सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 64, कुल 516 में से
संदर्भ में पढ़ेंसज्जनप्रशंसा | ४९
यया ॥ १५१ ॥ वचनैरसता महीयसो न खलु व्येति गुरुत्वमुद्धतैः । किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ १५२ ॥ प्रकटान्यपि नैपुण महत्तरैर्वाच्यानि चिराय गोपितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ १५३ ॥ किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः । वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥ १५४ ॥ विसृजन्त्यन्तैर्विविधिनः परे विषमाशीविषवन्नराः क्रुधम् । दधतोऽन्तरसाररूपतां धनिसाराः पटहा इवेतरे ॥ १५५ ॥ जितरोषतया महाधियः सपदि क्रोधजितो लघुर्जनः । विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥ १५६ ॥ इयमुन्नतसत्त्वशालिनां महतां कापि कठोरचित्तता । उपकृत्य भवन्ति दूरतः परत प्रत्युपकारशङ्कया ॥ १५७ ॥ सावलेपमुपलििप्सते परैरभ्युपैति विकृति रजस्यपि । अर्थितस्तु न महान्समीहते जीवितुं किमु धनं धनायितुम् ॥ १५८ ॥ आदिमध्यनिधनेषु मोहदं सज्जने भवति नेतरे जने । छेदतापनविघर्षताडनैर्हेन्येभावमुपयाति कौञ्चनम् ॥ १५९ ॥ चातकस्त्रिचतुरानप्य कणाम् याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥ १६० ॥ दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः । क्षारमवमपनीय गृह्यते वारिधेः सलिलमेव वारिदाः ॥ १६१ ॥ सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकम् । अन्यदेहविलसत्परितापात्सज्जनो द्रवति नो नवनीतम् ॥ १६२ ॥ उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः । अहिते सहसापराध्लब्धे सघृणं यस्य मनः सतां स धुर्यः ॥ १६३ ॥ तुङ्गात्मना तुङ्गतराः समर्था मनोरथान्पूरयितुं न नीचाः । धाराधरा एव धराधराणां निदाघदाहं शमितुं न नद्यः ॥ १६४ ॥ प्रकाममभ्यस्यतु नाम विद्यां सौजन्यमभ्यासवशादलभ्यम् । कर्णौ सपत्न्यः प्रविशालयेयुर्विशालयेदक्षियुगं न कोऽपि ॥ १६५ ॥ सन्तोऽपि सन्तः क्व किरन्तु तेजः क्व न ज्वलन्तु क्व ननु प्रथन्ताम् । विधाय रुद्धा ननु वेधसैव ब्रह्माण्डकोषे घटदीपकल्पाः ॥ १६६ ॥ प्रसादमाधुर्यगुणोपपन्ना यद्वानौचित्यपरावरूक्षाणाम् । अर्थाः कवीनामिव सज्जनानां सर्वस्य सर्वावसरोपयोगाः ॥ १६७ ॥ वनेऽपि सिंहा मृगमांसभक्षिणो बुभुक्षिता नैव तृणं चरन्ति । एवं कुलीना व्यसनाभिभूता न नीचकर्मणि समाचरन्ति ॥ १६८ ॥ अहो महत्त्वं महतामपूर्वं विपत्तिकालेऽपि परोपकारः । यथैतन्मध्ये पतितोऽपि राहोः कलानिधिः पुण्यचय ददाति ॥ १६९ ॥ पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः । नादन्ति शस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥ १७० ॥ रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः ॥ १७१ ॥ श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः । यसार्थिनो वा शरणागता वा नाशाभिमङ्गाद्विमुखाः प्रयान्ति ॥ १७२ ॥ सन्तस्तृणोत्सारणर्मुत्तमाङ्गात्सुवर्णकोट्यर्पणमामनन्ति । प्राणव्यये वापि कृतोपकाराः खलाः परे वैरमिहोद्वहन्ति ॥ १७३ ॥ कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ १७४ ॥ क्षारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति । सन्तस्तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुद्विरन्ति ॥ १७५ ॥ अयं स्वभावः स्वत एव यत्परश्रमापनोदप्रवणं महात्मनाम् । सुधांशुरेषः स्वयमर्ककर्कशप्रभाभितप्तामवति क्षितिं किल ॥ १७६ ॥ कर्णेजपानां वचनप्रपञ्चान्महात्मनः कापि न दूषयन्ति । भुजङ्गमानां गरलप्रसङ्गान्नापेयतां यान्ति महासरांसि ॥ १७७ ॥ अपानिधिं वारिभिरर्चयन्ति दीपेन सूर्यं प्रतिबोधयन्ति । ताभ्यां तयोः किं परिपूर्णता स्याद्भक्त्या हि तुष्यन्ति महानुभावाः ॥ १७८ ॥ दानाय लक्ष्मीः सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय । परोपकाराय वचांसि यस्य वन्द्यस्त्रिलोकीतिलकः स एकः ॥ १७९ ॥ न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः । द्वेष्यैव केषामपि चन्द्रखण्डविपाण्डुरा पुण्ड्रकशर्करापि ॥ १८० ॥ दीपाः स्थितं वस्तु विभावयन्ति कुलप्रदीपास्तु भवन्ति केचित् । चिरव्यतीतानपि पूर्वजान् ये प्रकाशयन्ति स्वगुणप्रकर्षात् ॥ १८१ ॥ व्रते विवादं विमतिं विवेके सत्येऽतिशङ्कां विनये विकारम् । गुणेऽवमानं कुशले निषेधं धर्मे विरोधं न करोति साधुः ॥ १८२ ॥ वन्द्यः स पुंसां त्रिदशाभिनन्द्यः कारुण्यपुण्योपचयक्रियाभिः । संसारसारत्वमुपैति यस्य परोपकाराभरणं शरीरम् ॥ १८३ ॥ किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम् । स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम् ॥ १८४ ॥ चिराय सत्संगमशुद्धमानसो न यात्यसत्संगतमात्मवान्नरः । मनोहरेन्दीवरखण्डगोचरो न जातु भृङ्गः कुणपे निलीयते ॥ १८५ ॥ इदं हि माहात्म्य-
पादटिप्पणी (Footnotes):
वाम भाग:
१ निष्ठुरै २ भौमै ३ छन्नस्य ४ कौशलम् ५ परदूषणानि
६ वक्ता ७ अनात्मश्लाघिनः ८ क्रूरसर्पवत् ९ अभ्यन्तरे १० विकृतिम्
११ सुवर्णम् १२ शमयितुम् १३ सकटव्याप्ता १४ अलौकिकम्
७ सु. र भा.
दक्षिण भाग:
१ मुखमध्ये २ वृद्धिम् ३ धान्यम् ४ मेघा ५ ऐश्वर्याणि
६ शिरस ७ त्रिलोक्या तिलको भूषणभूतः ८ इक्षुकरै.. ९ मृतदेहे-