोलनं जलनिधेः पदा लङ्घनम् । $^७$प्रसुप्तहरिबोधनं $^८$निशितखड्गसंस्पर्शनं कदाचिदखिलं भवेन्न च शठाद्धनसार्जनम् ॥ ५८ ॥ एकैकातिशयालयः परगुणज्ञानैकवैज्ञानिकाः सन्येते धनिकाः कलासु सकलास्वाचार्यचर्यांचणाः । अप्येते सुमनोगिरा निशमनाद्विस्मृत्यहो श्लाघया धूते मूर्धनि कुण्डले क्वणतः क्षीणे भवेतामिति ॥ ५९ ॥ प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया भीतः प्रत्युपकारकारणभयन्नाक्रुष्यते सेवया । मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति ॥ ६० ॥ मत्वा सारं गुणानां
पादटिप्पणी (Footnotes)
[वामभागः] १ इच्छा. २ उत्तमकन्या. ३ भूम्यन्तर्गतेन. ४ उपभोगहीनेन. ५ नवनवतिकोटिमितं कनकदीनाराः पाटलिपुत्रमहीपतिना नन्देन भूमौ निहिता अद्यापि तिष्ठन्तीति प्रसिद्धिः. ६ दृढतरमतिनिबिडं निष्पन्नं मुष्टिर्येन; पक्षे,-दृढतरं निबद्धा मुष्टिः त्सुरूर्यस्य. ७ कोशारे निष्षण्णस्य स्थितस्य, पक्षे,-कोशे खङ्गपिधाने स्थितस्य. ८ स्वभावमलिनस्य. मलिनवेषत्वात्, पक्षे,-कृष्णवर्णत्वात्. ९ आकारत आकृत्या भेदः; पक्षे,-कृपणशब्देऽकारो वर्तते कृपाणशब्दे आकारो वर्तते एतावतैव भेदो भिन्नत्वम्, कृपाणः खड्गः. १० समुद्रस्य. ११ वाडवाग्नेः. १२ मुखरोगः. १३ काकानाम्. १४ याचके. १५ कवितां करोति. १६ नम्रः.
[दक्षिणभागः] १ उद्यत्करुणं चित्तं यस्य. २ क्लेशरहितम्. ३ वृक्षाणाम्. ४ सत्वरम्. ५ कर्णमधुरम्. ६ लोहम्. ७ निद्रितसिंहोत्थापनम्. ८ तीक्ष्ण. ९ वर्धणतः.
याचकनिन्दा | ७३
शिरसि यदि शशी स्थापितो दैवयोगादीशेन क्षीणबिम्ब.
सकलमुपचयं किं न नीतः क्षणेन । मिथ्यैव ख्यापयन्तो
गुणििन सरलता लोकभक्त्यर्थमुच्चैराख्या. कुर्वन्ति वित्त-
व्ययचकितधियो मानमर्थेन शून्यम् ॥ ६१ ॥
याचकनिन्दा
वेपथुर्मलिनं वक्त्रं दीना वाग्गद्गद. स्वरः । मरणे यानि
चिह्नानि तानि चिह्नानि याचके ॥ १ ॥ विधावतः कुली-
नस्य धनं याचितुमिच्छतः । कण्ठे पारावतस्येव वाकरोति
गतागतम् ॥ २ ॥ दक्षिणाशाप्रवृत्तस्य प्रसार्यितकरस्य च ।
तेजस्तेजस्विनोऽर्कस्य हीयतेऽन्यस्य का कथा ॥ ३ ॥
साधुरेवार्थिभिर्याच्यः क्षीणवित्तोऽपि सर्वदा । शुष्कोऽपि
हि नदीमार्गः खन्यते सलिलार्थिभिः ॥ ४ ॥ तृणादपि
लघुस्तूलस्तूलादपि च याचक. । वायुना किं न नीतोऽसौ
मामयं प्रार्थयेदिति ॥ ५ ॥ देहीति वचनं श्रुत्वा देहस्थाः
पञ्च देवताः । मुखान्निर्गत्य गच्छन्ति श्रीह्रीधीधृतिकीर्तयः
॥ ६ ॥ नवीनदीनभावस्य याचकस्यातिमानिनः । वचो-
जीवितयोरासीत्पुरोनिःसरणे रणः ॥ ७ ॥ अदृष्टमुखभङ्गस्य
युक्तमन्धस्य याचितुम् । अहो बत महत्कष्टं चक्षुष्मानपि
याचते ॥ ८ ॥ गतेर्भङ्गः स्वरो हीनो गात्रे स्वेदो महद्भयम् ।
मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ ९ ॥ दारिद्र्या-
नलसंताप. शान्तः सन्तोषवारिणा । याचकाशाविधातान्तर्दाहः
केनोपशाम्यति ॥ १० ॥ दरिद्रस्य परा मूर्तिस्तृष्णा न
द्रविणालपता । जरद्गवधनः शम्भुस्तथापि परमेश्वरः ॥ ११ ॥
वदनाच्च बहिर्यान्ति प्राणा याञ्चाक्षरै. सह । ददामीत्यक्षरै-
र्दातुः पुन कर्णाद्विशन्ति हि ॥ १२ ॥ देहीति वक्तुका-
मस्य यद्दुःखमुपजायते । दाता चेत्तद्विजानीयाद्दद्यात्स्वंपिशि-
तान्यपि ॥ १३ ॥ काक आह्वयते काकान् याचको न तु
याचकान् । काक-याचकयोर्मध्ये वरं काको न याचकः ॥ १४ ॥
तीक्ष्णधारेण खड्गेन वरं जिह्वा द्विधाकृता । न तु मानं
