भारतकोश
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा

स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)

DevanagariSanskritpublished516 पृष्ठ

पृष्ठ 190, कुल 516 में से

संदर्भ में पढ़ें
पृष्ठ 190
सामान्यनीतिः१७५

विराजते कुरूपता शीलतया विराजते । कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥ ९१३ ॥
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा ॥ ९१४ ॥
कुदेशमासाद्य कुतोऽर्थसञ्चयः कुपुत्रमासाद्य कुतो जलाञ्जलिः । कुगेहिनीं प्राप्य गृहे कुतं सुखं कुशिष्यमध्यापयत कुतो यशः ॥ ९१५ ॥
मात्रा समं नास्ति शरीरपोषणं चिन्तासमं नास्ति शरीरशोषणम् । भार्यासमं नास्ति शरीरतोषणं विश्वासमं नास्ति शरीरभूषणम् ॥ ९१६ ॥
गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः । पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः ॥ ९१७ ॥
सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् । सुखाच्च यो याति नरो दरिद्रता धृतः शरीरेण मृत स जीवति ॥ ९१८ ॥
स दीक्षितो यः सकलं सदीक्षते स पण्डितो यः करणेरखण्डितः । स तापसो यः परतापकर्षणं स धार्मिको यः परधर्मं न स्पृशेत् ॥ ९१९ ॥
यशस्करे कर्मणि मित्रसंग्रहे प्रियासु नारीष्वधनेषु बन्धुषु । क्रतौ विवाहे व्यसने रिपुक्षये धनव्ययस्त्वेषु न गण्यते बुधैः ॥ ९२० ॥
विवादशीला स्वयमर्थचोरिणी परानुकूला बहुपाकपाकिनीम् । सक्रोधिनी चान्यगृहेषु वासिनी त्यजन्ति भार्या दशपुत्रमातरम् ॥ ९२१ ॥
अतिप्रचण्डा बहुदुःखभागिनी विवादशीला परगेहगामिनी । भर्तुः स्वयं निन्दति या च तस्करा त्यजेत्स्वभार्यां दशपुत्रपुत्रिणीम् ॥ ९२२ ॥
कुले कलङ्कः कवले कदाञ्जता सुतः कुबुद्धिर्भवने दरिद्रता । रुजः शरीरे कलहप्रिया प्रिया गृहागमे दुर्गतयः षडेते ॥ ९२३ ॥
प्रकटं मृदु नाम जल्पतः परुषं सूचयतोऽर्थमन्तरा । शकुनादिव मार्गवर्तिभिः पुरुषाद्बुद्धिजितव्यमीदृशात् ॥ ९२४ ॥
मतिरेव बलाद्गरीयसी यदभावे करिणामियं दशा । इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ ९२५ ॥
महता यदि निन्दने रतिर्गुणसस्यैव तदा विधीयताम् । असतामपि चेत्सवे रतिर्ननु तद्दूषणमेव गण्यताम् ॥ ९२६ ॥
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ९२७ ॥
महत्तस्तरसाम् विलङ्घयन्निजदोषेण कुधीर्विनश्यति । कुरुते न खलु स्वयेच्छया शलमानिन्धनमिद्धदीधितिः ॥ ९२८ ॥
क्रियते धवलः खलूर्ध्वकैरधवलैरेव सितेतरैरधः । शिरसौधमघत्त शंकरः सुरसिन्धोर्मधुजित्तमङ्गिणा ॥ ९२९ ॥
कृतिनामकृती कथं कथं वा तुलैना यातु कृतैर्वचःप्रपञ्चैः । बहुभिर्विधृतैः कचैः कलापैर्विधवा किं सधवोपनाममेति ॥ ९३० ॥
अरुचिनिशया विना शशी शशिना सापि विना महत्तम । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनी ॥ ९३१ ॥
उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः । अनपायि निबर्हणं द्विषा न तितिक्षासममस्ति साधनम् ॥ ९३२ ॥
जरा रूपं हरति हि धैर्यमाशा मृत्यु प्राणान्धर्मचर्यामसूया । कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमान ॥ ९३३ ॥
गुणवानपि नोपयाति पूजा पुरुषः सत्पुरुषैरकथ्यमानः । न हि सौरमणिश्वभावकान्ति रविपादैरनधिष्ठितं करोति ॥ ९३४ ॥
सहसा विदधीत न क्रियामविवेक परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥ ९३५ ॥
विना गोरसं को रसो भोजनानां विना गोरसं को रसो भूपतीनाम् । विना गोरसं को रसः कामिनीना विना गोरसं को रसः पण्डितानाम् ॥ ९३६ ॥
सकलापि कला कलावता विकला पुण्यकला विना खलु । सकले नयने वृथा यथा तनुभाजां हि कनीनिका विना ॥ ९३७ ॥
सुकुलजन्म विभूतिरनेकधा प्रियसङ्गमसौरख्यपरम्परा । नृपकुले गुरैता विमलं यशो भवति पुण्यतरोः फलमीदृशम् ॥ ९३८ ॥
कनकभूषणसङ्ग्रहणोचितो यदि मँणिस्त्रपुणि प्रणिधीयते । न स विरौति न चापि हि शोभते भवति योजयितुर्वचॅनीयता ॥ ९३९ ॥
सहजमलिनवक्रभावभाजा भवति भवः प्रमवात्मनाशहेतुः । जलधरपदवीमवाप्य धूमो ज्वलनविनाशनमुप्रयाति नाशम् ॥ ९४० ॥
परिहरत पराङ्गनानुषङ्गं बत यदि जीवितमस्ति वल्लभं वः । हरहर हरिणीदृशो निमित्तं दश दशकंधरमौलयो लुठन्ति ॥ ९४१ ॥
शिशुरपि निपुँणो गुरोर्गरीयान्न तु वपुषैव महान्महँत्वतिष्ठः । मणिरणुरपि भूषणाय पुसां न तु पृथुलैव शिला विलासहेतुः ॥ ९४२ ॥
अनुदिनमनुकूलमाचरन्ते विहितमतिः प्रतिकूलमाचरेत्कः । शमितगरलजातकण्ठदाहः शितिकण्ठः शशिनं शिरःसु धत्ते ॥ ९४३ ॥
नितम्बो विशालः कटिर्मध्यसूक्ष्मा कुचद्वन्द्वमत्यन्तभव्यं सुखं च । वचेश्चञ्च किंचिद्रसालं रमण्यास्ततः किं ततः किं ततः किं ततः किम् ॥ ९४४ ॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टक्रियस्य कुलमर्थपरस्य धर्मः । विद्याफलं व्यसनिर्नः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ ९४५ ॥
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः संतापयन्ति कमपथ्यभुजं न रोगाः ।


१ ऐश्वर्यम् २ गौरवम् ३ सुवर्णालंकारसङ्ग्रहयोग्य ४ हीरकादिः ५ वज्ञेः ६ निन्दाः ७ शास्त्रवेत्ताः ८ श्रेष्ठः ९ महत्सु प्रतिष्ठा यस्य