सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
| १०८ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
[वाम-भागः]
मेतदधुना त्वद्दानमदैनयोर्मध्ये क नु विजेष्यतीति विषये दोलायते मे मनः ॥ १९१ ॥ यः पृष्ठं युधि दर्शयत्यरि- भटश्रेणीषु यो वक्रतां स्वां प्रत्यैव बिभर्ति यश्च किरति क्रूरध्वनिं निष्ठुरम् । दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं विख्यातः स्फुटमेक एव हि भवान् सीमा गुण- ग्राहिणाम् ॥ १९२ ॥ देव त्वं जय यस्य राजति महाराष्ट्रीकु- चोच्चं कुलं लाटीबाष्पृदु नर्म चेदिवनितानाम्भीगभीरं मनः। आभीरीकटिविस्तृता मतिरसिर्गोडीकचश्यामला कर्णाटीरति- निष्ठुरो रणरसः कीरीमुखाभं यशः ॥ १९३ ॥ ते कौपीन- धनास्त एव हि परं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा $^{४}$क्षितिः । तैरेतत्सैमलं$^{५}$कृतं निज- कुलं किंवा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥ १९४ ॥ साशङ्कस्य समाकुलीकृतमतेरत्यन्त- निस्तेजसरिच्छिन्नाङ्गस्य विकम्पमानहृदयस्यारूढमन्योर्दृशम् । लज्जां सत्यजतः क्रमं विमृशतो विन्नान्बहून्पश्यतः क्लेशो योऽर्थिजनस्य वक्तुमनसो मा भूत्स ते विद्विषाम् ॥ १९५ ॥ नो कामः प्रतिहन्यते प्रणयिषु स्वेमेऽपि नाथ त्वया नैवाधः- कुरुषे वृषं द्विरसना व्याला न ते वल्लभाः । नो बह्वक्षस्तव मूर्तयो न च तनुर्हित्यं जडानुग्रहव्यग्रा नो विषमा च दृक्त्वमथ च ख्यातः क्षितावीश्वरः ॥ १९६ ॥ $^{६}$संग्रामाङ्गण- संगतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्ते- नापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥ १९७ ॥ हारानाहर देव चन्द्रधवलान्रो- चेतयोश्चेस्तटीं संप्राप्ते त्वयि सैन्यवारणगणैर्मज्जद्भिरुत्क्षो- भितम् । सिन्दूरारुणमम्बु मेघपटलीपीतोञ्झितं शुक्तिषु खल्यैरेव दिनैः करिष्यसि महीमाताग्रमुक्ताफलम्॥१९८॥ कृष्णत्वं घनमण्डलस्य गलितं लग्नं मुखे त्वद्विषां विद्युद्दाम जगाम तावकमर्तिं गर्जिर्भवद्दुन्दुभिम् । वृष्टिस्त्वत्परिपन्थि- पार्थिववधूनेत्रेषु चक्रे स्थितिं चापं ते वसुधाधिनाथ बलभि- त्कोदण्डकान्तिः श्रिता ॥ १९९ ॥ नालिङ्गन्ति कुचद्वयं भवदिभप्रोत्तुङ्गकुम्भद्वयत्रासाद्वेणिलतासु नैव दधति प्रीतिं तवासिभ्रमात् । भ्रूभङ्गान्नभवदीयदुर्वधरनुर्ग्रान्त्या भजन्ते न ते वैरिक्षोणिभुजो निजाम्बुजदृशा भूमण्डलाखण्डल ॥२००॥
[दक्षिण-भागः]
अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः सख्यया$^{१}$ प्रेक्ष- चक्षुर्वेक्ष्यमाणबधिरश्राव्याः$^{२}$ किलाकीर्तयः । गीयन्ते स्वरम- ष्टमं कलयता$^{३}$ जातेन वन्ध्योदरान्मूकानां प्रकरेण$^{४}$ कूर्भर- मणीदुग्धोदधे$^{५}$ रोधसि ॥ २०१ ॥ द्वारं खङ्गिभिरानृतं बहि- रपि प्रस्विन्नगण्डैर्गजैरन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्या- सिता भूमयः । आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरंतनप्रणयिनी शून्येऽपि राज्य- स्थितिः ॥ २०२ ॥ शौर्यं केसरिणा परोपकरणं कल्पद्रुमे- णार्पितं लावण्यं मकरध्वजेन च शरच्चन्द्रेण शुभ्रं यशः । धैर्यं ते कमठाधिपेन विपुलं गाम्भीर्यमम्भोधिना सौभाग्यं तु तवैव केवलमिदं तत्केन नो विद्महे ॥ २०३ ॥ कामं कामसमस्त्वमत्र जगति ख्यातोऽसि यत्सर्वदा रूपे- णैव महीपते तव धनुःपाण्डित्यमन्यादृशम् । त्वं यस्मिन्वि- शिखं विमुञ्चसि तमेवोद्दिश्य मुक्तत्रपं नुञ्चत्कञ्चुकमुद्गत- स्पृहदहो धावन्ति देवाङ्गनाः ॥ २०४ ॥ सर्वे लुण्ठित- मुद्धटैस्तव भटैस्तेन द्विषत्सुभ्रुवक्ष्णाय त्वयि योजि- ताञ्जलिपुटं काकूक्तिमातन्वते । त्राणं दूरत एव तिष्ठतु मनस्तासां त्वया लुण्ठितं तद्गम्भीरं वदामि कुप्यसि न चेत्साधोरयं कः क्रमः ॥ २०५ ॥ कोदण्डस्तव हस्तगो हृदि वलत्यर्तिस्तव द्विषिणां त्वं दाता रभसेन मार्गणगण- स्तानेव संसेवते । देव त्वं तु जयस्रमित्रमनिशं ते यान्ति वैकुण्ठतां सम्ग्रामे तव भूपते महदिदं चित्रं समालोक्यते ॥ २०६ ॥ मेदिन्यां विषमेषुरित्यनुदिनं शृङ्गारवीरोद्धटा- चार्यः श्रीजगतीपतिः कमलदृक्कैर्नाम नो गीयते । शय्यायां च रणाङ्गणे च पतिताः सीदन्ति निश्चेतनाः कामिन्यश्च विरोधिनश्च शतशो येनामुना खण्डिताः ॥ २०७ ॥ दोर्दण्ड- द्वयकुण्डलीकृतलसत्कोदण्डचण्डाशुगध्वस्तोद्दण्डविपक्षमण्डल- मथ त्वा वीक्ष्य मध्यैरणम् । वलगद्भाण्डिवमुक्तकाण्ड- वलयज्वालावलीताण्डवभ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ २०८ ॥ को दण्डं न ददाति देव भवते कोदण्डमातन्वते को नारातिरुपेति पारमुदधेः कोणारुणे लोचने । का कुक्षान्तरमेत्य वैरतरुणी काकुं न वा भाषते राजन्नार्जित वारणे तव पुरः को वा रणे वर्तताम् ॥२०९॥ दृष्ट्वा मण्डलमध्यलग्नमधुलिड्डेतण्डलक्षस्फुरत्तत्कोदण्डल्सह- तेषु लहरीः को न क्षमाखण्डले । खारात्ताण्डवभागकाण्ड- वनमुग्धाराज्वलत्खण्डवक्रुध्यत्पाण्डवकाण्डवर्षमतुलं ब्रह्माण्ड-
[पाद-टिप्पण्यः / Footnotes]
[वाम-पादटिप्पणी] १ कौपीनमेव धनं येषाम्, पक्षे, -कौ पृथिव्यां पीनधनाः पुष्ट- धना २ आमलकीफलम्, पक्षे,-पृथ्वीफलम्, राज्यमित्यर्थः ३ न दन्ति पदच्छेदः गजाश्वसमूहाः; पक्षे,-वाजिनिवहा अश्वसमूहा नदन्ति हेषितं कुर्वन्तीत्यर्थः . ४ क्षयं, पक्षे,-भूमिः ५ समलं सदोषं कृतम्; पक्षे,-सम्यगलंकृतम्. ६ युद्धभूमिम्. ७ धनुषि ८ सज्जीकृते.
[दक्षिण-पादटिप्पणी] १ परार्थसंख्यामतिक्रान्तया. २ अन्ध.. अस्य राज्ञोऽकीर्तिरेव नास्तीति भावः ३ स्वीकुर्वता. ४ समूहेन. ५ तीरे ६ खड्गधारिभिः, पक्षे,-गण्डकैः ७ द्वारपालैः, पक्षे,-सर्पै.. ८ पट्टाभिषिक्तस्त्रीभिः, पक्षे,-महिषीस्त्रीभिः..
सामान्यराजप्रशंसा १०९
वर्त्म स्मरेत् ॥ २१० ॥ आलानं जयकुञ्जरस्य दृषदा सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः । संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो राजन्राजति वैरिराजवनितावैधव्यदस्ते भुजः ॥ २११ ॥ लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिना देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादित चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥ २१२ ॥ नानाभूषणभूषित. प्रतिभयापात्र प्रभूता स्थितिर्मोरासतकरो भवाधिकरुचिर्भूरीकृताश्वद्विपः । शश्वत्संगतभासमानमुकुटो भिक्षुप्रवृद्धादरस्त्व राजेन्द्र रिपुस्तवापि नितरा भेद पर भेदकृत् ॥ २१३ ॥ प्रत्यावासकसज्जता प्रथमतस्त्वा योद्धुमुत्कण्ठिता योधास्तेऽभिसृता मनागरिचमूः स्वाधीननाथा स्थिता । भीत्या प्रोषितभर्तृका समभवत्त्वत्सायकैः खण्डिता दूरादन्तरिता विधाय कलहं हा विप्रलब्धा विधे ॥ २१४ ॥ प्रामाण्य स्वत एव नैव परतो विज्ञायते मानता शब्दस्यापि यथार्थता स्तुतिवचोराशेर्मनोवृत्तयः । विश्वव्यापकता गतो न च महानन्यो भ्रमः कापि ते नास्ते देव मत किमस्ति भवतः शाखेषु न ज्ञायते ॥ २१५ ॥ प्रामाण्य परतः स्वतःऽपि भवतो विज्ञायते सन्मते भूमीन्द्र प्रचुरक्षणस्थिरतया वर्णाश्चिर स्थापिताः । सर्वज्ञैकसदीश्वरोऽपि न पर ब्रूते भवानीश्वर तन्नैयायिकनायकस्य भवतो मीमांसकत्व कुतः ॥ २१६ ॥ एक वस्तु यदस्ति विश्वजनतानन्दप्रमोदात्मक सत्य तत्त्वमसीति वाक्यमखिल त्वय्येव विश्राम्यति । त्वामाकर्ण्य न किंचिदन्यदवनीशृङ्गार मो मन्यते त्वय्यास जनकादिकीर्तिजनके किं ज्ञानमीमासया ॥ २१७ ॥ त्वद्वाणेषु यमो जयेषु नियमः पाते स्थिर चासन भ्रान्तौ श्वासविनिग्रहो गुणगणे प्रत्याहृति. श्रीमत् । ध्यान शूलिनि धारणा च धरणेर्धर्मे समाधिर्यतस्तन्निर्विण्णहृदः किमीश्वरपरे वाञ्छन्ति पातञ्जले ॥ २१८ ॥ दृष्टान्तो न तवास्ति धाचि न च ते सन्देहलेशः क्वचिद्याजोक्तिर्न कदापि शास्त्रकलने नैवानुमाने रुचिः । सामान्य च विशेषवन्न मनुषे नाक्षेपबुद्धिर्मनाग्ब्याघातोऽपि न वा सुखेडप्यथ कथ साहित्यतर्कज्ञता ॥ २१९ ॥ मेघो भाति जलेन गौस्तु पयसा विद्वन्मुख भाषया तारुण्येन च कामिनी मधुरया वाण्या पिक ख जलात् । मालिन्याञ्जनयन श्रिया च सदनं ताम्बूलगगानमुख ब्रह्माण्ड सकल त्वया नरपते भाति ख चित्रं महत् ॥ २२० ॥ दारिद्र्योपहतो यथा घनधनं चान्द्रीं चकोरः प्रभा कामार्तस्तरुणी क्षुधापरिगतः सद्योऽन्नं भोजनम् । सच्छिष्यः सुगुरु वियोगविधुरो वत्सो यथा मातर तद्वद्भूः सततं स्मरामि मनसा मद्धत्सलाम्च्छ्रीमतः ॥ २२१ ॥ लक्ष्मीस्ते सदने सदा विहरता वित्ते च चिन्तामणिः खर्वेनुस्तव गोकुले सुरतरुश्चारामभूमौ तव । वाणी ते वदने दया नयनयोर्दान करे चान्वहं विष्णुश्चेतसि ते मतिश्च वसता कीर्तिश्च लोकत्रये ॥ २२२ ॥ गङ्गायत्यसितापगा फणिगणः शेषीयति श्रीपतिः श्रीकृष्णोयति कैरवीयति कुलं नीलोत्पलाना च वै । कर्पूरीयति कज्जलं पिककुलं लीलामरालीयति खःकुम्भीयति कुम्भिनामपि घटा त्वत्कीर्तिसङ्घट्टतः ॥ २२३ ॥ लक्ष्मीस्ते हृदि भारती च वदने मौलौ सदा केशवश्चण्डी ते भुजदण्डयोर्गुणनिधे गेहे कुबेरस्थितिः । चित्त नाथ तवास्तु धर्मसदने दानप्रसङ्गः करे सर्वास्ते विपद् प्रयान्तु विपिने त्व दीर्घजीवी भव ॥ २२४ ॥ आयुस्ते नरवीर वर्धतु सदा हेमन्तरात्रिर्यथा लोकाना प्रियवर्धनो भव सदा हेमन्तसूर्यो यथा । लोकाना भयवर्धनो भव सदा हेमन्ततोय यथा नाश यान्तु तवारयोऽपि सतत हेमन्तपद्म यथा ॥ २२५ ॥ यद्बाहू वहतः पराक्रमहृतप्रत्यर्थिसीमन्तिनीचक्षुःकज्जलकालिकामिव धनुर्मोर्वीकिणश्यामिकाम् । यद्दोर्दुर्मदकर्मकार्मुकगुणप्रोत्तालकोलाहलैर्वैरीस्त्रीकलमेखलाकलकला. पीता इवास्त गताः ॥ २२६ ॥ सौन्दर्य मदनादपि प्रथयति प्रौढिप्रकर्ष पुरा भेत्तार मदनाग्मिप्यधरयत्युद्दामदो. क्रीडितम् । मुग्धत्वं मदनारिमौलि-शशिनोऽप्युत्कर्षमालम्बते मूर्तेस्तत्किमसो रसैर्विरचित शृङ्गार-वीराद्भुतैः ॥ २२७ ॥ आदाय प्रतिपक्षकीर्तिनिवहान्ब्रह्माण्डभूषान्तरे निर्विघ्न धमता नितान्तमुदितैः स्वैरेव तेजो-भिभिः । तत्तप्तप्लुतपाकशोधितमिव प्राप्त गुणोत्कर्षिणा पिण्डस्थ च महत्तर च भवता निःशारतारं यशः ॥ २२८ ॥ व्यासं नैकतयास्थितं श्रुतिगण जैम्मी न वल्मीकतो नामौ र्नाभवमच्युतस्य सुमहद्भाष्यं च नोभाषितम् । चित्रार्थो न
१ बन्धनस्तम्भ २ अनेनास्य सेतोरविनश्वरत्व सूचितम् ३ उदयाचल ४ सूर्य. ५ विलोडनलीला ६ यथा क्षीराब्धिमन्थने मन्दरा चलस्तथा संग्रामामृतसागरविलोड़ने त्वद्भज. यथा च तत्रामृतमुत्पन्न तथात्र यश इति भाव . ७ यतस्त्वमेव विमलसकललावण्यगृहमत-स्त्वत्पुरः सकलङ्कस्य चन्द्रस्य लावण्यमयत्वेन घटन व्यर्थमेवेति भाव ८ यत पूषा स्वश्वतापगरिमलक्षणं शमपि नामोतीति भाव ९ यतश्चि-न्तारत्नस्याय प्रभावो यद्याचकयाचितार्थानां सद्य एव पूरण भवति तच्च त्वत्त एव भवतीति अतश्चिन्तामप्युत्पत्तिर्वृथेति भाव . १० यत पृथ्वीभारख्यस्य भुजाभ्यामेव धारितोऽतस्तदुत्पत्तिर्व्यथेति भाव .
१ अनेकशाखारूपेण न विस्तारितवान्, तत्कर्ता व्यासो नाभवाम इत्यर्थ २ वेदसमूहम् ३ नाहं वाल्मीकिरित्यर्थ. ४ नाह चतुर्मुख इत्यर्थ ५ नाह सहस्रजिह्व इत्यर्थ..
| ११० | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
| वाम-स्तम्भः | दक्षिण-स्तम्भः |
|---|---|
| दृष्ट्वैकथामचक्रं सौत्रामणि नास गुरुर्देव खड्गवृन्दवर्षनमहमं कर्तुं कथं शक्त्याम् ॥ २२९ ॥ एकाभ्रुकुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकेरन्या कपोलस्थली । लोलाक्षीं क्षणमात्रभाविविरहक्लेशसहसा पश्यतो द्रागाकर्णयतश्च वीर भवतः प्रौढा हवाडम्बरम् ॥ २३० ॥ येषा दोर्बलमेव दुर्बलतया ते समतातैरपि प्रायः केवलनीतीरीतिशरंणैः कार्ये किमुर्वीश्वरैः । ये क्ष्माशास्त्रं पुनः पराक्रमनयस्वीकारकान्तक्रमास्ते स्युनैव भवादृशास्खिजगति द्वित्राः पवित्राः परम् ॥ २३१ ॥ अत्युच्चाः परित. स्फुरन्ति गिरयः स्फारास्स्थाम्भोदयस्तानेतानपि बिभ्रती किमपि न क्रान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहु. स्तुतिमिति प्रस्तौमि यावद्भवस्तावद्विभ्रदिमा स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ २३२ ॥ येषा कण्ठपरिग्रहप्रणयिता सम्प्राप्य धाराधरस्तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेह परामोति च । तेषा सगररङ्गमक्तमनसा राज्ञा त्वया भूपते पासूनां पटलै. प्रसाधनविधिर्निर्वर्य्यते कौतुकम् ॥ २३३ ॥ द्वेष्या कीर्तिंकलिन्दशैलसुतया नद्यास यद्दोर्व्यीकीर्तिश्रेणिमयी समागममगाद्गङ्गा रणाङ्गणॆ । तत्तत्सन्विमनिमज्जैय बाँहुजभटैरारम्भि रम्भापरीरम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः ॥ २३४ ॥ असिन्दिग्विजयेाथते पतिरयं मे स्यादिति ध्यायति कंम्पं सात्त्विकभावैवम्भति रिपुक्षोणीन्द्रदारा धरा । अस्यैवाभिमुखं निपत्य समरे यासद्भििरूध्वै निज. पॅन्था भाँस्वति दृश्यते विलमयः प्रत्यर्थिभिः पार्थिवैः ॥ २३५॥ विद्राणे रँणैचत्वरादरिगणे त्रस्ते समस्ते पुन. कोपात्कोऽपि निवर्तते यदि भट. कीर्त्या जैरंग्युद्धतः । आगच्छन्नपि समुर्ख विर्गुखैतामेवाधिगच्छत्यसौ द्रागेतच्छुरिकारयेण ठंणिति च्छिन्नापमर्षच्छिराः ॥ २३६ ॥ हित्वा दैत्यैरिपोरुरः ख्रंमवनं शून्यत्वदोषस्फुटासीदन्मर्कटकीटकूत्रिमसितच्छत्रीभवत्कौस्तुभम् । ऽड्जित्वा निजसङ्ग पद्ममपि तैह्यैक्तावनद्धीकृतं लूतातन्तुभिरन्तरथ भुजयोः श्रीरस्य विश्राम्यति ॥ २३७ ॥ सिन्योजैवैर्मैयं पवित्रमसृजत्तत्कीर्तिपूतीद्भुतं यन्त्र क्षान्ति जगन्ति सन्ति कवयः के वा न वैचियमाः । | यद्विन्दुश्रियमिन्दुरक्षति जलं चाविश्य दृश्येत्तरो यैस्यासौ जलदेवतास्फटिकभूर्जागर्ति योगेश्वरः ॥ २३८ ॥ युद्धा चाभिमुखं रणस्स चरणसैवौदसीत्यस्र वा बुद्धान्तः स्वपरान्तर निपतातमुन्मुच्य बाणावलीः । छिन्नं वार्वेनतीभवन्निजभियः खिन्न भरैणाथवा राज्ञानेन हठाद्विलोठितमभूद्धमावरीणा शिरः ॥ २३९ ॥ राज्ञामस्य शतेन कि कलयतो हेति शतघ्नी कृतं लक्षैर्लक्ष्मिरदो हशेव जयतः पैद्मानि पक्षैरलम् । कतु सर्वपरेैच्छिदः किमपि नो शक्यं पॅरौर्धेन वा तत्सँख्यापगमं विनास्ति न गतिः काचिद्वैतैतद्द्विषाम् ॥ २४० ॥ क्षीरोदन्वदप. प्रेम्रैथ्य मँथितौ देशेऽमरैर्निर्मिते स्वौक्रम्यं सृजतस्तदस्य यशस. क्षीरोदसिहासनम् । केषा नाजने वा जनेन जगतामेतत्कवित्वामृतस्रोत.प्रोतपिपासुंकर्णकलशीभाजामिषेकोत्सवः ॥ २४१ ॥ निर्क्षित्रुटितारिवारणघटोकुम्भास्थिकूटवैर्टस्थानस्थायुकमौक्तिकोत्करैकिरैः कैरस्य नायं करः । उंन्नीतश्रुतुरङ्गसैन्यसमरखेञ्चेत्तुरगैरैक्ष्खुण्णासु क्षितिषु क्षिपेन्निव यशःक्षोणीजैं बीजव्रजम् ॥ २४२ ॥ यत्कस्यामपि भौनुमान्न ककुभि स्थेमैनैमालम्बते जात यद्वनकाननैकशरणप्रासेन दावाग्निना । एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचिती धिक्क वाँडवमम्मसि द्विषि भया येन प्रविष्टं पुनः ॥ २४३ ॥ आत्मन्यस्य संमुचितीकृतगुणसाहोतरामोचिती यद्घात्रान्तरवर्जेनाँदजनयद्भङ्जानिरेष द्विषाम् । भूयोऽहक्रियते स्म येन च हृदा स्कन्धो न यक्षानमत्तन्मर्माणि दैलंदल समिर्देल्कमीणबाणव्रज. ॥ २४४ ॥ यद्भर्तुः कुरुतेऽभिषेणैनैमय शक्रो मुव सा ध्रुवं दिग्दाहैरिव भस्मभिर्मैघवता सृष्टैर्हतोर्दूलेना । शभोर्मा बत साध्यवेलनटनभौजि व्रतं द्रागिति क्षोणी नृत्यति मूतिंरैदवपुषोऽसृग्वृष्टिसध्याधिया ॥ २४५ ॥ प्रागेतद्वपुरामृखेन्दु सृजतः सङ्गुः समग्रस्त्विषा कोष शोषमगादगाधजगतीशिल्पेऽप्यनल्पा- |
पादटिप्पण्यः (Footnotes)
वामभागस्थाः पादटिप्पण्यः :
१ नाह गुणाढ्य इत्यर्थ
२ इन्द्रे
३ नाह वाचस्पतिरित्यर्थ
४ विस्तीर्णा
५ खड्गम्
६ तैलादि, पक्षे,-मित्रत्वम्
७ यमुनया
८ क्षत्रियमटै
९ एतद्विरोधिना मरणमेव शरणमिति भाव.
