भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 116, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 116

तृतीयं राजप्रकरणम्

राजसभावर्णनम्राजमिलनम्
सभाकल्पतरु वन्दे वेदशास्त्रोपशोभितम् । शास्त्रगुणसमाकीर्णं विद्वद्भ्रमरमण्डितम् ॥ १ ॥ विद्वासः कवयो महागायकाः परिहासकाः । इतिहासपुराणज्ञाः सभा सप्ताङ्गसयुता ॥ २ ॥ धनैर्धर्मैर्मराजैश्च कविभिर्गुरुभिर्वृता । सभा ते भाति भूमीन्द्र सुधर्मातोऽधिका क्षितौ ॥ ३ ॥ सुवर्णवर्णललिता पदविन्यासशालिनी । वाणीव भाति ललिता सभा ते जगतीपते ॥ ४ ॥ विबुधावलिसंपूर्णा सुखपूर्णदिगीश्वरा । चतुराननसंपूर्णा स्वर्गादपि समाधिका ॥ ५ ॥
गुरुनेकः कविरेकः सदसि मघोनः कलाधरोऽप्येक । अद्भुतमत्र सभाया गुरवः कवयः कलाधराः सर्वे ॥ ६ ॥ अनेकविद्वज्जनरत्नपूर्णं वेदोदकन्यायतरङ्गरम्यम् । अलङ्घनीयं गुरुतीर्थमेकं सभासमुद्रं शिरसा नमामि ॥ ७ ॥ सारस्वते स्रोतसि दूरमग्नैः सुधीवरैरुद्धतसूक्तिरत्ने । न तत्किमप्युर्वरितं यदेषामुपायनीकृत्य पुरो भवेयम् ॥ ८ ॥ सद्गोदिसध्योत्तमहेमकुम्भस्तना सुवर्णाधिकृता प्रसन्ना । सद्रत्नभूषाविमला त्वयासौ कान्तेव ससन्नृप भाति रम्या ॥ ९ ॥ पद्मानना पद्मपलाशनेत्रा पद्मच्छविः पद्मकरमलांशुका । पद्मीशनाथै परिशीलनीया लक्ष्मीरिवाभाति नरेश ते सभा ॥ १० ॥ साग्नयोऽपि किल शीतलशीला विश्रुता अपि बहु श्रुतवन्तः । पण्डिता अपि जडाः परवादे श्रोत्रिया इह सदा निवसन्ति ॥ ११ ॥ क्वचिच्चारुचामीकरारम्यरम्या क्वचिद्द्वातविद्योतितध्वान्तदक्षा । क्वचिद्धीरकेश्रेणिकैलासहासा क्वचिद्धीरवीरप्रवीरप्रकाशा ॥ १२ ॥ नाह्वेतापि पुरः पद रचयति शास्त्रोपकण्ठं हठात्पृष्टा न प्रतिवक्ति कम्पमयते स्तम्भं समालम्बते । वैवर्ण्यं स्वरभङ्गमञ्चति बलान्मन्दाक्षमन्दानना कष्टं भोः प्रतिभावतोऽप्यभिसभ वाणी नवोधायते ॥ १३ ॥ चिन्तासक्तनिमग्नमन्त्रिसलिलं दूतोर्मिशङ्काकुलं पर्यन्तस्थितचारनक्रमकरं नागाश्वहिंसाश्रयम् । नानावाशककङ्कपशिरुचिर कायस्थसर्पास्पदं नीतिश्रुण्णतटं च राजकरणं हिंस्रैः समुद्रायते ॥१४॥शुक्ल पर्यंकसङ्गमोक्तिनिगदैः किमीरिता नर्मतो भार्याक्रन्दितकुन्तकीलितहृदो गर्वीदुरुत्थं गतः । प्रनष्टाः पदतः कदापि नहि ये तेऽद्य त्वदीयैर्गुणैराकृष्टा विदुषा वरा वयमहो त्वा द्रष्टुमभ्यागताः ॥ १ ॥

सामान्यराजप्रशंसा

राजंस्त्वद्दर्शनेनैव गलन्ति त्रीणि तत्क्षणात् । रिपोः शस्त्रं कवेर्दैन्यं नीवीबन्धो मृगीदृशाम् ॥ १ ॥ चिराद्यत्कौतुकावित्तं कल्पवृक्षमुदीक्षितुम् । तन्मे सफलमद्यासीन्नेत्रं त्वय्यवलोकिते ॥ २ ॥ सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे जनैः । नौरयो लेभिरे पृष्ठं न वक्षः२,३ परयोषितः ॥ ३ ॥ त्वया वीर गुणाकृष्टा ऋजुदृष्ट्या विलोकिताः । लक्षं लब्धैव गच्छन्ति मार्गणा इव मार्गणाः ॥ ४ ॥ कल्पद्रुमो न जानाति न ददाति बृहस्पतिः । अयं तु जगतीजानिर्जानाति च ददाति च ॥ ५ ॥ रविः करसहस्रेण देशाशा१०परिपूरकः । त्वमेकेन करेणैव सहस्राशाप्रपूरकः ॥ ६ ॥ बलिः पातालनिलयोऽधःकृतश्चित्रमत्र किम् । अधःकृतो दिविस्थोऽपि चित्रं कल्पद्रुमस्त्वया ॥ ७ ॥ आर्तानामिह जन्तूनामार्तिच्छेदं करोति यः । शङ्खचक्रगदाहीनो द्विभुजः परमेश्वरः ॥ ८ ॥ बहुधा राज्यलाभेन यस्तोषस्तव भूपते । बहुधा११राज्य१२लाभेन स तोषो मम भूपते ॥ ९ ॥ भुजंग१३भोग१४सक्रान्ता कलत्रं१४ तव मेदिनी । अहंकारः परा कोटिम्यूरोहति कुतस्तव ॥ १० ॥ तुलाम१५धिरूढ रविणा वृश्चिके१६ निहित पदम् । भवता शिरसि न्यस्तमयलेनैव भोगिनाम्१७ ॥ ११ ॥ किं कृतेन१८ न यत्र त्व यत्र त्वं किमसाै कलिः । कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ १२ ॥

पाद-टिप्पणी (Footnotes)

[प्रथम स्तम्भः] १ बृहस्पतिः २ शुक्र ३ इन्द्रस्य ४ चन्द्र ५ हस्तिनाथै ६ प्राप्नोति ७ गुप्तचरा ८ शब्द कुर्वाणा, पिशुना इत्यर्थ ९ राज्ञोऽधिकरणम्

[द्वितीय स्तम्भः] १ वैरिण २ पलायनाभावादित्यर्थे ३ उरस्थलम् ४ ज्या, पक्षे,-विनयादि ५ शरण्यम्, पक्षे,-लक्षद्रव्यम् ६ याचका • ७ बाणा • ८ पृथिवीपति ९ किरणा हस्ताश्च १० दिशो मनोरथाश्च ११ बहुधारा गलन्ति यस्य तदाज्य घृतम् १२ शेष, पक्षे,-जार० १३ फणा, पक्षे,-उपभोग • १४ भार्या १५ तुला-राशिम् १६ वृश्चिकराशौ १७ सर्पाणाम्, पक्षे,-कामिनाम् १८ कृतयुगेन.