भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 81, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 81
६६सुभाषितरत्नभाण्डागारम्[२ प्रकरणम्

सुखम् ॥ ९ ॥ दूये कान्ताकरं वीक्ष्य मणिकङ्कणवर्जितम् । अतः परं परं दूये मणिकं कणवर्जितम् ॥ १० ॥ रात्रौ जानुर्दिवा भानुः कृशानुः संध्ययोर्द्वयोः । पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥ ११ ॥ किं करोमि क्व गच्छामि कमुपैमि दुरात्मना । दुर्भरेणोदरेणाहं प्राणैरपि विडम्बितः ॥ १२ ॥ दुःखं दुःखमिति ब्रूयान्मानवो नरकं प्रति । दारिद्र्यादधिकं दुःखं न भूतं न भविष्यति ॥ १३ ॥ किं चान्यैः सुकुलाचारैः सेव्यतामेति पूरुषः । धनहीनः स्वपत्नीभिस्त्यज्यते किं पुनः परैः ॥ १४ ॥ किं वाच्यं सूर्येशशिनोर्दारिद्र्यं महता पुरः । दिनरात्रिविभागेन परिधत्तो यदम्बरम् ॥ १५ ॥ मौर्य्यं सर्व्वापदा निष्ठा का हि नापद- जानतः । तस्मिन्नप्यविषण्णो यः क सोऽन्यत्र विपत्स्यति ॥ १६ ॥ यदि नाम कुले जन्म तत्किमर्थं दरिद्रता । दरिद्रत्वेऽपि मूर्खत्वमहो दुःखपरम्परा ॥ १७ ॥ क' स्वभाव- गभीराणां जानीयाद्बहिरापदम् । बालपत्येन भृत्येन यदि सा न प्रकाश्यते ॥ १८ ॥ सन्तोऽपि न विराजन्ते हीनार्थस्येतरे गुणाः । आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी ॥ १९ ॥ वरं हि नरके वासो न तु दुश्चरिते गृहे । नरकात्क्षीयते पापं कुगृहात्परिवर्धते ॥ २० ॥ नातः पापीयसीं कश्चिदवस्थां शम्बरोऽब्रवीत् । यस्या नैवाद्य न प्रातर्भोजनं तात विद्यते ॥ २१ ॥ न तथा बाध्यते राज- ञ्छूकृत्या निर्धनो जनः । यथा भद्राणि संप्राप्य तैर्र्विहीनः सुखोचितः ॥ २२ ॥ कुब्जस्य कीटखातस्य दावनिष्कुषित- त्वचः । तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः ॥ २३ ॥ धर्मार्थकामहीनस्य परकीयान्नभोजिनः । काकस्येव दरिद्रस्य दीर्घमायुर्विडम्बना ॥ २४ ॥ शीतमध्व्या कदन्नं च वयो- तीताश्च योषितः । मनसः प्रातिकूल्यं च जरायाः पञ्च हेतवः ॥ २५ ॥ सुहृदा हि धनं भुक्त्वा कृत्वा प्रणयमी- प्सितम् । प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ २६ ॥ लज्जावतः कुलिनस्य याचितुं धनमिच्छतः । कण्ठे पाराव- तस्येव वाक्करोति गतागतम् ॥ २७ ॥ कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू । म्रियमाणस्य चिह्नानि यानि तान्येव याचतः ॥ २८ ॥ धन्यास्ते ये न पश्यन्ति देश- भङ्गं कुलक्षयम् । परचित्तगतान्दारान्पुत्रं च व्यसनातुरम् ॥ २९ ॥ शेषभार्य्यं तु काव्येन काव्यं गीतेन हन्यते । गीतं तु स्त्रीविलासेन स्त्रीविलासो बुभुक्षया ॥ ३० ॥ जी- वन्त्यर्थक्षये नीचा याञ्चोपद्रववञ्चनैः । कुलाभिमानमूकानां साधूनां नास्ति जीवनम् ॥ ३१ ॥ शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥ ३२ ॥ पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम् । सर्पश्रोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ३३ ॥ अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया । अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥ ३४ ॥ पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रतिसममावयोः संदनम् ॥ ३५ ॥ दारिद्र्यान्मरणाद्वा मरणं संरोचते न दारिद्र्यम् । अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् ॥ ३६ ॥ तावत्सन्ति सहाया यावज्जन्तुर्न कृच्छ्रमाप्नोति । अभिपतति शिरसि मृत्यौ कं कः शक्तः परित्रातुम् ॥ ३७ ॥ विकसामि रवावुदिते संकोचमुपैमि चास्तमुपयाते । दारिद्र्यसरसि मग्नः पङ्कज- लीलामनुभवामि ॥ ३८ ॥ घृतलवणतैलतण्डुलशाकेन्धन- चिन्तयानुदिनम् । विपुलगतेरपि पुंसो नश्यति धीर्मन्दविभ- वत्वात् ॥ ३९ ॥ वीणा वंशश्चन्दनं चन्द्रभासः शय्या यानं यौवनस्थास्तरुण्ह्यः । नैतद्रम्यं क्षुत्पिपासार्दितानां सर्व्वारम्भा- स्तण्डुलप्रस्थमूलाः ॥ ४० ॥ दारिद्र्य भोस्त्वं परमं विवेकि गुणाधिके पुंसि सदानुरक्तम् । विद्याविहीने गुण- वर्जिते च मुहूर्तमात्रं न रतिं करोषि ॥ ४१ ॥ दारिद्र्य शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा । विपन्ने देहे मयि मन्दभाग्ये मेमेति चिन्ता क्व गमिष्यसि त्वम् ॥ ४२ ॥ एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे । न तेन दृष्टं कविना समस्तं दारिद्र्यमेकं गुणकोटिहारि ॥ ४३ ॥ धनैर्विमुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत् । यस्य प्रतीकारनिरर्थकत्वा- त्कोपप्रसादा विफलीभवन्ति ॥ ४४ ॥ अहो नु कष्टं सततं प्रवासस्ततोऽतिकष्टः परगेहवासः । कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च ॥ ४५ ॥ वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बुभोजनम् । तृणानि


१ खेदं प्राप्नोमि २ मणियुक्तं यत्कङ्कणं तेन वर्जितम् ३ अत्य- न्तम् ४ मृण्मयपात्रम् ५ धान्यकणरहितम् ६ अग्नि ७ आकाशम्, पक्षे,-वस्त्रम्

१ दरिद्रस्य दोष इत्यर्थे २ पृथूनि कार्तस्वरस्य सुवर्णस्य पात्राणि यस्मिंस्तत्, पक्षे,-पृथुकानां बालानामात्तैः स्वरा रुदितशब्दास्तेषां पात्रं भाजनम् ३ भूषिता अलंकृता निःशेषाः परिजना यस्मिन्, पक्षे,- भुवि उषिता निःशेषाः परिजना यस्मिन् ४ विलसन्त्यः शोभमानाः करेणवो हस्तिन्यस्ताभिर्गहनं निबिडम्, पक्षे,-चवयोः सावर्ण्ण्यात् बिले सीदन्तीति बिलसदः, बिलसद एव बिलसत्का बिलवर्तिनो ये रेणवो धूलयस्तैर्गहनं व्याप्तम् ५ गृहम् ६ विचारशीलम् ७ प्रीतिम्. ८ स्थित्वा ९ विनष्टशरीरे १० हतभाग्ये ११ गुणसमुदाये १२ कालिदासः 'एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणे- ष्विवाङ्कः' इति कुमारसंभवस्य पद्ये १३ कोटिगुणनाशकमिति भावः १४ परगृहवासः