१० औत्पातिके भूकम्पे सात्त्विकोत्प्रेक्षा
११ प्राप्नोति
१२ ऊर्ध्व लोकम्.
१३ आसन्नमृत्योरादित्यमण्डल मच्छेदभिव दृश्यते
१४ सूर्यमण्डले
१५ रणाङ्गात्.
१६ प्रसिद्ध
१७ पराङ्मुखत्वम्, पक्षे,-विगतमुखत्वम्
१८ ठणिति कश्चिदनुक रणशब्द
१९ विष्णो
२० रिक्ततादोष
२१ तन्तुवायकीटा.
२२ बद्धम्
२३ लक्ष्मी
२४ जेतु जयशीलम्, ततोऽप्यधिकमित्यर्थ
२५ खातम्.
२६ सर्वेऽपि कवयो मौनिनो भवन्ति, वर्णयितुमशक्यत्वादिति भाव.
दक्षिणभागस्थाः पादटिप्पण्यः :
१ सावर्ण्यीदृश्य
२ इन्दु
३ शिवालेङ्ग.
४ अमुख्य.
५ नत्रीभवत्
६ भारेण.
७ परिवर्तितम्
८ आयुधम्
९ अलम्.
१० लक्षसख्या, पक्षे,-शरव्यम्
११ पद्मसंख्यया, पक्षे,-अब्जानि.
१२ पद्मसंख्याभि
१३ शत्रुच्छिद
१४ परार्धसख्यया, पक्षे,-परेषामरीणामर्थेन
१५ एक्तवादि, पक्षे,-युद्धम्
१६ विलोड्य
१७ मथनोद्भूतो निर्जलो दधिक्षीरविकार
१८ रूपान्तरे, रूपान्तरापादनेन क्षीराभ्थावभाव गमिते सतील्यर्थ
१९ स्वेनाक्रमणा- र्थम्
२० पूरिते
२१ खड्ग
२२ सघातः
२३ गर्तप्रदेश..
२४ स्थायिन
२५ समूह.
२६ उत्प्रेक्षित .
२७ सचरत्.
२८ कुष्ठासु.
२९ वर्षात्रव
३० वृक्ष
३१ सूर्यैः
३२ स्थिरत्वम्
३३ औचित्यम्.
३४ अग्रेर्जलम् सहजदेवि तस्मिन्.
३५ समा- हृतगुणस्य
३६ दण्डनमकरोदित्यर्थ
३७ दलयित्वा.
३८ अमो- घवाण इत्यर्थ
३९ सेनयामियानम्.
४० घृतस्मानुलेपना.
४१ मा अभीज्ञि.
सामान्यराजप्रशंसा १११
यितः । निःशेषद्युतिमण्डलय्वययशोदीष्ण्लीभैरैष वा शेष.
केशमय. किमन्धतमसस्तोमैस्ततो निर्मितः ॥ २४६ ॥
अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च
न समुखौ रचयतः कंपं च न प्राप्नुतः । तद्युक्त न पुन-
र्निर्वृत्तिर्भययोर्जगति यन्मुक्तयोरेकस्तत्र भिनत्ति मित्रमपर-
श्चामित्रमित्यद्भुतम् ॥ २४७ ॥ एतस्योन्नतसर्वकर्मकृति-
नस्त्रैलोक्यचूडामणेः शंभुब्रह्मपुरंदरप्रभृतयः स्तुत्यै न शक्ता
यदि । देवः पन्नगनायको भगवती वाणी स्वयं
चेज्जडा सौन्दर्यस्य निरूपणे वद कथ शक्तो भवेन्मा-
नव. ॥ २४८ ॥ अर्ध दानववैरिणा गिरिजयोप्यर्ध
हरस्याहृतं देवेत्थं भुवनत्रये स्वरहराभावे संमुन्मीलति ।
गङ्गा सागरमम्बर शशिकला शेषश्च पृथ्वीतल सर्वज्ञ-
त्वमधीश्वरत्वमगमत्त्वा मा च भिक्षाटनम् ॥ २४९ ॥
अन्यास्ता गुणरत्नरोहणभुवो धन्या मुदन्यैव सा सभारा-
खलु तेऽन्य एव विधिना यैरैव सृष्टो युवा । श्रीमत्कान्ति-
जुषा द्विषा करतलात्क्षीणा नितम्बस्थलादृष्टे यत्र पतन्ति
मूढमनसामस्त्राणि वस्त्राणि च ॥ २५० ॥ यैर्दृष्टोऽसि तदा
ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्रुतिपाटलीकृतपु-
रोभागः परान्दारयन् । तेषा दुःसदकामदेहदहनप्रोद्भूतनेत्रा-
ञ्चलज्वालालीभरभासुरे पुररिपावस्रुं गतं कौतुकम् ॥ २५१ ॥
येऽणुत्वं मनसि स्वके विवृणुते रीत्या कयापि स्फुटं काणा-
दाचरणस्य तत्समुचितं मन्ये प्रतिक्षाम्यताम् । न्यायाभि-
ज्ञतमोऽपि यत्प्रथयसे चित्ते महत्त्वं निजे मीमांसामतपक्ष-
पातत इदं मन्ये त्वयाङ्गीकृतम् ॥ २५२ ॥ ये लब्धाश्रय-
मायतः फलभृत कुर्वन्ति किंचिद्गुण वाधौं वारिमुचो न
कस्य विदितास्ते कर्ममीमासकाः । आलोच्यैव निराश्रयान्फ-
लभरैः सबन्धतः सद्गुणाञ्छ्रीमद्राम तवादृत पुनरिदं मीमां-
सकत्वं स्तुमः ॥ २५३ ॥ त्रैलोक्यामयलग्नकेन भवता
वीरेण विस्मारितः सञ्जीभूतमहूर्त मण्डलधनुः पाण्डित्यमा-
खण्डलः । कि चाजसमखार्पितेन हविषा सफुल्लभासोल्लस-
त्सर्वाङ्गीणवलीविलुप्तनयनव्यूहः कथं वर्तते ॥ २५४ ॥
कल्पक्षोणिरुहोऽयमित्यनुदिन भूमीसुरैर्भाव्यसे कामोऽसा-
विति कामिनीभिरभितश्चित्ते चिरं चिन्त्यसे । श्रीनारायण
एव केवलमिति प्रेम्णा श्रिया ध्यायसे त्वं कालोऽयमिति
प्रतिक्षितिधरैरैकोऽप्यनेकात्मभृत् ॥ २५५ ॥ नीतिस्त्रीसुकुरो
जयध्वजनवस्तम्भः प्रतापाशुमत्गुर्वा दिक्परिपन्थिभूपति-
महासपन्मृगीवागुरा । उद्यत्पुण्यलतावालमतनून्मत्तद्विपैला-
नकं यः श्रीकेलिनिकेतनं गुणमणिश्रेणी नवीनाकरः ॥२५६॥
रत्नान्यम्बुधितोयगर्भमगमन्मेरुः सुराञ्शिश्रिये स्वीयाङ्के
कमला निधाय विदधे निद्रा हरिनीरधौ । यस्मिन्दित्सति
भूरि दातरि नृणा भालस्थले दुलिपि व्रीडानम्रशिराः कमण्ड-
लुमथं जग्राह मार्गं विधिः ॥ २५७ ॥ लक्ष्मीश्चैन्न मरस्वती
तदुभयं यद्यस्ति नोदारता सा चैतत्रितयं भवेच्च कुहचित्यु-
ण्येरणण्येैरपि । सौजन्यं न विजृम्भते तदपि चेन्नास्तेऽवकृप्ता
मतिस्तत्सर्वं परमेश्वरस्य कृपया त्वय्येव सम्भाव्यते ॥ २५८ ॥
शत्रूणा यमदण्डता मृगदृशा कंदर्पकोदण्डता गीर्वाणद्रुम-
भावमर्थिविदुषा मध्ये त्रयागामिति । आश्चर्यं मनुजेन्द्ररत्न
भवतो यद्बाहुदण्डद्वयं नानाव्वं गतमेकमेव जगता मध्ये
त्रयाणामिति ॥ २५९ ॥ रक्तेनैव विलोचनेन कैरुणारत्नाकरेण
त्वया दृश्यन्ते नरदेवरत्न सुहृदः विद्वेषिणो नो नृपा ।
कि सिक्ताः प्रथगं सुधाभिरभवन्दावानलै. कि परैः पूर्व
पल्लविताः कुतः किमपरे भस्मत्वमासादितम् ॥ २६० ॥
या लाक्षावलयानि बाहुयुगले कण्ठे च काचस्रजं मन्यन्ते
बहुभूषणानि दनिता दीनद्विजाना पुरा । ता माणिक्य-
चितानि हेमवलयान्युञजन्ति मुक्तास्रजं यद्वाराम्बुदुदानशील-
नृपते त्वत्त्यागलीलायितम् ॥ २६१ ॥ मेरूर्दूरगतो हिमा-
लयगिरि. प्रालेयरूपोऽभवच्चन्द्रे श्रीसहजेऽपि याचकभया-
त्क्षीणत्वमुन्मीलति । कौपीनं कृतवान्हरोऽपि भगवान्विष्णु-
र्जल सेवेते वारा राशिरपेयतामुपगतः को नाम दातुं
क्षमः ॥ २६२ ॥ कल्याणं भवता यशः प्रसरता धर्मः
सदा वर्धता सपत्तिः प्रथता प्रजा प्रणमता शत्रुक्षयो जाय-
ताम् । वाक्यं सवदता वपुः प्रभवता लक्ष्मीपतिः प्रीयता-
मायुस्ते शरदा शतं विजयता दानाय दीर्घायुषे ॥ २६३ ॥
दृष्ट्रैवाडुकुशमुद्रया निगडितो दारिद्यदन्तावल्रो वाचा सुन्द-
रयार्चिया मम कृतो गङ्गावगाहोत्सवः । अभ्युत्थाननम-
स्क्रयार्धघटनैर्मानोऽपि दानोत्तरो लीलेयं भवता वय तु
विदुषा मूर्धानमध्यासिताः ॥ २६४ ॥ पद्मा सद्मनि केश-
वस्य गहने रत्नानि रत्नाकरे हेमाद्रिर्हिमसानुना व्यवहितः
स्वर्गे सुराणा तरुः । जम्बुद्वीपधरासु भूमिपतयो जाम्बू-
नदैर्दुर्मदास्त्वं तावत्सकलासयेऽसि सुलभो भाग्यैर्द्विजाना-
मिह ॥ २६५ ॥ राजनभ्युदयोऽस्तु जीव शरदां साग्रं
शतं तेऽरयो रोगैर्य्यान्तु लयं यशःशशधरः काष्ठासु देदीप्य-
ताम् । शिष्टान्याहि बुधान्भ्रय प्रणतिभिर्देद्यार्थिनां स्वं सदा
पादटिप्पण्यः (Left Footnotes):
१ सुखेन. २ युगपत्. ३ दुःखाभावात्, पक्षे,-निर्गल्यभावात्
४ भयाभावात्; पक्षे,-दुष्प्रयोगाभावात् ५ अगमादिति भाव,
पक्षे,-प्रत्यक्षादिति भाव ६ संसारादित्यर्थे, पक्षे,-चापादित्यर्थे
७ सूर्यम्; पक्षे,-यथाश्रुतम्. ८ हरिणा हरिहरात्मकस्यैकस्य विग्रहस्य
प्रसिद्धेः. ९ प्रकाशमाने. १० पर्वतविशेष
पादटिप्पण्यः (Right Footnotes): १ आलानवद् गजवन्धनस्तम्भः• २ दयासागरेण.
| ११२ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
वाणी ते वदने रमा प्रतिदिन गेहे भुजे स्ताज्जयः ॥ २६६ ॥ प्रभ्रश्यच्छ्रुतिमस्तकः प्रविगलत्सद्द्रवर्णविप्रस्थितिर्नश्यत्स्वाद्वलबलः प्रनष्टवचनप्राग्भावपूर्णस्मृतिः । वृद्धोऽत्यन्तमयं स्वय कलिमहाम्लेच्छेन निर्मूलितो धर्म. सप्रति चाल्यते तव करालम्बेन भूमिपते ॥ २६७ ॥ बन्दीकृत्य नृप द्विषा मृगदृशस्ताः पश्यता प्रेयसा श्लिष्यन्ति प्रणयन्ति लान्ति परितश्चुम्बन्ति ते सैनिका. । अस्माकं सुकृतैर्दर्शनिपतितोऽसौचित्यवारानिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयते ॥ २६८ ॥ हित्वा त्वामुपरोधशून्यमनसा मन्ये न मौलिः परो लज्जावर्जनमन्तरेण न रमामन्यत्र सद्दश्यते । यस्यांगं तनुतेतरा सुखशतैरेत्याश्रिताया. श्रियः प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थिति. ॥ २६९ ॥ धर्म पालय नन्दय द्विजगणानाम समाराधय प्रत्यर्थिक्षितिपालभूरूहवनं निर्मूलमुन्मूलय । कान्ताचित्तसरोजसौभगवने भृङ्गत्वमासाद्य स्फीता कीर्तिम शेषलोकजयिनीमाकल्पमाकल्पय ॥ २७० ॥ ऐश्वर्य नहुषस्य शभुविषयश्रद्धा दशास्यस्य सा शौर्य श्रीरघुनायकस्य सहज गाम्भीर्यमम्भोनिधे. । दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा श्रीवीरक्षितिपालमौलिन्नृपतेः साम्यं कथंचिद्भवेत् ॥ २७१ ॥ भिक्षुद्वारि सदानवारिमधुपश्रेणीभिमान्द्यमभाङ्कत्ते यन्तुर्वधूर्वधूकरातलं शोणाम्बुजाशङ्कया । सैवान्वेति पलायितेति चकिता हस्ताग्रमाधुन्वती मुग्धा वीरमहीपते तदखिलं त्वद्दानलीलायितम् ॥ २७२ ॥ श्रीवीर क्षितिपाल ते सुललित दानोद्यमे यद्वचः कास्ते सर्वहिरण्यमित्युदमवत्तत्कालमाकर्ण्य तत् । तापं प्राप हिरण्यरेतसि जनं जाड्यं हिरण्याचले स्वेदाम्भोऽपि हिरण्यगर्भंवपुषि स्वापाय सत्रासत: ॥ २७३ ॥ राजानः शशिभास्करान्वयभुवः के के न संजज्ञिरे भर्तारं पुनरेकमेव हि भुवस्त्वां वीर मन्यामहे । येनाङ्ग परिसृद्य कुन्तलमथाकृष्य व्युदस्यायतं चोलं प्राप्य च मध्यदेशमसकृत्काञ्च्या करः प्रापितः ॥ २७४ ॥ स्वान्ते वैभवमस्ति नैव परत. प्रामाण्यनिर्धारणं नैवातद्वति तत्प्रकारकमतिर्नैवोयमानं तव । त्वद्देशेषु विभाति न च्छलकथा नो वा क्वचित्संशयः श्रीवीर प्रथिता कथ पुनरियं नैयायिकत्वप्रथा ॥ २७५ ॥ वीर क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलना मृगाङ्कमलिनो धत्ता कथं चन्द्रमाः । स्यादेतत्वदरातिसौधशिखरप्रोद्भूतदूर्वाङ्कुरग्रासव्यग्रमति. पतेद्यदि पुनस्तस्याङ्कशायी मृगः ॥ २७६ ॥ श्रीमद्वीर महीमहेन्द्र भवत. प्रस्थानकालोद्भवद्वादित्रध्वनिमीतमानुहरयो द्रागम्बर प्रागमन् । तस्मिन्नेवमुपद्रवे किल विपर्यस्तं समस्त रवेर्युग्यै. ससरथाङ्गेमकमपदः सूतश्चिरादुद्व्रभः ॥ २७७ ॥ गर्वग्रन्थिलगूर्जरज्वरकरः कर्णाटकणौटवीदावाग्निर्विडेन्द्रवीर्यदलनो गौडेन्द्रनिद्राहरः । हम्मीरप्रमदामदालसलसद्धूनंतनस्तम्भनप्रस्थाने तव वीर डिण्डिममचमत्कार. समुज्जृम्भते ॥ २७८ ॥ चिन्तागम्भीरकूपादनवरतचलद्धरिशोकारघट्टव्याकृष्टं निःश्वसन्त्य. पृथुनयनघटीयन्त्रनिर्मुंक्तधारम् । नासावंशप्रणालीविषमपथपतद्बाष्पपानीयमेता देव त्वद्वैरिनार्यः कुचकलशयुगेनान्वहं सवहन्ति ॥ २७९ ॥ त्वत्प्रारब्धप्रचण्डप्रैधननिर्धैनितारतिवीरातिरेकक्रीडत्कीलाैलकुल्यावलिभिरलभात क्ष्मीन्दमाकन्दमूर्वी । दम्भोतिस्तम्भमाखद्भुज भुजंगजगद्भर्तुशर्मुरेना तेनायं मूर्धरत्नद्युतिततिमभित. शोभते शोर्णंभावः ॥ २८० ॥ आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्तिः सप्ताक्रैपारयारीसदनजनघैनोद्गीतचापप्रताप. । वीरादक्षात्यर. क. पदयुगयुगपत्यातिभूपातिभूयचूडारत्नोडुपलीकैरेपरिचरणामन्दनन्दन्नखेन्दुः ॥ २८१ ॥ एतेनोत्कैत्तकण्ठप्रतिसुभटनैटैरन्धनाट्याह्रुताना कष्ट दृष्टैव नाम्बूद्रुवि सैँमरसमालोकिलेकास्पदेऽपि । अश्चैेरखेैरवेगेः कृत खुरखुरैलीमैँड्डुसँक्षुँद्यमानक्षमापृष्ठोत्थिष्टद्व्यंचकरणरणधुरोरेणुधारान्धकारात् ॥ २८२ ॥ मन्दोद्धूतैः शिरोभिर्मणिभरगुरुभिः प्रौढरोमाञ्चदण्डस्फायन्निर्मोकसधिप्रसरदविगलत्समदस्वेदपूरा. । जिह्वायुग्माभिपूर्णाननविषम समुद्गीर्णवर्णाभिरामं वेलाशैलाङ्कभाजो भुजगयुवतयस्त्वद्गुणानुद्गृणन्ति ॥ २८३ ॥ आ शैलेन्द्राच्छिलान्त.स्खलितसुरधुनीशीकरासारशीतादातीरान्नै करागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य । आगत्या गत्य भीतिप्रणत नृपशतैः शश्वदेव क्रियन्ते चूडारत्नौशुगर्भर्भास्तव चरणयुगस्याङ्गुलीरन्ध्रभागाः ॥ २८४ ॥ श्रावं श्रावं त्वदीयं गुणगणमखिलं सर्वदा याचकेभ्यस्त्वत्त्रासाभीप्सितेभ्यः सकलविषयजं भूपवर्ग विहाय । त्वत्तोऽह प्राप्तुमिच्छुर्विबुधतिलकतो त्वत्समीपेऽतिद्गदायातरत्वं शतायुर्भव कुरु च तथा येन नान्यं भजेऽहम् ॥ २८५ ॥ विद्यावन्तो विनीताः प्रसभमभिसभं वाक्प्रपंचेषु जीवाः के वा नैवारभन्ते त्रिजगति वितता कीर्तिवल्लीमतल्लीम् । तेषामधा-
