सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 157, कुल 516 में से
संदर्भ में पढ़ें१४२ सुभाषितरत्नभाण्डागारम् [ ३ प्रकरणम्
आमूलं क्वचिदुद्धृता क्वचिदपि च्छिन्ना स्थली बर्हिणामानम्रा कुसुमोच्चयाच्च सदयाकृष्टाग्रशाखा लता । एते पूर्वविलून- वल्कलतया रूढव्रणाः शाखिनः सद्यश्छेदममी वहन्ति समिधां प्रस्स्रन्दिनः पादपाः ॥ ११ ॥ वासोऽर्थं दययैव नातिपृथवः कृत्तास्तरूणां त्वचो भग्नानेकजरत्कमण्डलु नभः- स्वच्छं पयो नैर्झरम् । दृश्यन्ते त्रुटितोज्झिताश्च वटुभिर्मौ- ञ्ज्याः क्वचिन्मेखला नित्याकर्णनया शुकेन च पदं साम्नामिदं गीयते ॥ १२ ॥ क्रीडन्माणवकाङ्किताडनशतैरुज्जागरस्य क्षणं शार्दूलस्य नखाङ्कुरेषु कुरुते कण्डूविनोदं मृगः । चञ्च्व- न्द्रशिखण्डितुण्डघटनानिर्मोकनिर्मोचितः किं चायं पिवति प्रसुप्तनकुलश्वासाऽनिलं पन्नगः ॥ १३ ॥ पक्कानि श्रच्यवन्ते क्रमुकविटपिनामुच्छ्रितानां फलानि स्पन्दन्ते राजरम्भा- फलभरनमिता वाति मन्दानिलेऽपि । सह्यन्ते विपाक- च्युतमधुरफलव्यासमुला रसाला भारेणामी फलान. युवति- कुचभरस्पर्धिनो नालिकेराः ॥ १४ ॥
राजनीतिः
राजा
राजास्य जगतो वृद्वेर्हेतुर्वृद्धामिसङ्गतः । नयनानन्द- जननः शशाङ्क इव वारिधेः ॥ १ ॥ राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् । राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् ॥ २ ॥ धार्मिकं पालनपरं सम्यक्परपु- रंजयम् । राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः ॥ ३ ॥ पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ ४ ॥ सदानुरक्तप्रकृतिः प्रजापालनतत्परः । विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥ ५ ॥ सर्वदेवमयो राजा मनुना संप्रकीर्तितः । तस्मात्त- मेव सेवेत न व्यलीकेन कर्हिचित् ॥ ६ ॥ सर्वदेवमय- स्यापि विशेषो भूपतेरयम् । शुभाशुभफलं सद्यो नृपाद्देवा- द्भवान्तरे ॥ ७ ॥ बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ ८ ॥ यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ९ ॥ अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः । शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ १० ॥ निकटस्थं दहत्यग्निर्न तु दूरापसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यबान्धवम् ॥ ११ ॥ पात्रे त्यागी गुणे रागी भोगी परिजनैः सह । बान्धवोद्धा रणे योद्धा प्रभुः पञ्चगुणो भवेत् ॥ १२ ॥ आक्षेपवचनं तस्य न वक्तव्यं कदाचन । अनुकूलं प्रियं चास्य वक्तव्यं जनसंसदि ॥ १३ ॥ इन्द्रात्यमृत्वं ज्वलनात्प्रतापं क्रोधो यमाद्वैश्रव- णाच्च वित्तम् । पराक्रमं रामजनार्दनाभ्यामादाय राज्ञः क्रियते शरीरम् ॥ १४ ॥ उत्खातान्प्रतिरोपयन्कुसुमितांश्चि- न्वंल्लघून्वधर्यन्नुत्युञ्चाञ्नमयन्नतान्समुदयन्विश्लेषयन्सहतान् । क्षुद्रान्कण्टकिनो बहिर्निरसयन्म्लानान्पुनः सेचयन्मालाकार इव प्रयोगनिपुणो राजा चिरं नन्दति ॥ १५ ॥
सभासदः
धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः । समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ॥ १६ ॥ श्रुत्यध्ययन- सपन्ना धर्मज्ञा. सत्यवादिन. । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः । १७ ॥
पुरोहितः
वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्वादपरो नित्य- मेष राजपुरोहित ॥ १८ ॥
धर्माध्यक्षः
कुलशीलगुणोपेत. सर्वधर्मपरायणः । प्रवीण्ः प्रेक्षणाध्यक्षो धर्माध्यक्षो विधीयते ॥ १९ ॥
वैद्यः
आयुर्वेदकृताभ्यासः सर्वेषा प्रियदर्शनः । आर्यशीलगुणो- पेत एष वैद्यो विधीयते ॥ २० ॥
मन्त्री
मन्त्रतत्राप्रितप्रीतिर्देशकालोचितस्थितिः । यश्च राज्ञि भवे- द्भक्तः सोऽमात्य पृथिवीपते. ॥ २१ ॥ स ह्यमात्यः सदा श्रेयान्काकिनी य. प्रवर्धयेत् । कोशः कोशवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥ २२ ॥ कमण्डलूपमोऽमात्यस्तनुलागो बहुग्रहः । नृपति' क्षिष्णो मूर्खो दरिद्रः कि वराटकः ॥ २३ ॥ प्रासार्थग्रहण द्रव्यपरिवर्तोऽनुरोधनम् । उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ २४ ॥ स्वदे- शजं कुलाचारं विशुद्धमथवा शुचिम् । मन्त्रज्मव्यसनिनं व्यभिचारविवर्जितम् ॥ २५ ॥ अधीतव्यवहारज्ञं मौल ख्यात विपश्चितम् । अर्थस्योत्पादकं चैव विदध्यान्मन्त्रिणं नृपः ॥ २६ ॥ अन्तःसारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः । मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ २७ ॥ सग्रह नौकुलिनस्य सर्पसेव करोति यः । स एव श्लाघ्यते मन्त्री सम्यग्गारुडिको यथा ॥ २८ ॥ पृष्टो ब्रूते न सत्यं यः परिणामे सुखावहम् । मन्त्री चेत्प्रियवक्ता स्यात्केवलं स रिपुः स्मृतः ॥ २९ ॥ मूर्ख व्यसनिनं लुब्धमप्रगल्भं भयाकुलम् । क्रूरमन्यायकर्तार नाधिपत्ये नियोजयेत् ॥३०॥ दूरदर्थं घटयति नवं दूरतश्चापशब्द त्यक्त्वा भूयो भवति निरतः सत्सभारञ्जनेषु । मन्दं मन्दं रचयति पदं लोकचि- त्तानुवृत्त्या कामं मन्त्री कविरिव सदा खेदमौरैरुक्तः ॥३१॥ शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधनस्तुल्यो मित्रपरश्वकेषु चरितं दृष्ट्वैव दत्तोत्तरः । क्लीबान्पालयिता
१ कुशानाम्
१ न अकुलीनस्य; पक्षे,-नाकुर्वल्मीक तत्र लीनस.