भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 182, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 182

सामान्यनीतिः १६७

याञ्च चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक
आचरेत् ॥ ६१० ॥ धर्मार्थौ यत्र न स्याता शुश्रूषा वापि
तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे
॥ ६११ ॥ विद्ययैव समं काम मर्तव्यं ब्रह्मवादिना । आप-
द्यपि हि घोराया न त्वेनामिरिणे वपेत् ॥ ६१२ ॥ सावित्री-
मात्रसारोऽपि वर विप्र सुयंत्रित । नायन्त्रितश्चतुर्वेदी
सर्वाशी सर्वविक्रयी ॥ ६१३ ॥ न हायनैर्न पलितैर्न
वित्तेन न बन्धुभि । ऋषयश्चक्रिरे धर्मं योऽनूचान. स नो
महान् ॥ ६१४ ॥ नारुतुद. स्यादात्तोऽपि न परद्रोहकर्मभि. ।
ययाऽस्योद्विजते वाचा नालोक्या तामूदीरयेत् ॥ ६१५ ॥
यथा खनन्खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगता
विद्या शुश्रूषुरधिगच्छति ॥ ६१६ ॥ य मातापितरौ क्लेशं
सहेते संभवे नृणाम् । न तस्य निष्कृति. शक्या कर्तुं वर्ष-
शतैरपि ॥ ६१७ ॥ पित्रोर्नित्यं प्रिय कुर्यादाचार्यस्य च
सर्वदा । तेषु हि त्रिषु तुष्टेषु तपः सर्व समाप्यते ॥ ६१८ ॥
श्रद्दधान शुभा विद्यामाददीतावरादपि । अन्त्यादपि परं धर्म
स्त्रीरत्नं दुष्कुलादपि ॥ ६१९ ॥ यद्यत्परवशं कर्म तत्सद्य-
त्नेन वर्जयेत् । यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः
॥ ६२० ॥ यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मन ।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ ६२१ ॥ न
द्रव्याणामविज्ञाय विधि धर्म्य प्रतिग्रहेत् । प्रात प्रतिग्रह
कुर्यादवसीदन्नपि क्षुधा ॥ ६२२ ॥ सर्वेषामेव शौचाना-
मर्थशौचं पर स्मृतम् । योऽर्थे शुचि स हि शुचिर्न मृद्वा-
रिशुचि शुचि ॥ ६२३ ॥ नास्ति विद्यासमं चक्षुर्नास्ति
सत्यसम तप । नास्ति रागसम दु.खं नास्ति त्यागसमं
सुखम् ॥ ६२४ ॥ नात्यर्थमर्थार्थितया लुब्धमुद्वेजयेज्जनम् ।
अब्धिर्दत्त्वाऽक्षरत्नं श्रीमथ्यमानोऽसृजद्विषम् ॥ ६२५ ॥
न स्थातव्यं न गन्तव्यं क्षणमप्यधमै सह । पयोऽपि
शौण्डिकीहस्ते मदिरा मन्यते जन. ॥ ६२६ ॥ अकिंचि-
दपि कुर्वाणः सौख्यैर्दुःखान्यपोहति । तत्तस्य किमपि द्रव्यं
यो हि यस्य प्रियो जन ॥ ६२७ ॥ अत्युष्णात्सघृताद-
न्नादच्छिद्राच्चैव वाससः । अपरप्रेष्यभावाच्च भूय इच्छन्पत-
त्यधः ॥ ६२८ ॥ आपदामापतन्तीना हितोऽप्यायाति
हेतुताम् । मातृजङ्घैव वत्सस्य स्तम्भो भवति बन्धने
॥ ६२९ ॥ भवत्येकस्थले जन्म गन्धस्तेषा पृथक्पृथक् ।
उत्पलस्य मृणालस्य मत्स्यस्य कुमुदस्य च ॥ ६३० ॥
तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता
च वैद्यश्च श्रोत्रियः सजला नदी ॥ ६३१ ॥ सच्छिद्रनिकटेवासो न कर्तव्य कदाचन । घटी पिबति पानीयं ताड्यते