टिप्पणी (Footnotes):
| १ अन्दू पादशृङ्खला | २ मङ्गणि |
| १ अश्वा | २ जलमार्ग |
| ३ संभ्रामः | ४ विनाश प्राप्ता |
| ५ रुधिरनदी | ६ श्रेण्य |
| ७ क्षरणम्. | ८ वज्रम् |
| ९ शेषस्य | १० रक्तिमा |
| ११ समुद्रपरीवाराणाम् | १२ निरन्तरम्. |
| १३ अश्व-, पक्षे,-हस्ता | १४ छिन्नकण्ठै |
| १५ नर्तक | १६ युद्धप्रेक्षकजनालयेऽपि |
| १७ अमन्दवेगै | १८ खुरसंचारैः |
| १९ सपदि. | २० सञ्चूर्ण्यमानात् |
| सामान्यराजप्रशंसा, विशिष्टराजप्रशंसा | ११३ |
|---|
रभावं भुवनभरमृतो बिभ्रतो ये लसन्ते ते तु त्रैलोक्यतुङ्गा विमलफलजुषः खःपतिं खल्पयन्ति ॥ २८६ ॥ वक्राम्भोजं सरखत्यधिवसति सदा शोणे एवाघरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दीक्षणस्ते समुद्रः । र्वाहिन्द्यः पार्श्वमेताः सुचिरपरिचिता नैव मुञ्चन्त्यभीक्ष्णं खच्छेऽन्त- र्मानसेऽस्मिन्कथमवनिफ्ते तेऽम्बुपानाभिलाषः ॥ २८७ ॥ केचिद्बद्धाः सहेलं निजभवनगता मोचिताः केऽपि केचिद्देहा- द्देहान्तराणि क्षणमपि गमिताः केऽपि नीता निबन्धम् । हत्वा हत्वा च केचित्प्रतिपदमदयं प्रापिता व्यर्थभावं क्ष्मोणीनाथस्य तस्सोन्नतभुजपरिघेनारयः सारयश्च ॥ २८८ ॥ उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या न च वचसि कटुश्चित्रपाकानुभावी । कोषापेक्षी परखादुचितबहुकथस्तत्परः पुण्यलोके चित्रं राजाधिराज त्वमिव तव रिपुस्तत्र कंपं प्रतीमः ॥ २८९ ॥ उत्पत्युत्पन्नशिष्टा विविधगुणगणा यत्र यान्ति प्रतिष्ठा बाधेन प्राक्तनाना न च नियमविधिर्नापि सख्यार्थदाने । ऊहः सर्वत्र यस्य स्फुरति च सकलः सत्य एवार्थवादो मीमांसाभावमव्यन्मथिनवमधुना मूर्तिरेषा त्वदीया ॥ २९० ॥ हेलाप्रस्थानवेलाहतपृथुपटनादुन्दुभिध्वानधाराधारावहिप्रस- ङ्गादसमन्नृपसकृत्सभ्रमभ्रान्तचित्ताः । दैवादाकुञ्चिताङ्गं विगलितनयनस्पन्दमिन्दीवराक्ष्यो लीयन्ते त्वद्रिपूणा निज- गृहवलभीचारुचित्राङ्गनासु ॥ २९१ ॥ श्रीकृष्णठासक्त- हस्तोऽधिगतमणिगणः शैशवाभ्यस्तविद्यो लावण्यध्वस्तकामः कविजनमिलितो यौवनासप्रकामः । आदत्तक्षोणिदण्डो द्विजवशकृतधीः कङ्कणाहारयुक्तः स श्रीमान्वीर वीर त्वमिव तव रिपुस्तत्र मुक्तादिवर्णः ॥ २९२ ॥ लोकाना मानमात्रं मनुजजनरतिस्त्वं ससूदाक्षिरक्षो राज्ञामासत्त्वदक्षः कृतसमयरुचिर्मण्डितो वीरवर्गैः । कायत्वञ्चीनकेतुः कर- कलितयवा कोषमानैर्विहीनः श्रीमद्वीराधिराज त्वमिव तव रिपुस्तत्र मैन्दं प्रतीमः ॥ २९३ ॥ वादानाशान्युक्तो नगरकृतमतियौवनाक्रान्तदेहः संग्रामप्राप्तधैर्यो न विदलित- रुची राजलक्ष्मातिहीनः । नित्यं दारासभस्थः प्रखर- तनुनिभो यः सुभिक्षानुवर्ती श्रीमद्वीराधिराज त्वमिव तव रिपुस्तत्र मुक्तादिवर्णः ॥ २९४ ॥ श्रीवीर त्वद्रिपूणा रणशिरसि शरैर्भिन्नशीर्षाङ्गकाना वीरावेशाद्व्रताना दिवमधिक- रुषान्योन्यशौर्यार्यभाजम् । श्लेषेदिव्याङ्गनाना भुवि कचनिचयो द्राकटाक्षे शरासासीषुभ्रान्त्यारिवीरभ्रमुकुटिल- हृदामाजिरावर्तते स्म ॥ २९५ ॥
विशिष्टराजप्रशंसा
अकबरः
हस्ताम्भोजालिमाला नखशशिरुचिरश्यामलग्रच्छायवीचि- स्तेजोऽभेर्धूमधारा वितरणकरिणो गण्डदानप्रणाली । वैरिश्रीवेणिदण्डो लवणमसरसीबालशैवालवलीवेल्ललामन्ते- धरश्रीरकबरधरणीपालपाणौ कृपाणः ॥ १ ॥ वीर त्वं कार्मुकं चेदकबर कलयस्युद्गटोद्गारघोषं दूरे सद्यः कलङ्का इव धरणिभृतो यान्ति कङ्कालशेषाः । शङ्कापन्नश्च किं कारणमिति मनसा भ्रान्तिपङ्काथितेन त्यक्त्वाऽहंकारमङ्गा- द्विसृजति गृहिणीं किं च लङ्काधिनाथः ॥ २ ॥ कर्णाटं देहि कर्णाधिकविधिबिहितत्याग लाटं ललाटप्रोत्तुङ्गं द्राविडं वा प्रचलभुजबलप्रौढिमागाढराढम् । प्रस्फूर्जङ्गुर्जरं वा दलित- रिपुवधूगर्भ वैदर्भकं वा गाजी राजीवदृष्टे कुशशत मथवा शाहजंलालुदीन ॥ ३ ॥ गाजीजल्लालुदीन क्षितिपकुलमणे द्राक्प्रयाणे प्रतीते प्रेयसः प्रारमन्ते तरलतरगतिव्याकुला मङ्गलानि । नेत्राम्भःपूरपूर्णस्तनकलशमुखन्यस्तबालप्रवाला- क्षुब्धन्मुक्ताकलापच्युतकुचकुसुमच्छद्मनाकीर्णलाजाः ॥ ४ ॥
अनङ्गभीमः
पृथ्वीश्रीमदनङ्गभीम महती तद्वेष्टनं वारिधिः पीतोऽसौ कलशोद्भवेन मुनिना स व्योम्नि खद्योतवत् । तद्विष्णोर्दनुजा- घिनाथजयिनः पूर्णे पदं नामवद्देवश्वेतसि वर्तते तब सदा खंतो महाज्ञापरः ॥ ५ ॥
अर्जुननेन्द्रः
आयातस्ते समीप तव गुणविमलान्यण्डितो वादकर्ता काव्ये भव्ये हि रेवाभवविगतरसे रुग्युगे रोगहर्ता । नाहं जाने चिकित्सा सकलगुणनिधे दुर्दरिद्रत्वरोगे श्रीमद्राजार्जुननेन्द्र प्रबलमपि यते कल्पिता सा चिकित्सा ॥ ६ ॥
कर्णः
मुखे हारावात्तिर्नयनयुगले कङ्कणमरो नितम्बे पत्रान्ती सैंतिलकमभूत्पाणियुगलम् । अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशादपूर्वोऽयं भूषाविधिरहह जातः किमघुना ॥ ७ ॥ त्वं दित्राणि पदानि गच्छसि महीमुल्लङ्घ्य यान्ति द्विषंस्त्वं बाणान्दश पञ्च मुञ्चसि परे सर्वाणि शस्त्राण्यपि । ते ˚देवीपत्यस्त्वदस्त्रनिहतास्त्वं मानुषीणा पतिर्निन्दा तेषु कथं स्तुतिस्तव कथं श्रीकर्ण निर्णीयताम् ॥ ८ ॥ लोकेशः कर्ण-
पादटिप्पणी: १ वाणी, पक्षे,-नदीविशेष २ आरक्त, पक्षे,-नदविशेष' ३ मुदाभिः सहितः, पक्षे,-अब्धिः ४ सेना, पक्षे,-नभः ५ अन्त करणे, पक्षे,-सरोविशेषे. ६ अष्टापदखर्यक्रीडनकल्य गुटिकाः ७ ककारस्थाने पकारम्. ८ इह पद्ये शत्रुपक्ष आद्या क्षरत्याग ९ पञ्चस्विन्न् अकारस्थाने इकार पठनीयः १५ सु र भां.
१ अकबरस्यैव नामान्तरम् २ मुखे हाहा इति रावस्य शब्दस्या- वासिः ३ नयनयुगले क उदकं तस्य कणास्तेषां भरः ४ नितम्बे पत्राणामार्विः पङ्क्तिः ५ तिलकवृक्षालम्बिपाणियुगलम् ६ वैरिणः. ७ देवाङ्गनास्वामिनः
| ११४ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
राजाद्भुतकनकमयस्तावकीनप्रतापादह्माण्डानां समूहो द्रव इव भवितेत्येव संभाव्य यत्नात् । तस्यापि प्लावनाथं जलनिधि-निकरे व्यर्थतामत्र याते देव त्वद्वैरिनारीनयननयनजैर्निर्ममे नीरधिर्न ॥९॥
श्रीकर्ण प्रौढतेजाः प्रबलगिपुबलासद्यसतापपक्षो नाय श्रीमत्प्रतापो जगति विलसति श्रीमहोराज कितु । मन्येऽहं कौशिकस्यानुपमितमहसा नूतनस्वर्गसृष्टावुत्कृष्टः सृष्ट एष प्रखरतरकरो भास्कगेऽसौ द्वितीयः ॥ १० ॥
कर्णाटवसुंधराधिपः
मागाः प्रत्युपकारकातरधिया वैवर्ण्यमाकर्ण्य श्रीकर्णाटवसुंधराधिपसुधासिक्तानि सूक्तानि नः । वर्ण्यन्ते कति नाम नार्णवनदीदावाग्निवन्ध्याटवीसंध्यामारुतनिर्झरप्रभृतयस्तेभ्यः किमात्तं मया ॥ ११ ॥
कलिङ्गेश्वरः
आयुर्दानमहोत्सवस्य विनतक्षोणीभृता मूर्तिमान्विश्वासो नयनोत्सवो मृगदृशा कीर्तेः प्रकाशः परः । आनन्दकेलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैष निकेतनं विजयते वीरः कलिङ्गेश्वरः ॥ १२ ॥
धम्मिंल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः । एकोऽपि त्रिकलिङ्गभूभितिलक त्वत्कीर्तिराशियौ नानाखण्डनता पुरंदरपुरीवामभ्रुवा विग्रहे ॥१३॥
कल्याणदासः
कीर्तिस्वर्गत रंगिणी हिमगिरिर्विद्यानटीरङ्गमूर्लावण्यामृतभाजनं रसिकतावलीरसालद्रुमः । कान्तापाङ्गमृगस्थली तरुणतालक्ष्मीविलासाम्बुजं जीयाद्विश्वविभूषण नरपतिः कल्याणदासामिधः ॥ १४ ॥
काबिलेन्द्रः
विस्फार्य व्योमगङ्गाबलदुरुुलहरीकैतवात्केसरालीरुच्चैर्मस्तिष्कदेशे हिमकरकपटान्मण्डलीकृत्य पुच्छम् । दिङ्गारस्थलम्भस्तव विशदयशःकेसरी काबिलेन्द्र ब्रह्माण्डारण्यवीथीगिरिगहनदरीसम्ध्रमी बंभ्रमीति ॥ १५ ॥
वैलामुल्लङ्घ्य हेलादलितधरणभृद्वाहिनीकोटिपूरैरुद्वेल्लत्काबिलेन्द्रप्रबलजलनिधिः प्लावनायोज्जजृम्भे । सान्नम्रा मेदिनीयं प्रबलभुजबलप्रौढतच्चन्द्रहासज्वालाभिः सततं चेन्न दहति वडवावीतिहोत्रोवघेता (?) ॥ १६ ॥
कार्तवीर्यः
काष्ठानुषङ्गात्परिवर्धमाने जाग्रत्प्रतापज्वलने त्वदीये । श्रीकार्तवीर्य प्रसंभ पतन्ति प्रत्यर्थिपृथ्वीपतयः पतङ्गा ॥१७॥
कुसुमेन्द्रसाहिः
वीर श्रीकुसुमेन्द्रसाहिनृपतेः प्रौढप्रतापो वरः कन्या कांचन मालवक्षितिपतेः साम्राज्यलक्ष्मीरियम् । तस्या वेषकरग्रहस्य समये तत्कुम्भसस्थापनं कर्तु मण्डपबन्धनं विरचितुं विप्रा वयं प्रेषिताः ॥ १८ ॥
कृष्णः
श्रीकृष्ण त्वत्प्रतापेन प्रतप्ताङ्गीर्दिगङ्गनाः । दिग्गजा वीजयन्त्येव कर्णतालैः पुनःपुनः ॥ १९ ॥
मन्येऽरण्ये कुलगिरिगुहागहरे पर्यटन्ती विद्धा दर्भैः किमपि चरणे वासुदेवस्य कीर्तिः । इन्दौ कुन्दे कुमुदसुकुले चामरे चन्दने वा दत्त्वा दत्त्वा मृदुनि पुरतः पादमेषा प्रयाति ॥ २० ॥
क्षीरक्षालितपाञ्चजन्यकिरणश्रीगर्वसर्वंकषाः श्रीकृष्णार्जुनमारथेडसुररिपो त्वत्कीर्तिविस्फूर्तयः । कैलासन्ति हिमाचलन्ति विकसत्कुन्दन्ति कन्दन्ति च क्षीरोदन्ति हलायुधन्ति विबुधाहारन्ति हीरन्ति च ॥ २१ ॥
त्वद्वाहूद्भूतधूल्यः करिकरनिकरैः सीकराश्च प्रयुक्ता व्योम व्याप्य समन्ताद्यदुमुकुटमणे तत्र पङ्कोऽद्रुतोऽभूत् । आगच्छद्भिः सुरैः क्ष्मा तव भजनकृते स्फाटिकीभिः शिलाभिर्बद्धः पन्थास्तदानी सुरसरिदिति तं मानवा मानयन्ति ॥ २२ ॥
गूर्जराधीशः
कालिन्दि ब्रूहि कुम्भोद्भवं जलविरहं नाम गुह्यामि कस्माच्छ्रोत्रेर्मं नर्मदाऽहं त्वमपि कथमहो मत् सपत्न्याश्च नाम । मालिन्यं ब्रूहि किं ते प्रविरलविगलत्कज्जलैर्मांलवीना नेत्राम्भोभिः किमासा समजने कुपितो गुर्जराणामधीशः ॥२३॥
चोलेन्द्रः
त्वत्खङ्गखण्डितसपैनविलासिनीना भूषाभवन्त्यभिनवा भुवनैकवीर । नेत्रेषु कङ्कणमथोरुषु पत्रवली चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥ २४ ॥
सिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकैस्तत्रासोल्लासलीला. किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायाल्पन्त्यः पिकनिनदधिया ताडिताः काकलोकैरित्थं चोलेन्द्रसिंह त्वदरिमृगदृशा नाप्यरण्य शंरण्यम् ॥ २५ ॥
जगद्देवः
चक्र. पप्रच्छ पान्थं कथय मम सखे नास्ति स क्वापि देशो वस्तु नो यत्र रात्रिर्भवति भुवि खगायैति स प्रत्युवाच । नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाम्ना सूर्येऽनन्तर्हितेऽस्मिन्कतिपयदिवासैर्वासराद्वैतसृष्टिः ॥ २६ ॥
जनकः
ज्याघातः कार्मुकस्य श्रयति करतलं कण्ठमोकारनादस्तेजो भाति प्रतापाभिधमवनितले ज्योतिरात्मीयमन्तः । राज्यं सिंहासनश्रीः शममपि परमं वक्ति पद्मासनश्रीर्यैषां ते यूयमेते निमिकुलकुमुदानन्दचन्द्रा नरेन्द्राः ॥ २७ ॥
पादटिप्पण्यः (Footnotes)
१ भूतकार.
२ स्नानम्
३ केशचूडे
४ बलात्कारेण
१ नर्मदायाः समुद्रस्य च संवादोऽयम्
२ यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्ते कोपात्साकूतमिदं नर्मदाया उत्तरम्-'हे कुम्भोद्भव अगस्त्यमुने' ब्रूहि इति
३ शत्रु
४ जलऋणम्, पक्षे,-वलयम्
५ पत्रयुक्ता, पक्षे,-पत्रिकारचना
६ तिलयुक्त क जलम्; पक्षे,-ललाटभूषणम्.
