सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 115, कुल 516 में से
संदर्भ में पढ़ें१०० सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
मातङ्गाञ्चिकटं गतानगणयन्मार्गान्मुहुर्गाहते ॥ २९ ॥ नीचै- र्दुर्यवनैः शुनीभिरपि वा निःशङ्कमालोकितं भुङ्क्ते पँक्तिवि- दूषकैः सह नरैरज्ञातवेदाक्षरैः । मद्यास्वादनमत्तचित्तजन- तामोहाय भीहानितः कर्माण्यारहते श्रुतिस्मृतिवचोदूरार्य्य- साराण्यहो ॥ ३० ॥ विद्वत्ता वसुधातले विगलिता पाण्डि- त्यधर्मो गत. श्रोतॄणा हृदयेष्वबुद्धिरधिका ज्ञान गत चारणे । गाथागीतविनोदवाक्यरचनायुक्त्या जगद्रञ्जितं ज्योतिवैद्यक शास्त्रसारमखिलं शूद्रेषु जातं कलौ ॥ ३१ ॥ धिक्त्वा रे कलि- काल याहि विलयं केयं विपर्यस्तता हा कष्टं श्रुतिशालिना व्यवहृतिर्म्लेच्छोचिता दृश्यते । एकैर्वाङ्मयदेवता भगवती विक्रेतुमानीद्यते नि शङ्कैरपरैः परीक्षणविधौ सर्वाङ्गमुद्धाट्यते ॥ ३२ ॥ कन्या कामप्युद्वह्य प्रविजहृदुदयद्यौवनामञ्ज एना द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु । अन्यो- न्याश्लेषवाञ्छाविगलितवयसोरुत्तमालिन्यमर्योर्दम्पत्योर्य्याकृत वै हतविधिरुमयोर्लोकयोः शोकयोगम् ॥ ३३ ॥
मद्यपानगर्हणम्
वैकल्यं धरणीपातंमथथोचितजल्पनम् । सनिपातस्य चिह्नानि मद्य सर्वाणि दर्शयेत् ॥ १॥ एकतश्चतुरो वेदा ब्रह्म- चर्य तथैकतः । एकत. सर्वपापानि मद्यपानं तथैकतः ॥ २ ॥ मद्यपस्य कुत. सत्यं दया मासाशिनः कुतः । कामिनश्च कुतो विद्या निर्धनस्य कुतः सुखम् ॥ ३ ॥ अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते । नग्ना विक्षिप्य गात्राणि बालका इव मद्यपाः ॥ ४ ॥ मत्तो हिनस्ति सर्वं मिथ्या प्रलपति हि विकलया बुद्ध्या । मातरमपि कामैयते सावज्ञं मद्यपान- मत्तः सन् ॥ ५ ॥ चित्ते भ्रान्तिर्जायते मद्यपानाद्भ्रान्ते चित्ते पाँपाचर्यामुपैति । पापं कृत्वा दुँर्गतिं यान्ति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ॥ ६ ॥
तमाखुः
तॆमाखुपत्रं राजेन्द्र भज मौज्ञानदायकम् । तैमाखुपत्रं राजेन्द्र भज माज्ञानदायकम् ॥ १ ॥ दारिद्र्यशीलोऽपि नर- स्तमाखुं नैव मुञ्चति । निवारितोऽपि मार्जारस्तमाखुं नैव मुञ्चति ॥ २ ॥ बिडौजा. पुरा पृष्टवान्यौनि धारि- त्रीतले सारभूतं किमस्ति । चतुर्भिर्मुखैरित्यवोचद्धिरिञ्चि- स्तमाखुस्तमाखुस्तमाखुस्तमाखु. ॥ ३ ॥ न स्वादु नौषध- मिद न च वा सुगन्धि नाक्षिप्रिय किमपि शुष्कतमाखु- चूर्णम् । कि चाक्षिरोगजनकं च तदस्य भोगे बीजं नृणा नहि नहि व्यसनं विनान्यत् ॥ ४ ॥ सँपर्णपरiseवितस्तदनु साँधूपूगान्वितो र्दिजावनमहापदुस्तदनु सौरसंधानभाक् । सदैव सुँधयाशनं भवति यस्य विष्णो. समस्तमाखुरिति सेव्यता भवति वै यतो रोगिता ॥ ५॥ श्रीकृष्णः पूत- नाया. स्तनमलमपिबत्कालकूटेन पूर्ण प्रस्कन्नं भूप्रदेशे किमपि च पिबतो यत्तदा तस्य वक्त्रात् । तस्मादेषा तमाखुः सुरवरपरमोच्छिष्टमेतदुरापं स्तुत्वा नत्वा मिलित्वा ह्यनिश- मतिमुदा सेव्यते वैष्णवाग्र्यैः ॥ ६ ॥ भ्रातः कस्त्वं तमा- खुर्गमनमिह कुतो वारिधे पूर्वपारात्कस्व त्वं दण्डधारी नहि तव विदितं श्रीकलेरेव राज्ञः । चातुर्वर्ण्यं विधौत्रा विविधविरचितं ब्रह्मणा धर्महेतोरेकीकर्तुं बलात्तन्निखिल- जगति रे शासनादागतोऽस्मि ॥ ७ ॥
१ चाण्डाल २ प्रविशति ३ दुष्टयवनै ४ पङ्क्तिबाह्यौ ५ श्रुति-स्मृतिबाह्यानि ६ निष्फलानि ७ नटादौ. ८ नीचेषु ९ संजातयौवनाम् १० विकलत्वम् ११ अयुक्तप्रलाप १२ त्रिदोषस्य १३ लक्षणानि १४ नाशयति १५ इच्छति १६ पापाचरणम् १७ नरकम्
१ आखुर्मूषिक पत्र वाहिन यस्य २ मा लक्ष्मी . ३ अज्ञानदायकं तमाखुपत्र मा भजेति ४ इन्द्र ५ ब्रह्मदेवम्. ६ सुपर्णेन गरुडेन सेवित , पक्षे,-सुष्ठुपर्णेन नागवल्लीदलेन सह परिसेवितः ७ साधूनां पूगैः सङ्घैरन्वित., पक्षे,-साधु सम्यक्पूग' क्रमुकस्तेनान्वित. ८ द्विजा द्विजन्मानो ब्राह्मणादयस्तेषामवन रक्षण तस्मिन्महासमर्थ , पक्षे,-द्विजा दन्ता ९ सार श्रेष्ठवस्तु मोक्षादि तस्य सधान संधि भजति, पक्षे,-सार खदिरसारस्तेन संधान सम्यग्मेलनं भवति १० सुधयामृतेन यस्य भोजन भवति, पक्षे,-सुधया चूर्णेन सदैव यस्य भक्षण भवति ११ यतो विष्णोररागिता विषयेष्वप्रीतिर्जायते, पक्षे,-यतस्तमाखोस्तमाखुपत्राद्रागिता मुखरक्तिमा जायते. १२ जगत्कर्ता, ब्रह्मणो विशेषणम्