भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 117, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 117
१०२सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

असिधारापथे नाथ शत्रुशोणितपिच्छिले । आजगाम कथं लक्ष्मीर्निर्जगाम कथं यशः ॥ १३ ॥ कोऽप्यन्यः कल्पवृक्षोऽयमेकोऽस्ति क्षितिमण्डले । यत्पाणिपल्लवोऽप्येकः कुरुतेऽधः सुरद्रुमम् ॥ १४ ॥ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । ^१मार्गणौघः समायाति ^२गुणो याति दिगन्तरम् ॥ १५ ॥ युधिष्ठिरोऽसि भीमोऽसि चरितैरर्जुनो भवान् । पञ्चा सहदेवोऽसि वाच्यता नकुलस्य ते ॥ १६ ॥ बलिकर्णदधीच्याद्याः पुरा पञ्चत्वमागताः । पञ्चत्वं न गताश्चित्रं त्वयि जीवति पञ्चमे ॥ १७ ॥ एक एव महान्दोषो भवता विमले कुले । लम्पन्ति ^३पूर्वजा कीर्ति जाता जाता गुणाधिकाः ॥ १८ ॥ भ्रमासु रिपुसेनासु नरेन्द्र त्वं महामहा । खङ्गान्तर्निजमेवैकमद्राक्षीः सम्मुख मुखम् ॥ १९ ॥ किं वर्ण्यता कुचद्वन्द्वमस्राः कमलचक्षुषः । आसमुद्रकरग्राही भवान्यत्र करप्रदः ॥ २० ॥ वेधा ^४वेदनयाश्लिष्टो गोविन्दोऽपि ^५गदान्वितः । शम्भुः ^६शूली ^७विषादी च देव केनोपमीयसे ॥ २१ ॥ ^८तृष्णापहारी विमलो ^९द्विजावासो जनप्रियः । ह्रदः ^१०पद्माकरः किं तु ^११बुधैस्त्वं स ^१२जलाश्रयः ॥ २२ ॥ सदा हसालसं बिभ्रन्मानस प्रचलज्जलम् । भूभृन्नाथोऽपि नायाति यस साम्यं हिमालयः ॥ २३ ॥ मीमांसको महीपोऽयमन्यथा शक्तिमान्कथम् । नैयायिकोऽपि स्यादेव परशक्तेस्तु खण्डनात् ॥ २४ ॥ राजन्द्वारिकादेव प्राप्तवानसि ^१३वौरणम् । ^१४मदैवारणमिच्छामि त्वत्तोऽहं जगतीपते ॥ २५ ॥ राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति । अभाग्यच्छत्रसञ्छन्ने मयि नायान्ति बिन्दवः ॥ २६ ॥ सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा । परमेकं न जानासि वक्तु नास्तीति याचके ॥ २७ ॥ आश्वासनस्नेहभक्तीनामेकमालम्बनं महत् । प्रकृष्टसेव धर्मस्य प्रसादो मूर्तिसचय. ॥ २८ ॥ ^१५सत्यभामासमाश्रिष्टः ^१६साधुवृन्दावनरतः । ^१७यशोदयाममायुक्तस्त्वा पायात्त्वादृशो हरिः ॥ २९ ॥