७ आश्रयस्थानम्
विशिष्टराजप्रशंसा ११५
दलपतिरायः
चन्द्रं चन्द्रार्धचूडं चतुरुदधिचयं चन्द्रिका चन्द्रकान्तं
चार्वङ्गीलोचनान्तं चमरसहचरीबालमारोच्य च खर्वीकुर्वन्ति
दुर्वीकरतिलकम्पि ध्वस्तगुर्वीतिभीति खर्वीध्रिप्रस्थितास्ते
दलपतिगृहिणी त्वद्यशस्तोमसोमाः ॥ २८ ॥
दशरथः
चिरादक्ष्णोर्जाड्यं शमयति समस्तासुरवधूकचाकृष्टिक्रीडा-
प्रसभसुभगंभावुकभुजः । त्रिलोकीजङ्गालोज्ज्वलसहजतेजा-
मनुकुलप्रसूतिः सुत्राणो विजयसहकृत्वा दशरथः ॥ २९ ॥
यस्योद्यद्बुजदण्डचण्डिमवलत्कोदण्डलीलायितैर्निष्पीते दनु-
जेन्द्रचन्द्रवदनाद्रूवल्लीविभ्रमे । लक्ष्मीमसृविपाटलक्षतमयी-
मालम्बते केवलं पौलोमीकरजाङ्कुरव्यतिकरादाखण्डलीय
वपुः ॥ ३० ॥
दिल्लीन्द्रचूडामणिः
राजेति क्षणदाकर विजयते दानोरुलक्ष्मीरिति स्वर्नाग
बहुवाहिनीपतिरिति क्षीरोदमास्कन्दति । दुर्गाधीश इति
स्फुटं पुररिपु विद्विष्टि मोगोद्ग्रटश्रीरियर्हति वासुकि स्वयशसा
दिल्लीन्द्रचूडामणिः ॥ ३१ ॥
नाना
जयश्रियः कृपाणीय वेणी नानानृपभूपतेः । अस्या
करगृहीतायामसावभिमुखी तव ॥ ३२ ॥
निजामशाहः
नृपतिनिजाम तवाङ्गुतचरणार्पणबहलपीडामिः । रचयति
बहिरिद रसनामरुणध्वजकैतवादवनिः ॥ ३३ ॥ धरणिधर
निजामशाह युष्मत्करकरवालकरालकालसर्पैः । द्विषदसुपवनं
निपीय पीनो दिशि दिशि मुखति कशूकं यशस्ते ॥ ३४ ॥
अटकटकटघोटकप्रकटचापटङ्कारवच्चटच्चटदिति स्फुटं स्फुटति
मेदिनी कर्परम् । निजामधरणीपतौ वलति कौतुकाडम्बरा-
दिदं भुवनमण्डल दरदरीदरीदर्यहो ॥ ३५ ॥ क्षोणीकाम
निजामशाह भवतः प्रौढैः प्रतापानलैर्दागेव द्रवरूपतामुपगते
क्षौमीकराणां चये । अश्यद्भासवधामधोरणि मुहुर्मज्जद्ग्रह-
ग्रासुनि त्रस्यत्कामिनि नि.पतद्दनितलं मेरोः समुन्मीलति
॥ ३६ ॥ क्षोणीकाम निजाम तावकभुजं लब्ध्वा भुजगीश्वर
जानीमः करवालकालभुजगी किं नाम गर्भिण्यभूत् । मत्तेभेन्द्र-
विभिन्नकुम्भविदलन्मुक्ताकलापच्छलादच्छामण्डपरम्परामधि-
रणं सूते स्फुरन्ती मुहुः ॥ ३७ ॥ वाहव्यूहखुरक्षता वसुमती
सवीक्ष्य मूर्च्छावती मेरीझाङ्कृतिचञ्चलेन पयसा वारानिधिः
सिञ्चति । दिग्वाला तनुते निजामनृपतेर्वातं पताकांशुकैर्धूली-
धोरणिरश्विनीसुतमिव प्रष्ठु दिवं धावति ॥ ३८ ॥ विद्धद्रोष्ठी-
गरिष्ठ प्रतिभटदयन श्रीनिजामः प्रतीम कृत्वा त्वत्कीर्तिगाथा
वहति गणविधि पद्मयोनि कठिन्या । वकालेन्वा गुरूणाम्-
मृतकरकला कश्चमल्ली मरालाः शुद्धा लेखा लघूना विसभुजग-
नभोनिन्र्गगादन्तिदन्ताः ॥ ३९ ॥ अङ्गा स्रजातभङ्गाद्यनब-
नवसतिप्राप्तरङ्गाः कलिङ्गास्तैलङ्गाः स्वर्गगङ्गाभिषवणमतयः
शीर्यदङ्गाश्च वङ्गाः । लटाः स्विद्यल्ललाटाः पदगमनहढा
श्वासलोलाश्र चोला जायन्ते श्रीनिजाम प्रचुरण भवतः
प्रौढनि सापनादात् ॥ ४० ॥
नृसिंहः
आहवे जगदुद्दण्डराजमण्डलगहवे । श्रीमृसिंह महीपाल
स्वस्त्यम्तु तव बाहवे ॥ ४१ ॥ त्वयि लोचनगोचर गते
सफल जन्म नृसिंहभूपते । अजनिष्ट ममेति सादर युधि
विज्ञापयति द्विषा गणः ॥ ४२ ॥ कौमुदीव तुहिनांशुमण्डल
जाह्रवीव शँशिखण्डमण्डनम् । पश्य कीर्तिरनुरूपमाश्रिता
त्वा विभाति नरसिंहभूपते ॥ ४३ ॥ गैण्डामोगे विहरति
मदे पिच्छिैले दिग्गजाना वैरिस्त्रीणा नयनकमलेष्वञ्जनानि
प्रैमार्ष्टि । यद्यप्येषा हिमकरकराद्वैतसौबैस्तिकी ते कीर्तिर्दिक्षु
स्फुरति तदपि श्रीमृसिंहक्षितीन्द्र ॥ ४४ ॥ विचार्यं
सरसकविता यानग्ब्ल तुरगो वाञ्छाग्ब परमपदवी भोगरत्नं
मृगाक्षी । स्रोतोम्न विबुधतटिनी मासग्बं वसन्तो भूभूद्गल
कनकशिखरी भूपरत्नं नृसिंहः ॥ ४५ ॥ निशारत्नं चन्द्रः शयन-
तलरत्नं शशिमुखी मभारत्नं विद्वान् श्रवणपुटरत्नं हरिकथा ।
कलारत्नं गानं दिविगमनरत्नं दिनकरो महीरत्नं मन्ये सपदि
नरसिंह क्षितिपतिः ॥ ४६ ॥ श्रीलक्ष्मीनरसिंहसान्द्रजलदे
चञ्चन्नखालीतडिद्भाञ्चि च्छन्नरिपुप्रतापतपने कोपावलि वर्षति ।
पूर्णा शोणितवाहिनी सुरमनःसतापदावानलः शान्तोऽभूद्विर-
राम वैपिनितासीमन्तमागौदयः ॥ ४७ ॥ निर्यच्छोणित-
पूरताम्रवपुषः स्वैर रुदन्तो मुहुर्देव श्रीनरसिंह ते रिपुजना
दिग्गससो निख्नपाः । उद्गच्छञ्जठरान्त्रनालसहितास्ते नून-
मासन्नपुनर्जन्मानो रणभूमिमातुरुदरात्तत्कालमेव च्युताः ॥४८॥
देव त्वच्चरणप्रतापशिखिनो निःशेषमेधीयते शत्रूणा पटलं
तदीयमयशो जानामि धूमायते । मार्तण्डाशुलसन्नखावलिरसौ
ज्वालाकलापायते दुःखाना निकरस्तथा- सुमनसा सङ्घः
पतङ्गायते ॥ ४९ ॥ कि मध्याहृदिवाकरोऽयमपरः किं वाय-
मौर्वानलः कि वासौ चपलाचयः पशुपतेः कि भालनेत्रानलः ।
कि वाऽसौ प्रलयनलः किमथवा सर्वोऽपि भौमानलः श्रीमत्सिंह
भवत्प्रतापमहिमा नोदेति केषा मतिः ॥ ५० ॥ काठिन्यं
कुचकुम्भयोर्नयनयोश्चाञ्चल्यमेतद्वयं भो ब्रह्मन्भवता कथ न
पदयोरक्षाकमासादितम् । इत्थ श्रीनरसिंह ते त्रिभुवनाधीशस्य
घाटीभिया कान्तारेषु मिथः पलायनपरा जल्पन्ति वैरित्रियः
॥५१॥ एताः सम्प्रति गर्भगौरवभराद्राज्ञोऽवरोधाङ्गनाः कान्ता-
रेषु पलायितु बत कथं पद्मा भवेयुः क्षमाः । इत्थ चेतसि
१ दलपतिराय कश्चिन्नृपस्तस्यपत्नीसंबोधनम् २ इन्द्रस्य ३ सुवर्णम्
१ चन्द्रकलाभूषणम्, हरमित्यर्थे २ गण्डप्रदेशे ३ पङ्किले ४ प्रोञ्छति ५ स्वस्तीत्याहेत्यर्थे, अतिशूत्रेत्यर्थे. ६ इन्धनायते.
| ११६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
संविभाव्य सदय वैकुण्ठकण्ठीरव त्वन्नादावलिभिः सलीभिरिव किं तद्गर्भपातः कृतः ॥ ५२ ॥ स्नातस्त्वद्रिपुरक्तपाथसि यशोधौताम्बर धारयँल्लक्ष्मीश त्वदरातिवक्त्रकमलैर्भूदेवता पूजयन् । मुहुश्चैतदसूनप्रकोप दहने युष्मत्प्रतापोदयः शत्रुच्छत्रधरार्थदर्पणशसा प्राणाहूतीराददे ॥ ५३ ॥ कीर्तिः श्रीनरसिंह ते त्रिपथगा तत्रोदितं कैरव चान्द्रं मण्डलमत्र नीलमिव यत्तद्भृङ्गवृन्दं किमु । यद्वा त्वद्दलिता रिबृन्दतरुणोत्तंसोत्पले स्थलं चन्द्रस्तत्र विभाति नीलमिव यद्भृङ्गैः समन्ता- ॥ ५४ ॥ अन्तर्विष्णोखिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धौ सोऽप्येकदेशे तमपि चुलुकया कुम्भयोनिष्चकार । धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंहक्षितीन्द्र त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीय विभाति ॥ ५५ ॥ नृत्यद्दर्गाट्टहासप्रचयसहचरैस्तावकीनैर्यशोभिर्धावल्यं नीयमाने त्रिजगति परितः श्रीमन्महि क्षितीन्द्र । नैर्घण्येण नाभीकमलपरिमलप्रौढिमासादयिष्यद्देवानाम नाभविष्यत्कथमपि कमलाकामुकस्यावबोधः ॥ ५६ ॥ श्रीमद्वैकुण्ठकण्ठीरव तव निनदाकर्णनत्रासधावच्छक्रेभोद्भिन्नगण्डस्थलविगलदतित्सच्छमुक्तामणीनाम् । माला तारावलीय विलसति च पतद्दानपाथः पयोधिनौ चेत्कत्या तु तारावलिरथ लवणः साग रोऽसौ कुतस्त्यः ॥ ५७ ॥ द्विर्भावः पुष्पकेतोर्विबुधविटपिना पौनरुक्त्यं विकल्पश्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्वन्नानन्दं कोविदाना जगति विजयते श्रीमन्सिंहक्षितीन्द्रः ॥ ५८ ॥
परशुरामः
आदर्शाय शशाङ्कमण्डलमिदं हर्म्याय हेमाचलं दीपाय द्युमणि महीमिव कथ नो भिक्षवे दत्तवान् । दित्सापल्लवितप्रमोदसलिलव्याकीर्णनेत्राम्बुजो जानीमो भृगुनन्दनस्तदखिल न प्रायशो दृष्टवान् ॥ ५९ ॥ गोत्राचारविचारपारगतया वृद्धाभिरादिष्टया मात्रा वस्तुषु तेषु तेषु पुरतः प्रस्तारितेषु क्रमात् । अन्नप्राशनवासरे सरभस वक्षोभरोत्सर्पिणा येनार्च धनुरौर्जिताश्च सपदि क्षत्रावतसा दिशः ॥ ६० ॥ तन्वन्ती तिमिरद्युति कृतवती प्रत्यर्थिचक्रव्यथामेषा भार्गव तावकी विजयते निस्त्रिशधारा निशा ॥ युद्धक्रुद्धविपक्षपक्षविदलगुम्भीन्द्रकुम्भस्थल- अश्यन्मौक्तिककैतवेन परितस्तारावलीं वर्षति ॥ ६१ ॥
पाण्ड्यः
तवाङ्गणे सुन्दर वीर पाण्ड्य मतंगजाः शृङ्खलिनो विभान्ति । आवासदानादरिभूपतीनामाशान्तशैला इव सापराधः ॥ ६२ ॥ विन्ध्याद्रिः करसाधनी निरुपमो रत्नाकरः कोशभृत्सौगन्धी मलयाचलः परिचराः सर्वेऽपि विद्याधराः । विश्वाशापरिपूरणं वितरणं देशोऽप्यहो दक्षिणः पाण्ड्याखण्डल वीर पाण्ड्य भवतः किं किं न लोकोत्तरम् ॥ ६३ ॥ एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं सङ्ग्रामाङ्गणसीम्नि जङ्गमगिरिस्तोमभ्रमाधायिभिः । पृथ्वीन्द्र पृथुरे तदुयसमरप्रेक्षेपैनग्रामश्रेणीमध्यचरः पुरः क्षितिधरक्षेपाय धत्ते धियम् ॥ ६४ ॥
पारसीकक्षितीशः
यद्यपि कटकात्रयारोधि पायोधिना ते दिशि दिशि मम ... पारसीकक्षितीश । तदपि कुरु सुधा नो जीविदान्तं नितान्तं कथयति बहुभार्य नैकनारीवियोग ॥ ६५ ॥
पृथ्वीराजः
मन्दश्चन्द्रकिरीटपूजनरसे तृष्णा न कृष्णाचंने स्तम्भः शंभुनितम्बिनीप्रणतिषु व्यग्रो न धातुगृहे । अस्माकं परमर्द्नोऽस्ति वदने न्यस्तेन संरक्षितः पृथ्वीराजनरेश्वरादिति तृणं तत्पत्तने पूज्यते ॥ ६६ ॥
बङ्गालिदासः
बङ्गालिदास भवतः शुभनामवर्णाः पञ्चेषुपञ्चविशिखन्ति नितम्बिनीषु । प्राणन्ति बन्धुषु विरोधुषु पाण्डवन्ति देवद्रुमन्ति कविपण्डितमण्डलीषु ॥ ६७ ॥
बल्लालः
बल्लाल क्षोणिपाल त्वदहितनगरे संचरन्ती किराती कीर्णान्यालोक्य रत्नान्युरतरखदिराङ्गारशङ्काकुलाङ्गी । मुक्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदानुयातैर्मधुकरनिकरैर्धूमशङ्का बिभर्ति ॥ ६८ ॥
बाङ्गालक्षोणिपालः
आग्नेयास्त्रप्रवीणप्रबलमृगमटाः शत्रुसंक्षोभदक्षा यस्य प्रौढप्रतापानलबहलशिखाखिन्नतन्वं प्रयान्ति । सोऽय प्राचीपयोधिप्रहितकरततीतूर्णसम्पूर्णकोपो बाङ्गालक्षोणिपालस्त्रिभुवनजनतागीतकीर्तिप्ररोहः ॥ ६९ ॥
बीसलः
आ विन्ध्यादा हिमाद्रोर्विरचितविजयस्तीर्थयात्राप्रसङ्गादुद्ग्रीवेषु प्रहर्तृनृपतिषु विनमत्कन्धरेषु प्रपन्नः । आर्यावर्ते यथार्थ पुनरपि कृतवानम्लेच्छविच्छेदनाभिर्देवः शाकंभरीन्द्रो जगति विजयते बीसलः क्षोणिपालः ॥ ७० ॥
भावसिंहः
यस्याग्निः कोपपुञ्जे वसति खुरपुटे वाजिना गन्धवाहो लक्ष्मीः संस्नेहदत्तौ कमठकुलमणेर्वाचि वाचामधीशा । रौक्षे कौशेयैकाग्रे क्षपितरिपुगणे कोपनोऽसौ कृतान्तः कस्तं श्रीभावसिंहं प्रबलमखभुजाम्पाश्रयं नाश्रयेत ॥ ७१ ॥
भीमः
रुधिरविसरप्रसाधितकरालकरवालरुचिरभुजपरिघः । झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभाति नृपभीमः ॥ ७२ ॥
१ विष्णोरुदरे २ शेषे ३ ज्योतिरिङ्गणं ४ विस्तारस्य ५ सदृशै ६ कीर्तिवच्छुक्ल इत्यर्थ
१ उपगतानाम्. २ महती ३ खड्गाग्रे
विशिष्टराजप्रशंसा | ११७
| भैरवः<br><br>धनानि विद्वत्कविमण्डलीषु पञ्चेषुबाणानपि कामिनीषु ।<br>वर्षन्ति वज्राण्यरिधोरणीषु श्रीभैरवक्षोणिमणेः कटाक्षा ॥ ७३ ॥<br><br>भोजः<br><br>त्वच्चित्ते भोज निर्व्याज द्वय तृणकणायते । क्रोधे विरोधिना सैन्य प्रसादे कनकोच्चयः ॥ ७४ ॥ भोज त्वद्दानपाथोधौ दरिद्रस निमज्जतः । न कोऽपि हि भुजालम्बं दत्ते मेऽभयदायकम् ॥ ७५ ॥ निजानपि गजान्भोजं ददानं प्रेक्ष्य पार्वती । गजेन्द्रवदन पुत्रं रक्षत्यथ पुनःपुनः ॥ ७६ ॥ प्रतापभीत्या भोजस्य तपनो मित्रतामगात् । और्वो वाडवता धत्ते तदिक्षणिकता श्रिता ॥ ७७ ॥ भोज त्वत्कीर्तिकान्ताया नभोभालस्थित महत् । कस्तूरीतिलकं राजन्यगुणागार विराजते ॥ ७८ ॥ अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् । शत्रूणा शृङ्खलैर्लोह ताम्रं शासनपत्रकैः ॥ ७९ ॥ धारेश त्वत्प्रतापेन पराभूतस्त्विषांर्पतिः । सुवर्णपात्रव्याजेन देव त्वामेव सेवते ॥ ८० ॥ स्वद्यशोजलधौ भोज निमज्जनभयादिव । सूर्यन्दुबिम्बमिषतो धत्ते कुम्भद्वयं नमः ॥ ८१ ॥ शुक्तिद्वयपुटे भोज यशोब्धौ तव रोदसी । मन्ये तदुद्भवं मुक्ताफल शीतांशुमण्डलम् ॥ ८२ ॥ अद्य धारा सदाधारा सदालम्बा सरस्वती । पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते ॥ ८३ ॥ श्रीभोज साम्यं तव कल्पवृक्षः सदा वदान्योऽपि कथं प्रयाति । यतो भवद्दानसुपुष्टविप्रहृष्येन कुक्षिभरिरस्य भर्ता ॥ ८४ ॥ भोजप्रतापं तु विधाय धात्रा शेषैर्नरस्तैः परमाणुभिः किम् । हरेः करेऽभूत्पविरम्बरे च भानुः पयोधेरूदरे कृशानुः ॥ ८५ ॥ भोजप्रतापाभिरपूर्वे एष जागर्ति भूभृत्कटकस्थलीषु । यस्मिन्प्रविष्टे रिपुपार्थिवाना तृणानि रोहन्ति गृहाङ्गणेपु ॥ ८६ ॥ यथा यथा भोजयशो विवर्धते सिता त्रिलोकीमिव कर्तुमुद्यतम् । तथा तथा मे हृदयं विदूयते प्रियालकालीधवलत्वशङ्कया ॥ ८७ ॥ पन्थाः सहर दीर्घता त्यज निज तेजः कठोर रखे श्रीमन्विन्ध्यगिरे प्रसीद सदयं सद्यः समीपे भव । इत्थं दूरपलायनश्रमवतीं दृष्ट्वा निजप्रेयसीं श्रीमद्भोज तव द्विषः प्रतिदिनं जल्पन्ति मूर्च्छन्ति च ॥ ८८ ॥ धाराधीश धरामहेन्द्रगणना कौतूहली यामयं वेधास्त्वद्गुणने चकार खटिकाखण्डेन रेखा दिवि । सैवेयं त्रिदशापगा समभवत्त्वत्तुल्यभूमीधराभावात्तु त्यजति स्म सोऽयमवनीपृष्ठे तुषाराचलः ॥ ८९ ॥ राजन्मुञ्जकुल | प्रदीप सकलक्ष्मापालचूडामणे युक्तं संचरणं तवाद्भुतमणिच्छत्रेण रात्रावपि । मा भूत्त्वद्वदनावलोकनवशात्क्रीडामिन्नश्न शशी मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम् ॥ ९० ॥ छत्रं सैन्यरजोधरेण भवतः श्रीभोजदेव क्षमारक्षादक्षिण दक्षिणक्षितिपतेः प्रेक्ष्यान्तरीक्षं क्षणात् । निःशङ्को निरपत्रपो निरनुगो निर्बान्धवो निःसुहृन्निःस्त्रीको निरपत्यको निरनुजो निर्हाटको निर्गतः ॥ ९१ ॥ मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः प्रासाः प्राङ्गणसीम्नि मन्थरचलद्धालाङ्घ्रिलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्दिग्द्ध्रवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥ ९२ ॥ विद्वद्वृन्दगुणानुरूपविभवत्यागैककल्पद्रुमे स्वर्गे वासिनि भोजराजनृपतौ विद्यानवद्यात्मनि । दातारो भुवि नैव भूमिवलये मा सन्तु किं तावता ज्ञातारोऽपि न सन्ति हन्त नितरामेतावता दूयते ॥ ९३ ॥ स्पृष्टाकृष्टासिपिष्टोत्कटकरटिघटाकुम्भकूटावदान्तर्निर्य्यूतासृक्तटिन्यास्तटनिकटरटत्कोकपादाट्टहासः । भोजेन्द्र त्वद्रणक्ष्माक्षतभटविकटोरस्थलत्रोटकुड्यद्रवौघत्रोटिकोटिप्रकटचटचटाशब्दरौद्रोऽभवद्राक् ॥ ९४ ॥ मो मोः श्रीमोजदेवं श्रयत विनयनः शत्रवः क्षत्रवर्गाः प्राणत्राणाय नौका न भवति भवता काप्यरम्य शरण्यम् । मत्वा मातङ्गकुम्भद्वितयमिति पुरा कूरवृत्तिर्भिनत्ति कुद्धः शुद्धान्तकान्ताकुचकलशयुगं रंहसा सिंहशावः ॥ ९५ ॥ नीरक्षीरे गृहीत्वा सकलखगपतीन् याति नौलेकजन्मा चक्रं धृत्वा कराब्जे सकलजलनिधींश्चक्रपाणिर्मुकुन्दः । सर्वानुद्धृत्य शैलान्नदहति पशुपतिर्भालनेत्रेण पश्यन्व्याप्ता त्वत्कीर्तिकान्ता सकलवसुमती भोजराज क्षितीन्द्र ॥ ९६ ॥ स्वर्गाद्रोपाल कुत्र व्रजसि सुरमुने भूतले कामधेनोर्वत्सस्यानेतुकामस्तृणचयमधुना मुग्ध दुग्धं न तस्याः । श्रुत्वा श्रीमोजराजप्रचुरवितरणं व्रीडशुष्कस्तनी सा व्यर्थो हि स्यात्प्रयासस्तदपि तदरिमिश्चिंतं सर्वमुर्व्याम् ॥ ९७ ॥ कूर्मः पाताल गङ्गापयसि विहरता तत्तटीरूढमुस्तामादत्तामादिपोत्री शिथिलयतु फणामण्डलं कुण्डलीन्द्रः । दिङ्मातङ्गा मृणालीकवलनकलना कुर्वता पर्वतेन्द्राः सर्वे स्वैर चरन्तु त्वयि वहति विभो भोज देवीं धरित्रीम् ॥ ९८ ॥<br><br>मणिपालः<br><br>प्रामाण्यं परतो न शक्तिगणना सादृश्यलोपः सदा कार्य चेश्वरकर्तृ नन्वनुमितौ ज्ञानं विशिष्टात्मकम् । सर्वे न्यायनयानुसारि विबुधे चैतन्यनाशोपमान्पश्येतन्मणिपाल भूप भवतो नैयायिकत्व कुतः ॥ ९९ ॥ |