परित्यज्य देहि देहीति भाषितम् ॥ १५ ॥ पुरतः प्रेरय-
त्याशा लज्जा पृष्ठावलम्बिनी । ततो लज्जाशयोर्मध्ये दोला-
यत्यर्थिनो मनः ॥ १६ ॥ करानप्रसार्य रविणा दक्षिणाशा-
वलम्बिना । न केवलमनेनात्मा दिवसोऽपि लघूकृतः ॥ १७ ॥
एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता । दातृ-याचक-
योर्भेदः कराभ्यामेव सूचितः ॥ १८ ॥ हृदि लज्जोदरे वह्निः
स्वभावादभिरुच्छिखः । तेन मे दग्धलज्जस्य पुनरागमनं
नृप ॥ १९ ॥ सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव
लावण्यम् । हरिहरकथेव दुरितं गुणशतमप्यर्थिता
हरति ॥ २० ॥ याचकवीरो धन्यः करदानग्राहकः सदा-
तृभ्यः । कुरुते पराङ्मुखं वा ह्यतिनम्रं वा हृत्यसौ
पुण्यम् ॥ २१ ॥ अनुसरति करिकपोलं भ्रमरः श्रवणेन
ताड्यमानोऽपि । गणयति न तिरस्कारं दानान्यध्रविलोचनो
नीचः ॥ २२ ॥ कतरत्पुरहर परुषं हालाहलकवलयाचना-
वचसोः । एकैव तव रसज्ञा तदुभयरसतारतम्यज्ञा ॥ २३ ॥
अग्रे लघिमा पश्चान्महतापि पिधीयते नहि महिना । वामन
इति त्रिविक्रममभिदधति दशावतारविदः ॥ २४ ॥ ताव-
न्महता महती यावत्किमपि हि न याच्यते लोकम् । बलि-
मनुयाचनसमये श्रीपतिरपि वामनो जातः ॥ २५ ॥ गुरु-
तासुपयातिति यन्मूतः पुरुषस्तद्विदितं मयाधुना । ननु लाघव-
हेतुरर्थिता न मृते तिष्ठति सा मनोऽपि ॥ २६ ॥ याचना
हि पुरुषस्य महत्त्वं नाशयत्यखिलमेव तथा हि । सद्य एव
भगवानपि विष्णुर्वामनो भवति याचितुमिच्छन् ॥ २७ ॥
उत्तमर्णधनदानशङ्कया पावकोत्थशिखया हृदिस्थया । देव
दग्धवसना सरस्वती नासतो बहिरुपैति लज्जया ॥ २८ ॥
नीचतामनवलम्ब्य जनः को याचनाद्वचिनोति फलानि ।
हन्त वामनपदं प्रतिपेदे भिक्षुतामुपगतो जगदीशः ॥ २९ ॥
अन्यतो यदि निजोपचिकीर्षा मानहानिरिति भीतिरनीतिः ।
श्रीधरोऽपि हि बलेः श्रियमिच्छन्मानमातनुत वामन-
मेव ॥ ३० ॥ सतापितानां मधुरैर्वचोभिर्मिथ्योपचारैश्च
वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां
वञ्चयितव्यमस्ति ॥ ३१ ॥ स्वार्थे धनानि धनिकात्प्रतिगृह्णतो
यदास्रं भजेन्मलिनतां किमिदं विचित्रम् । गृह्णन्परार्थमपि
वारिनिधेः पयोऽपि मेघोऽयमेति सकलोऽपि च कालिमा-
नम् ॥ ३२ ॥ जंनस्थाने भ्रान्तं कनकभृगतृष्णाकुलतया
वचो वैदेहीति प्रतिपदमुदश्रुप्रलपितम् । कृतोल्काभर्तु-
पादटिप्पण्यः :
१ कम्प
२ मृतोऽपि दक्षिणस्या दिशि गच्छति, तस्य वा, पक्षे,- दक्षिणाया आशा तया प्रवृत्तस्य
३ प्रसारिता विस्तारिता करा किरणा येन, पक्षे,-प्रसारितं करो हस्तो येन
४ कार्पास
५ अहमहमिकया अग्रतो निःसरणे
६ वृद्धवृषभ एव धनं यस्य स शिवस्तथापि 'परमेश्वर' इति कथ्यते
७ माला नि
८ किरणान् , पक्षे,-हस्तान्
९ दक्षिणदिक्, पक्षे,-दक्षिणाया आशा स्पृहा
१० सु र भा
१ चन्द्रकान्ति
२ याचकत्वम्
३ कराद्धस्ताद्दानस्य ग्राहकः, पक्षे,-करो राजग्राह्यो दण्डस्तस्य दानं समर्पणं तद्ग्राहकः
४ हे शिव
५ लक्ष्मीपतिरपि
६ ह्रस्व, पक्षे,-लघु
७ किंचिदपि
८ जनानां स्थानानि नगरपत्तनादीनि तेषु भ्रमणं कृतम्, पक्षे,-जनस्थाने नासिकाख्यजनपदे परिभ्रमणं कृतम्
९ कनकं द्रव्यमेव मृगतृष्णा मरीचिका तया; पक्षे,-कनकस्य मृगो मायारूपधारी मारीचो राक्षसस्तस्य तृष्णा तया
१० वै इति पदच्छेदः देहीति प्रलपितम्, पक्षे,-वैदेही जानकीति प्रलपितम्
११ कामर्तुः कुत्सितस्वामिनो वदनपरिपाटीषु घटना अलमत्यर्थं कृता, पक्षे,-लङ्काभर्तू रावणस्य वदनपरिपाख्यामिषुपटना बाणरचना कृता