सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 112, कुल 516 में से
संदर्भ में पढ़ेंउदरपूरणदूषणम्, सेवकनिन्दा, जीवितसाफल्यम् ९७
[उदरपूरणदूषणम् - अनुवृत्तम्]
हरति महत्त्वं प्रार्थना किं न जाने जनयति गुरुल्लज्जामित्यहं किं न वेद्मि ।
तदपि वद वदान्य तं सदा प्रत्यहं मां जठरपिठरवर्ती बहिरर्थीकरोति ॥ ७ ॥
गङ्गातरङ्गकणशीकरैःशीतलानि विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि यत्सावमानपरपिण्डरतो मनुष्यः ॥ ८ ॥
अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलसल्लज्जावल्लीवितानकुठारिका जठरपिठरी दुष्पूरेयं करोति विडम्बनम् ॥ ९ ॥
ये वर्धन्ते धनपतिपुरःप्रार्थनादुःखभाजो ये चाल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः ।
तेषामन्तःस्फुरितहसितं वासराणां क्षरेयं ध्यानच्छेदे शिखरकुहरग्रावशव्यानिषण्णः ॥ १० ॥
मातर्नातः परमनुचितं यत्खलानां पुरस्तादस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि ।
तत्क्षन्तव्यं सहजरसले वत्सले वाणि कुर्यां प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥ ११ ॥
दीनो दीनमुखैस्तथैव शिशुकैराकृष्टजीर्णांम्बरा क्रोशद्भिः क्षुधितैर्निरन्नविधुरां पश्येन्न चेद्गेहिनीम् ।
याच्ञाभङ्गभयेन गद्गद्गलत्त्रुट्यद्विलीनाक्षरं को देहीति वदेत्खदग्धजठरस्यार्थे मनस्वी जनः ॥ १२ ॥
हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं व्यालानां पशवस्तृणाङ्कुरमुजः सृष्टाः स्थलीशायिनः ।
संसारार्णवलङ्घनक्षमधिया वृत्तिः कृता सा नृणां यामन्वेषयतां प्रयान्ति सततं सर्वे समाप्तिं गुणाः ॥ १३ ॥
किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां दुःखोत्पात्त्याल्पवित्तव्ययपवनवशार्न्नतितभ्रूलतानि ॥ १४ ॥
सेवकनिन्दा
स्वामिप्रायपरोक्षस्य परचित्तानुवर्तिनः ।
स्वयं विक्रीतदेहस्य सेवकस्य कुतः सुखम् ॥ १ ॥
चलेषु स्वामिचित्तेषु सुलभे पिशुने जने ।
यदि जीवन्त्यहो चित्रं क्षणमप्युपजीविनः ॥ २ ॥
सेवा श्ववृत्तिरैरुक्ता न तैः सम्यगुदाहृतम् ।
स्वच्छन्दचारी कुत्र श्वा विक्रीतासुः क्व सेवकः ॥ ३ ॥
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् ।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ ४ ॥
वरं वनं वरं भैक्ष्यं वरं भारोपजीवनम् ।
पुंसां विवेकहीनानां सेवया न धनार्जनम् ॥ ५ ॥
या प्रकृत्यैव चपला नृपतत्यशुचावपि ।
स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥ ६ ॥
मनुष्यजातौ तुल्यायां भृत्यत्वमतिगर्हितम् ।
प्रथमो यो न तत्रापि स किं जीवत्सु गण्यते ॥ ७ ॥
तावज्जन्मातिदुःखाय ततो दुर्गंतता सदा ।
तत्रापि सेवया वृत्तिरहो दुःखपरम्परा ॥ ८ ॥
नाश्नाति सेव्यौत्सुक्याद्विनिद्रो न प्रबुध्यते ।
न निःशङ्कं वचो ब्रूते सेवकोऽप्यत्र जीवति ॥ ९ ॥
भूशय्या ब्रह्मचर्यं च कृशत्वं लघु भोजनम् ।
सेवकस्य यतेर्यद्वद्विशेषः पापधर्मजः ॥ १० ॥
शीतातपादिकष्टानि सहते यानि सेवकः ।
धनाय तानि कल्यानि यदि धर्माय मुच्यते ॥ ११ ॥
मृदुनातिसुवृत्तेन सुसृष्टेनातिहारिणा ।
मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥ १२ ॥
स्वयं जहाति सेवकः सुखं च मानमेव च ।
यदर्थमर्थमीहते तदेव तस्य हीयते ॥ १३ ॥
प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥ १४ ॥
मौनान्मूकः प्रवचनपटुर्वातुलो जल्पको वा धृष्टः पार्श्वे वसति च सदा दूरतस्त्वप्रगल्भः ।
क्षान्त्या भीरूर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १५ ॥
विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कश्चित्साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति ।
चित्रं चित्रं किमथ चरितं नैकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १६ ॥
भक्तानामुपकारिणां परहितव्यापारयुक्तात्मनां सेवासव्यवहारतत्त्वविदुषां द्रोहच्युतानामपि ।
व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा तस्मार्द्धम्बुपतेरिवावनिफ्तेः सेवा सदाशङ्किनी ॥ १७ ॥
आहारे वडवानलश्च शयने यः कुम्भकर्णायते सन्देशे बधिरः पलायनविधौ सिंहः शृगालो रणे ।
अन्धो वस्तुनिररीक्षणेऽथ गमने खञ्जः पटुः कन्दने भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्तमः सेवकः ॥ १८ ॥
जीवितसाफल्यम्
यस्य जीवन्ति धर्मेण पुत्रा मित्राणि बान्धवाः ।
सफलं जीवितं तस्य नात्मार्थे को हि जीवति ॥ १ ॥
यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा ।
अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ॥ २ ॥
वाणी रसवती यस्य भार्या...
पादटिप्पणी (Footnotes)
वामभागस्थ-पादटिप्पणी:
१ अभ्रुकण. २ समर्था ३ जठरभाण्डम् ४ उपहास ५ विषयाक्षेपेण पर्यस्ता भ्रष्टा बुद्धिर्यस्य ६ शिखरी पर्वतस्तस्य कुहरं बिलं तत्संबन्धी यो ग्रावा पाषाणः स एव शय्या तस्यां निषण्ण उपविष्टः ७ उदरभाण्डम् ८ गोपवेषधारिणः कृष्णस्य ९ कृपणं १० रोदनं कुर्वद्भिः ११ भार्या १२ नागानाम् १३ अविनीतानाम् १४ गर्वं १५ सूचके १६ सेवकाः १७ विक्रीता असवः प्राणा येन सः १८ सु. र. भा.
दक्षिणभागस्थ-पादटिप्पणी:
१ नाशितम् २ भिक्षा ३ भारवाहकत्वेनोपजीवनम् ४ इच्छति ५ बहुभाषकः ६ भयशीलः ७ अनर्थः नाशो वा ८ समुद्रस्य ९ वार्ताहरणे १० पादविकलः ११ रोदने