भवान्हि भगवान्नैव ^१नैतो भेदः परस्परम् । ^२महत्यागदयायुक्तः ^३सत्यभामासमाश्रितः ॥ ३० ॥ एकमेव गुणं प्राप्य नम्रतामगमद्धनुः । तवाशेषगुणा राज्ञ. स्तब्धतेति सुविस्मयः ॥ ३१ ॥ भूषणायुपमोगेन प्रभुर्न भवति प्रभुः । परैरपरिभूताञ्जस्त्वमिव प्रभुरुच्यते ॥ ३२ ॥ कस्ले शौर्यमदो योद्धुं त्वय्येकं संतिमास्थिते । संससतिसमारूढा भवन्ति ^६परिरपन्थिनः ॥ ३३ ॥ हुतमिष्टं च तप्त च धर्मश्चाय कुलस ते । गृहात्प्रतिनिवर्त्तन्ते पूर्णकामा यदर्थिनः ॥ ३४ ॥ फणीन्द्रस्ते गुणान्वक्तु लिखितु ^७हैहैँयाधिपः । द्रष्टुमाखण्डलः शक्तः काहमेष क ते गुणाः ॥ ३५ ॥ अमितः संमितः प्रासैरुत्कर्षैर्हृद. प्रभो । अहितः सहितः साधुयशोभिरसतामसि ॥ ३६ ॥ खड्गेऽपि समरेषु त्वा विजयश्रीर्न मुञ्चति । प्रभावप्रभवं कान्त स्वाधीनपतिका यथा ॥ ३७ ॥ पश्यन्त्यसख्यापथगा त्वदानजलवाहिनीम् । देव त्रिपथगात्मानं गोपयत्यु^९ग्रमूर्धनि ॥ ३८ ॥ यद्धैर्यं कूर्मराजस्य यश्च शेषस्य विक्रमः । पृथिव्या रक्षणे राजन्नेकत्र त्वयि तत्स्थितम् ॥ ३९ ॥ त्वयि संगरसंप्राप्ते धनुषासादिता. शराः । शरैररिशिरस्तेन भूतत्या त्वं त्वया यशः ॥ ४० ॥ ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः । निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुबिन्दवः ॥ ४१ ॥ मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः । श्रुत्वा कुतोऽपि त्वन्नाम लेभिरे विषमा दशाम् ॥ ४२ ॥ यस्य चेतसि निर्व्याजं द्वय तृणकणायते । क्रोधे विरोधिना सैन्यं प्रसादे कनकाचलः ॥ ४३ ॥ देव वदानपाथोद्यै दारिद्र्यस्य निमज्जतः ॥ न कोऽपि हि करालम्बं दत्ते मत्तेमदायक ॥ ४४ ॥ राजन्द्र समालोक्य त्वा तु भूतलमागतम् । रत्नश्रेणिमिषाण्मन्थे नक्षत्राण्यप्युपागमन् ॥ ४५ ॥ धारयित्वा त्वयात्मानं महात्यागधनाधुना । मोचिता बलिकर्णाद्याः स्वयंशोगुसकर्मणः ॥ ४६ ॥ क्षणमप्यनुगृह्णाति यं दृष्टिस्तेऽनुरागिणी । ईर्ष्ययेव त्यजत्याशु तं नरेन्द्र दरिद्रता ॥ ४७ ॥ योऽसंकृत्य^१०रगोत्राणि ^११पक्षच्छेदक्षणक्षमः । ^१२शतकोटिदता विभ्रद्^१३द्विबुधेन्द्रः स राजते ॥ ४८ ॥ ताम्बूलेन विना राजञ्जडीभूता सरस्वती । न निःसरेन्मुखाद्वाणी महाकुलवधूरिव ॥ ४९ ॥ अर्थिप्रत्य-


पादटिप्पणी (Footnotes)

[वामभागः] १ याचका; पक्षे,-बाणाः. २ विनयादिः; पक्षे,-ज्या. ३ अत्र वशे पूर्वपेक्षयोत्तरोत्तर पुरुषो न कोऽपि न्यूनगुणोऽभूत्किन्तु विशिष्टगुण एवाभवदिति भाव. ४ वेदनया दुःखेनाश्लिष्टः, पक्षे,-वेदेन नवेन चाश्लिष्ट. ५ गदेन रुजान्वित, पक्षे,-गदया सहित. ६ शूलेन युक्त, पक्षे,-त्रिशूलेन युक्त. ७ दुःखी, पक्षे,-विषमत्तौति स ८ तृषा, पक्षे,-आशा ९ पक्षिण, पक्षे,-ब्राह्मणा १० कमलमू, पक्षे,-लक्ष्मी ११ पण्डित. १२ उदकाश्रय, पक्षे,-डल्यो. सावण्यात्तु जलाश्रयो मूर्खाश्रय १३ गजम्, पक्षे,-निवारण १४ मदेन युक्त वारणम्, पक्षे,-मत् निवारणम् १५ सत्यभामायालिखित, पक्षे,-सत्य भा कान्तिर्ग लक्ष्मीरेताभिर्युक्त १६ साधु यद्वन्दावन तस्मिन्द्, पक्षे,-साधूना बृन्द समूहस्तस्यावन रक्षण तस्मिन्नासक्तः १७ यशोदया नन्दपत्या युक्त, पक्षे,-यश कीर्तिर्दया कारुण्य ताभ्या युक्त

[दक्षिणभागः] १ गकारेण, पक्षे,-नष्टः २ महती या गदा तया युक्त, पक्षे,-मह उत्सवरूपागो दानं दया करुणा तैर्युक्त ३ सत्यभामय समन्वितः, पक्षे,-सत्यं सूनृत भा कान्तिर्मा लक्ष्मीराभि समन्वयुक्तः ४ अश्वम् ५ सूर्यमण्डलभेदिन इत्यर्थ . ६ शत्रव ७ सहस्रबाहुर्जुन ८ युद्धात् ९ शिवमस्तके १० शत्रुकुलानाम्, पक्षे,-प्रकृष्टपर्वतानाम् ११ सहाय; पक्षे,-पतत्र १२ शतस्य कोटेश्च दातॄताम्; पक्षे,-वज्रेण खण्डकृताम् १३ पण्डिता., पक्षे,-देवा