पाद-टिप्पण्यः (Footnotes)
| वाम-स्तम्भ-टिप्पण्यः | दक्षिण-स्तम्भ-टिप्पण्यः |
|---|---|
| १ सूर्यं<br>२ गण्डस्थलद्वितयम्<br>३ द्यावापृथिव्यौ<br>४ इन्द्र<br>५ कुतूहलविशिष्टः<br>६ 'खडू' इति प्रसिद्धेन कठिनशकलकेन. | १ सुरतक्रीडाया विच्छिन्नसूत्राद्वाराद्गलिता<br>२ अपसारिताः.<br>३ जवेन.<br>४ ब्रह्मा |
| ११८ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
| मल्लशाहः<br>मृगः प्रमीललोचन. पिक. कृतोक्तिमोचनः श्रितानति कृताततिर्मरालिकास्खलद्गति. । निरीक्ष्यते लसन्मते सुमल्लशाहभूपते तवारिकामिनी वृथाद्भुत हुताटवी यथा ॥ १०० ॥ पलायिता तवारिवामलोचना यदा यदा पुलिन्दनायकै. सुलिसकालकूटसायकै । विहाय नासिकासु मौक्तिकं सज च मौक्तिकी विलुण्ठिता. पुनर्भपञ्चमेह मल्लहूपते ॥ १०१ ॥ आदायादाय मुक्तास्तदनु शिखिधियादाय माणिक्यवर्गं धूम्रभ्रान्ति वहन्त्य खवदनकमल मोदलुब्धालिवृन्दे । पक्तु भिलद्य. प्रवृत्ता. सरभसमसकृत्तद्विषत्पत्तनेषु ब्रूमः कि कीर्तिपूर धवलितवसुधं मल्लशाहस्य तस्य ॥ १०२ ॥<br><br>माणिकः<br>यश.शशाङ्काभ्युदये प्रवृद्धो द्विषद्धधूनेत्रजलाम्बुराशि । नष्ट हि दारिद्यतमो बुधाना तव क्षितौ माणिक भूमिपाल ॥ १०३ ॥ सदर्महारैर्भवता प्रदत्तैर्मदङ्गना कण्ठतटायहारै । श्रीमाणिकक्षोणिपते प्रतुष्टा यथा यशो गायति तद्विधेहि ॥ १०४ ॥ सजाते द्रवरूपता हि रजताद्रौ स्वर्णशैले द्रुतं भूमीपालललाम माणिकविभो प्रौढैः प्रतापानलैः । योगेऽभूदनयो. सुपाण्डुररुचि. सातेऽरिकान्ताजनेर्नीता स्वीयकपोलयोश्च विरहव्याजेन गोपायते ॥ १०५ ॥ भोगासक्तैकचेता भयवशसुखकृद्वीतिहा स्वाश्रिताना भोगान्भव्याय यच्छञ्जगति भवनत साधु भण्डारतिश्च । भूपाना ग्लानिकर्ता भटनगजभयध्वसदेहो हि मल्लाकीर्णः श्रीमाणिकेन्द्रस्त्वमिव तव रिपुस्तत्र दम्भ प्रतीम. ॥ १०६ ॥ सङ्ग्रामक्षोणिदृप्यद्वपलरिरुपुचमूसिन्धुकीलालमाला पीत्वा काल`कृपाणोऽम्बुद उपसमर गजेते वीरघोषैः । वर्षत्युद्दामगौर दिशि दिशि तव भोः कीर्तिवारीभकुम्भप्रोद्यन्मुक्ताहिमाश्मच्छुरितमरिततेर्माणिकक्षोणिपाल ॥ १०७ ॥<br><br>माधवः<br>सत्यासक्तमना गुणाकरलताकीर्णो न दीनाश्रयोऽरिष्टध्वंसपराजद्यश्च सुमनोवृन्दैरलं वन्दितः । नानास्थानकलाप्रधानमहिमा नित्यं सदानन्दक. श्रीमान्माधव एव माधवसमः क्षोणीतले राजते ॥ १०८ ॥<br><br>मानसिंहः<br>काञ्ची काञ्ची न धत्ते कलयति न दृशा केलितल्पं कलिङ्गी सिन्दूर दूर एव क्षिपति करतलन्यस्तमान्त्री पुरंध्री । सौराष्ट्री मार्ष्टि भूयः सपदि नयनयो रक्तता रक्तिमान कार्णाटी कर्णिकाया मलिनयति मनो मानसिंहप्रयाणे ॥ १०९ ॥<br><br>मालवाखण्डलः<br>पर्यङ्को राजलक्ष्मा हरितमणिमयः पौरुषाम्धेस्तरङ्गः सङ्गामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाह. । भग्नप्रत्य- | र्थिवंशोल्बणविजयकरिखानदानाम्वुपङ्क. खड्गः क्ष्मासौविदलः समिति विजयते मालवाखण्डलस्य ॥ ११० ॥<br><br>मुकुन्ददेवः<br>करवारिरुहेण सधुनाने तरवारि नृपतौ सुकुन्ददेवे । वरयन्त्यमरावतीतरुण्य. प्रथमं काञ्चनगारिजातमाला. ॥ १११ ॥<br><br>मुञ्जः<br>लक्ष्मीर्यास्यति गोविन्दे वीरश्रीर्वीरमेष्यति । गते मुञ्जे यश पुञ्जे निरालम्बा सरस्वती ॥ ११२ ॥<br><br>मुद्दाफरशाहः<br>आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वीं भव प्रत्यक्षीकृतमादिराजयशसा युष्माभिरुज्जृम्भितम् । श्रीमुद्दाफरशाहपार्थिवयशोराशे. समुज्जृम्भणाद्वीजोच्छ्वासविदीर्णदाडिमदशा ब्रह्माण्डमारोह्यति ॥ ११३ ॥<br><br>राजबहादुरः<br>नित्यं वृद्धिमुपैषि सकलयसे सर्वाः कलाः सर्वदा सानन्दं कुमुदाकरं वितनुषे नास्ते कलङ्कस्तव । सर्वाशाः परिपूरयन्समुदयं धत्सेऽनिशं सर्वतो न श्रीगजबहादुरेन्द्र नृपते चन्द्राधिकस्त्व कथम् ॥ ११४ ॥<br><br>राजेन्द्रसिंहः<br>मूर्ध्ना कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या वचसि न च पटुश्चित्रपात्रानुभावी । क्रोषापेक्षी परस्मादुचितबहुकथः सर्वदा पूर्णलोक इत्थं राजेन्द्रसिंह त्वमिव तव रिपुस्तत्र कर्म प्रतीमः ॥ ११५ ॥<br><br>रामचन्द्रः<br>एकादशरुद्राणामेका गौरीत्यनौचितीं मत्वा । राघव नृप तव यशसा दशापि गौरीकृता हरितै. ॥ ११६ ॥ त्वद्वैरिमवनलिखितां सीतामाहर्तुमुद्यत्य । कपिकौणपमण्डलयो. शिव शिव भूयो भवन्ति सरम्भा. ॥ ११७ ॥ शरासने सायकमादधाने श्रीरामभद्रक्षितिपाल्मौलौ । सुराङ्गनाना वरलालसाना वामानि नेत्राणि परिस्फुरन्ति ॥ ११८ ॥ गायन्तु किन्नरगणाः सह किन्नरीभिः श्रीरामचन्द्र शिखरेषु हिमाचलस । शेषेन्दुकुन्ददलबाल्मृणालनालनीहारहारहरहाससितं यशस्ते ॥ ११९ ॥ नालीकमङ्गकृदतीव नदीनबन्धुर्नक्षत्रपो नैवसुधाविभवैकहेतुः । राजा किमिन्दुरपि ना॑र्यभिमानहारी राजा परं जयति राघवसार्वभौमः ॥ १२० ॥ नृपतिमुकुटरत्न त्वत्प्रयाणप्रशस्ति प्लवगपदनमज्जूर्निर्मराक्रान्तभोगैं । लिखति दृगनटङ्कैरून्नमद्भिर्नमद्भिर्जरठकमठभर्तुः क॑र्परे सर्पराजः ॥ १२१ ॥ रघुतिलक नृपाल त्वद्विपत्क्षोणि- |
| १ वंशपरपरया वसुमतीप्रदानै | १ दिज. २ अलीकमङ्गकृत्, पक्षे,-कमलविकासकृत् ३ अनाथबन्धु , पक्षे,-नदीन समुद्रस्तद्वन्धु ४ क्षत्रियश्रेष्ठ , पक्षे,-नक्षत्रनायक ५ वसुधैश्वर्यस्य कारणम्, पक्षे,-नवीनाया सुधाया यो विभवस्तस्य मुख्यकारणम् ६ शत्रुमानहारी, पक्षे,-नारीणा मानहारक ७ शरीरम् ८ कपाले ९ शेषराज |
|---|
॥ विशिष्टराजप्रशंसा ॥ १११
पालप्रतिलसदपकीर्तिश्या मले विश्वजाले । भगवति भज- माने कृष्णता शूलपाणौ किमुदधिगिरिपुत्र्यौ चक्रतुस्तन्न विद्मः ॥ १२२ ॥ अघाक्षीन्नो लङ्कामयमसुदुन्वन्तमतर- द्विशल्यं सौमित्रेरयमपनिनायौषधिवनम् । इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥ १२३ ॥ यदि क्षुण्णं पूर्वैरिति जहति रामस्य चरितं गुणैरेतावद्भिज्जगति पुनरन्यो जयति कः । स्वमा- त्मानं तत्तद्गुणरणिगमग्मीरमधुरस्फुरद्वाग्ब्रह्माणः कथमुप- करिष्यन्ति कवयः ॥ १२४ ॥ जगति जगतीमाग- च्छन्त्याः पितामहविष्टपान्महति पथि यो देव्या वाचः श्रमः समजायत । अथ कथमसौ सुस्वेदेन न चेदवगाहते रघु- पतिगुणग्रामश्लाघासुधामयदीर्घिकाम् ॥ १२५ ॥ लज्जा कीर्तिर्जनकतनया शैवकोदण्डभङ्गे तिस्रः कन्या निरुपमतया मेजिरे रामचन्द्रम् । अन्त्या पाणिग्रहणसमये ज्यायसी जातकोपा भूपैः सार्धं खलु गतवती मध्यमाऽथो दिग- न्तान् ॥ १२६ ॥ गेहे गेहे सुभग भवतो रामभद्र क्षितीश त्वामालिख्य खमपि सविधे सस्पृहं भावयन्त्यः । तस्मिन्नाकस्मिकमुपगते वल्लभे भीतिभाजः पौष्वं चाप तव करतले वेपमाना लिखन्ति ॥ १२७ ॥ अहो रघुशिरोमणे- रभिनवप्रतापावलिप्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्रयम् । सुराधिपतिरम्बुदान्कमलमन्दिरा सेवते हिमांशुरपि चन्द्रमाः सततमम्बुधौ मज्जति ॥ १२८ ॥ कीर्तिः श्रीरघुवंशरत्न भवतः स्वर्वाहिनीगाहिनी दिक्पालानखिलानिरीत्य दधती पाण्योः प्रतापानलम् । सप्ताम्भानिधिमण्डलान्यधिगता त्वय्येकपत्नी- व्रतख्यात्यै विष्णुपदं स्पृशत्यनुदिनं शेषस्य शीर्षा- ण्यपि ॥ १२९ ॥ कीर्तो व्यासिववेत्य वैरिवनिताबाष्पो- दधेः साधनाडुत्तुङ्गे पृथिवीसुजा परिवृढे शश्वद्वि- पक्षे स्थितम् । सर्वक्ष्मापतिमौलिमण्डनमणे श्रीरामचन्द्र प्रभो चित्रं पश्य तेव प्रतापदहनं जानन्ति सत्ता- र्किकाः ॥ १३० ॥ श्रीराम त्वदनेकचित्रचरितप्रोद्दामकी- र्तिश्रुतिप्रागल्भ्याद्वैधूतमुर्ध्नि सकलत्रैलोक्यलोकेऽपि यत् । अश्रोत्राः फणिनस्तदेतदुचितं नो चेदहित्वामिना व्याधूते शिरसि क्क भूः क गिरयः कामी दिशामीश्वराः ॥ १३१ ॥ श्रान्त्वा भूवलयं दशास्यदमन त्वत्कीर्तिहंसी दिवं याता ब्रह्माण्डोदरगमवशात्तया तत्र गर्मिण्यभूत् । पश्य स्वर्ग- तरङ्गिणीपरिसरे कैन्दावदातं तया मुक्त भाति विशाल- मण्डकमिदं शीतद्युतेर्मण्डलम् ॥ १३२ ॥ ये मजन्ति निमज्जयन्ति च परास्ते प्रस्तरा दुस्तरे बाधौं वीर तरन्ति वानरभटांस्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधि- गुणा नो वानराणा गुणाः श्रीमद्दाशरथे प्रतापमहिमा सोऽय समुज्जृम्भते ॥ १३३ ॥ कीर्तिः श्रीरघुवंशदीप भवतो दूती मुरारेः प्रियां यत्सान्त्व्यमदात्तदादि गिरिशो- ऽमूर्द्धनारीश्वरः । ब्रह्माऽभूच्चतुराननः सुरपतिश्चक्षुःसहस्रं दधौ स्कन्दो मन्दमतिश्चकार न करस्पर्शं स्त्रियाः शङ्कितः ॥ १३४ ॥ एकं काञ्चनभूधरं सुवलयं वासः सुधैावारिधिं तारं तॉरॅकरालमण्डलमिरं संप्राप्य सत्कुण्डलम् । देरै- स्थापि च तेन तेन सदृशं त्वा भूषणं चापरं स्त्री मँर्न- ग्रहिलेव यैाँचतितरा श्रीराम कीर्तिस्तव ॥ १३५ ॥ संग्रामे दिवैर्सायते तव भुजः पूर्वाचलेन्द्रायते त्वत्कोधो ऽप्यरुणा- यते तव लसच्छौर्यं प्रैकोशायते । त्वद्वैरी तिमिर्रायते तद-
१ स्वसतीत्वव्रतस्थापनार्थ दिव्यकरण युक्तमेव अत्राय भाव -या हि स्त्री दिव्यं कर्तुमिच्छति सा पूर्वं गङ्गा गाहते, अपर देवताः प्रद- क्षिणीकृत्य पाण्योरनलं दधती सप्तमण्डलान्यतिक्रामति, ततो विष्णुपद स्पृशति; तथा सर्प कर्षति, तद्वदिय त्वत्कीर्तिरपि जलाभिरास्पद विष्णू पदसर्पस्पर्शनारूयानि पञ्च दिव्यानि स्वसतीत्वनिर्वाहाय विधत्त इति. २ उत्कटा. ३ कम्पितः. ४ शेषशिरोवधूतन्वे भूमेः पात एव स्यात्तत- स्तेषा गिर्यादिवस्तूना क्वावस्थान भवेत्ततस्तेषा भूम्याश्रितत्वात्तस्याश्च शेषाश्रितत्वादित्यर्थं
१ इस २ तीरे ३ कुन्दवदुज्ज्वलम् ४ लक्ष्मीम् ५ तदाप्रभृति. ६ महेश्वरेणेत्थ तर्कितम्-यदद्यसुमा स्वपार्श्वे न स्थापयिष्यामि तदैवं कीर्तिदूती लक्ष्मीमवापह्नत्य मम कामिनी गौरीमपि रामाय प्रदास्यतीति धिया स्वाङ्ग एव गौरी स्थापिता तत्प्रभृत्यर्धनारीश्वरो हर इति ख्याति. ७ ब्रह्मणा स्वपत्नीरक्षणार्थ चतसृष्वपि दिक्षु मुखानि निर्मितानीति भाव ८ यतो बहूनि चक्षूषि मम चेद्भविष्यन्ति तदा स्वाप्सरसः प्रलोभ्यापहर्तुमागच्छन्ती कीर्तिदूतीमवलोकयिष्यामीति भाव ९ मन्दा विवाहैलसा मतिर्यस्य स १० यतश्चेद्ह कृच्छ्रेण प्राक्स्त्रिय परिणेष्यामि तथापि तदपहरणे मम तस्या वियोग एव भावी, ततः किमनेन परिणयनारम्भेणेति विचारादिति भाव. ११ ममैकः काञ्चनगिरिर्दक्षिणे करे कटकोऽस्ति, वामे तु न किमपीत्येकनेत्राञ्जनवन्नै शोभेते पाणी, अतोऽपर तादृश वलयाख्य भूषणं मह्यं देहीति प्रार्थयते १२ यतो न ह्येक वास उपर्यधश्चाने परिधातु शक्यते १३ उज्ज्वलम् १४ इदमेक तारकाणां राजा चन्द्रस्तस्य मण्डलं सत्कुण्डलमेक- स्मिन्कर्णे संप्राप्य तत्सममपरकुण्डल द्वितीयकर्णार्थं याचति १५ दि- कृपर्यन्त प्राप्तापि १६ स्त्रिया यो मान • खपतिसौभाग्यसुरुपत्वा- दिगर्वस्तेन ग्रहीला ग्रहमृहीता. १७ अन्यापि या मानिनी मानग्रह- गृहीता भवेत्सा विदेशस्थापि पतिं प्रभविष्णु तत्तद्वस्तु याचते यद्भूखण्डलेऽपि नाप्यते तथैय कीर्तिरप्यपर भूषण याचत इत्यर्थं . १८ यथा दिवसे सूर्य प्रभाप्रगल्भतामुपैति तथा त्वत्खड्गभानुरपि संग्रामे स्वस्पष्टता प्रकटयतीत्यर्थं १९ यथा भानुरुदयाचले भासते तथा चासौ त्वद्भूजे-भासत इत्यर्थं २० यथारुणो रक्तवर्णोऽग्रे प्रादु- र्भवति तथा क्रोधोऽपि रक्तमुखनेत्रादिना प्रादुर्भवतीत्यर्थं २१ यथा सूर्योदये सर्वत्र प्रकाशः प्रसरति तथा त्वत्खड्गभानोरुदये तव शौर्य स्पष्टमुदेतीत्यर्थं २२ यथा सूर्योदये तमांसि नाशमायान्ति तथा त्वत्खङ्गभानूदये तव वैरिणो दिगन्तगामिनो भवन्तीत्यर्थं.