झल्लरी यथा ॥ ६३२ ॥ तृणं ब्रह्मविद स्वर्गस्तृण शूरस्य
जीवितम् । जिताक्षस्य तृण नारी निःस्पृहस्य तृणं जगत्
॥ ६३३ ॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्प-
थप्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ ६३४ ॥ मनसैव
कृत पापं न शरीरकृतं कृतम् । येनैवालिङ्गिता कान्ता तेनै-
वालिङ्गिता सुता ॥ ६३५ ॥ भिन्ने चित्ते कुतः प्रीति
स्याद्वा प्रीति कुत सुखम् । त्वं च स्मरसि तं पुत्रं पुच्छ-
च्छेद स्मराम्यहम् ॥ ६३६ ॥ मक्षिका व्रणमिच्छन्ति धन-
मिच्छन्ति पार्थिवा । नीचा कलहमिच्छन्ति शान्ति-
मिच्छन्ति साधव. ॥ ६३७ ॥ हस्ती चाङ्कुशहस्तेन कशा-
हस्तेन वाजिन । शृङ्गी लगुडहस्तेन खङ्गहस्तेन दुर्जन
॥ ६३८ ॥ देशानुत्सृज्य गच्छन्ति सिंहा. सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काका कापुरुषा मृगा. ॥ ६३९ ॥
वाग्वादमर्थसंबन्ध परोक्षे दारदर्शनम् । यदीच्छेद्विपुला
प्रीति त्रीणि तत्र न कारयेत् ॥ ६४० ॥ अर्थानामर्जन
कार्य वर्धनं रक्षण तथा । भक्ष्यमाणो निरादाय सुमेरुरपि
हीयते ॥ ६४१ ॥ आपदर्थे धनं रक्षेन्महता कुत आपदः ।
कदाचित्कुपितो देव सचितं चापि नश्यति ॥ ६४२ ॥
युध्यन्ति पशव. सर्वे पठन्ति शुकसारिका. । दातुं जानाति
यो वित्त स शूर. स च पण्डित. ॥ ६४३ ॥ नदीतीरेषु
ये वृक्षा यस्य नारी निरङ्कुशा । मत्रिहीनो भवेद्राजा तस्य
राज्यं विनश्यति ॥ ६४४ ॥ गुणं पृच्छस्व मा रूप शीलं
पृच्छस्व मा कुलम् । सिद्धि पृच्छस्व मा विद्या भोगं
पृच्छस्व मा धनम् ॥ ६४५ ॥ गुणो भूषयते रूपं शीलं
भूषयते कुलम् । सिद्धिर्भूषयते विद्या भोगो भूषयते धनम्
॥ ६४६ ॥ यस्य न ज्ञायते शीलं कुलं विद्या नरस्य च । कस्वेन
सह विश्वास पुमान्कुर्याद्विचक्षण ॥ ६४७ ॥ का प्रीति. सह
मार्जारैः का प्रीतिरवनिपति । गणिकामिश्च • का प्रीति. का
प्रीतिर्भिक्षुकै. सह ॥ ६४८ ॥ धीराणा भूषणं विद्या मत्रिणा
भूषण नृप । भूषर्ण च पतिः स्त्रीणा शील सर्वस्य भूषणम्
॥ ६४९ ॥ महानदीप्रतरणं महापुरुषविग्रहम् । महाजन-
विरोधे च दूरत. परिवर्जयेत् ॥ ६५० ॥ नारूहेद्विषमं वृक्ष
जीर्णा नावं न चारुहेत् । कूपे नालोकयेत्तोयं न चात्मानं
विनाशयेत् ॥ ६५१ ॥ संकटे न च गन्तव्यं विषमे न
कदाचन । महापथे न गन्तव्यं गन्तव्यं चात्मन. पथम्
॥ ६५२ ॥ अनादायी व्ययं कुर्यादसहायी रणप्रियः ।
आतुर. सर्वभक्षी च नरः शीघ्रं विनश्यति ॥ ६५३ ॥

पादटिप्पण्यः (Footnotes):

वामभागः (Left Column): १ मरुभूमौ • २ अपात्रे ३ मद्यविक्रयकर्त्रा ४ मद्यम्

दक्षिणभागः (Right Column): १ स्वर्गवत्स्य. २ उन्मार्गवर्तिन ३ 'परस्त्री संकटं प्रोक्तं रण्टा च विषम पथम् । वेश्या महापंथ प्रोक्तं स्वपर्याय पिता श्रुत ॥'