सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
पृष्ठ 191, कुल 516 में से
संदर्भ में पढ़ें| १७६ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् | | :--- | :--- | | कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया ननु तापयन्ति ॥ ९४६ ॥ वित्तेन किं वितरणं यदि नास्ति दीने किं सेवया यदि परोपकृतौ न यत्नः । किं सङ्गमेन तनयो यदि नेक्षणीयः किं यौवनेन विरहो यदि वल्लभायाः ॥ ९४७ ॥ किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ॥ ९४८ ॥ प्राप्ताः श्रियः सकलकामदुघस्ततः किं दत्तं पदं शिरसि विद्विषता ततः किम् । संतर्पिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृता तनुभिस्ततः किम् ॥ ९४९ ॥ आदौ न वा प्रणयिना प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य उत्क्षिपत्ति तत्प्रकरोति लज्जा भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥ ९५० ॥ वाञ्छैव सूचयति पूर्वतरं भविष्यं पुंसा यदन्यतनुजं त्वशुभं शुभं वा । विज्ञायते शिशुरजातकलापचिह्नः प्रत्युद्गतैरपसरन्सरसः (२) कलापी ॥ ९५१ ॥ शस्त्रैर्हतास्तु रिपवो न हता भवन्ति प्रज्ञाहताश्च नितरां सुहता भवन्ति । शस्त्रं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवं च यशश्च हन्ति ॥ ९५२ ॥ स्थानेषु शिष्यनिवहैर्र्विनियुज्यमाना विद्या गुरुं हि गुणवत्तरमातनोति । आदाय शुक्तिषु बलाहकविप्रकीर्णे रत्नाकरो भवति वारिभिरम्बुराशिः ॥ ९५३ ॥ १वार्ता च कौतुककरी विमला च विद्या लोकोत्तरः परिमलश्च कुरंगनाभेः । तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्रयं प्रसरति स्वयमेव भूमौ ॥ ९५४ ॥ अत्यन्तमन्थनकदर्थनमत्स्रहन्ते मर्यादया नियमिताः किमु साधवोऽपि । लक्ष्मीसुधाकरसुधाद्युपनीय शेषे रत्नाकरोऽपि गरल किमु नोजगार ॥ ९५५ ॥ अर्था हसन्त्युचितदानविहीनलब्धं भूम्यो हसन्ति मम भूमिरिति ब्रुवाणम् । जारा हसन्ति तनयानुपलालयन्तं मृत्युर्हसत्यवनिपं रणरङ्गभीरुम् ॥ ९५६ ॥ वैद्या वदन्ति कफपित्तमरुद्विकाराञ्ज्योतिर्विदो ग्रहगति परिवर्तयन्ति । ३भूताभिशङ्क इति भूतविदो वदन्ति प्राचीनकर्म बलवन्मुनयो वदन्ति ॥ ९५७ ॥ कस्यापि कोऽप्यतिशयोऽस्ति स तेन लोके ख्याति प्रयाति नहि सर्वविदस्तु सर्वे । किं केतकी फलति किं पनसः सुपुष्प किं नागवल्ल्यपि च पुष्पफलैरुपैता ॥ ९५८ ॥ शीलावलम्बनमहर्निशमिष्टचिन्ता वित्तानुरूपमशनाभरणादि कार्यम् । वार्यं च दुर्जनसमाजनिजप्रशंसाहास्यादि सज्जनवचो हृदये निधेयम् ॥ ९५९ ॥ पश्यन्ति नैव कवयो निजकाव्यदोषं भक्षन्ति नो ४बलिभुजो | निजजातिमासम् । जल्पन्ति नैव मधुपा निजधर्मवाक्यं कुर्वन्ति नो युवतयः पुरुषेषु १बीजम् ॥ ९६० ॥ कीर्ति मृणालकमनीयभुजामनिन्द्वचन्द्रा नना सितसरोरुहचारुनेत्राम् । ज्योत्स्नासितामपहता दयितामिव स्वा लब्धु न कं परमुपक्रममातनोति ॥ ९६१ ॥ शास्त्रं सुनिश्चलधिया परिचिन्तनीय सेव्यो नृपोऽपि सततं परिसेवनीयः । अङ्के स्थितापि युवतिः परिरक्षणीया शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् ॥ ९६२ ॥ हंसो विभाति नलिनीदलपुञ्जमध्ये सिंहो विभाति गिरि गह्वरकन्दरासु । जात्यो विभाति तुरगो रणयुद्धमध्ये विद्वान्विभाति पुरुषेषु विचक्षणेषु ॥ ९६३ ॥ हंसो न भाति बलिभोजनवृन्दमध्ये गोमायुमण्डलगंतो न विभाति सिंहः । जात्यो न भाति तुरगः खरयूथमध्ये विद्वान्न भाति पुरुषेषु निरक्षरेषु ॥ ९६४ ॥ विश्वेश्वरस्तु सुधिया गलितेऽपि भेदे भावेन भक्तिसहितेन समर्धनीयः । प्राणेश्वरश्रुतुरया मिलितेऽपि चित्ते चैलाञ्चलव्ययहितेन निरीक्षणीय ॥ ९६५ ॥ किं कोकिलस्य विरुतेन गते वसन्ते किं कातरस्य बहुशस्त्रपरिग्रहेण । मित्रेण किं व्यसनकालपराङ्मुखेन किं जीवितेन पुरुषस्य निरक्षरेण ॥ ९६६ ॥ हारः प्रलम्बितपयोधरमध्यवर्ती शुष्कस्तनान्तरगतो वरकञ्चुकश्च । काणेक्षणाञ्जनमूर्ध्नि च पुष्पमाला दीनाश्रयो बुधजन खलु पञ्च दुःखम् ॥ ९६७ ॥ नीचं समृद्धमपि सेवति नीच एव त दूरतः परिहरन्ति पुनर्महान्तः । शाखोटक मधुरपक्वफलैरुपेतं सेवन्ति वायसगणा न तु राजहंसाः ॥ ९६८ ॥ माकन्दराजपरिरम्भणलालिताऽपि मल्लीवधूर्मधुपरागवती बभूव । दृष्ट्वापि तत्कुटिलता न जहाति चूतः प्रायः कुजातिनिवहेषु कुतोऽभिमानः ॥ ९६९ ॥ कालक्रमेण परिणामवशादनर्थ्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः । मुक्तामणिर्जलदतोयकणोऽप्यणीयान्सपद्यते च चिरकीचकरन्ध्रमध्ये ॥ ९७० ॥ यच्चिन्तित तदिह दूरतर प्रयाति यच्चेतसापि न कृतं तदिहाभ्युपैति । इत्थं विधेर्विधिविपर्ययमाकलय्य सन्त. सदा सुरसरित्तटमाश्रयन्ति ॥ ९७१ ॥ अन्तःप्रतप्तरुसैकतदह्यमानमूलस्य चम्पकंतरो. क विकासचिन्ता । प्रायो भवत्यनुचितस्थितिदेशभाजा श्रेयः खजीवपरपालनमात्रमेव ॥ ९७२ ॥ उचितमनुचितं वा कुर्वता कार्यजात पैरिनतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृताना कर्मणामा विपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ९७३ ॥ व्यतिषजति पदार्थानान्तरः कोऽपि हेतुर्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते । विकसति हि ४पतङ्गस्योदये पुण्डरीकं | | * १ वृत्तान्तः २ कुतूहलकारिणी. ३ भूतबाधा. ४ वायसा | १ वीर्यम् २ कार्यसमूहम्. ३ परिणाम ४ सूर्यस्य |