१२० सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
बलाहत्सूर्यकान्तायतेत्वत्कीर्तिः कमलायते रघुपते त्वत्खड्ग- चण्डद्युतेः ॥ १३६ ॥ अस्माकं पर मन्दिरस्य चरितं यद्यप्य- वाच्यं भवेत्स्वामी त्वं कथयामि तेन भवतः किंचित्प्रिया- दूषणम् । श्रीमद्राम नृप त्वया रणमुखे पाणिग्रहः सादरं यस्याः सासिलता परस्य हृदये दृप्ता लुठन्ती मया ॥ १३७ ॥ सत्य सा बहुरूपिणी समभवत्सिद्धिस्वरूपा भैत्वत्कीर्तिः श्रीरघुवशरत्न विमला जागतिं विश्वोदरे । क्ष्मापारे रिपुमन्दिरे नृपपुरे रत्नाकरे निर्झरे कान्तारे गिरि- शेखरे विषधरागारे तथैवाम्बरे ॥ १३८ ॥ गर्वावेश- विशालरावणभुजप्रोद्भूतप्रतापानलज्वालाजालिनवाम्बुदः कथम- सौ सीतापतिर्वर्ण्यते । यस्यानारितनृपाः कृपाणजलधौ मग्नाः पुरो गौरवादत्युच्चैर्गतयो भवन्ति च पुनर्भिंत्त्वा रवेर्मण्डलम् ॥ १३९ ॥ भीमं यज्ञलधि जवेन हनुमानुल्लङ्घ्य लङ्का गतो यच्चाशोकमहावन दलितवान्कक्ष च यक्षूर्ण- वान् । सीतोपायनमौलिरत्नसहित. प्राप्तश्च यस्त्वामसौ तत्राप्येष भवत्प्रतापमहिमा निर्यन्त्रणैः कारणम् ॥ १४० ॥ धत्ते नायक राम तावकयशो रैौमे शशाङ्के मरुँद्वाहे स्वर्गे- गजे हरौ फणिपतौ वाण्यां वृषे मे रुचिम । अन्येषु तु तँद्- म्बरे तँद्दिहिते तद्यञ्जने तन्मदे तत्कण्ठे च तदीक्षणे तद्गलके तैत्प्रोथके तैत्पथे ॥ १४१ ॥ श्रीमन्नायक राम- भद्र भवतः पाणौ कृपाणं रणे दृष्ट्वा यद्यद्भूदरिक्षिति- भुजा तत्तत्समाकर्णय । अङ्गे वेपँथुरन्धता नयनयोर्वक्त्रे तृणं भूयसी भीतिश्चेतसि वाचि सस्तुतिकथा हैंस्तद्वयं मस्तके ॥ १४२ ॥ आकृष्टे कवचादहीन्द्ररसनाकल्पे कृपाणे त्वया श्रीमन्नायक रामचन्द्र भवतः प्रत्यर्थिनां वेश्मसु । गाहन्ते सहसा लुलायचैमरीशौर्दूलर्शीखाचरीयक्षोरक्षश्चृगाल- कोलशैलभृद्गल्लूकभिल्लादयः ॥ १४३ ॥ रेफ व्यैञ्जनराज- ता तव तथाकारप्रकर्षः खरेष्वन्त्यस्यापि मकार विस्फु- रति ते वर्गोक्षरेष्वादिता । यैः संभूय निगद्यते रघु- कुलालकारहीराङ्कुरो देवः क्षोणिसुतापयोधरतटीशृङ्गार- हारो हरिः ॥ १४४ ॥ खेदाम्भःकणमण्डनानि खुरैली- खेलोद्भवन्त्यन्वह तद्बाहो रँसयेन्महाबल इति ख्यातिं गतो मरुतः । त चाखाद्य मुहुः सहस्रफणिता- शाली बलीयानैरिर्धत्ते कोमलकोमलैरपि फणैः श्रीराम- चन्द्र स्थिराम् ॥ १४५ ॥ श्रीरामे मृगया गतेऽपि धनुषा बाणे समारोपितेऽप्याकर्णान्तगतेऽथ मुष्टिगलितेऽप्ये- णाश्लेषेऽपि च । न त्रस्त न पलायित न चकितं नोत्क- म्पितं न द्रुतं मृग्या मद्धशंगं करोति दयितं कामोद्यमि- त्याशया ॥ १४६ ॥ गाम्भीर्येण महोदयेन शरणत्राणेन मर्यादया सर्वाशापरिपूरणेन महता स्थैर्येण धैर्येण च । राम त्वामनुकर्तुमिच्छतितरा वारांनिधिः कि त्वसौ पीतो वानरलङ्घितः प्रमथितो बद्धः श्रिया त्याजितः ॥ १४७ ॥ देव श्रीनृप रामचन्द्र भवतो दिग्जैत्रयात्रोत्सवे धावद्धीर- तुरगचञ्चलखुरक्षुण्णक्षमामण्डलात् । वातोद्धूतरजोमिलत्सुर- नदीसजातपङ्कस्थलीदूर्वाचुम्बनचञ्चवो हरिहयास्तेनैव वृद्धं दिनैः ॥ १४८ ॥ साधर्म्येन कथं गृणन्तु यमुनावेणी कृपाणीं च ते श्रीमद्राम चमूचरेण्य भवतो वाग्ब्रह्मसिद्धा- न्तिनः । नाकृष्टा हलिना न कालियवशात्क्रूरा न धारा- जडा न च्छायाजनिता न वर्कैबहुला न प्रोत्तंभङ्गा कचित् ॥ १४९ ॥ आवाल्यं पतिरेष मे जगदिदं जानाति तत्त्वं पुनर्भूमध्ये समुपागता तदपि ते विख्यायते य. पतिः । वृद्धा नास्य गृहे वसामि सुचिर तिष्ठन्स्थिरात्रेति तन्मात्स- र्यादिव राम भूप भवतः कीर्तिर्दिगन्तं गता ॥ १५० ॥ का शृङ्गारकथा कुतूहलकथा गीतादिकाना कथा माद्यद्-
१ यथा भानोरुदये सूर्यकान्तमणिषु महास्ताप- सजायते तथा चैतदुदये सति वैरिकीहृदयेषु महान्पश्चात्तापो भवतीत्यर्थ २ यथा भानोरुदये कमलानि विकस्वराणि भवन्ति तथा त्वत्खड्गभानोरुदये त्वत्कीर्तिर्विकासमुपैतीत्यर्थ ३ तिग्मांशुत्वात्खड्गस्य सर्वथा सूर्योपमत्वमस्तीति शेष. ४ परस्त्रियाः. ५ यतो भक्ता. स्वस्वामिन कथमपि हानिं सोढुमक्षमाः. स्त्रीदुर्लक्षणं तु परमपमानकारणमतो ब्रवीमीत्यर्थः. ६ यथा काचित्पाणिगृहीती परपुरुषस्य हृदये विलासं कुर्यात्तदा तस्या असतीत्वलक्षणेन पुरुषस्य महद्दूषणं लग्नं भवेत् ७ नानारूपत्वेन विश्वव्यापिन्यभूदिति भाव. ८ अणिमाद्यष्टसिद्धिमती ९ यथा योगिनी सिद्धागिरिदर्यादिषु स्वकामचारिणी भवेत्तथा त्वत्कीर्तिरपीति भाव. १० देदीप्यमाना. ११ समूहः. १२ अन्योऽप्यनलोऽम्बुदेन शाम्यति यथा तथा तत्प्रतापाग्निरपि रामेण शमित इति भाव १३ स्वर्गयायिनो भवन्ति अन्यो हि यो जलधौ निमग्नो भवति स च नीचैर्गतिरेव भवतीति प्रसिद्धम् १४ मारितवान् १५ अस्खलित . १६ बलभद्रे. १७ उच्चैःश्रवसि. १८ ऐरावते १९ नक्षत्रे २० रामवस्त्रे तद्वस्त्रस्य नीलत्वादिति भाव २१ चन्द्रशत्रौ. राहावित्यर्थ २२ वृषनासिकार्याम् २३ नक्षत्रपथे. आकाश इत्यर्थ २४ कंप २५ येषा मुखे तृण दृश्यते ते शूरा अपि गोवद्वध्या इति भाव , २६ शिरसि करद्वय स्वप्रणानार्थ कृतवन्त इत्यर्थः.
१ सदृशे २ तन्मन्दिराणा शून्यत्वेन वनचरतिरश्चा तत्र प्रवेशस्यानिवार्यत्वादिति भाव.. ३ बनगाव . ४ व्याघ्रा ५ वानर्य . ६ शूकरा ७ शल्यका . ८ ऋक्षा . ९ व्यञ्जनेषु श्रेष्ठत्वम्. १० खखगादिषु ११ शास्त्राभ्यासः १२ आस्वादयन् १३ यदा त्वया वैरिणो हतास्तदा त्वड्जयो परिश्र मज खेद् उत्पन्नस्तच्छोषणदादावुर्महाबलोऽभूदिति भाव. १४ शेष १५ पृथ्विीम् १६ दूर्वाङ्कुरभक्षणे रता अरुणेन प्रेरिता अपि न तूर्णं प्रयान्ति कि तु शनैरेव अत एव ग्रीष्मतो महान्तो दिवसा जायन्त इति भाव १७ कथमन्तु १८ छाया सूर्यभार्या १९ पानीयवाहाः. २० जाततरङ्गाम्
विविधराजप्रशंसा | १२१
न्तिकथा तुरगमकथा कोदण्डदीक्षाकथा । एकैवास्ति परं पलायनकथा त्वद्वैरिभूमीभुजा देव श्रीरघुनाथ नाथ जगति त्वमेऽपि नान्या कथा ॥ १५१ ॥ त्वं चेत्कल्पतरुर्वयं सुम- नसस्त्वं चेत्सुधात्मा कलाः संपूर्णा वयमीश्वरो यदि भवान् स्वच्छा विभूतिर्वयम् । संपूर्णः कमलाकरो यदि भवान् श्रीराजहंसा वय स्वामिंस्त्वं शृणु रामचन्द्र नृपते किं कि न तेऽङ्ग वयम् ॥ १५२ ॥ बालकीडनमिन्दुशेखरधनुर्भ- ङ्गावधि प्रह्वता ताते काननसेवनावधि कृपा सुग्रीवमरुत्या- र्पथे । आज्ञा वारिधिबन्धनोवधि यशो लङ्केशेनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्यपेक्षायधि ॥ १५३ ॥ त्वत्कीर्तिर्धनिका धनं मधुरिमा तस्याधमर्णा सुधा शीतांशुः प्रतिभूस्तदर्थनकृते सैषा दिव धावति । सा लीना तत्र वाचि रामनृपते चन्द्रो निरस्तध्वनिः शङ्कातङ्कभृदंशुका- वृततनुर्नक्तं समुत्सर्पति ॥ १५४ ॥ अञ्चामास तृण प्रिया- दुहि तृणामास स्मरारेर्धनुर्द्वारामास सुनेः शिलापि नृव- रामाम स्वयं पादुका । कुल्यामास महार्णवोऽपि कपयो योधावभूवुस्तदा पौलस्त्यो मशकीबभूव भगवंस्त्वं मानु- षामास्थिता. ॥ १५५ ॥ उसा कीर्तिलता गुणैस्तव विभो सिक्ता च दानोदकैर्मेरुस्तम्भमवाप्य दिक्षु वितता प्राप्ता नभोमण्डलम् । धूपैस्त्वत्प्रतिपक्षलक्ष्मवनितानिःश्वासजैर्धू- पिता वृक्षैः कोरकितेन्दुना कुसुमिता श्रीरामचन्द्र प्रभो ॥ १५६ ॥ यद्वीजानि च मौक्तिकानि करिणा दन्ता यदीयाङ्कुरा यत्पत्राणि शरद्धना हिमगिरिर्यस्याः प्रकाण्डो महान् । यत्पुष्पाणि च तारका हिमरुचिर्यस्याः फल सुन्दर सेय राजति रामकीर्तिलतिका ब्रह्माण्डभाण्डो- दरे ॥ १५७ ॥ नो ग्लानि भजते दिने न च सुराधीशै समापीयते नो राहुग्रसते न वा मृगदृशा वक्त्रैः पराजीयते । नो मेघैश्च पिधीयते न च कुहूकालेऽपि सक्षीयते श्रीराम- क्षितिपाल भाति जगति त्वत्कीर्तिचन्द्रः सदा ॥ १५८ ॥ आकृष्टे युधि कार्मुके रघुपते वामोऽब्रवीद्दक्षिणं पुण्ये कर्मणि भोजने च भवत. प्रागल्भ्यमस्मिन्न किम् । वामान्यः पुनरब्रवीन्न मम भी पृच्छाम्यहं स्वामिनं छित्त्वा रावणवक्त्र- पङ्क्तिमथवेत्येकैकमादिश्यताम् ॥ १५९ ॥ अम्भः कई- मतामुपैति सहसा पङ्गः पुनः पांसुता रेणुर्वारणकर्णतालयु- गलैर्दिकप्रान्तनीहारताम् । निर्मग्नं गिरेयः समं विषमता शून्यं जैनाकीर्णता निर्याते त्वयि रामचन्द्रनृपते त्यक्त- स्वरूपं जगत् ॥ १६० ॥ पाताले मैंञ्जु मूलं फणिपतिरमितः कीर्तिवल्लेस्त्वैषा स्थूणा कैलासशैलो गगनमिह महाम- ण्डपः पाण्डुदण्डाः । दन्तीन्द्रस्थूलदन्ता दैैैलततिरतुला शारदाभ्राणि सारास्ताराः पुष्पाणि चन्द्रः फलमिदममलं रामराजेन्द्र मन्ये ॥ १६१ ॥ कूर्म पादोऽस्य यैष्टिर्भुजग- पतिरसौ भाँजनं भूतधात्री तैलापूरः समुद्राः कनकगिरि- रयं वृत्तैवर्तिप्ररोहः । ज्योतिष्ण्णडांशुरीचिर्र्गगनमलिनिमा कज्जलं दह्यमाना शत्रुश्रेणी पतङ्गा ज्वलति रघुपते त्वत्प्र- तापप्रदीपः ॥ १६२ ॥ शक्तिः सर्वतिरिक्ता विलसति न च ते पीलुपाकप्रियत्वं वाक्यं धर्मे प्रमाणं स्वयमपि चरितं नान्य ईशोऽस्ति कश्चित् । नो वार्य भेद आस्ते क्वचिदपि विषये नैव मिथ्याप्रवादश्चित्रं पाण्डित्यमेतद्गहसि रघुपते गौत- माद्यैरतर्क्यम् ॥ १६३ ॥ पूर्वत्रासिद्धबुद्धिर्द्विगुणितकरणे- ऽप्यस्ति तेऽल्पप्रयलो यः कश्चिन्नैव लोप भजति बहुतरा- पेक्षिणोऽप्यन्तरङ्गाः । नो वा बाध परेण क्वचिदपि विषये नापवादो गुणाना वृद्धीना वर्णमात्रं सदनमिति नवो राम- साधुत्वमार्ग ॥ १६४ ॥ प्रौढि धंत्ता कलासु प्रयैयतु कुमुदे सत्पथे ॰संचरेद्वा नेत्रा्रनन्दं विंधेत्तौ भैवैतु च विबुधा- नैर्स्तु राजा तथापि । दोषैन्वेषी कँलकी सँहँजजडतनुः सँक्षयः पक्षपाती नैैक्षत्रेर्शः कथं वा कलयतु तुलना राम- चन्द्रेण चन्द्रः ॥ १६५ ॥ मायद्वैतैैण्डगण्डच्युतमद- मदिरासचर्र्चैञ्चरीकीझाकारानन्दगीता' कविभवनभुवस्ता' पुरस्ताद्भवन्ति । पश्चाद्भ्वन्ति येषामुपरि करुणया राम-
१ यतोऽम्भसो द्रवत्वेऽपि भवदीयाश्वाथूत्यापितरज संपर्कात्तस्य कर्दमता जातेति भाव
२ घोटकखुरक्षुण्णा सन्त
३ त्वत्सेवया वने प्रवेशादरण्यमपि जनपदवद्भवति.
४ मनोहरम्.
१६ सु. र. भां.
१ स्तम्भ
२ श्वेतयष्टिका
३ पर्णसतति
४ अवष्टम्भहेतु'
५ दीपद्ण्ड
६ दीपाधारपात्रम्
७ मध्यवर्तित्वादङ्गुल्दशाङ्कुर
८ चन्द्रपक्षे,-तथा कलास्वशेषु प्रौढि प्रागल्भ्य धत्ता विभर्तु, रामपक्षे,-यथा कलासु विज्ञानेषु प्रौढि धत्ते
९ चन्द्रपक्षे,-तथा कुमुद प्रकाशं प्रययतु विस्तारयतु, रामपक्षे,-यथा को पृथिव्या मुद हर्ष जनयति
१० चन्द्रपक्षे,-तथा सता देवाना पन्था सत्पथ आकाशस्तस्मिन्संचरेत्, रामपक्षे,-यथा सत्पथे सता योग्ये मार्गे संचरति
११ चन्द्रपक्षे,-तथा नेत्राणा लोचनानामा्रनन्दं विधत्ता कुरुताम्, रामपक्षे,-यथा नेतॄणा रक्षकाणा्रमानन्द जनयति
१२ चन्द्रपक्षे,-तथा विबुधान्देवानवतु रक्षतु, रामपक्षे,-यथा विबुधान्पण्डितानवति
१३ चन्द्रपक्षे,-तथा च राजा शोभितोऽस्तु, रामपक्षे,-तथा नाज्ञा क्रियया गुणैश्च राजा
१४ चन्द्रपक्षे,-दोषा रात्रिस्तामन्वेषते तच्छील, रामपक्षे,-न दोषमन्वेषते कितु गुणान्
१५ चन्द्रपक्षे,-कलङ्कवान्, रामपक्षे,-कलङ्की न
१६ चन्द्रपक्षे,-सहजतो जलमयी तनुर्यस्य स रामपक्षे,-निसर्गतो मूढस्वभावो न
१७ चन्द्रपक्षे,-कृष्णपक्ष एकैककलाक्षयात्सक्षय ; रामपक्षे,-न कदाचन तस्य क्षय, किंतु सर्वदा वृद्विरेव
१८ चन्द्रपक्षे,-पक्षेऽतीतेऽमाया पतनशील , रामपक्षे,-पक्षपाती न
१९ चन्द्रपक्षे,-नक्षत्राणा तारकाणामीशः स्वामी; रामपक्षे,-न च नक्षत्रेर्श ; कितु सर्वेषा क्षत्राणामीशः;
२० इस्ती.
२१ भ्रमरी.
१२२ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
भूणालमौलेरुद्वेलदुग्धवीचीबहलधवलिमाबद्धकक्षाः कटाक्षाः ॥ १६६ ॥ बीजं चिन्तामणिश्चेत्कनकगिरितटीजन्मभूमिर्भवेच्चेत्सेक्री चेत्कामधेनुर्विधिकुलमखिलं मूलसस्कारञ्चेत् । वित्तेशो रक्षिता चेत्सरसिजनिलया मञ्जरी चेत्तदा स्याद्राम क्ष्मापालमौले तव भुजलयता कल्पवृक्षः सदक्षः ॥ १६७ ॥ मन्ये मृत्योः सपत्नी जगति सुविदिता कालकूटस्य कन्या धात्री कर्कटकस्य स्मरणभयकरी कि च वज्रस्य माता । कल्पान्ताग्नेः पुरन्ध्री प्रभवति भगिनी भीषणा कालरात्रेर्दूतीयं ते कृपाणी सुगपुरसुदृशा रामचन्द्रक्षितीश ॥ १६८ ॥
रामजामः
क्षुभ्यत्प्रत्यर्थिपृथ्वीपतिहृदयसरस्तोषशोषं दधाने त्वद्दोषणा सुप्रतापे तपति बहुगुणे रामजाम क्षितीन्द्र । सूर्यो मित्रत्वमायात्समजनि दहनः कृष्णवर्त्मा निमज्जन्पारावाराश्मपूरे निवमति वडवावह्निरन्यत्किमु द्याम् ॥ १६९ ॥
रामनाथः
करकम्पितखड्गयष्टिभीमे रणेसनाहितरामनाथवीरे । अरिभूभृदमर्त्यसुन्दरीणामचलन्दक्षिणवामलोचनानि ॥ १७० ॥
रुद्रः
कतिपयदि<sup>१</sup>वसैः क्षयं प्रयायात्कनकगिरिः कृतवासरोवसान<sup>२</sup> । इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे ॥ १७१ ॥ कवीन्द्राणामास-प्रथमतरमेवाङ्गणभुवश्चलद्भृङ्गासङ्गाकुलकरिमदामोदमधुरा । अमी पश्चात्तेषामुपरि पतिता रुद्रनृपते कटाक्षा क्षीरोदप्रसरदुरुवीचीसहचराः ॥ १७२ ॥ भूयोभूयस्त्वदरिदलनाद्धासनाशासकाशाद्यातैर्वार्तैरहह तरणेरुल्बणेषु व्रणेषु । साय साय लणणमलिठस्पर्शबाधासमाधावस्यालस्याकलितवपुषो रुद्र कः स्यादुपायः ॥ १७३ ॥ चन्द्रोऽनेन कलङ्कितो बत वने रामोऽमुना वञ्चितः कि चानेन कुलाङ्गनानयनयोर्लावण्यलक्ष्मीर्हता । सन्नानामभिलाषकस्य भवतः श्रीरुद्रचन्द्र प्रभो तन्मन्ये हरिणस्य हन्त हननायाखेटकोपक्रमः ॥ १७४ ॥ रुद्रस्यापि दिगम्बरस्य कृपया स्वर्गेऽमराः कोटिशो याचन्ते न कदापि काञ्चनमहो शश्वत्सदा भुञ्जते । एकोऽहं वसुधातले न च पुन स्नेहस्य पात्रं सदा याचिष्ये कथमन्धभूपतिमतः श्रीरुद्रभूमीपते ॥ १७५ ॥
रूपनारायणः
अये यदि समीहसे परपुरावरोधं सदा समाकलय मङ्गचः किमपि रूपनारायण । प्रतीपन्नृपनागरीनयननीरकल्लोलिनीसमुत्तरणचातुरी तुरगराजमध्यापय ॥ १७६ ॥
रूपमणिः
श्रीमद्रूपमणे गुणेन यदयं हीनोऽपि नीतो गुरुर्गाढ गौरवमादरेण भवता तेनास्ति शंभुर्भवान् । यत्तेनाप्यऋजुकलङ्कविकलो दोषाकरोऽपि स्फुटं विप्राधीशपदे विधाय विधृतश्चन्द्रोऽनिशं मस्तके ॥ १७७ ॥
विक्रमार्कः
तत्कृतं यन्न केनापि तद्दत्तं यन्न केनचित् । तत्साधितमसाध्यं यद्विक्रमार्केण भूभुजा ॥ १७८ ॥ साग्मवत्त्वा विहता नवका विलसन्ति चरति नो कङ्क । सरसीव कीर्तिरीश गतवति भुवि विक्रमादित्ये ॥ १७९ ॥ हस्ती वन्यः स्फटिकघटिते भित्तिभागे स्वबिम्बं दृष्ट्वा दृष्ट्वा प्रतिगज इति त्वद्विषा मन्दिरेषु । दन्ताघाताद्दलितदशनस्तं पुनर्वीक्ष्य सद्यो मन्दं मन्दं स्पृशति करिणीशङ्कया विक्रमार्क ॥ १८० ॥ कीर्तिस्ते दयिता तदीयजठरे लोकत्रयं वर्तते तस्मात्त्वं जगतः पिता पितृधनं येनार्थिना त्वद्धनम् । वीर श्रीवर विक्रमार्क भवतस्त्यागं न मन्यामहे कस्त्यागः स्वकुटुम्बपोषणविधावर्थव्ययं कुर्वतः ॥ १८१ ॥
विग्रहराजः
श्रुते संप्रति चाहुवाणतिलकः शाकंभरीभूपतिः श्रीमान्विग्रहराज एष विजयी सतानजानात्मनः । अस्माभिः करदं व्यधायि हिमवद्विन्ध्यान्तरालं भुवः शेषस्वीकरणाय मास्तु भवतामुद्योगशून्यं मनः ॥ १८२ ॥
वीरभानः
लङ्काधामनि वीरभानुनृपतेः प्रेक्ष्य प्रतापोदयं प्रत्यागारमवीरनीरजदृशो भूयो हुताशभ्रमात् । क्षुभ्यद्भाणि विधूतपाणि विगलन्मुक्तामणि प्रस्खलद्बाष्पश्रेणि विलोलवेणि दयितं कण्ठस्थले बिभ्रति ॥ १८३ ॥ भेरीझाङ्कृतिमिस्तुरगनिनादैः कुम्भीन्द्रकोलाहलैः प्रस्थाने तव वीरभान दलितं ब्रह्माण्डभाण्डोदरम् । आधाय ज्वलति प्रतापदहने रङ्गैः पुनर्वेधसा तारानायकतारकासुरसरिद्वयाजादिवायोजितम् ॥ १८४ ॥
वीरवरः
कामो वामदृशा निधिनंयजुषा कालानलो विद्विषा खःशाखी विदुषा गुरुर्गुणवता पार्थो धनुर्धारिणाम् । लीलावासगृहं कलाकुलजुषा कर्णः सुवर्णार्थिना श्रीमान्वीरवरः क्षितीश्वरवरो वर्वर्ति सर्वोपरि ॥ १८५ ॥ जम्बूद्वीपगृहप्रकाशनकरी स्नेहक्षमाधायिनी नीत्योत्तीर्णमपीततिः खलजनश्रेणीपतङ्गान्तकृत् । गाजीन्द्राकबरक्षितीश्वरमनश्रान्तान्धकारापहा यस्य क्षोणिपतेरराजदखिलं दीपोपमा लेखनी ॥ १८६ ॥
वीरसिंहः
वीरसिंहारिनारीणामञ्जनाक्ताश्रुबिन्दवः । उरोजे पतिता रेजुः सरोजे मधूपा इव ॥ १८७ ॥ यसोच्छिन्ना न वेदा मनसि सदयता दूषणानामभावो दक्षो दूरेऽणुदृष्ट्या जहति कठिनता दानशक्तिर्गिरिष्ठा । आधत्ते यश्च कुन्दं शिरसि
१ क्वचित् २ अल्पै.. ३ मेरु.. ४ नाशः ५ दानम् ६ व्याधः
विशिष्टराजप्रशंसा, राजविभूषावर्णनम्, गजप्रशंसा, तुरगप्रशंसा १२३
दरवता यश्च दूरीकृतार्ति. स श्रीमान्वीरसिंह त्वमिव तव रिपुस्तत्र दम्भं प्रतीमः ॥ १८८ ॥ वैकुण्ठामप्रकामः कमलयुतशिराः कुञ्जराकृष्टदृष्टिः कोदण्डोदारनामाप्यमितपरिजनो विश्वविख्यातकीर्तिः । सुन्दर्यासक्तचित्तः समरणविजयी कङ्कणाहारयुक्तो वीर श्रीवीरसिंह त्वमिव तव रिपुः किन्तु मुक्तादिवर्णः ॥ १८९ ॥
वेङ्कटपतिः
अत्र मन्मथमिवातिसुन्दरं दैनवारिमिव दिव्यतेजसम् ।
शैलैराजमिव धैर्यशालिनं वेद्मि वेङ्कटपतिं महीपतिम् ॥ १९० ॥
शाहिजहानः
भूभृन्मौलितटीषु वर्षति महाधाराधरेऽस्मिन्नसौ जाता भूप सरस्वती विजयिनी कल्लोलिनी पावनी । श्रीमच्छाद्दिजहा ब्रवीमि तदिदं माहात्म्यमस्या. कथं यस्या मज्जति पङ्कजीयति शिवस्तन्मूर्द्धजो लीयति ॥ १९१ ॥
सिन्धुराधीश्वरः
अशर्मदहनज्वलत्कटुकटाक्षरूक्षेक्षणक्षणक्षपितशात्रवे जयति सिन्धुराधीश्वरे । वय न बहु मन्महे निजभुजानमद्भाण्डिवच्युतास्रशिखिताण्डवज्वलितखाण्डवं पाण्डवम् ॥ १९२ ॥
हम्मीरः
मुञ्चति मुञ्चति ^१कोषं भजति च भजति त्रै कम्पमरिबर्गः ।
हम्मीरवीरखड्गे त्यजति त्यजति क्षमामाशु ॥ १९३ ॥
मा चकचेक्रिविरहज्वरकातरो भूः सङ्कोचमम्बुज न याहि न यामिनीयम् । हम्मीरभूपहयपादविदीर्णभूमीरेणूत्करैरयमकारि दिवान्धकारः ॥ १९४ ॥
राजविभूषावर्णनम्
यशःपटोऽयमद्भुतो न ते महीप कञ्चुकः । सुपुण्यकर्म भात्यदो जयप्रदं सुरक्षणम् ॥ १ ॥
प्रज्ञातृतीयोमविलोचनस्य भूत्योज्ज्वलस्येश्वरकामदातुः । कामारिसुत्युज्य मुदा सकामा उष्णीषगङ्गा तव भाति मूर्ध्नि ॥ २ ॥
चित्राभिरस्योपरि मौलिभाजा भाभिर्मणीनामनणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि ॥ ३ ॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् । बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ति ॥ ४ ॥
शिरोवेष्टनव्याजतस्ते मुखेन्दोः परं पक्षपाताद्द्रसत्येव राहुम् । रुषा मूर्ध्नि बद्धं कचच्छद्मनालं शशाङ्कोऽङ्गहीनो विभात्येष राजन् ॥ ५ ॥
ताराधिनाथमभिजित्य मुखश्रियायाद्वा राजस्त्वया पदककैतवतो व्यलम्बि । बन्दीकृता इव तदीयवधूसमूहा हारच्छलेन तव वक्षसि भान्ति नूनम् ॥ ६ ॥
धवलकुसुमभास्वतकञ्चकस्योपरिष्टात्कनकपरिकरेण आजसे राजराज । शरदि घनगणोद्यद्विद्युदुद्दामरेखालित इव घरेन्द्रः प्रोन्नतो विन्ध्यशैलः ॥ ७ ॥
स्वभावारक्तश्रीन्नखरसुषमानद्धकनकस्फुरद्विद्युद्राजत्कटकयुगलाभ्या तव करौ । विभात काश्मीरद्रवविलुलिताविन्द्रविजये हृते स्वर्गद्वारार्गल इव विभो द्विद्विस्थितिकृते ॥ ८ ॥
गजप्रशंसा
नीता कुम्भस्थलकठिनंता कामिनीनामुरोजैस्तेय धृत्वा धृतमणिगणैः कञ्चुकैरावृतैव । इत्यास्यातु नरपतिगृहद्वारि कुम्भेन्द्रडिम्भा. शुण्डादण्डैर्वपुषि बहुला धूलिमुद्धूलयन्ति ॥ १ ॥
सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावधिश्यामिके व्योमान्त.स्पृशि सिन्धुरेऽस्य समरारम्भोद्भुरे धावति । जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसंध्याधियेवास्त यान्ति समस्तबाहुजुमुजातेज.सँहसाशवः ॥ २ ॥
एतद्गन्धगजस्तुषाम्मसि भृशं कण्ठान्तमज्जत्तनुः फेनै. पाण्डुरितः स्वदिक्करिजयक्रीडायश स्पर्धिभिः । दन्तोद्दन्द्वजलौनुबिम्बिनचतुर्दन्तः कराम्भोर्वाम्वियाजादंश्रुमुवछभेन विरह निर्वापयत्यम्बुधेः ॥ ३ ॥
स्वीयोद्दानप्रगन्धप्रकुपितहृदयोत्तारितोद्दण्डशुण्डैरुच्छत्पुच्छगुच्छप्रतिकरटिधिया सिन्धुरैर्धावमानैः । तत्पाद्यन्यासनींभवदचलभरोद्धान्तिधारावघूर्णत्पारावाराम्बुपूर्णा धरणिर्तितरा शङ्कमाना चकम्पे ॥ ४ ॥
तुरगप्रशंसा
मेखलीयति मेदिन्याः ककुभः कङ्कणीयति । मण्डलीस्तुरग. कुर्वञ्जगत. कुण्डलीयति ॥ १ ॥
धावन्तमनुधावन्ति हरिण तव वाजिनः । नाभिनिर्मुक्तकस्तूरीलुब्धा इव समीरणाह ॥ २ ॥
अनूनवेगादयमद्वितीयश्छायातुरंगादपि लज्जमानः । खुरोद्धतैर्वीर तुरगमस्ते रजोभिरद्धाप्रतिमावृणोति ॥ ३ ॥
प्रयातुमस्माकमिदं कियत्पदं धरा तदम्भोधिपि स्थलायताम् । इतीव र्वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः ॥ ४ ॥
इयती जगती कियती
पाद-टिप्पण्यः (Footnotes)
१ दकारे भकारम्
२ इह पद्ये शङ्करूप आद्यक्षरत्यागः-
३ विष्णुः
४ हरम्
५ मदनशासकत्वात्
६ पिधानम्; पक्षे,-भाण्डागारम्
७ उल्लासनम्, पक्षे,-प्रकृष्टकम्पम्.
८ क्षान्तिम् पक्षे,-पृथ्वीम्
९ चक्रवाकीविरहातुरः.
१ अभ्रकषे
२ अनर्गल इत्यर्थे..
३ क्षत्रिय
४ सूर्या.
५ प्रतिबिम्बेन
६ करशीकर इत्यर्थेः
७ ऐरावतेन
८ अश्वै.
१२४ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
भ्रमिता नमिता न न यामिति याति हयः । वियदङ्गणरिङ्गण-
रङ्गणभूर्विमृशन्निव नर्तनमातनुते ॥ ५ ॥ किमङ्गारबद्धा खुरैः
स्पर्शयन्त, कुरङ्गा इवाङ्गानि संकोचयन्त । अटन्तो
नटन्तो भट तोषयन्तस्तुरगाः सुरङ्गाः पुर गाहयन्ति
॥ ६ ॥ अलक्षितगतागतै कुलवधूकटाक्षैरिव क्षणानुवय-
शीतलैः प्रणयकेलिकोपैरिव । सुवृत्तमसृणोन्नर्तर्मुगद्गशा-
मुरोजैरिव त्वदीयतुरंगरैरिदं धरणिचक्रमाक्रम्यते ॥ ७ ॥
निर्भास मुखमण्डले परिमित मध्ये लघुं कर्णयो स्कन्धे
बन्धुरमप्रमाणमुरसि स्निग्ध च रोमोद्गमे । पीन पश्चिम-
पार्श्वयोः पृथुतर पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह
सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ ८ ॥ धूलीभिर्दिवमन्धयन्नबधिरय-
न्नाशा. खुराणा रवैर्वातं सयति खञ्जयञ्जवजयै. स्तोतृन्गृ-
णैर्मूकयन् । धर्माराधनसनियुक्तजगता राज्ञामुनाधिष्ठित.
सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरगोऽपि गाम् ॥९॥
वात स्थावरयन्नभ. पुटकयन्सोतस्वती सूत्रयन्सिन्धुं पल्व-
लयन्वनं विटपयन्भूमण्डलं लोष्टयन् । शैल सर्षपयन्दिश
चपलयंल्लोकत्रय कोडयन्हेलारूढरयो हयस्तव कथंकारं
गिरा गोचर. ॥ १० ॥ तसा गमिव सरस्पृशन्ति गति-
भिर्द्यामुत्पतन्तो मुहुर्भ्रान्तेवासिन आजवश्रुतगतीवाध्यापय-
न्तोऽनिलात् । देव स्वीयखुराग्रदीर्णवसुधाधूलीवितानं बला-
रात्यश्वो नटन पठिष्यति हि वस्त्रन्वन्ति वाहास्तव ॥ ११॥
खङ्गप्रशंसा
वर्णयामि विमलत्वमम्भसः किं त्वदीयकरवालवर्तिनः ।
एति यत्प्रभवमैन्दवी द्युति विश्वशुक्तिपुटमौक्तिकं यशः ॥१॥
खङ्गवारि भवत. किमुच्यते लोलशैवलमिवारिकुन्तलै. ।
यत्र राजति निवेशितं त्वया राजहंसनिवहोपम यशः ॥२॥
न पक्षवृत्तिर्न सपक्षवृत्तिर्विपक्षवृत्तिः करवालधूमः । तथापि
ते भूमिपते जगत्या प्रतापवह्निप्रमिति करोति ॥ ३ ॥
रिपुश्रियः कि कचसचयोऽय प्रतापवह्नेः किमु धूमराजिः ।
विलोक्य यत्पाणिगतं कृपाणमेव जनस्तर्कयते रणेषु ॥ ४ ॥
सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदन्दुिपाण्डु यशस्त्रिलोक्याभरण प्रसूते ॥५॥
दर्पान्धगन्धगजकुम्भकपाटकूटसक्रान्तनिश्चघनशोणितशोण-
शोचिः । वीरैरवेलोकि युधि कोपकषायकान्तिः काली-
कटाक्ष इव यस्य करे कृपाण• ॥ ६ ॥ धाराधरस्त्वदसिरेष
नरेन्द्र चित्र वर्षन्ति वैशिवनिताजनलोचनानि । कोशेन
सततमसगतिराहवेऽस्य दारिद्र्यमभ्युदयति प्रतिपार्थि-
वानाम् ॥ ७ ॥ कुरगाक्ष्या वेणी सुभग विपरीते रतिविधा-
वधिस्रन्वे बद्धा किमपि निवन्तन्तीमरिमट. । अधिग्रीवं
युष्मत्प्रचलकरवालव्यतिकर खरन्नेव स्तब्धो विरमति परी-
रम्भग्भसात् ॥ ८ ॥ कृपाणीय काली तव रिपुयश.क्षीर-
मनिशं पिबन्ती व्यालीव प्रथयति तथा दुर्विषहताम् ।
यथा दूरादस्याः स्फुरणमपि समाव्य सहसा विमुह्यन्ति
प्रौढप्रहरणभृतोऽपि प्रतिभटाः ॥ ९ ॥ राजन्वीर विपक्ष-
लक्षसुवधूवैधव्यदीक्षागुरु सङ्ग। माधवकर्म्ममर्मकुशलः प्रत्यर्थि-
पृथ्वीभुजाम् । प्राणानर्घ्यमणेर्मयापहरणं नाकारि कितु
प्रभो भ्रूभङ्गेन तवेति दिव्यमपिबत्कोशं स खङ्गः परः ॥१०॥
अखासिर्भुजग स्वकोशविवराकृष्टः स्फुरत्कृष्णिमा कम्प्रो-
न्मीलद्दंराललीलवलनेस्तेषा भिये भूभुजाम् । सङ्ग्रामेषु
निजाङ्गुलीमयमहासिद्धौषधीवीरुध. पर्वासु विनिवेश्य जाङ्गु-
लिकता कैनीम नालम्बिता ॥ ११ ॥ भूसून्मौलितटीषु
दर्शितसमारम्भोऽयमम्भोधरस्त्वत्खड्ग प्रतिपक्षपक्षपटल
प्रक्षालयन्धारया । युद्धक्रुद्धविरुद्धसिन्धुरगलद्रण्डस्थलप्रस्ख-
लन्मुक्ताभिः करकाभिराशु समरे क्षोणीतले वर्षति ॥ १२ ॥
आश्चर्य समराम्बरे रिपुयशश्चन्द्रप्रतापाकर्यो• सर्वग्रासमयं
सहैव तनुते त्वत्खङ्गराहु कथम् । कि चान्यत्परलोकनि-
र्भय भवास्तस्मिन्महत्युत्सवे गृह्लाति त्यजतामकम्पहृदयो
राज्ञा समस्ता भुवः ॥ १३ ॥ देव त्वत्करपद्मकोशविगलन्म-
त्तालिमालामसिवैधव्योद्भटधूमकेतुमपरे त्वद्वैरिवामभ्रुवाम् ।
वेणी कालवधोः प्रतापहुतभुग्धूम च केचिज्जगुर्मन्ये काल-
भुजंगलोलरसना हालाहलव्यापृता ॥ १४ ॥ सिक्ताया वीर-
कण्ठस्थलबहलगलद्रक्तधाराम्बुवर्षैर्माद्यन्मातंगकुम्भोद्दनवि-
लुलितैर्मौक्तिकैः पुष्पितायाम् । सङ्ग्रामोद्यानभूमौ तुरगखुर-
पुटोत्खातकृष्टस्थलाया जातं ते खङ्ग-वल्ल्याः फलमतुल-
रसास्वादहृद्यं जयश्री. ॥ १५ ॥ सर्पीवैषा कृपाणी तव
भुजभुजगासगत. सगगदौ सद्यःकृत्तारिखण्डच्युतरुधिररजो-
योगमभ्यावहन्ती । दृप्यद्वानाम्बुपूरोत्कटकरिघटनागण्ड-
शैलेषु लीना सूते सद्यः किलाब्दान्यतिविमलगलद्भरिमुक्ता-
च्छलेन ॥ १६ ॥ लेखन्ती व्योमगर्भ दिशि विदिशि मुहु-
र्निष्पतन्ती हरन्ती शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं
पादटिप्पणी:
१ अन्तरिक्षचारिणा दृष्टौ प्रतिबन्धक्तित्यर्थः २ तत्रत्यान्प्राणिन इत्यर्थ ३ वायोरप्यधिकवेग इत्यर्थ ४ जगतो धर्मैकसाधनकारिणा ५ वेगातिशयत्वाद्विरन्तरमूर्धचरणनिक्षेपव्याजात् ६ भुबम्; पक्षे,- धेनुम् 'गोब्राह्मणानलान्भूमिं गोष्ठिष्ठ न पदा स्पृशेत्' इति निषेधादिति भाव.
१ वक्रविलासा • २ प्रकटकुलगतिरित्यर्थ ३ ग्रन्थिम्. ४ विषवैद्यता
खड्गप्रशंसा, राजयात्रावर्णनम् १२५
वर्धयन्ती । यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोप- पकण्ठं प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमावि- ष्करोति ॥ १७ ॥ चूडापीडाभिरामः स्फुरदुरुमणिभिर्मुद्रि- ताकल्पभूतैर्दोर्दण्ड. कुण्डलीन्द्रस्तव जयति जगन्मण्डलाधार एष । क्षीराब्धान्यारिकीर्तिं सपदि समुदिता पातुकाम. प्रसर्पञ्जिह्वासुच्चैः किमेना चपलयति चमत्कारिणी खड्ग- धाराम् ॥ १८ ॥
राजयात्रावर्णनम्
प्रयाणे तव राजेन्द्र मुक्ता वैरिदृगीदृशाम् । राजहंस गति. पद्यामाननेन शशिद्युतिः ॥ १॥ दिङ्नारीणा स्पृशत्यर्को रज.सन्दूषिताम्बरम् । प्रस्थाने नृपते सन्तोऽपधैर्य्यान्ति रजो- वृताः ॥ २ ॥ त्वद्वाजिराजिनिर्यूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गा भूरिभारभिया हर. ॥ ३ ॥ यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री । आर्द्रव्रणाधि- ष्ठितपृष्ठपीठमकर्मठं कूर्मपति चकार ॥ ४ ॥ अस्य प्रया- णेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि । कुर्वन्ति सीमन्त- शिखामणीना प्रेमाप्ररोहास्तमयं रजासि ॥ ५ ॥ यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममङ्कितम् । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्गीभवदङ्गता विधौ ॥ ६ ॥ त्वय्यागते किमिति वेपत एष सिन्धुस्त्वं सेतुंमन्थकृदतः किमसो बिभेति । द्वीपान्तरेऽपि न हि तेऽस्त्यवशवदोऽद्य त्वा राजपुंगव निषेधत एव लक्ष्मीः ॥ ७ ॥ त्वयि प्रच- लति प्रभो तुरगवल्गनासु स्फुरद्वरावलयधूलिभिः सकलमेव कीर्ण नभः । दिवाकरहयावली निरवलम्बसञ्चारतः श्रमा- पनयनाय कि वसुमतीमूर्ध्व गता ॥ ८ ॥ चोली चोली न तु कलयते गुर्जरा जर्जराङ्गी भूर्जाक्रान्त विशति विपिनं मालवी सालवीथीम् । नो सगीत रचयति मनागङ्ग वङ्गी कृशाङ्गी नाङ्गी रागं रहसि तनुते भूपते त्वत्प्रयाणे ॥ ९॥ देव त्वद्विजयप्रयाणविलसत्सद्वाजिराजिव्रजक्षुण्णक्ष्मातललीन- पासुपटल्याप्तोऽनिमेषेक्षणः । सुत्रामा बहु मन्यते फणिपति पातालमूलस्थितं सोऽप्युद्दामकरीन्द्रदुर्धरभरक्लान्तः सहस्रे- क्षणम् ॥१०॥ देवे दिग्विजयोद्यते धृतधनुःप्रैल्यर्थिसीमन्तिनी- वैधव्यव्रतदायिनि प्रतिदिशं क्रुद्धे परिभ्राम्यति । आस्ता- मन्यनितम्बिनी रतिरपि प्रायो न पौर्षं करे भर्तुर्धर्तुर्मदा- न्मदान्धमधुपौनीलीनिचोलं धनुः ॥ ११ ॥ देव त्वद्विज्यो- द्यमे हरिखुरत्रोतक्षतक्ष्मातलान्म्रोद्धृते रजस. परागपटले दिक्कक्रमाक्रामति । अक्ष्णा पैङ्क्षशतानि निन्दैति निजं हस्तद्वयं निन्दैति स्वा निन्दैल्यनिमेषता परि- पतद्वाष्पाम्बुधारो हरि. ॥ १२ ॥ युष्मद्वाजिजिताजिराजि- चरणक्षेपक्षतैर्मोदिनीं मङ्गु क्षोणिमवेक्ष्य सिञ्चति धनेर्भर्ता नदीना जलैः । आशामण्डलमुत्कटध्वजपटैर्वातं तनोति द्रुतं चञ्चच्चञ्चलरेणुगन्धिनमिवानेतुं दिवं गच्छति ॥ १३ ॥ धूर्ताधोरण देव वासवकरी पङ्केन लितः कथं नीतः स्वर्गे- तरगिणीजलमसो तन्नास्ति पङ्क. कुतः । सर्वाशाविजयो- त्सवं प्रति कृतोद्योगे धराधीश्वरे स्फायन्ते करिकर्णताल- पवनोद्धूताश्मभूरेणवः ॥ १४ ॥ देव त्वद्धजवाजिपत्रैपंटल- ग्रोद्भूतधूलीभरैराकाशं वेंसैवायते खैरंकरः सोमायते निष्प्र- भ । कि चाधो भरकुण्ठित. फणवता नाथः स कूर्मी- यते कूर्मो भोर्र्पतीयते किमपर रौत्रीयते वासरः ॥ १५ ॥ वेल्लत्पक्षति राजहंसयुवतिभ्रूव्यमृणालावलिभ्राम्यत्खट्पदभूरि- झाङ्कतिपतच्चैकीकृतकेङ्कति । पर्यस्रन्नृपपक्षसङ्गति पतद्दिग्व- र्तिवेगस्थिति प्रस्थानध्वजवातलोलमजनि स्वर्गापगायाः पयः ॥ १६ ॥ सत्यं त्वं पुरुषोत्तमोऽसि नियतं तत्रापि रामो. भवान्प्रस्थाने तव लज्जयेव नमति व्यक्तं यतो मेदि- नी । द्राक्पूर्वाचलपश्चिमाचलकुचावावृण्वती प्रोच्छलडुङ्गा- रावचलत्तयोधिलहरीचेलावञ्चलैश्चञ्चलैः ॥ १७ ॥ प्रस्थाने तव भूमिपाल वसुधा जाता रजोदोषला त्वद्विद्वारपयो- धरोऽञ्जनवृतं वर्षत्यधोऽश्रूदकम् । झञ्झाश्वासहिमापमौक्तिक- गणान्ग्रामाः किरन्ति द्विषत्सञ्चोत्पात इति प्रतापदहने यास्यन्ति ते शत्रवः ॥ १८ ॥ एतद्वत्तासिघातश्ववदसृगसुहृ-
१ राजकुमारा २ सेतुश्च मन्थश्चेति. ३ इन्द्रः ४ शत्रव . ५ यदि मम भर्ता कामो धनुर्धारयिष्यति तदाय राजा मद्भर्तारं धनुर्धरत्वाद्धनिष्यतीति भयात्स्वभर्त्रा धनुर्नाग्राहयदिति भाव .
१ अश्वः २ समूह ३ दशशतानि. ४ यतश्चैतावद्रज. समुच्छलित येन तस्य सहस्रनेत्राणि तिरोहितानि बभूवुस्तेन यदि मम नेत्रसहस्र नाभविष्यत्तदा चैतावद्रजोनेकरखत्र नापतिष्यत्ततो नेत्रसहस्र मम किमर्थमभवदिति ५ सत्यपि नेत्रसहस्रे तत्तिरोधानाय यदि हस्तसहस्रमप्यभविष्यत्तदा हस्तै सर्वनेत्राच्छादन कर्तु शक्यमतो मम पाणिद्वय व्यर्थमेवेति ६ यत्रो मया देवतवादननिमेषता पक्ष्मपाताभाव किमिति प्राप्त यस्माच्चक्षुषो रज पाततोऽपि नाभविष्यदत स्वामनिमेषता निन्दतीति भाव ७ रज कणससर्गार्द्धरिपतन्ती निर्गच्छन्ती नेत्रेभ्यो बाष्पाम्बुधाराश्रुजलप्रवाहो यस्य स ८ इन्द्र ९ अश्विनीकुमारै वैद्यम् १० वाहनम् ११ त्वद्वाहिन्येतावती विपुलासीद्यत्तत्सम्मर्दादाकाशमपि रजोमय बभूवेति भाव. १२ चण्डाशु १३ यथा कूर्म स्व शरीर संकोचयति तथा शेषोऽपि त्वद्वाहिनीभरेण संकुचितशरीरोऽभूदिति भाव . १४ सकुचितशरीरोऽपि प्रलम्बकायोऽभूदित्यर्थ . १५ यत्तस्त्याइक्तवाहिन्या धूलीपटल समुच्छलित येन दिनमप्यन्धकारवशाद्रात्रिरेवाभवदिति भाव.. १६ चक्रवाकी
| १२६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
दृशैसान्द्रेन्धनैतद्दोरुद्दामप्रतापज्वलदनलमिलद्धूमभूमभ्रमाय । एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीदेतच्चेसी-रवाजिब्रजखुरजरजोजाजिंरङ्गिस्थलीषु ॥ १९ ॥ तत्तद्दिग्जैत्रयात्रोद्धुरतुरगखुरोद्गाढतैरन्धकारं निर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः । भूगोल्लंघायमैयामर्यगणितविदुज्ञेयकायो भिँयाभूदेतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः ॥ २० ॥ गान्धारा गुप्तदारास्त्वयि चलति गलद्वाष्पधारा विहारा रागखासान्नगाराः क्षितिपकुलमणे गुर्जरा जर्जराशाः । तैलङ्गास्त्यक्तलिङ्गास्त्रिभुवनतिलक क्लिष्टवङ्गा कलिङ्गा मोरङ्गा मुक्तकङ्गाः सपदि समभवन्वीर गङ्गाविहङ्गाः ॥ २१ ॥ काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मीर्श्रीका काश्चिदन्तर्दिश इव दधिरे दाहमुद्धान्तसत्त्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवाना मशिवमिति पुरोभावि नार्यः शशंसुः ॥ २२ ॥ जाने युष्मत्प्रयाणे क्षितितिलक रजोयोगदोषादशेषा दिग्घोषाः क्लान्ति सद्यस्त्वदरिनृपवधुनेत्रनीरापगासु । सगम्य त्वत्प्रतापैस्तदनु किमु दधुर्दोहनं देव तासा प्राची प्रातः प्रसूते यदिदमुरुमहोऽखण्डमार्तण्डबिम्बम् ॥२३॥ घूर्णन्ते तूर्णमेतत्कुलधरणिभृतो दिग्द्विपा दिग्वि दिक्षु क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमृदितो मर्मणा कूर्मराजः । प्रस्थाने यस्य गर्जत्करटिघनघटास भ्रमय्यच्चदुर्वीमुर्वी दर्वी-करेन्द्रः कल्पयितुमुदितश्चायमार्त्ति बिभर्त्ति ॥ २४ ॥ नृत्यत्खङ्गाजिराजिप्रसरखुरपुटप्रोद्धतैर्धूलिजालैरालोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते । विश्रान्तिं कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोकाः क्रन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः ॥ २५ ॥ इन्द्रः प्रक्षुब्धचित्तो दिशि दिशि सकलान्दिक्पतीन्सावधानान्कुर्वन्वज्राच्छपाणिः सुरवरवलिता देवसेना निगृह्य । स्वर्गद्वारे यदीयोद्धतबलनिहतप्रौढढक्कानिनादं श्रुत्वा तिष्ठन्नकम्पत्कुचकलशतटीकिंनरीगीयमानः ॥ २६ ॥ आजौ त्वद्वाजिराजिप्रखरखुरतरन्यासलीलामिरुर्व्या दीर्णाया देव निर्यन्नविरलमवनीपाल पातालवह्निः । अश्रीयाद्विश्वमेव प्रतिनृपतिवधूनेत्रधाराम्बुधारावारा यद्येनमारादरिकुलदमन द्राङ् न निर्वापयेयुः ॥ २७ ॥
पताका
भयेन कृष्णान्यरुणानि रागात्पाण्डूनि कान्तादिवियोगभाजाम् । द्विषा मनांसि ध्वजकैतवेन लोलानि भोस्त्वा नृप संश्रयन्ति ॥ २८ ॥
दुन्दुभिः
गङ्गाम्भसि सुरत्राण तव निःसाणनिःस्वनः । ज्ञातीवारिवधूर्वर्गगर्भपातनपातकी ॥ २९ ॥ ब्रह्माण्डं प्रविखण्ड्य भूधरगुहासुन्तान्हरीन्बोधयन् गर्भान्वैरिवधूव्रजस्य नृपते निष्पात्य हा पातकी । कीलालं परिशोष्य च प्रतिभटाना तेजसा तेऽद्भुतं शोढुं विष्णुपदं स्पृशत्यधिपयोराशि प्लुतो दुन्दुभिः ॥ ३० ॥ पौरीन्द्राणा धुरीणैरवनिधरगुहागतैः प्रोच्छलद्भिः स्वापभ्रशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः । त्वत्प्रस्थानान्तरुद्यन्मलयजलधरध्वानधिक्कारधीरो घुष्टक्षीराम्बुतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः ॥ ३१ ॥
गवाक्षविलोकनम्
आलोकमागं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्य । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥ ३२ ॥ प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवी ततान ॥ ३३ ॥ विलोचन दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसनिकर्ष ययौ शलाकामपरा वहन्ती ॥ ३४ ॥ जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्ना न बबन्ध नीवीम् । नाभिमविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ३५ ॥ अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुनिमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ३६ ॥ स्तनं धयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती । सप्रस्रुता या पदवी स्तनाभ्या सिषेच काचित्पयसा गवाक्षम् ॥ ३७ ॥ अभिवीक्ष्य सौमिकृतमण्डनं यैती. कररुद्धनीविगलदंशुकाः स्त्रिय. । दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः ॥ ३८ ॥ रमसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः । परिवर्तित्ताम्बक्युगाः समापतन्र्वलयीकृतश्रवणपूरकाः स्त्रियः ॥ ३९ ॥ व्यतनोदपास्य चरणं प्रसाधिकीकरपल्लवाद्वसवशेन काचनं । द्रुतयावकैकपदचित्रितावनि पदवी गतेव गिरिजा हरार्धताम् ॥ ४० ॥ व्यचलन्विशङ्कट कटीर कस्थली शिखरस्खलन्मुखर मेखलाकुलाः । भवनानि तुङ्गतपनीयसङ्क्रमक्रमणात्कणत्कनकनूपुराः स्त्रियः ॥ ४१ ॥ करयुगमपद्ममुकुलापवर्जितैः प्रतिवेश्म लापकुसुमैरवाकिरन् । अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियकथाङ्गमञ्जना ॥ ४२ ॥ नलिनान्तिकोपहितपल्लवश्रिता व्यवधाय चारु मुखमेकपाणिना । स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा ॥ ४३ ॥
१ वेणव. २ सेनामुखम्. ३ रणभूमिषु. ४ उच्छृङ्खल. ५ कपटम्. ६ गणितशास्त्रोक्तेनैव. ७ ज्योति शास्त्रप्रमाणक यद्राहोर्भूच्छायात्मकं तदेतत्कीर्तिचन्द्रमियेत्युत्प्रेक्षा.
१ 'सुलतान' इति पदस्य शोधन सुरत्राण इति. २ सिंहानाम्. ३ अर्धम्. ४ गच्छन्ती.
रणसामग्री, रणवर्णनम् १२७
रणसामग्री
अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरुद्युति । बलैश्चलच्चरणविधूतमूच्छरद्धनावलीरुदचरत् क्ष्मारज ॥ १ ॥
विष्वङ्गिभिर्भृशमितरतर क्वचित्तुरंगमौरुपरि निरूद्धनिर्गमा । चलाचलैरनुपदमाहता. खुरैर्विबभ्रुमुश्रिरमध एव धूलय. ॥ २ ॥
गरीयस. प्रचुरमुखस्य रागिणो रजोऽभवद्भवहितसत्त्वमुत्कटम् । सिसृक्षत. सरसिजजन्मनो जगद्वलस्य तु क्षयमपनेतुमिच्छत ॥ ३ ॥
पुरा शरक्षतिजनितानि सयुगे नयन्ति न. प्रसभमसृञ्जि पङ्कताम् । इति ध्रुव व्यवधिधुरत्तभीतय खमुच्चकैरनलसखस्य^१ केतवः ॥ ४ ॥
क्वचिल्लसद्धननिकुरम्बकर्बुर. क्वचिद्धिरण्मयकणपुञ्जपिञ्जर. । क्वविच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥ ५ ॥
महीयसा महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि । विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ॥ ६ ॥
शिरोरुहैरलिकुलकोमलैरमी सुधा मृधे म्रियत युवान एव मा^२ । बलोद्धत धवलितमूर्धजानिति ध्रुव जनाञ्जरत इवाकरोद्रज. ॥ ७ ॥
सुसहतैर्दघदपि धाम नीयते तिरस्कृति बहुभिरसशय परैः । यतः क्षितेरवयवमपदोऽणवस्त्विषानिवेऽपि वपुरावरीषत ॥ ८ ॥
द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजोवगुण्ठितम् । युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥ ९ ॥
समुल्लसद्दिनकरवक्त्रकान्तयो रजस्खलाः परिमलिताम्बरश्रियः । दिग्ङ्गना. क्षणमवलोकनकक्षमा शरीरिणा परिहरणीयता ययु. ॥ १० ॥
निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम् । रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणै पलाय्यत ॥ ११ ॥
विष्वङ्गिणि प्रतिपदगापिवत्यपो हताचिरद्युतिनि समीरवेक्षणि । शनै.शनैरुपचितपङ्कभारिका. पयोमुच प्रययुरपेतवृष्टय ॥ १२ ॥
नभोनदीव्यतिकरधौतमूर्तिभिर्विधूयतरुत्थैरनधिगतानि लेभिरे । चलच्चमूतुरगखराहतोत्पतनमहीरजःस्नपनसुखानि दिग्गजैः ॥ १३ ॥
गजव्रजाक्रमणभरावनमया रसातल यदखिलमानशे मुख । नभस्तलं बहुलतरेण रेणुना ततोऽगमन्निजगदिवैकता स्फुटम् ॥ १४ ॥
समस्थलीकृतविवरेण पूरिता महीभृता बलरजसा महागुहाः । रहःकृपाविधुरवधूररार्थिना नभःसदामुपकरणीयता ययुः ॥ १५ ॥
गते मुखच्छदपटसार्दशी दृशः पथस्तिरोदधति घने रजस्यपि । मदानिलैरधिमधूचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रहसा ॥ १६ ॥
मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः क्षमितरजश्चयानधः^१ । उपर्यवस्थितघनपासुमण्डलानलोकयत्ततपटमण्डपानिव ॥ १७ ॥
तूणीरबन्धपरिरद्धभुजान्तरालमाकर्णलम्बिशिखिपिच्छकलापधारि । कोदण्डपाणि निनदत्प्रतिरोधकानामापातदुष्प्रसहमाविरभूदनीकम् ॥ १८ ॥
आदावेव गजेन्द्रमौलिविलसद्दण्डा पताकावली पश्चाद्दारणराजधोरणिरतिप्रौद्दामयोधाश्रिता । उद्दण्डध्वजलाञ्छिताप्यथ घनीभूता रथाना ततस्त्वश्वत्रात्तुरगावली विजयते योधैः सम सर्वत ॥ १९ ॥
योधैरेव वशीकृताः कथमपि प्रोद्दामरोषान्विता गाढव्वान्तधराधरा इव रणक्षोण समालम्ब्रिता. । ईषन्मीलितघूर्णितं प्रतिदिशं प्रक्षिप्तनेत्राञ्चला मन्दान्दोलितमौल्यो मदजलैराभान्ति दन्तावलाः ॥ २० ॥
आरूढक्षितिपालभालविगलत्स्वेद्दाम्बुसेकोद्धता मेरीझांकृतिकापटकृतिचमत्कारोल्लसन्मानसा । क्षुभ्यत्क्षोणितलं स्फुरत्खुरपुट चञ्चच्चलकेशर मन्द्रान्तविलोचने प्रतिदिशं नृत्यन्ति वाजिब्रजा. ॥ २१ ॥
अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमा सौदामिनीदामभि. । वर्षन्त. शममानयन्नुपलसच्छृङ्गारलेखासुधाकाले कालिकायकालवपुष. पासुन्गजाम्भोमुचः ॥ २२ ॥
हेषाघोषैरीणा जितघननिनादैर्बृहितै. कुञ्जराणा ज्याघातोत्थैर्निनादै. पटुपटहरवैर्मर्दलोद्दामशब्दै । प्राप्तैः कर्णेपकण्ठ भदगजनिवहस्कन्धघण्टाप्रणदै शृङ्गाराय त्वरन्ते त्रिदशमृगदृशो वीरवर्गाभुरक्ता. ॥ २३ ॥
सज्जन्ता कुम्भमित्तित्च्युतमदमदिरामत्तभृङ्गा. करीन्द्रा युज्यन्ता स्यन्दनेषु प्रसभजितमरुच्चण्डवेगास्तुरगा. । कुन्तैर्नीलोत्पलाना बनमिव ककुभामन्तराले सृजन्त. पादाताः सचरन्तु प्रसभमसिलसत्पाणयः पत्तयोऽपि ॥ २४ ॥
रणवर्णनम्
तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथ । इति शुश्रुविरे विश्वेगुद्भटाः सुभटोक्तयः ॥ १ ॥
पत्ति. पत्तिमभीयाय रणाय रथिनं रथी । तुरङ्गस्थं तुरङ्गस्थो दन्तिस्थं दन्तिनि स्थितः ॥ २ ॥
सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाङ्किते । आसीत्कवचविच्छेदो वीराणा मिलता मिथः ॥ ३ ॥
निर्दयं खड्गभिन्नैभ्यः कवचेभ्य समुच्छ्रितैः । आसन्व्योमदिशस्तूलेः पलितैरिव^२ पाण्डुराः ॥ ४ ॥
खड्गा रुधिरसल्लिसाश्चण्डासुरकरमासुराः । इतस्ततोऽपि वीराणा वैद्द्युतं वैभवं दधुः ॥ ५ ॥
गृहीताः पाणिभिर्वीरैर्वीर्येकोशाः खङ्गराजयः । कान्तिजालच्छलादाजौ व्यहसन्सम्मदा इव ॥ ६ ॥ खङ्गाः
पाद-टिप्पण्यः (Footnotes):
१ वायोर्ध्वजभूतानि रजांसि
२ मा म्रियन्ताम्
१ परितः
२ वृद्धत्वमिदशैकचर्मविकृतिः